भाषा

ENहिગુ
ग्रंथ पाठ

गर्गसंहिता · अध्याय 10.32

10.32.1

अश्वमेधखण्डः - द्वात्रिंशोऽध्यायः
बल्वलकृतं सेनापतीपुत्रवधम् -
गर्ग उवाच -
अथ वै बल्वलं दैत्यं शोचंतं कांचनासने ॥
मयः प्रत्याह वचनं ज्येष्ठं कुंभश्रुतिर्यथा

10.32.2

अद्य दृष्टं त्वया राजन् यदूनां बलमेव हि ॥
दैत्यवृन्दैश्च निहताश्चत्वारो मंत्रिणस्तव

10.32.3

अवशेषस्त्वमेवासि ह्यथवाहं च त्वत्पुरे ॥
तस्मात्तवेच्छा दैत्येंद्र यथा भूयात्तथा कुरु

10.32.4

बल्वलः प्राह वचनमद्य यास्याम्यहं रणे ॥
शीघ्रं हंतुं यदून्सर्वांस्त्वं गुप्तो भव मन्दिरे

10.32.5

हरिः कृष्णस्तु नंदस्य पुरा पुत्रः प्रकीर्तितः ॥
वसुदेवो मन्यते तं मत्पुत्रोऽयं गतत्रपः

10.32.6

हैयंगवीनदुग्धाज्यदधितक्रादिकं तु सः ॥
चोरयामास गोपीनां रसिको रासमण्डले

10.32.7

जरासुतभयात्सोऽपि समुद्रं शरणं गतः ॥
मारितो मातुलो येन किं करिष्यति पौरुषम्

10.32.8

इति तद्वाक्यमाकर्ण्य मयः प्रकुपितोऽब्रवीत् ॥
मय उवाच -
यस्माद्बिभेति ब्रह्मा च शिवो माया पुरंदरः

10.32.9

भयदं निर्भयं कृष्णं तं विनिंदसि निंदक ॥
कृष्णं निंदति यो मूढो ह्यज्ञानाच्च कुसंगतः

10.32.10

कुम्भीपाके स पतति यावद्वै ब्रह्मणो वयः

10.32.11

चण्डपालशिशुपालमण्डली-
भञ्जनं दनुजदर्पखण्डनम् ॥
माधवं मदनमोहनं परं त्वं
भजस्व कुलकौशलाय च

10.32.12

मयस्य वचनं श्रुत्वा ज्ञानं प्राप्तोऽपि बल्वलः ॥
क्षणं विचार्य राजेन्द्र प्रोवाच प्रहसन्निव

10.32.13

बल्वल उवाच -
जानाम्यहं विश्वपतिं च कृष्णं
शेषं बलं वै मदनं च कार्ष्णिम् ॥
अत्रागतं पद्मभवं हि चैषां
वध्या वयं तेन हयो हृतोऽयम्

10.32.14

एषां बाणैश्च निहतो यदाहं निधनं गतः ॥
तदा सुखेन यास्यामि शीघ्रं विष्णोः परं पदम्

10.32.15

पुरा च वैरभावेन वैकुण्ठं बहवो गताः ॥
दानवा राक्षसाश्चैव तं च भावं करोम्यहम्

10.32.16

इत्युक्त्वा दंशितो भूत्वा दानवानां शिरोमणिः ॥
स्वसैन्यपालकं तूर्णं समाहूयेदमब्रवीत्

10.32.17

पटहेन ममाज्ञां त्वं पुर्यां देहि प्रयत्‍नतः ॥
अनिरुद्धेन युद्धाय वीरेषु सैन्यपालक

10.32.18

ये ममाज्ञां न मन्यन्ते ते वधार्हा रणं विना ॥
आत्मजा वा भ्रातरो वा ह्यन्येषां चैव का कथा

10.32.19

इति श्रुत्वा स तद्वाक्यं रथ्यां रथ्यां गृहे गृहे ॥
पटहेनापि तस्याज्ञां घोषयामास वेगतः

10.32.20

श्रुत्वा पटहनिर्घोषं दैत्याः शीघ्रं भयातुराः ॥
गृहीत्वा सर्वशस्त्राणि ह्याजग्मुस्ते सभातलम्

10.32.21

सैन्यपालस्ततः पूर्वं लक्षदैत्यैः समावृतः ॥
रथेन कवची धन्वी निर्जगाम पुराद्बहिः

10.32.22

दुर्नेत्रो दुर्मुखश्चैव दुःखभावश्च दुर्मदः ॥
एते वै मंत्रिणां पुत्राश्चत्वारस्ते विनिर्ययुः

10.32.23

मतंगजैर्महामत्तैश्चंचलांगैस्तुरंगमैः ॥
रथैश्च देवधिष्ण्याभैर्विद्याधरसमैर्नरैः

10.32.24

सद्यः कामगयानेन मयदत्तेन बल्बलः ॥
स्वयं जगाम युद्धार्थे चतुर्लक्षैर्महासुरैः

10.32.25

सैन्यपालस्य पुत्रस्तु भोजनं कुरुते गृहे ॥
बुभिक्षितश्च युद्धाय शीघ्रं सोऽपि न निर्गतः

10.32.26

नागतं तं विलोक्याथ सैन्ये बल्वलसैनिकाः ॥
नृपाय कथयामासुस्तस्य वार्तां च शंकिताः

10.32.27

ततस्तद्वचनाद्वीरा बद्ध्वा तं दामभी रुषा ॥
नृपाग्रे चानयामासुः प्रफुल्लवदनेक्षणाः

10.32.28

तं दृष्ट्वा भर्त्सयित्वा च बल्वलश्चण्डशासनः ॥
भुशुण्डीं वदने चापि मारयामास वेगतः

10.32.29

दैत्याः सर्वे भयं प्रापुर्वधं तस्य निरीक्ष्य च ॥
सैन्यपालस्तु संग्रामे मृतं पुत्रं निशम्य च

10.32.30

रथात्पपात दुःखार्तस्ताडयन्मस्तकं करैः ॥
विललाप भृशं सोऽपि पुत्रदुःखेन दुःखितः

10.32.31

हा पुत्र वीर पितरं त्यक्त्वा मां जरठं रणे ॥
गतः शतघ्नीमार्गेण स्वर्गे मामविलोक्य च

10.32.32

विना युद्धेन हे पुत्र क्व गतो नृपशासनात् ॥
इत्येवं विलपंस्तत्र रुरोद रणमण्डले

10.32.33

ततश्च मंत्रिणां पुत्राः शोचंतं प्रोचुरग्रतः ॥
मंत्रिपुत्रा ऊचुः -
रोदनं मा कुरु रणे शूरोऽसि त्वं तु पालक

10.32.34

दुःखे कृते च त्वत्पार्श्वे नागमिष्यति वै मृतः ॥
आजन्मतश्च जंतूनां मृत्युर्भवति सांप्रतम्

10.32.35

धीरास्तत्र न शोचंति मूर्खाः शोचंति नित्यशः ॥
गर्भेऽपि च मृताः केचित्केचिद्वै जन्ममात्रतः

10.32.36

बालत्वे यौवनत्वे च वृद्धत्वे केचिदेव हि ॥
केचिच्छस्त्रेण रोगेण दुःखेन पतनेन च

10.32.37

सर्वे मृत्युं गमिष्यंति दैवात्कर्मवशा नराः ॥
को वा कस्य पिता पुत्रः को वा कस्य प्रिया प्रसूः

10.32.38

संयुनक्ति विधाता वै वियुनक्ति च कर्मणा ॥
संयोगे परमानन्दो वियोगे प्राणसंकटम्

10.32.39

शश्वद्‌भवति मूढस्य नात्मारामस्य निश्चितम् ॥
आत्मघाती यदा भूत्वा प्राणांस्त्यजसि दुःखितः

10.32.40

पुनर्जन्म च निरयं व्रजिष्यसि न संशयः ॥
तस्माद्यदूत्तमैः सार्द्धं युद्धं कुरु महारणे

10.32.41

क्षत्रियस्य परं श्रेयो धर्मयुद्धान्न विद्यते ॥
धर्मयुद्धेन संग्रामे ये हताः शत्रुसंमुखे

10.32.42

व्रजंति ते विष्णुपदं लोकान्सर्वान्विहाय च ॥
गर्ग उवाच -
एवं संबोधितो दैत्यैः शोकं सर्वं विहाय च

10.32.43

सर्वान्वीरानागतांश्च ददर्श रोषपूरितः ॥
दृष्ट्वा सर्वान्स संग्रामे शीघ्रं प्राह रुषा ज्वलन्

10.32.32

इति श्रीगर्गसंहितायां हयमेधखण्डे
सैन्यपालसुतवधो नाम द्वात्रिंशोऽध्यायः

हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
वर्गःगर्ग संहिता

मूल पाठ: gargasaṃhitā · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc