भाषा

ENहिગુ
ग्रंथ पाठ

गर्गसंहिता · अध्याय 10.27

10.27.1

अश्वमेधखण्डः - सप्तविंशोऽध्यायः
यादवगणकृतं सेतुबन्धनम् -
गर्ग उवाच -
अथानिरुद्धो यदुराट् प्रातःकाले विशां पते ॥
उद्धवं तु समाहूय प्राह गंभीरया गिरा

10.27.2

कति दूरं पांचजन्यं तन्ममाख्याहि सत्तम ॥
यस्मिन्मदीयो तुरगो नीतो दैत्येन वर्त्तते

10.27.3

इत्युदाहृतमाकर्ण्य मंत्री कृष्णसुहृत्सखः ॥
मनसा कृष्णपादाब्जं स्मृत्वा प्रोवाच माधवम्

10.27.4

प्रभो सर्वज्ञ भगवन्नहं त्वद्वाक्यगौरवात् ॥
कथयिष्यामि लोकेश यथा मार्गे श्रुतं तथा

10.27.5

त्रिंशद्योजनविस्तीर्णात्सागरात्पारमेव च॥
उपद्वीपं पांचजन्यं दक्षिणेऽस्ति नृपेश्वर

10.27.6

उद्धवस्य वचः श्रुत्वानिरुद्धो धन्विनां वरः ॥
बली धैर्यधरः क्रुद्धो प्राहेदं यदुपुंगवान्

10.27.7

अनिरुद्ध उवाच -
अहं यास्यामि पारं वै तस्माद्यादवसत्तमाः ॥
सेतुं कुरुत शीघ्रं तु सागरस्य शरैरपि

10.27.8

इति तद्वचनं श्रुत्वा यादवा युद्धकोविदाः ॥
सागरे मुमुचुर्बाणान्प्रहसंतः परस्परम्

10.27.9

ततः सर्वे जलचरास्तीक्ष्णबाणैः प्रताडिताः ॥
कोलाहलं प्रकुर्वंतो दुद्रुवुस्ते चतुर्दिशम्

10.27.10

न केषां प्रगता बाणाः पारं वै सागरस्य च ॥
इति वै कथितं वाक्यं खस्थेन च सुरर्षिणा

10.27.11

तदाक्रूरो हृदीकश्च सात्यकिश्चोद्धवो बली ॥
कृतवर्मा सारणश्च युयुधानादयो नृप

10.27.12

हेमांगद इंद्रनीलोऽनुशाल्वाद्याश्च भूपते ॥
गतमाना बभूवुर्वै नारदोक्तं निशम्य च

10.27.13

ततोऽनिरुद्धो बलवान्स्मरन्कृष्णपदांबुजम् ॥
प्रतिशार्ङ्गं गृहीत्वा वै दिव्यान्बाणान्मुमोच ह

10.27.14

ततो दृष्ट्वा ऋषिः प्राह ह्यनिरुद्धशिलीमुखाः ॥
पारं गत्वा समुद्रस्य विविशुस्ते च तत्तटम्

10.27.15

इति श्रुत्वा ऋषेर्वाक्यं सांबादीप्तिमदादयः ॥
मुमुचुस्ते शरान्‌ राजंस्तेषां पारं गताः शराः

10.27.16

शरेषु च शरा राजन्कोटिशः कोटिशः किल ॥
विविशुर्वीक्ष्य सर्वेऽपि धन्विनो विस्मयं गताः

10.27.17

चक्रुः सेतुं च ते सर्वे त्रिंशद्योजनलंबितम् ॥
दृढं जलाच्चांतरिक्षमेकयोजनविस्तृतम्

10.27.18

बद्ध्वा ततश्च ते सेतुं चतुर्भिः प्रहरैरपि ॥
अनिरुद्धादयो रात्रौ सुषुपुः शिबिरेषु वै

10.27.19

तस्माद्वै पुत्रपौत्राणां कृष्णस्य परमात्मनः ॥
शूराणां कृष्णबिंबानां किं बलं कथयाम्यहम्

10.27.27

इति श्रीगर्गसंहितायां हयमेधखण्डे
सेतुबंधनं नाम सप्तविंशोऽध्यायः

हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
वर्गःगर्ग संहिता

मूल पाठ: gargasaṃhitā · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc