भाषा

ENहिગુ
ग्रंथ पाठ

गर्गसंहिता · अध्याय 1.7

1.7.1

कंस-जन्मादिवर्णनं तथा दिग्विजय वर्णनम्
अथ कंसः प्रलंबाद्यैरन्यैः पूर्वं जितैश्च तैः ।
शंबरस्य पुरं प्रागात्स्वाभिप्रायं न्यवेदयत्

1.7.2

शंबरो ह्यतिवीर्योऽपि न युयोध स तेन वै ।
चकार सौहृदं कंसे सर्वैरतिबलैः सह

1.7.3

त्रिशृङ्गशिखरे शेते व्योमो नामाऽसुरो बली ।
कंसपादप्रबुद्धोऽभूत्क्रोधसंरक्तलोचनः

1.7.4

कंसं जघान चोत्थाय प्रबलैर्दृढमुष्टिभिः ।
तयोर्युद्धमभूद्‌घोरमितरेतरमुष्टिभिः

1.7.5

कंसस्य मुष्टिभिः सोऽपि निःसत्त्वोऽभूद्‌भ्रमातुरः ।
भृत्यं कृत्वाथ तं कसः प्राप्तं मां प्रणनाम ह

1.7.6

हे देव युद्धकांक्षोऽस्मि क्व यामि त्वं वदाशु मे ।
प्रोवाच तं तदा गच्छ दैत्य बाणं महाबलम्

1.7.7

प्रेरितश्चेति कंसाख्यो मया युद्धदिदृक्षुणा ।
भुजवीर्यमदोन्नद्धः शोणिताख्यं पुरं ययौ

1.7.8

बाणासुरस्तत्प्रतिज्ञां श्रुत्वा क्रुद्धो ह्यभून्महान् ।
तताड लत्तां भूमध्ये जगर्ज घनवद्‌बली

1.7.9

आजानुभूमिगां लत्तां पातालांतमुपागताम् ।
कृत्वा तमाह बाणस्तु पूर्वं चैनां समुद्धर

1.7.10

श्रृत्वा वचः कराभ्यां तामुज्जहार मदोत्कटः ।
प्रचंडविक्रमः कंसः खरदण्डं गजौ यथा

1.7.11

तया चोद्‌धृतयोत्खाता लोकाः सप्ततला दृढाः ।
निपेतुर्गिरयोऽनेका विचेलुर्दृढदिग्गजाः

1.7.12

योद्धुं तमुद्यतं बाणं दृष्ट्वाऽऽगत्य वृषध्वजः ।
सर्वान्संबोधयामास प्रोवाच बलिनन्दनम्

1.7.13

कृष्णं विनापरं चैनं भूमौ कोऽपि न जेष्यति ।
भार्गवेण वरं दत्तं धनुरस्मै च वैष्णवम्

1.7.14

श्रीनारद उवाच -
इत्युक्त्वा सौहृदं हृद्यं सद्यो वै कंसबाणयोः ।
चकार परया शान्त्या शिवः साक्षान्महेश्वरः

1.7.15

अथ कंसो दिक्‌प्रतीच्यां श्रुत्वा वत्सं महासुरम् ।
तेन सार्द्धं स युयुधे वत्सरूपेण दैत्यराट्

1.7.16

पुच्छे गृहीत्वा तं वत्सं पोथयामास भूतले ।
वशे कृत्वाथ तं शैलं म्लेच्छदेशांस्ततो ययौ

1.7.17

मन्मुखात्कालयवनः श्रुत्वा दैत्यं महाबलम् ।
निर्ययौ संमुखे योद्धुं रक्तश्मश्रुर्गदाधरः

1.7.18

कंसो गदां गृहीत्वा स्वां लक्षभारविनिर्मिताम् ।
प्राक्षिपद्यवनेन्द्राय सिंहनादमथाकरोत्

1.7.19

गदायुद्धमभूद्‌घोरं तदा हि कंसकालयोः ।
विस्फुलिंगान् क्षरंत्यौ द्वे गदे चूर्णीबभूवतुः

1.7.20

कंसः कालं संगृहीत्वा पातयामास भूतले ।
पुनर्गृहीत्वा निष्पात्य मृततुल्यं चकार ह

1.7.21

बाणवर्षं प्रकुर्वन्तीं सेनां तां यवनस्य च ।
गदया पोथयामास कंसो दैत्याधिपो बली

1.7.22

गजांस्तुरगान्सुरथान्वीरान् भूमौ निपात्य च ।
जगर्ज घनवद्‌वीरो गदायुद्धे मृधाङ्गणे

1.7.23

ततश्च दुद्रुवुर्म्लेच्छास्त्यक्त्वा स्वं स्वं रणं परम् ।
भीतान् पलायितान् म्लेच्छान्न जघानाथ नीतिमान्

1.7.24

उच्चपादो दीर्घजानुः स्तंभोरुर्लघिमा कटिः ।
कपाटवक्षाः पीनांसः पुष्टः प्रांशुर्बृहद्‌भुजः

1.7.25

पद्मनेत्रो बृहत्केशोऽरुणवर्णोऽसिताम्बरः ।
किरीटी कुंडली हारी पद्ममाली लयार्करुक्

1.7.26

खड्गी निषंगी कवची मुद्‌गराढ्यो धनुर्धरः ।
मदोत्कटो ययौ जेतुं देवान्कंसोऽमरावतीम्

1.7.27

चाणूरमुष्टिकारिष्टशलतोशलकेशिभिः ।
प्रलंबेन बकेनापि द्विविदेन समावृतः

1.7.28

तृणावर्त्ताघकूटैश्च भौमबाणाख्यशंबरैः ।
व्योमधेनुकवत्सैश्च रुरुधे सोऽमरावतीम्

1.7.29

कंसादीनागतान्दृष्ट्वा शक्रो देवाधिपः स्वराट् ।
सर्वैर्देवणैः सार्द्धं योद्धुं कृद्धो विनिर्ययौ

1.7.30

तयोर्युद्धमभूद्‌घोरं तुमुलं रोमहर्षणम् ।
दिव्यैश्च शस्त्रसंघातैर्बाणैस्तीक्ष्णैः स्फुरत्प्रभैः

1.7.31

शस्त्रान्धकारे संजाते रथारूढो महेश्वरः ।
चिक्षेप वज्रं कंसाय शतधारं तडिद्‌द्युति

1.7.32

मुद्‌गरेणापि तद्‌वज्रं तताडाशु महासुरः ।
पपात कुलिशं युद्धे छिन्नधारं बभूव ह

1.7.33

त्यक्त्वा वज्रं तदा वज्री खड्‌गं जग्राह रोषतः ।
कंसं मूर्ध्नि तताडाशु नादं कृत्वाऽथ भैरवम्

1.7.34

स क्षतो नाभवत्कंसो मालाहत इव द्विपः ।
गृहीत्वा स गदां गुर्वीमष्टधातुमयीं दृढाम्

1.7.35

लक्षभारसमां कंसश्चिक्षेपेन्द्राय दैत्यराट् ।
तां समापततीं वीक्ष्य जग्राहाशु पुरंदरः

1.7.36

ततश्चिक्षेप दैत्याय वीरो नमुचिसूदनः ।
चचार युद्धे विदलन्नरीन्मातलिसारथिः

1.7.37

कंसो गृहीत्वा परिघं तताडांसेऽसुरद्विषः ।
तत्प्रहारेण देवेन्द्रः क्षणं मूर्च्छामवाप सः

1.7.38

कंसं मरुद्‌गणाः सर्वे गृध्रपक्षैः स्फुरत्प्रभैः ।
बाणौघैश्छादयामासुर्वर्षासूर्यमिवांबुदः

1.7.39

दोःसहस्रयुतो वीरश्चापं टंकारयन्मुहुः ।
तदा तान्कालयामास बाणैर्बाणासुरो बली

1.7.40

बाणं च वसवो रुद्रा आदित्या ऋभवः सुराः ।
जघ्नुर्नानाविधैः शस्त्रैः सर्वतोऽद्रिं समागताः

1.7.41

ततो भौमासुरः प्राप्तः प्रलंबाद्यसुरैर्नदन् ।
तेन नादेन देवास्ते निपेतुर्मूर्छिता रणे

1.7.42

उत्थायाशु तदा शक्रो जगामारुह्य तत्त्वदृक् ।
नोदयामास कंसाय मत्तमैरावतं गजम्

1.7.43

अंकुशास्फालनात् क्रुद्धं पातयन्तं पदैर्द्विषः ।
शुण्डादण्डस्य फूत्कारैर्मर्दयन्तमितस्ततः

1.7.44

स्रवन्मदं चतुर्दन्तं हिमाद्रिमिव दुर्गमम् ।
नदन्तं शृङ्खलां शुण्डां चालयन्तं मुहुर्मुहुः

1.7.45

घटाढ्यं किंकिणीजालरत्‍नकंबलमण्डितम् ।
गोमूत्रचयसिन्दूरकस्तूरीपत्रभृन्मुखम्

1.7.46

दृढेन मुष्टिना कंसस्तं तताड महागजम् ।
द्वितीयमुष्टिना शक्रं स जघान रणाङ्गणे

1.7.47

तस्य मुष्टिप्रहारेण दूरे शक्रः पपात ह ।
जानुभ्यां धरणीं स्पृष्ट्वा गजोऽपि विह्वलोऽभवत्

1.7.48

पुनरुत्थाय नागेन्द्रो दन्तैश्चाहत्य दैत्यपम् ।
शुण्डादण्डेन चोद्‌धृत्य चिक्षेप लक्षयोजनम्

1.7.49

पतितोऽपि स वज्रांगः किंचिद्‌व्याकुलमानसः ।
स्फुरदोष्ठोऽतिरुष्टाङ्गो युद्धभूमिं समाययौ

1.7.50

कंसो गृहीत्वा नागेन्द्रं संनिपात्य रणांगणे ।
निष्पीड्य शूण्डां तस्यापि दन्तांश्चूर्णीचकार ह

1.7.51

अथ चैरावतो नागो दुद्रावाशु रणाङ्गणात् ।
निपातयन्महावीरान् देवधानीं पुरीं गतः

1.7.52

गृहीत्वा वैष्णवं चापं सज्जं कृत्वाथ दैत्यराट् ।
देवान्विद्रायामास बाणौघैश्च धनुःस्वनैः

1.7.53

ततः सुरास्तेन निहन्यमाना
विदुद्रुवुर्लीनधियो दिशान्ते ।
केचिद्‌रणे मुक्तशिखा बभूवु-
र्भीताः स्म इत्थं युधि वादिनस्ते

1.7.54

केचित्तथा प्रांजलयोऽतिदीनव-
त्संन्यस्तशस्त्रा युधि मुक्तकच्छाः ।
स्थातुं रणे कंसनृदेवसंमुखे
गतेप्सिताः केचिदतीव विह्वलाः

1.7.55

इत्थं स देवान्प्रगतान्निरीक्ष्य तान्
नीत्वा च सिंहासनमातपत्रवत् ।
सर्वैस्तदा दैत्यगणैर्जनाधिपः
स्वराजधानीं मथुरां समाययौ

1.7.7

इति श्रीगर्गसंहितायां गोलोकखण्डे नारदबहुलाश्वसंवादे
कंसदिग्विजयवर्णनं नाम सप्तमोऽध्यायः

मूल पाठ: gargasaṃhitā · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc