भाषा

ENहिગુ
ग्रंथ पाठ

गर्भसंग्रहः · श्लोक 1-14

1

गर्भसङ्ग्रहः । (ग्स्)
नमो महाकारुणिकाय ।
त्रैलोक्यदुःखसिन्धूनां कर्मभ्यः क्षुब्धवीचयः ।
कुशलाकुशलादिभ्यः सास्रवेभ्यो विनिःसृताः

2

रागद्वेषादितस्तानि जातानि क्लेशहेतुतः ।
तेषामुद्भवहेतुश्चापीष्टानिष्टादिकस्तथा

3

द्वैधग्रहणतो जातः पदार्थग्राहकग्रहाः ।
नित्यविभ्वैकताद्याश्च समस्तोत्पादहेतवः

4

भाग्यवान् पुरुषस्तस्मात् मुक्तिकांक्षी परात्मनोः ।
प्रतीत्यादिसुयुक्तीनाम् अभ्यासैर्विनिवारयेत्

5

भावानां ग्रहणं तावत् धर्मान् बाह्यान्तराखिलान् ।
सर्वलक्षणहीनेन चाकाशेन समं भजेत्

6

वस्तुग्रहाभिभूतं तु लक्ष्यीकृत्याखिलं जगत् ।
दुःखसागरसंशोषिमहाकारुण्यपूर्वकम्

7

स्वपरार्थभवं रत्नं बोधिचित्तं प्रभावयेत् ।
बोधिचर्यामहावीचिषट्पारमितादिकम्

8

ध्यानव्युत्थानयोगेन पञ्चमार्गैः क्रमाद् व्रजेत् ।
द्विविधावरणं छित्त्वा द्वौ संभारौ प्रपूर्य च

9

त्रिकायफलमाप्तव्यं त्रिकायाप्तेश्च लक्षणम् ।
नभोवच्छून्यतायाश्चानाभोगकरुणाम्बुदात्

10

द्विकायामृतधाराभिरात्रिधातु सदार्द्रयन् ।
बोधिमण्डसुबीजेभ्यः पुण्यशस्यानि पाचयेत्

11

हृदयं सर्वबुद्धानां गर्भसङ्ग्रह इत्ययम् ।
कालान्त्यादल्पमायुष्यं बहुरोगाश्चाल्पभोगिता

12

दुर्हेतुबहुविघ्नैश्च चिरं स्थातुमशक्तितः ।
पदानुच्छेदशक्यत्वात् सन्मित्रं हि समाश्रयेत्

13

अत्यन्तवीर्यचित्तेन प्रपातं स्मरता भृशम् ।
सङ्गृहीतो ऽञ्जसा गर्भो मोक्तुं स्वं च परं तथा

14

स्नेहैनैतत्कृतात्पुण्यात् सत्त्वाः सर्वे ऽपि दुर्भगाः ।
बोधिचित्तमया भूत्वा गर्भं गृह्णन्तु चाञ्जसा

मूल पाठ: Garbhasaṃgrahaḥ · Edition: Rameshchandra Negi: Atishaviracita ekadasha granthah. Varanasi : Central Institute of High Tibetan Studies (CIHTS) 1992, pp. 79-80 · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc