गण्डव्यूहसूत्र · अध्याय 18
42 सुतेजोमण्डलरतिश्रीः ।
अथ खलु सुधनः श्रेष्ठिदारकः सर्वजगद्रक्षाप्रणिधानवीर्यप्रभाया रात्रिदेवतायास्तामनुशासनीमनुस्मरन् तं सर्वसत्त्वपरिपाकयथाशयसंचोदनकुशलमूलसंभवबोधिसत्त्वविमोक्षं परिभावयन् विपुलीकुर्वन् अनुपूर्वेण येन लुम्बिनीवनं तेनोपजगाम । उपेत्य लुम्बिनीवनं प्रदक्षिणीकृत्य सुतेजोमण्डलरतिश्रियं लुम्बिनीवनदेवतां परिगवेषमाणो ऽपश्यत्सुतेजोमण्डलरतिश्रियं लुम्बिनीदेवतां लुम्बिनीवनेषु सर्वरत्नद्रुमशाखामण्डलकूटागारे मणिपद्मगर्भसिंहासने निषण्णां विंशत्या वनदेवतानियुतशतसहस्रैः परिवृतां पुरस्कृतां धर्मं देशयमानां सर्वबोधिसत्त्वजन्मसमुद्रनिर्देशं नाम सूत्रान्तं संप्रकाशयमानां तथागतगोत्राभिजातानां बोधिसत्त्वानां गुणसमुद्रवेगविवर्धनाम् । दृष्ट्वा च येन सुतेजोमण्डलरतिश्रीर्लुम्बिनीवनदेवता तेनोपजगाम । उपेत्य सुतेजोमण्डलरतिश्रीलुम्बिनीवनदेवतायाः पादौ शिरसाभिवन्द्य पुरतः प्राञ्जलिः स्थित्वा एवमाह - मया देवते अनुत्तरायां सम्यक्संबोधौ चित्तमुत्पादितम् । न च जानामि कथं बोधिसत्त्वा जाता भवन्ति तथागतकुले, कथं बोधिसत्त्वचारिकां चरन्तः सत्त्वानामालोककरा भवन्तीति ॥
एवमुक्ते सुतेजोमण्डलरतिश्रीर्लुम्बिनीवनदेवता सुधनं श्रेष्ठिदारकमेतदवोचत् - दशेमानि कुलपुत्र बोधिसत्त्वजन्मानि यैः समन्वागता बोधिसत्त्वा जाता भवन्ति तथागतकुलेषु । निर्याता बोधिसत्त्वाः प्रदक्षिणं बोधिसत्त्वकुशलैर्विवर्धन्ते, न वितिष्ठन्ते न विषीदन्ति न विवर्तन्ते न प्रतिप्रस्रभ्यन्ते न परिखिद्यन्ते न संसीदन्ति न मुह्यन्ति नावलीयन्ते न परित्रस्यन्ति न प्रणश्यन्ति । अनुगच्छन्ति सर्वज्ञतादिगनुगमम् । अनुस्मरन्ति धर्मधातुनयम् । परिपाकप्राप्ता भवन्ति बुद्धबोधौ । विपुलीकुर्वन्ति बोधिचित्तोत्पादम् । विवर्धन्ते सर्वपारमिताभिः । विवर्तन्ते सर्वलोकगतिभ्यः । संवर्तन्ते तथागतभूमौ । उत्तापयन्ति ज्ञानाभिज्ञताः । आमुखीभवन्ति बुद्धधर्मेषु । अनुगतार्था भवन्ति सर्वज्ञताविषये । कतमानि दश? यदुत - सर्वबुद्धोपस्थानप्रणिधिप्रयोगगर्भं नाम प्रथमं बोधिसत्त्वजन्म । बोधिचित्ताङ्गपरिनिष्पत्तिसंभवगर्भं नाम द्वितीयं बोधिसत्त्वजन्म । धर्मनयनिध्यप्तिप्रयोगाभिमुखसंभवगर्भं नाम तृतीयं बोधिसत्त्वजन्म । त्र्यध्वलोकाध्याशयविशुद्धिगर्भं नाम चतुर्थं बोधिसत्त्वजन्म । समन्तावभासप्रभागर्भं नाम पञ्चमं बोधिसत्त्वजन्म । सर्वतथागतकुलगोत्रसंभवगर्भं नाम षष्ठं बोधिसत्त्वजन्म । बुद्धबलावभासालोकालंकारगर्भं नाम सप्तमं बोधिसत्त्वजन्म । समन्तज्ञानमुखव्यवचारणपरिनिष्पत्तिसंभवगर्भं नामाष्टमं बोधिसत्त्वजन्म । धर्मधातुनिर्माणव्यूहगर्भं नाम नवमं बोधिसत्त्वजन्म । तथागतभूम्याक्रमणवेगगर्भं नाम दशमं बोधिसत्त्वजन्म ॥
तत्र कुलपुत्र कतमत्सर्वबुद्धोपस्थानप्रणिधिप्रयोगगर्भं नाम प्रथमं बोधिसत्त्वजन्म? इह कुलपुत्र बोधिसत्त्वः आदित एव बुद्धोपस्थानाय प्रपूज्यते सर्वबुद्धान् भगवतः सत्कुर्वन् गुरुकुर्वन् मानयन् पूजयन् उपतिष्ठन् आरागयन् अविरागयन् तथागतदर्शनावितृप्तो बुद्धसत्कारप्रयुक्तबुद्धप्रीतिवेगविवर्धितचेतास्तथागतदर्शनप्रसादवेगसंजातः । अनिवर्तया श्रद्धया ( ग्व् 286 ) पुण्यं समार्जयन् अतृप्तः सर्वतथागतपूजासंभारसमुदानयनप्रयुक्तो ऽप्रतिप्रस्रब्धप्रयोगो भवति । इदं कुलपुत्र बोधिसत्त्वानां सर्वबुद्धपूजोपस्थानप्रणिधिप्रयोगगर्भं नाम प्रथमं बोधिसत्त्वजन्म सर्वज्ञतासंभारकुशलमूलसंभवसमार्जनतायै संवर्तते ॥
तत्र कुलपुत्र कतमद्बोधिचित्ताङ्गपरिनिष्पत्तिसंभवगर्भं नाम द्वितीयं बोधिसत्त्वजन्म? इह कुलपुत्र बोधिसत्त्वो ऽनुत्तरायां सम्यक्संबोधौ चित्तमुत्पादयति । यदुत महाकरुणाचित्तं सर्वसत्त्वपरित्राणाय । सर्वबुद्धारागणचित्तमत्यन्ताभिराधनतायै । सर्वबुद्धधर्मपर्येष्टिचित्तं सर्ववस्त्वनपेक्षतायै । महाप्रस्थानचित्तं सर्वज्ञताभिमुखतायै । महामैत्रीचित्तं सर्वजगत्संग्रहप्रयोगस्फरणतायै । सर्वजगदपरित्यागचित्तं सर्वज्ञतासंनाहदृढतायै । अशाठ्यामायाचित्तं यथाभूतज्ञानावभासप्रतिलाभतायै । यथावादीतथाकारिचित्तं बोधिसत्त्वमार्गप्रतिपद्यनतायै । सर्वबुद्धाविसंवादनचित्तं सर्वतथागतप्रणिध्यनुपालनतायै । सर्वज्ञतामहाप्रणिधानचित्तमपरान्तकोटीगतसर्वसत्त्वपरिपाकविनयाप्रतिप्रस्रब्धये । एतत्प्रमुखैर्बुद्धक्षेत्रपरमाणुरजःसमैर्बोधिचित्ताङ्गसंभारैरभिनिष्पन्नः स बोधिसत्त्वो जातो भवति तथागतकुले । इदं कुलपुत्र बोधिचित्ताङ्गपरिनिष्पत्तिसंभवगर्भं नाम द्वितीयं बोधिसत्त्वजन्म ॥
तत्र कुलपुत्र कतमद्बोधिसत्त्वानां धर्मनयनिध्यप्तिप्रयोगनेत्र्यभिमुखसंभवगर्भं नाम तृतीयं बोधिसत्त्वजन्म? इह कुलपुत्र बोधिसत्त्वः सर्वधर्मनयसंभवन्तिघ्यप्तिमुखचेताः सर्वज्ञतामार्गाकारप्रतिपूर्यभिमुखपरिणतचेताः अनवद्यकर्मसमुदाचारसंकल्पचेताः सर्वबोधिसत्त्वसमाधिनयसागरपरिशुद्ध्यभिमुखचेताः सर्वबोधिसत्त्वगुणप्रतिपत्तिपरिनिष्पन्नचेताः सर्वबोधिसत्त्वमार्गाङ्गव्यूहाभिनिर्हारचेता विपुलसर्वज्ञतारम्बणसंभवकल्पोद्दाहज्वलनकल्पाप्रतिप्रस्रब्धवीर्यचेताः सर्वजगत्परिपाकविनयप्रस्थानानन्तमध्यबोधिसत्त्वचर्याभिनिर्हारचेताः सर्वाचारशिक्षासुप्रतिपन्नबोधिसत्त्वगुणपरिनिष्पत्तिषु सर्वभावविभावनयानुभावनयप्रविष्टचेता भवति । इदं कुलपुत्र धर्मनयनिध्यप्तियोगनेत्र्यभिमुखसंभवगर्भं नाम तृतीयं बोधिसत्त्वजन्म ॥
तत्र कुलपुत्र कतमद्बोधिसत्त्वानां त्र्यध्वलोकाध्याशयविशुद्धिगर्भं नाम चतुर्थं बोधिसत्त्वजन्म? इह कुलपुत्र बोधिसत्त्वः परिशुद्धो भवत्यध्याशयधातौ । अवभासप्राप्तो भवति बुद्धबोधौ । अवतीर्णो भवति बोधिसत्त्वनयसमुद्रेषु । सारो भवति दृढाध्याशयवज्रधातुसंगृहीतचेताः । विमुखीभवति सर्वभवगत्युपपत्तिषु । अभिमुखीभवति सर्वतथागतविकुर्वितपरिनिष्पत्तिषु । विशेषगामिनीप्राप्तो भवति बोधिसत्त्वतीक्ष्णेन्द्रियताविवर्धनतायै । कल्याणचित्तो भवत्यध्याशयप्रभास्वरतायै । अचलो भवति दृढमहाप्रणिधानविवर्धनतायै । सर्वतथागतसमन्वाहृतो भवति सर्वावरणपर्वतविकिरणतायै । प्रतिशरणभूतो भवति सर्वजगदुपजीव्यः । इदं कुलपुत्र बोधिसत्त्वानां त्र्यध्वलोकाध्याशयविशुद्धिगर्भं नाम चतुर्थं बोधिसत्त्वजन्म ॥
तत्र कुलपुत्र कतमद्बोधिसत्त्वानां समन्तावभासप्रभागर्भं नाम पञ्चमं बोधिसत्त्वजन्म? इह कुलपुत्र बोधिसत्त्वः प्रयोगसंपन्नो भवति सर्वजगत्परिपाकविनयप्रतिपन्नः । सर्ववस्तुसंज्ञो च्चलितो भवति प्रमुक्तत्यागः । अत्यन्तविशुद्धो भवति अनन्तशीलः तथागतविषयसंवसनः । क्षान्तिसंपन्नो भवति सर्वबुद्धधर्मक्षान्त्यवभासप्रतिलब्धः । महावीर्यो भवति सर्वत उदारनिःशरणप्रतिपन्नः । ध्यानप्रमुक्तो भवति समन्तमुखसमाधिज्ञानमण्डलविशुद्धः । प्रज्ञावीर्यप्रभो भवति सर्वधर्मावभासप्रतिलब्धः । असङ्गचक्षुर्भवति बुद्धदर्शनसमुद्रविज्ञप्त्यवतीर्णः । सर्वधर्मतत्त्वविभुत्वप्रभावितो भवति सर्वलोकं परितोषयित्वा । सुप्रयुक्तो भवति यथावद्धर्मनयप्रतिलाभेषु । इदं कुलपुत्र बोधिसत्त्वानां समन्तावभासप्रभागर्भं नाम पञ्चमं बोधिसत्त्वजन्म ॥
तत्र कुलपुत्र कतमद्बोधिसत्त्वानां सर्वतथागतकुलगोत्रसंभवगर्भं नाम षष्ठं बोधिसत्त्वजन्म? इह कुलपुत्र बोधिसत्त्वो जातो भवति तथागतकुले ऽनुजातो भवति, तथागतवंशे निष्पन्नो भवति सर्वबुद्धधर्मनयमुखेषु, विशुद्धो भवत्यतीतानागतप्रत्युत्पन्नतथागतमहाप्रणिधानेषु । एकधनकुशलमूलो भवति सर्वतथागतकुशलमूलेषु । एकशरीरो भवति सर्वबुद्धैः । लोकोत्तरगामी शुक्लधर्मैः । महात्मधर्मविहारी भवति बुद्धाधिष्ठानदर्शनसमाधौ । सत्त्वविशुद्धिधर्मप्रतिपन्नो भवति यथाकाले । अप्रतिप्रस्रब्धप्रतिभानो भवति बुद्धधर्मपरिपृच्छासु । इदं कुलपुत्र बोधिसत्त्वानां सर्वतथागतकुलगोत्रसंभवगर्भं नाम षष्ठं बोधिसत्त्वजन्म ॥
तत्र कुलपुत्र कतमद्बोधिसत्त्वानां तथागतबलावभासालोकालंकारगर्भं नाम सप्तमं बोधिसत्त्वजन्म? इह कुलपुत्र बोधिसत्त्वो बुद्धबलप्रवेशावभासे न निवर्तते बुद्धक्षेत्रगमनेषु । न प्रत्युदावर्तते नानाबोधिसत्त्वगुणसमुद्रोपस्थानाय । न परित्रस्यति सर्वधर्ममायागतयथाभूतज्ञानेन । स्वप्नोपमं सर्वलोकं प्रतिविध्यति । प्रतिभासोपमं सर्वरूपविज्ञप्त्यधिष्ठानमभिनिर्हरति । निर्मितोपमाभिज्ञाविकुर्वितवशिताप्राप्तो भवति । छायोपमं सर्वभवगत्युपपत्तिषु मुखं संदर्शयति । प्रतिश्रुत्कोपमानि सर्वतथागतधर्मचक्राणि प्रजानाति । धर्मधातुनयनिर्देशपरमपारमिताप्राप्तो भवति नानार्थोपायनयनिर्देशप्रयुक्तः । इदं कुलपुत्र बोधिसत्त्वानां तथागतबलावभासालोकालंकारगर्भं नाम सप्तमं बोधिसत्त्वजन्म ॥
तत्र कुलपुत्र कतमद्बोधिसत्त्वानां समन्तज्ञानमुखव्यवचारपरिनिष्पत्तिसंभवगर्भं नामाष्टमं बोधिसत्त्वजन्म? इह कुलपुत्र बोधिसत्त्वः कुमारभूत एव बोधिसत्त्वव्यवस्थानव्यवस्थितो भवति, यत्र प्रतिष्ठाय सर्वज्ञज्ञाननयं व्यवचारयति । एकैकत्र ज्ञाननयमुखे ऽप्रमेयाः कल्पाः क्षयं व्रजेयुरप्रमेयं बोधिसत्त्वगोचरं निर्दिशतः । सर्वबोधिसत्त्वसमाधिषु च वशी भवति परमपारमिताप्राप्तः । प्रतिचित्तक्षणं सर्वचित्तक्षणेषु दशदिगनभिलाप्यबुद्धक्षेत्रगतानां तथागतानां पादमूलेषूपपद्यते । असंभिन्नैश्चारम्बणैरसंभिन्नान् समाधीन् समापद्यते । असंभिन्नेषु च धर्मेषु असंभिन्नज्ञानवशितां संदर्शयति । अपर्यन्तानि चारम्बणानि अनारम्बणे धाताववक्रामति । परीत्तैश्चारम्बणैरनन्तनिर्देशभूमिमवतरति । अप्रमेयां च धर्मतां परीत्तां महद्गतां वा प्रतिविध्यति । विज्ञप्तिसमं च सर्वलोकमवतरति । सर्वधर्मारम्बणानि ( ग्व् 288 ) सर्वविज्ञप्तिपथांश्च भावनया अनुगच्छति । इदं कुलपुत्र बोधिसत्त्वानां समन्तज्ञानमुखव्यवचारणपरिनिष्पत्तिसंभवगर्भं नामाष्टमं बोधिसत्त्वजन्म ॥
तत्र कुलपुत्र कतमद्बोधिसत्त्वानां धर्मधातुनिर्माणव्यूहगर्भं नाम बोधिसत्त्वजन्म? इह कुलपुत्र बोधिसत्त्वः सर्वत्र चित्तक्षणे नानाव्यूहानि बुद्धक्षेत्राणि अधितिष्ठति । सत्त्वनिर्माणे वैशारद्यपरमपारमिताप्राप्तश्च भवति । बुद्धनिर्माणकौशल्यप्राप्तश्च भवति । धर्मनिर्माणवैशारद्यविशुद्धश्च भवति । असङ्गवरधर्मधातुगोचरश्च भवति । यथाशयसर्वकायविज्ञप्त्यधिष्ठानकुशलश्च भवति । अचिन्त्यसत्त्वविनयकौशल्यगतश्च भवति । नानाचर्याभिसंबोधिसंदर्शकश्च भवति । अनावरणसर्वज्ञतामार्गाभिनिर्हारकुशलश्च भवति । तदनन्तरं धर्मचक्रप्रवर्तनकौशल्यं संदर्शयति । अनन्तमध्यसत्त्वविनयोपायाभिनिर्हारकुशलश्च भवति । कालप्राप्ते सत्त्वविनये सदासमाहितश्च भवति वैरोचनज्ञानगर्भकोशः । इदं कुलपुत्र बोधिसत्त्वानां धर्मधातुनिर्माणव्यूहगर्भं नाम नवमं बोधिसत्त्वजन्म ॥
तत्र कुलपुत्र कतमद्बोधिसत्त्वानां तथागतभूम्याक्रमणवेगगर्भं नाम दशमं बोधिसत्त्वजन्म? इह कुलपुत्र बोधिसत्त्वो विविक्तो भवति सर्वत्र्यध्वतथागतैकीभावविषये । सर्वलोकधात्वानन्तर्यविषयं चावतरति । सर्वसत्त्वानां पूर्वान्तापरान्तच्युत्युपपत्तिषु चित्तानन्तर्योत्पादं जानाति । सर्वबोधिसत्त्वानां चर्याज्ञानानन्तर्यविषयं प्रजानाति । अतीतानागतप्रत्युत्पन्नानां च सर्वबुद्धानामभिसंबोधानन्तर्यं प्रजानाति । सर्वधर्माणां चोपकारकौशल्यानन्तर्यं प्रजानाति । सर्वकल्पसंवर्तविवर्तकल्पानां च पूर्वान्तापरान्तप्रत्युअत्पन्नानां सनाम्नां सोपदेशानामानन्तर्यं प्रजानाति । यथापरिपाचितेषु च सत्त्वेषु यथाकालप्राप्तेषु अभिसंबोधिव्यूहविबुद्ध्यनविषयसंदर्शनाधिष्ठानज्ञानमभिनिर्हरति । सर्वबुद्धोत्पादेषु चाभिसंबोध्युपनयनधर्मचक्रप्रवर्तनकौशल्यनयानन्तर्यतां संदर्शयति अनन्तसत्त्वधातुविनयोपायाभिनिर्हारकौशल्येन । इदं कुलपुत्र बोधिसत्त्वानां तथागतभूम्याक्रमणवेगगर्भं नाम दशमं बोधिसत्त्वजन्म ॥
इमानि कुलपुत्र बोधिसत्त्वानां दश बोधिसत्त्वजन्मानि येषु बोधिसत्त्वा जायन्ते उपपद्यन्ते समर्जयन्ति संवर्धयन्ति प्रतिपूरयन्ति संभवन्ति परिसंभवन्ति परिनिष्पद्यन्ते । सर्वक्षेत्रनिरवशेषानुबोधायैकव्यूहालंकारसमुदाचारानधितिष्ठन्ति । सत्त्वधातुनयाप्रतिप्रस्रम्भणाय अपरान्तकोटीगतकल्पाधिष्ठानानधितिष्ठन्ते । सर्वधर्मसमुद्रनानारम्बणानेकविचित्रनानापरंपरानिर्देशानन्तधर्मपरंपरास्रोतो ऽभिसंबुध्यन्ते । अचिन्त्यां बुद्धवृषभितां धर्मधातुपरमाकाशधातुपर्यवसानां संदर्शयन्ति । अप्रमेयसत्त्वचर्यानानात्वसमुद्रेषु परिपाकविनयसंगृहीतेषु धर्मचक्रप्रवर्तनं संदर्शयन्ति । सर्वलोकधातून् बुद्धोत्पादाविरहितानधितिष्ठन्ति । सर्वधर्ममेघाननभिलाप्यस्वराङ्गसमुद्रविशुद्धिं सर्वारम्बणेषु प्रवर्तमानां विज्ञपयन्ति । अप्रमेयविहारितायामनावरणगतिं गताः सर्वधर्मरुचिरव्यूहानि बोधिसत्त्वमण्डलानि प्रभावयन्ति । यथाशयाधिमुक्तिषु ( ग्व् 289 ) सत्त्वेषु अप्रमेयबुद्धभूम्यनुगतसर्वलोकपरिनिष्पादनार्थमनन्तमध्यं धर्मकोषं संप्रकाशयन्ति ॥
अथ खलु सुतेजोमण्डलरतिश्रीर्लुम्बिनीवनदेवता तस्यां वेलायामेतमेव बोधिसत्त्वजन्मार्थमभिद्योतयन्ती बुद्धाधिष्ठानेन दश दिशो व्यवलोक्य सुधनं श्रेष्ठिदारकं गाथाभिरध्यभाषत -
अध्याशयेन विमलेन अनाविलेन पश्यन्ति ये जिन न जातु भवन्ति तृप्ताः ।
सर्वान् जिनान अपरान्तवियूहमेघान् प्रणिध्येन्ति ते प्रथमजन्मस्थिताः सुमेधाः
सर्वत्रियध्वगमशेष स्फरित्व लोकं क्षेत्राणि सर्व तथ धर्म तथैव बुद्धान् ।
सत्त्वप्रमोक्षप्रणिधानवियूहचित्तं जन्मं द्वितीयमिदमुक्तमचिन्तियानाम्
ये धर्ममेघ पिबमान न जातु तृप्ताः निध्यप्तिमानस त्रियध्वअसङ्गकायाः ।
आकाशधातुविमला समचित्तकायाः जन्मं तृतीयमिदमप्रतिमं हि तेषाम्
ये ते महाकरुणसागरमोतरन्ति अध्याशयैर्वजिरसारसुमेरुकल्पैः ।
सर्वज्ञतानयसमुद्र विशाहमानाः तेषां चतुर्थमिह जन्म नरर्षभाणाम्
ये मैत्रया दशसु दिक्षु जगत्स्फरित्वा अभिनिर्हरन्त्यमलपारमितासमुद्रान् ।
परिपाचयन्ति जगु धर्मप्रभाभिरन्त इमु जन्मु पञ्चमु महापुरुषाण तेषाम्
धर्मस्वभावप्रतिविद्ध असङ्गचित्ताः त्रैयध्विकाप्रतिमबुद्धकुलाभिजाताः ।
ये धर्मधातुनयसागरमोतरन्ति षष्ठं इदं विपुल जन्म विदून तेषाम्
ये धर्मकाय परिशुद्ध असङ्गचित्ताः क्षेत्राण्यशेषतु स्फरित्व स्वकैः शरीरैः ।
निःशेषबुद्धबलतानुगमप्रविष्टा जन्माथ सप्तममचिन्त्यमिदं बुधानाम्
ये ज्ञानसागरनये वशितानुयाताः सर्वज्ञतानयमुखं व्यवचारयन्ति ।
सर्वं समाधिनयसागर ओतरन्ति जन्माष्टमं मतमिदं तथताश्रयाणाम्
ये धर्मक्षेत्रप्रसरान् परिशोधयन्ति ये सर्वसत्त्वपरिपाकनप्रयुक्ताः ।
बौद्धा विकुर्वितवियूह विदर्शयन्ति तेषामिदं नवमु जन्म महाशयानाम्
ये ते यथाबल जिनान तथा प्रविष्टाः सर्वज्ञताविपुलवेगविवर्धमानाः ।
ये धर्मधातुतलभेदनयेष्वसङ्गास्तेषामिदं दशमु जन्मु जिनौरसानाम्
मूल पाठ: Gaṇḍavyūhasūtra · Edition: P.L. Vaidya. Gaṇḍavyūhasūtram, Darbhanga: The Mithila Institute, 1960 (Buddhist Sanskrit Texts No. 5). · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0