भाषा

ENहिગુ
ग्रंथ पाठ

गर्गसंहिता · अध्याय 1.2

1.2.1

श्रीगोलोकधामानिवर्णनम्
जिह्वां लब्ध्वापि यः कृष्णं कीर्तनीयं न कीर्तयेत् ।
लब्ध्वापि मोक्षनिःश्रेणिं स नारोहति दुर्मतिः

1.2.2

अथ ते संप्रवक्ष्यामि श्रीकृष्णागमनं भुवि ।
अस्मिन्वाराह कल्पे वै यद्‌भूतं तच्छृणु प्रभो

1.2.3

पुरा दानवदैत्यानां नराणां खलु भूभुजाम् ।
भूरिभारसमाक्रांता पृथ्वी गोरूपधारिणी

1.2.4

अनाथवद्‌रुदन्तीव वेदयन्ती निजव्यथाम् ।
कम्पयन्ती निजं गात्रं ब्रह्माणं शरणं गता

1.2.5

ब्रह्माथाश्वास्य तां सद्यः सर्वदेवगणैर्वृतः ।
शङ्करेण समं प्रागाद्‌वैकुण्ठं मंदिरं हरेः

1.2.6

नत्वा चतुर्भुजं विष्णुं स्वाभिप्रायं जगाद ह ।
अथोद्विग्नं देवगणं श्रीनाथः प्राह तं विधिम्

1.2.7

श्रीभगवानुवाच -
कृष्णं स्वयं विगणिताण्डपतिं परेशं
साक्षादखण्डमतिदेवमतीवलीलम् ।
कार्यं कदापि न भविष्यति यं विना हि
गच्छाशु तस्य विशदं पदमव्ययं त्वम्

1.2.8

श्रीब्रह्मोवाच -
त्वत्तः परं न जानामि परिपूर्णतमं स्वयम् ।
यदि योन्यस्तस्य साक्षाल्लोकं दर्शय नः प्रभो

1.2.9

श्रीनारद उवाच -
इत्युक्तोऽपि हरिः पूर्णः सर्वैर्देवगणैः सह ।
पदवीं दर्शयामास ब्रह्माण्डशिखरोपरि

1.2.10

वामपादाङ्‍गुष्ठनखभिन्नब्रह्माण्डमस्तके ।
श्रीवामनस्य विवरे ब्रह्म द्रवसमाकुले

1.2.11

जलयानेन मार्गेण बहिस्ते निर्ययुः सुराः ।
कलिङ्‍गबिम्बवच्चेदं ब्रह्माण्डं ददृशुस्त्वधः

1.2.12

इन्द्रायनफलानीव लुठन्त्यन्यानि वै जले ।
विलोक्य विस्मिताः सर्वे बभुवुश्चकिता इव

1.2.13

कोटिशो योजनोर्ध्वं वै पुराणामष्टकं गताः ।
दिव्यप्राकाररत्‍नादि द्रुमवृन्दमनोहरम्

1.2.14

तदूर्ध्वं ददृशुर्देवा विरजायास्तटं शुभम् ।
तरं‍गितं क्षौम शुभ्रं सोपानैर्भास्करं परम्

1.2.15

तं दृष्ट्वा प्रचलन्तस्ते तत्पुरं जग्मुरुत्तमम् ।
असं‍ख्यकोटिमार्तण्ड ज्योतिषां मण्डलं महत्

1.2.16

दृष्ट्वा प्रताडिताक्षास्ते तेजसा धर्षिताः स्थिताः ।
नमस्कृत्वाऽथ तत्तेजो दध्यौ विष्ण्वाज्ञया विधिः

1.2.17

तज्ज्योतिर्मण्डलेऽपश्यत्साकारं धाम शान्तिमत् ।
तस्मिन्महाद्‌भुतं दीर्घं मृणालधवलं परम् ।
सहस्रवदनं शेषं दृष्ट्वा नेमुः सुरास्ततः

1.2.18

तस्योत्सं‍गे महालोको गोलोको लोकवन्दितः ।
यत्र कालः कलयतामीश्वरो धाममानिनाम्

1.2.19

राजन्न प्रभवेन्माया मनश्चित्तं मतिर्ह्यहम् ।
न विकारो विशत्येव न महांश्च गुणाः कुतः

1.2.20

तत्र कन्दर्पलावण्याः श्यामसुन्दरविग्रहाः ।
द्वारि गंतुं चाभ्युदिता न्यषेधन्कृष्णपार्षदाः

1.2.21

श्रीदेवा ऊचुः -
लोकपाला वयं सर्वे ब्रह्मविष्णुमहेश्वराः ।
श्रीकृष्णदर्शनार्थाय शक्राद्या आगता इह

1.2.22

श्रीनारद उवाच -
तच्छ्रुत्वा तदभिप्रायं श्रीकृष्णाय सखीजनाः ।
ऊचुर्देवप्रतीहारा गत्वा चान्तःपुरं परम्

1.2.23

तदा विनिर्गता काचिच्छतचन्द्रानना सखी ।
पीतांबरा वेत्रहस्ता सापृच्छद्वाञ्छितं सुरान्

1.2.24

श्रीशतचन्द्राननोवाच -
कस्याण्डस्याधिपा देवा यूयं सर्वे समागताः ।
वदताशु गमिष्यामि तस्मै भगवते ह्यहम्

1.2.25

श्रीदेवा ऊचुः -
अहो अण्डान्युतान्यानि नास्माभिर्दर्शितानि च ।
एकमण्डं प्रजानीमोऽथोऽपरं नास्ति नः शुभे

1.2.26

श्रीशतचन्द्राननोवाच -
ब्रह्मदेव लुठन्तीह कोटिशो ह्यण्डराशयः ।
तेषां यूयं यथा देवास्तथाण्डेऽण्डे पृथक् पृथक्

1.2.27

नामग्रामं न जानीथ कदा नात्र समागताः ।
जडबुद्ध्या प्रहृष्यध्वे गृहान्नापि विनिर्गताः

1.2.28

ब्रह्माण्डमेकं जानन्ति यत्र जातास्तथा जनाः ।
मशका च यथान्तःस्था औदुंबरफलेषु वै

1.2.29

श्रीनारद उवाच -
उपहास्यं गता देवा इत्थं तूष्णीं स्थिताः पुनः ।
चकितानिव तान् दृष्ट्वा विष्णुर्वचनमब्रवीत्

1.2.30

श्रीविष्णुरुवाच -
यस्मिन्नण्डे पृश्निगर्भोऽवतारोऽभूत्सनातन ।
त्रिविक्रमनखोद्‌भिन्ने तस्मिन्नण्डे स्थिता वयम्

1.2.31

श्रीनारद उवाच -
तच्छ्रुत्वा तं च संश्लाघ्य शीघ्रमन्तःपुरं गता
पुनरागत्य देवेभ्योऽप्याज्ञां दत्त्वा गताः पुरम्

1.2.32

अथ देवगणाः सर्वे गोलोकं ददृशुः परम् ।
तत्र गोवर्धनो नाम गिरिराजो विराजते

1.2.33

वसन्तमानिनीभिश्च गोपीभिर्गोगणैर्वृतः ।
कल्पवृक्षलतासङ्‍घै रासमण्डलमण्डितः

1.2.34

यत्र कृष्णानदी श्यामा तोलिकाकोटिमण्डिता ।
वैदूर्यकृत सोपाना स्वच्छन्दगतिरुत्तमा

1.2.35

वृन्दावनं भ्राजमानं दिव्यद्रुमलताकुलम् ।
चित्रपक्षिमधुव्रतैर्वंशीवटविराजितम्

1.2.36

पुलिने शीतले वायुर्मन्दगामी वहत्यलम् ।
सहस्रदलपद्मानां रजो विक्षेपयन्मुहुः

1.2.37

मध्ये निजनिकुञ्जोऽस्ति द्वात्रिंशद्‌वनसंयुतः ।
प्राकारपरिखायुक्तोऽरुणाक्षयवटाजिरः

1.2.38

सप्तधा पद्मरागाग्राजिरकुड्यविभूषितः ।
कोटीन्दुमण्डलाकारैर्वितानैर्गुलिकाद्युतिः

1.2.39

पतत्पताकैर्दिव्याभैः पुष्पमन्दिरवर्त्मभिः ।
जातभ्रमरसङ्‍गीतो मत्तबर्हिपिकस्वनः

1.2.40

बालार्ककुण्डलधराः शतचन्द्रप्रभाः स्त्रियः ।
स्वच्छन्दगतयो रत्‍नैः पश्यन्त्यः सुन्दरं मुखम्

1.2.41

रत्‍नाजिरेषु धावंत्यो हारकेयूरभूषिताः ।
क्वणन्नूपुरकिङ्‌किण्यश्चूडामणिविराजिताः

1.2.42

कोटिशः कोटिशो गावो द्वारि द्वारि मनोहराः ।
श्वेतपर्वतसङ्‍काशा दिव्यभूषणभूषिताः

1.2.43

पयस्विन्यस्तरुण्यश्च शीलरूपगुणैर्युताः ।
सवत्साः पीतपुच्छाश्च व्रजंत्यो भव्यमूर्तिकाः

1.2.44

घण्टामंजीरसंरावाः किं‍किणीजालमण्डिताः ।
हेमशृङ्‍ग्यो हेमतुल्यहारमालास्फुरत्प्रभाः

1.2.45

पाटला हरितास्ताम्राः पीताः श्यामा विचित्रिताः ।
धूम्राः कोकिलवर्णाश्च यत्र गावस्त्वनेकधा

1.2.46

समुद्रवद्‌दुग्धदाश्च तरुणीकरचिह्निताः ।
कुरंगवद्‌विलङ्‍घद्‌भिर्गोवत्सैर्मण्डिताः शुभाः

1.2.47

इतस्ततश्चलन्तश्च गोगणेषु महावृषाः ।
दीर्घकन्धरशृङ्‌गाढ्या यत्र धर्मधुरंधराः

1.2.48

गोपाला वेत्रहस्ताश्च श्यामा वंशीधराः पराः ।
कृष्णलीलां प्रगायन्तो रागैर्मदनमोहनैः

1.2.49

इत्थं निजनिकुञ्जं तं नत्वा मध्ये गताः सुराः ।
ज्योतिषां मण्डलं पद्मं सहस्रदलशोभितम्

1.2.50

तदूर्ध्वं षोडशदलं ततोऽष्टदलपङ्‍कजम् ।
तस्योपरि स्फुरद्दीर्घं सोपानत्रयमण्डितम्

1.2.51

सिंहासनं परं दिव्यं कौस्तुभैः खचितं शुभैः ।
ददृशुर्देवताः सर्वाः श्रीकृष्णं राधया युतम्

1.2.52

दिव्यैरष्टसखीसङ्‍घैर्मोहिन्यादिभिरन्वितम् ।
श्रीदामाद्यैः सेव्यमानमष्टगोपालसेवितैः

1.2.53

हंसाभैर्व्यजनान्दोलचामरैर्वज्रमुष्टिभिः ।
कोटिचन्द्रप्रतीकाशैः सेवितं छत्रकोटिभिः

1.2.54

श्री राधिकालङ्‍कृतवामबाहुं
स्वच्छन्दवक्री- कृतदक्षिणाङ्‌घ्रिम् ।
वंशीधरं सुन्दरमन्दहासं
भ्रूमण्डलामोहितकामराशिम्

1.2.55

घनप्रभं पद्मदलायुतेक्षणं
प्रलम्बबाहुं बहुपीतवाससम् ।
वृन्दावनोन्मत्तमिलिन्दशब्दै-
र्विराजितं श्रीवनमालया हरिम्

1.2.56

काञ्जीकलाकङ्‍कणनूपुरद्युतिं
लसन्मनोहारि महोज्ज्वलस्मितम् ।
श्रीवत्सरत्‍नोत्तम कुन्तलश्रियं
किरीटहाराङ्‍गदकुण्डलत्विषम्

1.2.57

दृष्ट्वा तमानन्दसमुद्रमग्नव-
त्प्रहर्षिताश्चाश्रु- कलाकुलेक्षणाः ।
ततः सुराः प्राञ्जलयो नतानना
नेमुर्मुरारिं पुरुषं परायणम्

1.2.2

इति श्रीगर्गसंहितायां गोलोकखण्डे नारदबहुलाश्वसंवादे
श्रीगोलोकधामवर्णनं नाम द्वितीयोऽध्यायः

मूल पाठ: gargasaṃhitā · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc