भाषा

ENहिગુ
ग्रंथ पाठ

गर्गसंहिता · अध्याय 2.15

2.15.1

राधाकृष्णप्रेमोद्योगवर्णनम् -
श्रीनारद उवाच -
इदं मया ते कथितं कालियस्यापि मर्दनम् ।
श्रीकृष्णचरितं पुण्यं किं भूयः श्रोतुमिच्छसि

2.15.2

बहुलाश्व उवाच -
श्रीकृष्णस्य कथां श्रुत्वा भक्तस्तृप्तिं न याति हि ।
यथाऽमरः सुधां पीत्वा यथालिः पद्मकर्णिकाम्

2.15.3

रासं कर्तुं हरौ जाते शिशुरूपे महात्मनि ।
भांडीरे देववागाह श्रीराधां खिन्नमानसाम्

2.15.4

शोचं मा कुरु कल्याणि वृंदारण्ये मनोहरे ।
मनोरथस्ते भविता श्रीकृष्णेन महात्मनि

2.15.5

इत्थं देवगिरा प्रोक्तो मनोरथमहार्णवः ।
कथं बभूव भगवान् वृंदारन्ये मनोहरे

2.15.6

कथं श्रीराधया सार्धं रासक्रीडां मनोहराम् ।
चकार वृन्दकारण्ये परिपूर्णतमः स्वयम्

2.15.7

श्रीनारद उवाच -
साधु पृष्टं त्वया राजन् भगवच्चरितं शुभम् ।
गुप्तं वदामि देवैश्च लीलाख्यानं मनोहरम्

2.15.8

एकदा मुख्यसख्यौ द्वे विशाखाललिते शुभे ।
वृषभानोर्गृहं प्राप्य तां राधां जग्मतू रहः

2.15.9

सख्यावूचतुः -
यं चिन्तयसि राधे त्वं यद्गुणं वदसि स्वतः ।
सोऽपि नित्यं समायाति वृषभानुपुरेऽर्भकैः

2.15.10

प्रेक्षणीयस्त्वया राधे दर्शनीयोऽतिसुन्दरः ।
पश्चिमायां निशीथिन्यां गोचारणविनिर्गतः

2.15.11

राधोवाच -
लिखित्वा तस्य चित्रं हि दर्शयाशु मनोहरम् ।
तर्हि तत्प्रेक्षणं पश्चात्करिष्यामि न संशयः

2.15.12

श्रीनारद उवाच -
अथ सख्यौ व्यलिखतां चित्रं नंदशिशोः शुभम् ।
नवयौवनमाधुर्यं राधायै ददतुस्त्वरम्

2.15.13

तद्‌दृष्ट्वा हर्षिता राधा कृष्णदर्शनलालसा ।
चित्रं करे प्रपश्यन्ती सुष्वापानंदसंकुला

2.15.14

ददर्श कृष्णं भवने शयाना
नृत्यन्तमाराद्‌वृषभानुपुत्री

2.15.15

तदैव राधा शयनात्समुत्थिता
परस्य कृष्णस्य वियोगविह्वला ।
संचिन्तयन्ती कमनीयरूपिणं
मेने त्रिलोकीं तृणवद्‌विदेहराट्

2.15.16

तर्ह्याव्रजन्तं स्ववनाद्‌व्रजेश्वरं
संकोचवीथ्यां वृषाभानुपत्तने ।
गवाक्षमेत्याशु सखीप्रदर्शितं
दृष्ट्वा तु मूर्च्छां समवाप सुंदरी

2.15.17

कृष्णोऽपि दृष्ट्वा वृषभानुनन्दिनीं
सुरूपकौशल्ययुतां गुणाश्रयाम् ।
कुर्वन्मनो रन्तुमतीव माधवो
लीलातनुः स प्रययौ स्वमन्दिरम्

2.15.18

एवं ततः कृष्णवियोगविह्वलां
प्रभूतकामज्वरखिन्नमानसाम् ।
संवीक्ष्य राधां वृषभानुनन्दिनीं
उवाच वाचं ललिता सखी वरा

2.15.19

ललितोवाच -
कथं त्वं विह्वला राधे मूर्च्छिताऽतिव्यथां गता ।
यदीच्छसि हरिं सुभ्रु तस्मिन् स्नेहं दृढं कुरु

2.15.20

लोकस्यापि सुखं सर्वमधिकृत्यास्ति सांप्रतम् ।
दुःखाग्निहृत्प्रदहति कुंभकाराग्निवत् शुभे

2.15.21

श्रीनारद उवाच -
ललितायाश्च ललितं वचं श्रुत्वा व्रजेश्वरी ।
नेत्रे उन्मील्य ललितां प्राह गद्‌गदया गिरा

2.15.22

राधोवाच -
व्रजालंकारचरणौ न प्राप्तौ यदि मे किल ।
कदचिद्विग्रहं तर्हि न हि स्वं धारयाम्यहम्

2.15.23

श्रीनारद उवाच -
इति श्रुत्वा वचस्तस्या ललिता भयविह्वला ।
श्रीकृष्णपार्श्वं प्रययौ कृष्णातीरे मनोहरे

2.15.24

माधवीजालसंयुक्ते मधुरध्वनिसंकुले ।
कदम्बमूले रहसि प्राह चैकाकिनं हरिम्

2.15.25

ललितोवाच -
यस्मिन् दिने च ते रूपं राधया दृष्टमद्‌भुतम् ।
तद्दीनात्स्तंभतां प्राप्ता पुत्रिकेव न वक्ति किम्

2.15.26

अलंकारस्त्वर्चिरिव वस्त्रं भर्जरजो यथा ।
सुगंधि कटुवद्यस्या मन्दिरं निर्जनं वनम्

2.15.27

पुष्पं बाणं चंद्रबिंबं विषकंदमवेहि भोः ।
तस्यै संदर्शनं देहि राधायै दुःखनाशनम्

2.15.28

ते साक्षिणं किं विदितं न भूतले
सृजस्यलं पासि हरस्यथो जगत् ।
यदा समानोऽसि जनेषु सर्वतः
तथापि भक्तान् भजसे परेश्वर

2.15.29

श्रीनारद उवाच -
इति श्रुत्वा हरिः साक्षाल्ललितं ललितावचः ।
उवाच भगवान् देवो मेघगंभीरया गिरा

2.15.30

श्रीभगवानुवाच -
सर्वं हि भावं मनसः परस्परं
नह्येकतो भामिनि जायते तअतः ।
प्रेमैव कर्तव्यमतो मयि स्वतः
प्रेम्णा समानं भुवि नास्ति किंचित्

2.15.31

यथा हि भाण्डीरवने मनोरथो
बभूव तस्या हि तथा भविष्यति ।
अहैतुकं प्रेम च सद्‌भिराश्रितं
तच्चापि सन्तः किल निर्गुणं विदुः

2.15.32

ये राधिकायां मयि केशवे मनाक्
भेदं न पश्यन्ति हि दुग्धशौक्लवत् ।
त एव मे ब्रह्मपदं प्रयान्ति
तदहैतुकस्फूर्जितभक्तिलक्षणाः

2.15.33

ये राधिकायां मयि केशवे हरौ
कुर्वन्ति भेदं कुधियो जना भुवि ।
ते कालसूत्रं प्रपतन्ति दुःखिता
रम्भोरु यावत्किल चंद्रभास्करौ

2.15.34

श्रीनारद उवाच -
इत्थं श्रुत्वा वचः कृत्स्नं नत्वा तं ललिता सखी ।
राधां समेत्य रहसि प्राह प्रहसितानना

2.15.35

ललितोवाच -
त्वमिच्छसि यथा कृष्णं तथा त्वां मधुसूदनः ।
युवयोर्भेदरहितं तेजस्त्वैकं द्विधा जनैः

2.15.36

तथापि देवि कृष्णाय कर्म निष्कारणं कुरु ।
येन ते वांछितं भूयाद्‌भक्त्या परमया सति

2.15.37

श्रीनारद उवाच -
इति श्रुत्वा सखीवाक्यं राधा रासेश्वरी नृप ।
चंद्राननां प्राह सखीं सर्वधर्मविदां वराम्

2.15.38

श्रीकृष्णस्य प्रसन्नार्थं परं सौभाग्यवर्धनम् ।
महापुण्यं वांछितदं पूजनं वद कस्यचित्

2.15.39

त्वया भद्रे धर्मशास्त्रं गर्गाचार्यमुखाच्छ्रुतम् ।
तस्माद्‌व्रतं पूजनं वा ब्रूहि मह्यं महामते

2.15.15

इति श्रीगर्गसंहितायां वृन्दावनखण्डे
राधाकृष्णप्रेमोद्योगवर्णनं नाम पञ्चदशोऽध्यायः

मूल पाठ: gargasaṃhitā · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc