भाषा

ENहिગુ
ग्रंथ पाठ

गर्गसंहिता · अध्याय 10.37

10.37.1

अश्वमेधखण्डः - सप्तत्रिंशोऽध्यायः
दैत्यसहायार्थं समागतः भैरवमोहनः -
वज्रनाभिरुवाच -
कुनंदने हते ब्रह्मन्बल्वले मूर्च्छिते रणे ॥
न कृतं तु सहायं वै रुद्रेण करुणात्मना

10.37.2

कस्मान्न चागतो रुद्रो यज्ञः पूर्णः कथं भवेत् ॥
कथं विमुक्तस्तुरगस्तन्मे व्याख्यातुमर्हसि

10.37.3

सौतिरुवाच -
इति तस्य वचः श्रुत्वा गर्गो ज्ञानवतां वरः ॥
स्मृत्वा सर्वां कथां ब्रह्मन्नुवाच यदुसत्तम्

10.37.4

गर्ग उवाच -
बल्वले मूर्च्छिते राजन्हते शूरे कुनन्दने ॥
महाकोपं शिवश्चक्रे प्रेरितस्तु सुरर्षिणा

10.37.5

आरुह्य नंदिनं क्रुद्धो भक्तरक्षाकरः शिवः ॥
चन्द्ररेखां वहन्मूर्ध्नि जटाजूटांतरे नृप

10.37.6

सर्पहारैर्मुण्डहारैर्भस्मलिप्तो भयंकरः ॥
दशबाहुः पञ्चमुखो नेत्रै: पञ्चदशैर्वृतः

10.37.7

सिंहचर्मांबरधरो मदमत्तो भयंकरः ॥
त्रिशूलपट्टिशधरो धनुर्बाणधरः परः

10.37.8

कुठारपाशपरिघभिंदिपालैर्विभूषितः ॥
सहस्ररविसंकाशः सर्वभूतगणावृतः

10.37.9

हंतुं सर्वान्वृष्णिवरान्कार्ष्णिजप्रमुखान्मृधे ॥
कैलसादाययौ शीघ्रं चालयन्पृथिवीतलम्

10.37.10

कोलाहलो महानासीदाकाशे भूतले नृप ॥
देवदैत्यनराः सर्वे भयं प्रापुश्च विस्मिताः

10.37.11

सगणं सपरीवारमागतं वीक्ष्य शंकरम् ॥
क्रुद्धं प्रलयकर्तारं भयं प्रापुर्यदूत्तमाः

10.37.12

अनिरुद्धस्य च मुखं निस्तेजस्कमभूद्‌भयात् ॥
चकंपे हृदयं तस्य दुःखितस्य रणांगणे

10.37.13

ततः प्रत्याह वचनं निष्ठुरं सर्वयादवान् ॥
शूलं गृहीत्वा हस्तेन गिरीशः क्रोधपूरितः

10.37.14

शंकर उवाच -
अनिरुद्धः कुत्र गतो गतः कुत्र सुनन्दनः ॥
सांबादयः कुत्र गता भक्तं हत्वा कुनन्दनम्

10.37.15

बल्वलं मूर्च्छितं कृत्वा मद्‌भक्तं दैत्यसत्तमम् ॥
तस्यानुगान्मृधे हत्वा कुत्र यास्यंति वृष्णयः

10.37.16

तस्मात्सर्वान्हनिष्यामि मद्‌भक्तानां रिपून्मृधे ॥
अहं विष्णुर्विधिश्चैते भक्तं रक्षंति दुःखतः

10.37.17

गर्ग उवाच -
इत्युदीर्य्यानिरुद्धं स प्रेषयामास भैरवम् ॥
त्वं हि योद्धुं गच्छ शूर कार्ष्णिजं जयिनं मृधे

10.37.18

सुनंदनं नंदिनं च प्रेषयामास रोषतः ॥
गदं च वीरभद्रं वै सांबं च शिखिवाहनम्

10.37.19

भानुञ भृंगिणं युद्धे विरूपाक्षः समादिशत् ॥
यदूंश्च प्रेषयामास भूतप्रेतांस्ततः शिवः

10.37.20

ततस्ते रुद्रवचनाद्‌भूतप्रेतविनायकाः ॥
भैरवाः प्रमथाश्चैव वेताला ब्रह्मराक्षसाः

10.37.21

उन्मादाश्चैव कूष्माण्डा आजग्मुः कोटिशो मृधे ॥
भूतानि जघ्नुश्चांगारैर्यादवाश्च विनायकाः

10.37.22

पट्टिशैर्भैरवाः शूलैः खट्वांगैः प्रमथाः किल ॥
जनानश्वान्गृहीत्वा तु भक्ष्यंति ब्रह्मराक्षसाः

10.37.23

यातुधानाश्चरर्वयन्तो मनुष्याणां शिरांसि च ॥
कपालैस्तत्र वेतालाः पिबंतो रुधिरं रणे

10.37.24

पिशाचास्तत्र नृत्यन्ति प्रेता गायंति एव हि ॥
शिरांसि कंदुकानीव क्षेपयंतो मुहुर्मुहुः

10.37.25

अट्टहासं प्रकुर्वन्तः प्रधावंत इतस्ततः ॥
गजान्‌रथांश्चर्वयन्तो दृश्यन्ते रणमंडले

10.37.26

रक्तं पिशाच्यो डाकिन्यः पाययंत्यः सुतान्मृधे ॥
मारोदीरिति वादिन्य अक्षीणि च तदाऽमृजन्

10.37.27

उन्मादाश्चैव कूष्मांडा निर्माय मुण्डकैः स्रजः ॥
संयच्छंति महेशाय शूराणां स्वर्गगामिनाम्

10.37.28

हाहाकारस्तदैवासीद्यदुसैन्ये नृपेश्वर ॥
दुद्रुवंतो भयादश्वा धावंतस्तत्र दंतिनः

10.37.29

वीराः प्रपतिता युद्धे गता मृत्युं सहस्रशः ॥
दृष्ट्वा चेत्थं गणबलं दीप्तिमान्माधवात्मजः

10.37.30

चापे निधाय विशिखान्मुमुचे परमाद्‌भुतम् ॥
ते शरा विविशुस्तिग्मा भूतप्रेतविनायकान्

10.37.31

कोटिशः कोटिशो राजन्यथारण्यं शिखण्डिनः ॥
ततश्च दुद्रुवुर्भिन्नाः सर्वे भूतगणाः शरैः

10.37.32

केचिन्निपतिता युद्धे केचिद्वै निधनं गताः ॥
न हताश्च शरैः केऽपि पतिताः पूर्वमेव च

10.37.33

पलायिते प्रेतगणे भैरवः क्रोधपूरितः ॥
त्रिशूली सारमेयस्थ आजगाम कृतांतवत्

10.37.34

तं दृष्ट्वा कालरूपं च भैरवं तु भयंकरम् ॥
न कोऽपि युयुधे तेनानिरुद्धो युयुधे नृप

10.37.35

अनिरुद्धः पंचशरैस्तताड भैरवं मृधे ॥
स चापि परिघेणापि बभञ्ज तद्‌रथं वरम्

10.37.36

सोऽप्यन्यं रथमारुह्य सज्जं कृत्वा धनुर्दृढम् ॥
तताड दशभिर्बाणै रौद्रं मायाविनं मृधे

10.37.37

तैर्बाणैर्निहतः सोऽपि किंचित्कश्मलतां गतः ॥
त्रिशूलं त्रिशिखं तस्मै चिक्षेप ज्वलनप्रभम्

10.37.38

शूलं समागतं दृष्ट्वा बाणैश्चिच्छेद कार्ष्णिजः ॥
छिन्नं स्वीयं त्रिशूलं वै दृष्ट्वा रुद्रसुतो बली

10.37.39

ससृजे मायया तत्र मुखादनलमेव च ॥
तेनाग्निना जज्वलुश्च मही वृक्षा दिशो दश

10.37.40

पदातीनां रथानां च हयानां दंतिनां तथा ॥
जज्वलुश्च शरीराणि मुञ्जपुष्पप्रतूलवत्

10.37.41

केचित्प्रज्वलिता वीराः केचिद्वै भस्मतां गताः ॥
अग्निना पूरितं सैन्यं कृष्णं केचित्स्मरंति हि

10.37.42

सेनां भयातुरां दृष्ट्वानिरुद्धो धन्विनां वरः ॥
दधार विशिखं चापे ज्ञात्वा मायां विनिर्मिताम्

10.37.43

मंत्रयित्वा च मंत्रेण पर्जन्यास्त्रेण सायकम् ॥
मुमोच गगने शीघ्रं स्मरन्कृष्णपदांबुजम्

10.37.44

शरे मुक्ते समागत्य मेघाः प्रववृषुर्जलम् ॥
अग्निः शांतिं गतो राजन्यथा प्रावृट् तथा बभौ

10.37.45

शिखंडिनः कोकिलाश्च चातकाः सारसादयः ॥
मण्डूकाद्याश्च प्रजगुरिंद्रगोपा विरेजिरे

10.37.46

पुरंदरस्य चापेन सौदामिन्या बभौ नभः ॥
प्रयासं निष्फलं दृष्ट्वा भैरवो भैरवं रवम्

10.37.47

चकार स्वमुखेनापि सर्वेषां त्रासयन्मनः ॥
ननाद तेन ब्रह्मांडं सप्तलोकैर्बिलैः सह

10.37.48

विचेलुर्दिग्गजास्तारा राजद्‌भूखण्डमण्डलम् ॥
तदैव बधिरीभूता बभूवुः पतिता नराः

10.37.49

पुनश्च भैरवः क्रुद्धो हस्तं हस्तेन पीडयन् ॥
निष्पिषन्नधरं दंतैर्लेलिहानः स्वजिह्वया

10.37.50

नेत्राभ्यां रक्तवर्णाभ्यां पश्यन्सर्पैर्विभूषितः ॥
जग्राह परशुं तीक्ष्णं तृणीकृत्य यदूत्तमम्

10.37.51

तदैव जृंभणास्त्रेणानिरुद्धो रणकोविदः ॥
भैरवं मोहयामास श्रीकृष्ण इव शंकरम्

10.37.52

तेनास्त्रेण रणे राजन्ननिरुद्धस्य पश्यतः ॥
पपात भूतले रौद्रो जृंभितो निद्रितोऽभवत्

10.37.37

इति श्रीगर्गसंहितायां हयमेधखण्डे
भैरवमोहनं नाम सप्तत्रिंशोऽध्यायः

हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
वर्गःगर्ग संहिता

मूल पाठ: gargasaṃhitā · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc