भाषा

ENहिગુ
ग्रंथ पाठ

गर्गसंहिता · अध्याय 3.11

3.11.1

गिरिराजखण्ड - एकादशोऽध्यायः
गिरिराजप्रभाववर्णने सिद्धमोक्षवर्णनम् -
श्रीनारद उवाच -
इति श्रुत्वा सिद्धवाक्यं ब्राह्मणो विस्मयं गतः।
पुनः पप्रच्छ तं राजन् गिरिराजप्रभाववित्

3.11.2

ब्राह्मण उवाच -
पुरा जन्मनि कस्त्वं भोस्त्वया किं कलुषं कृतम् ।
सर्वं वद महाभाग त्वं साक्षाद्दिव्यदर्शनः

3.11.3

सिद्ध उवाच -
पुरा जन्मनि वैश्योऽहं धनी वैश्यसुतो महान् ।
आबाल्याद्द्युतनिरतो विटगोष्ठीविशारदः

3.11.4

वेश्यारतः कुमार्गोऽहं मदिरामदविह्वलः ।
मात्रा पित्रा भार्ययापि भर्त्सितोऽहं सदा द्विज

3.11.5

एकदा तु मया विप्र पितरौ गरदानतः ।
मारितौ च तथा भार्या खड्‍गेन पथि मारिता

3.11.6

गृहीत्वा तद्धनं सर्वं वेश्यया सहितः खलः ।
दक्षिणाशां च गतवान् दस्युकर्माऽतिनिर्दयः

3.11.7

एकदा तु मया वेश्या निःक्षिप्ता ह्यंधकूपके ।
दस्युना हि मया पाशैर्मारिताः शतशो नराः

3.11.8

धनलोभेन भो विप्र ब्रह्महत्याशतं कृतम् ।
क्षत्रहत्या वैश्यहत्याः शूद्रहत्याः सहस्रशः

3.11.9

एकदा मांसमानेतुं मृगान् हन्तुं वने गतम् ।
सर्पोऽदशत्पदा स्पृष्टो दुष्टं मां निधनं गतम्

3.11.10

संताड्य मुद्‌गरैर्घोरैर्यमदूता भयंकराः ।
बद्‌ध्वा मां नरकं निन्युर्महापातकिनं खलम्

3.11.11

मन्वन्तरं तु पतितः कुम्भीपाके महाखले ।
कल्पैकं तप्तसूर्मौ च महादुःखं गतः खलः

3.11.12

चतुरशीतिलक्षाणां नरकाणां पृथक् पृथक् ।
वर्षं वर्षं निपतितो निर्गतोऽहं यमेच्छया

3.11.13

ततस्तु भारते वर्षे प्राप्तोऽहं कर्मवासनाम् ।
दशवारं सूकरोऽहं व्याघ्रोऽहं शतजन्मसु

3.11.14

उष्ट्रोऽहं जन्मशतकं महिषः शतजन्मसु ।
सर्पोऽहं जन्मसाहस्रं मारितो दुष्टमानवैः

3.11.15

एवं वर्षायुतांते तु निर्जले विपिने द्विज ।
राक्षसश्चेदृशो जातो विकरालो महाखलः

3.11.16

कस्य शूद्रस्य देहं वै समारुह्य व्रजं गतः ।
वृन्दावनस्य निकटे यमुना निकटाच्छुभात्

3.11.17

समुत्थिता यष्टिहस्ताः श्यामलाः कृष्णपार्षदाः ।
तैस्ताडितो धर्षितोऽहं व्रजभूमौ पलायितः

3.11.18

बुभिक्षितो बहुदिनैस्त्वां खादितुमिहागतः ।
तावत्त्वया ताडितोऽहं गिरिराजाश्मना मुने

3.11.19

श्रीकृष्णकृपया साक्षात्कल्याणं मे बभूव ह ।
श्रीनारद उवाच -
एवं प्रवदतस्तस्य गोलोकाच्च महारथः

3.11.20

सहस्रादित्यसंकाशो हयायुतसमन्वितः

3.11.21

सहस्रचक्रध्वनिभृल्लक्षपार्षदमण्डितः ।
मंजीरकिंकिणीजालो मनोहरतरो नृप

3.11.22

पश्यतस्तस्य विप्रस्य तमानेतुं समागतः ।
तमागतं रथं दिव्यं नेमतुर्विप्रनिर्जरौ

3.11.23

ततः समारुह्य रथं स सिद्धो
विरंजयन्मैथिल मण्डलं दिशाम् ।
श्रीकृष्णलोकं प्रययौ परात्परं
निकुंजलीलाललितं मनोहरम्

3.11.24

विप्रोऽपि तस्मात् पुनरागतो गिरिं
गोवर्धनं सर्वगिरिन्द्रदैवतम् ।
प्रदक्षिणीकृत्य पुनः प्रणम्य तं
ययौ गृहं मैथिल तत्प्रभावित्

3.11.25

इदं मया ते कथितं प्रचण्डं
सुमुक्तिदं श्रीगिरिराजखण्डम् ।
श्रुत्वा जनः पाप्यपि न प्रचण्डं
स्वप्नेऽपि पश्येद्यममुग्रदण्डम्

3.11.26

यः शृणोतिगिरिराज यशस्यं
गोपराज नवकेलिरहस्यम् ।
देवराज इव सोऽत्र समेति
नन्दराज इव शान्तिममुत्र

3.11.11

इति श्रीगर्गसंहितायां गिरिराजखण्डे श्रीनारदबहुलाश्वसंवादे
गिरिराजप्रभावप्रस्ताववर्णने सिद्धमोक्ष नाम एकादशोऽध्यायः

3.11.3

इति श्रीगिरिराजखण्डःसमाप्तः

हरिः ॐ तत्सच्छ्रीकृष्णार्पणमस्तु ॥
वर्गः :गर्ग संहिता

मूल पाठ: gargasaṃhitā · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc