भाषा

ENहिગુ
ग्रंथ पाठ

गर्गसंहिता · अध्याय 10.25

10.25.1

अश्वमेधखण्डः - पञ्चविंशोऽध्यायः
बल्वलकृतं अश्वमेधस्य अश्वापहरणम् -
गर्ग उवाच -
एवं दृष्ट्वा तयोर्युद्धं यादवाः परसैनिकाः ॥
ऊचुः परस्परं धन्योऽनुशाल्वस्तु गदो महान्

10.25.2

इति ब्रुवत्सु सर्वेषु गदस्तत्रैव चोत्थितः ॥
क्व गतः क्व गतः शत्रुर्हत्वा मां च ब्रुवन्‌ रणात्

10.25.3

ततोऽनुशाल्वं हस्तेन गृहीत्वाऽऽकृष्य रोषतः ॥
अनिरुद्धस्य निकटे पातयामास वेगतः

10.25.4

पतितं मूर्च्छितं दृष्ट्वा ह्यनिरुद्धस्त्वधोमुखम् ॥
कारयामस चैतन्यं व्यजनैः सलिलेन च

10.25.5

तदैव स प्रबुद्धोऽभूदनुशाल्वोऽसुरेश्वरः ॥
दृष्ट्वाग्रे सुन्दरं सोऽपि कृष्णपौत्रं घनप्रभम्

10.25.6

नत्वा प्रत्याह वचनं त्वं तु मे प्राणरक्षकः ॥
अनिरुद्ध हरेः पौत्र अपराधं क्षमस्व मे

10.25.7

ॐ नमो वासुदेवाय नमः संकर्षणाय च ॥
प्रद्युम्नाय नमस्तुभ्यमनिरुद्धाय ते नमः

10.25.8

गृहाण वै तुरङ्गं तमहं यास्यामि पालयन् ॥
इत्युक्त्वा स्वपुरं गत्वा ददौ तस्मै तुरंगमम्

10.25.9

अयुतं हस्तिनां चैव हयानां नियुतं तथा ॥
अर्द्धलक्षं रथानां च शिबिकानां सहस्रकम्

10.25.10

उष्ट्राणां हि सहस्रं च गवयानां सहस्रकम् ॥
पंजरे संस्थितानां च सिंहानां द्विसहस्रकम्

10.25.11

मृगयासारमेयाणां सहस्रं नृपसत्तम ॥
शिबिराणां सहस्रं च शिञ्जिनां नियुतं तथा

10.25.12

जवनिकानामयुतं धेनूनां लक्षमेव च ॥
सहस्रभारं स्वर्णानां रजतानां चतुर्गुणम्

10.25.13

मुक्तानां भारमेकं चानिरुद्धाय ददौ नृपः ॥
अनिरुद्धस्ततस्तस्मै मणिहारं ददौ मुदा

10.25.14

अनुशाल्वः स्वराज्ये तु कृत्वा वै सचिवं वरम् ॥
यादवैः सहितः सोऽपि देशानन्याञ्जगाम ह

10.25.15

ततो विमुक्तस्तुरगो मणिकांचनभूषितः ॥
देशानन्यान् वीरयुक्तान्पश्यन्बभ्राम भूपते

10.25.16

अनुशाल्वं जितं श्रुत्वा यौवनाश्चं च भीषणम् ॥
राजानोऽन्ये मंडलेशाः प्राप्तं न जगृहुर्हयम्

10.25.17

इत्येवं भ्रमतस्तस्य तुरगस्य विशां पते ॥
मासाश्च प्रगताः षड्‍वै तादृशाश्चावशेषिताः

10.25.18

हयो मणिपुरेशेन गृहीतश्च विमोचितः ॥
तथा रत्‍नपुरेशेन ह्यनिरुद्धभयान्नृप

10.25.19

राष्ट्रान्सर्वानशूरांश्च विहाय तुरगोत्तमः ॥
ययौ प्राचीं दिशं राजन्बल्वलो यत्र दैत्यराट्

10.25.20

सोऽपि दैत्यो हयस्यापि वार्तां श्रुत्वा च नारदात् ॥
यज्ञं शीघ्रं नाशयित्वा नैमिषाच्चाजगाम ह

10.25.21

स्थितं त्रिवेण्यां सलिलं पिबंतं
प्रयागतीर्थे क्रतुवाहनं च ॥
विलोक्य राजन्किल बल्वलाख्यो
जग्राह शीघ्रं ह्यगणय्य कृष्णम्

10.25.22

तदैव वृष्णयः सर्वे दंडकं च व्यलोकयन् ॥
चार्मण्वतीं समुत्तीर्य चित्रकूटं समाययुः

10.25.23

रामक्षेत्रे च दानानि कृत्वाश्वं चावलोकयन् ॥
तस्यापि पृष्ठतो लग्ना आजग्मुस्तीर्थवासवम्

10.25.24

ददृशुस्तत्र तुरगं सपत्रं यदुसत्तमाः ॥
गृहीतं स्वबलाद्‌राजन्नसुरेण दुरात्मना

10.25.25

ततस्ते बल्वलं दृष्ट्वा नीलांजनचयोपमम् ॥
योजनद्वयमुच्चांगमुग्रमंगारलोचनम्

10.25.26

तप्तताम्रशिखाश्मश्रुदंष्ट्रोग्रभ्रुकुटीमुखम् ॥
ब्रह्मद्रुहं ललञ्जिह्वं गजायुतसमं बलम्

10.25.27

तमूचुर्यादवा रोषात्स्फुरिताधरपल्लवाः ॥
कस्त्वं यज्ञपशुं नीत्वा ह्यस्माकं च क्व यास्यसि

10.25.28

तस्मान्मोचय तं शीघ्रं न चेद्धन्मो रणे च त्वाम् ॥
इति श्रुत्वासुरश्चाह वचः शृणुत मे नराः

10.25.29

बल्वल उवाच -
अहं तु बल्वलो दैत्यो देवानां दुःखदायकः ॥
यस्याग्रे मानुषाः सर्वे भवंति भयविह्वलाः

10.25.30

इति श्रुत्वा च यदवो जघ्नुर्बाणैश्च बल्वलम् ॥
स हतस्तैश्च सहसा सहयोऽन्तर्दधे नृप

10.25.25

इति श्रीगर्गसंहितायां हयमेधखण्डे
बल्वलेन तुरगहरणं नाम पंचविशोऽध्यायः

हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
वर्गःगर्ग संहिता

मूल पाठ: gargasaṃhitā · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc