भाषा

ENहिગુ
ग्रंथ पाठ

गर्गसंहिता · अध्याय 10.34

10.34.1

अश्वमेधखण्डः - चतुस्त्रिंशोऽध्यायः
दैत्य-यादव-युद्धवर्णनम् -
गर्ग उवाच -
अथ वै बल्वलः पुत्रं रोहयित्वा रथे मुदा ॥
तेन सार्द्धं ससैन्यस्तु युद्धार्थं प्रययौ त्वरम्

10.34.2

नानाशस्त्रधराः सर्वे नानावाहनसंस्थिताः ॥
नाना कञ्चुकसंयुक्ता नानारुपा भयंकराः

10.34.3

गजेंद्रसदृशाः पुष्टा मृगेंद्रसमविक्रमाः ॥
कंपयतश्च पृथिवीं वृष्णीनां संमुखे ययुः

10.34.4

तानागतान्बहून्दैत्याननिरुद्धस्तु शंकितः ॥
रक्षणार्थं च सर्वेषां चक्रव्यूहमकल्पयत्

10.34.5

सर्वतो यादवाः शूराः सर्वशस्त्रधराः किल ॥
गजै रथैस्तुरंगैश्च बभूवुः परिमंडिताः

10.34.6

तेषां मध्ये स्थिता राजन्निंद्रनीलादयो नृपाः ॥
अक्रूरकृतवर्माद्यास्तेषां मध्ये स्थिताः शुभाः

10.34.7

तेषां मध्ये च राजेंद्र गदाद्याः कृष्णभ्रातरः ॥
तेषां मध्ये महावीराः सांबादीप्तिमदादयः

10.34.8

चक्रव्यूहं विनिर्माय चेदृशं तत्र भूपते ॥
तन्मध्ये कार्ष्णिपुत्रस्तु दंशितः संस्थितोऽभवत्

10.34.9

बभूव तुमुलं युद्धं तत्र सिंधुतटे नृप ॥
यदुभिर्दानवानां च ह्यब्धीनामब्धिभिर्यथा

10.34.10

रथिनो रथिभिस्तत्र गजवाहा गजैः सह ॥
अश्ववाहैरश्ववाहा वीरा वीरैः परस्परम्

10.34.11

युयुधुस्तीक्ष्णबाणैश्च खड्गचर्मगदर्ष्टिभिः ॥
पाशैः परश्वधै राजञ्छतघ्नीभिर्भुशुण्डिभिः

10.34.12

हन्यमानाश्च यदुभिर्बल्वलस्य च सैनिकाः ॥
सर्वे स्वं स्वं रणं त्यक्त्वा दुद्रुवुस्ते भयान्विताः

10.34.13

रुरोध गगनं सूर्यं सैन्यपादरजो भृशम् ॥
अंधकारे महादैत्या रणात्सर्वे पराङ्‍मुखाः

10.34.14

केचिन्निपतिताः कूपे केचिद्‌गर्ते ह्यधोमुखाः ॥
केचित्तडागे वाप्यां वै यदूनां सायकैर्हताः

10.34.15

ततो दृष्ट्वा बलं भग्नं बल्वलो रोषपूरितः ॥
चतुर्भिर्मंत्रिणां पुत्रैः स्वपुत्रेणाजगाम ह

10.34.16

अनिरुद्धो बल्वलेन तत्रायुद्ध्यन्महामृधे ॥
दुर्नेत्रेण बृहद्वाहुर्दुर्मुखेनारुणो बली

10.34.17

न्यग्रोधो दुःस्वभावेन दुर्मदेन कविस्तथा ॥
कुनन्दनेन संग्रामे कृष्णपुत्रः सुनंदनः

10.34.18

एवं बभूव संग्रामो देवविस्मयकारकः ॥
प्रगतास्तत्र राजेंद्र सर्वे कार्तिकवासराः

10.34.19

बल्वलः कुपितो राजन्धनुष्टंकारयन्मुहुः ॥
इंद्रनीलं त्रिभिर्बाणैः षड्‌भिर्हेमांगदं मृधे

10.34.20

अनुशाल्वं च दशभिरक्रूरं दशभिस्तथा ॥
गदं द्वादशभिर्बाणैर्युयुधानं च पंचभिः

10.34.21

पंचभिः कृतवर्माणमुद्धवं दशभिः शरैः ॥
कार्ष्णिजं शतबाणैश्च विव्याध समरेऽसुरः

10.34.22

तच्छरैः सरथाः सर्वे बभ्रमुर्घटिकाद्वयम् ॥
तुरगाः पंचतां प्राप्ताश्चूर्णीभूता रथा रणे

10.34.23

तद्धस्तलाघवं दृष्ट्वा यादवा विस्मयं गताः ॥
रथानारुरुहुः सर्वेऽनिरुद्धाद्याश्च मानद

10.34.24

बल्वलोऽपि ययौ राजन्नन्यान्वीरान्विलोकितुम् ॥
अनिरुद्धस्ततः प्राह क्रोधादरुणलोचनः

10.34.25

तिष्ठ तिष्ठ ममाग्रेऽद्य दर्शयित्वा पराक्रमम् ॥
कुत्र यास्यसि हे दैत्य पश्य मन्निशिताञ्छरान्

10.34.26

इति तस्य वचः श्रुत्वा युवराजः कुनन्दनः ॥
उवाच वचनं शीघ्रं बल्वलस्य च पश्यतः

10.34.27

राजपुत्र उवाच -
दैत्येंद्रं च रणे द्रष्टुं त्वं च नार्हसि कार्ष्णिज ॥
तस्मान्मदीयं च बलं पूर्वं पश्य मृधांगणे

10.34.28

अनिरुद्ध उवाच -
त्वं बालोऽसि दैत्यपुत्र युद्धं कर्तुं च नार्हसि ॥
तस्माच्च स्वगृहं गत्वा क्रीडनं कुरु कृत्रिमैः

10.34.29

राजपुत्र उवाच -
अत्र पश्य महावीरैर्बालस्य मम क्रीडनम् ॥
गृहे यदि करिष्यामि तत्र कोऽपि न पश्यति

10.34.30

इत्युक्त्वा चण्डकोदण्डे दधार शतसायकान् ॥
तताड कार्ष्णीजं तैश्च रथस्थं दर्शयन्बलम्

10.34.31

तैर्बाणैः सरथः सोऽपि ससूतः सतुरंगमः ॥
विभ्रमन्नभमार्गेण पपात कपिलाश्रमे

10.34.32

हाहाकारस्तदैवासीदनिरुद्धे गते सति ॥
ततः क्रुद्धाश्च तं हंतुं सांबाद्या आययुर्मृधे

10.34.33

आगतांस्तान्बहून्दृष्ट्वा युवराजः प्रहर्षितः ॥
सांबं च दशभिर्बाणैः पंचभिश्च मधुं तथा

10.34.34

बृहद्बाहुं त्रिभिर्बाणैश्चित्रभानुं च पंचभिः ॥
वृकं च दशभिर्युद्धे सप्तभिश्चारुणं शरैः

10.34.35

पंचभिः संग्रामजितं सुमित्रं च त्रिभिः शरैः ॥
दीप्तिमंतं त्रिभिर्बाणैर्भानुं च दशभिर्मृधे

10.34.36

वेदबाहुं पंचभिश्च पुष्करं सप्तभिः शरैः ॥
अष्टभिः श्रुतदेवं च संमुखस्थं सुनन्दनम्

10.34.37

विंशत्या सायकैस्तीक्ष्णैर्विरूपं दशभिस्तथा ॥
चित्रबाहुं च नवभिर्न्यग्रोधं दशभिः शरैः

10.34.38

कविं च नवभिर्बाणैस्तताड प्रधने बली ॥
शंखं दघ्मौ मुदायुक्तो नन्दमानी कुनन्दनः

10.34.39

तद्बाणैर्विभ्रमंतश्च सरथाः सतुरंगमाः ॥
पेतुः केचिद्योजने च पंचक्रोशे द्वियोजने

10.34.40

हाहाकारे तदा याते सेनायां नृपसत्तम ॥
रुरुदुर्यादवाः सर्वे रामकृष्णेति वादिनः

10.34.41

तदा गदादयः सर्वे मुंचंतो निशिताञ्छरान् ॥
इन्द्रनीलादयश्चैव ह्याजग्मुः क्रोधपूरिताः

10.34.42

दृष्ट्वा समागतान् वीरान्‌राजपुत्रो महाबलः ॥
विव्याध सायकैः सर्वे ह्यभूवन्मूर्च्छिता रणे

10.34.43

तत्पश्चाद्यादवाञ्छूरान्बाणौघैर्बल्वलात्मजः ॥
तताड तच्छरै राजन्बहवः पंचतां गताः

10.34.44

संग्रामे तस्य बाणौघै रुधिराणां नदी ह्यभूत् ॥
हस्तिनो यत्र मग्नाश्च सजीवास्ते म्रियंति च

10.34.45

हाहाकारस्तदैवासीत्सेनायां च नभस्तले ॥
महेन्द्रवरुणाद्याश्च भयं प्रापुश्च विस्मिताः

10.34.46

जयं दृष्ट्वासुरा सर्वे बभूवुर्मुदिताननाः ॥
गर्ग उवाच -
अथ वै मूर्च्छितं दृष्ट्वानिरुद्धं कपिलो मुनिः

10.34.47

हतयानं निपतितं शरनिर्भिन्नवक्षसम् ॥
चकार तं तु चैतन्यं हस्तेन तपसा मुनिः

10.34.48

ततः सोऽपि समुत्थाय सिद्धं नत्वा यदूत्तमः ॥
सेतुमार्गेणाजगाम यदून्सर्वान्प्रहर्षयन्

10.34.49

अथान्यं रथमारुह्य प्रतिशार्ङ्गधरो बली ॥
निचखान शरं चैकं राजपुत्ररथे रुषा

10.34.50

स शरस्तद्‌रथं नीत्वा ससूतं सतुरंगमम् ॥
चतुर्मुहूर्तपर्यंतं भ्रामयामास चाम्बरे

10.34.51

ततश्च ददृशुः सर्वे दानवाश्चैव वृष्णयः ॥
गगने विभ्रमंतं वै सरथं च कुनंदनम्

10.34.52

अथ सांबादयो वीरा रथानारुह्य वेगतः ॥
अनुशाल्वादयश्चैवाजग्मुः सर्वे धनुर्धराः

10.34.34

इति श्रीगर्गसंहितायां हयमेधखण्डे
दैत्ययादवयुद्धवर्णनं नाम चतुस्त्रिंशोऽध्यायः

हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
वर्गःगर्ग संहिता

मूल पाठ: gargasaṃhitā · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc