भाषा

ENहिગુ
ग्रंथ पाठ

गणकारिका (टीका सहित) · भाग 117

गणकारिका, 1
पञ्चकास् त्व् अष्ट विज्ञेया गणश् चैकस् त्रिकात्मकः ।
* [<गणकारिकाटीका>
* पञ्चपञ्चसंख्यावच्छिन्नाः समुदायाः पञ्चका लाभादयस् तेषां न्यूनाधिकव्यवच्छेदेन अष्ट इति संख्याम् आह ॥ ग्क्त्_1.1अब्:1
* तुशब्दः संक्षेपविस्तारपरिज्ञानयोः तुल्यफलत्वम् अवधारयति शिष्यजिज्ञासानुरोधेन भाष्यारम्भो ऽप्य् अर्थवान् इति ॥ ग्क्त्_1.1अब्:2
* विज्ञेया विशेषेण ज्ञातव्याः पुनः पुनर् अभ्यासेन दृढीकर्तव्या येन सर्वदा शास्त्रार्थे चित्तस्थे कृते सति ग्रन्थविस्मरणे ऽपि ब्रह्मोद्यदोषो न भवेत् ॥ ग्क्त्_1.1अब्:3
* अनुष्ठानाशक्तस्यान्यथा हि सुरापानसमं पातकं स्याद् इति ॥ ग्क्त्_1.1अब्:4
* गणशब्दः समुच्चयवाची ॥ ग्क्त्_1.1अब्:5
* चशब्दः समुच्चयेन केवलम् अष्ट पञ्चका विज्ञेया गणश् चैकस् त्रिकात्मको विज्ञेय इति ॥ ग्क्त्_1.1अब्:6
* एक इत्य् अनन्तरोक्ताष्टसंख्याशङ्कानिराकरणार्थम् ॥ ग्क्त्_1.1अब्:7
* त्रिसंख्यावच्छिन्नः समुदायः त्रिकः ॥ ग्क्त्_1.1अब्:8
* स एव आत्मा स्वभावो यस्य भैक्षादिवृत्तिगणस्य स तथोक्तः वृत्त्यन्तरनिषेधार्थम् ॥ ग्क्त्_1.1अब्:9
* एवम् एते नव गणा ज्ञेयत्वोनोद्दिष्टाः ॥ ग्क्त्_1.1अब्:10
* यस् तान् सम्यग् अवधारयति सो ऽवश्यं दुःखान्तं यास्यत्य् अन्येषां चानुग्रहकरणसमर्थो भवतीति ॥ ग्क्त्_1.1अब्:11
* कुतः पुनर् एतन् निश्चीयत इति ॥ ग्क्त्_1.1अब्:12
* निश्चीयते यस्मात् सर्वैर् एव परमयोगिभिः वेत्ता नवगणस्यास्य संस्कर्ता गुरुर् उच्यते ॥ ग्क्त्_1.1अब्:13
* विद ज्ञाने ॥ ग्क्त्_1.1अब्:14
* तस्य वेदितेति प्राप्ते छन्दोभङ्गपरिहारार्थं छान्दसः प्रयोगो वेत्ता इति कृतः ॥ ग्क्त्_1.1अब्:15
* अथवा विचारणे तस्य वेत्तेति भवति ॥ ग्क्त्_1.1अब्:16
* वेत्ता विचारयिता ॥ ग्क्त्_1.1अब्:17
* नवगणानाम् इति बहुवचने प्राप्ते छन्दोभङ्गपरिहारार्थं तत्परिज्ञानस्य भिन्नफलत्वज्ञापनार्थं वा नवगणस्य इत्य् उक्तम् ॥ ग्क्त्_1.1अब्:18
* नन्दिमहाकालादिष्व् अपि गणशब्दो दृष्टः तदाशङ्कानिराकरणार्थम् अस्येत्य् उक्तम् ॥ ग्क्त्_1.1अब्:19
* अस्य अनन्तरोद्दिष्टस्य लाभादिकस्येत्य् अर्थः ॥ ग्क्त्_1.1अब्:20
* सुपरीक्षितं ब्राह्मणं दीक्षाविशेषेण पञ्चार्थज्ञानविशेषेण च शिष्यं संस्कुर्वन् संस्कर्ता इत्य् उच्यते ॥ ग्क्त्_1.1अब्:21
* स च तज्ज्ञैर् मुख्यत एव गुरुर् उच्यते ॥ ग्क्त्_1.1अब्:22
* गुरुर् आचार्यः श्रद्धावताम् आश्रमिणां दर्शनसम्भाषणादिभिर् अपि पापघ्नः पुण्यातिशयकारी चेत्य् अर्थः ॥ ग्क्त्_1.1अब्:23
* अथवा अन्यथा कारिकासम्बन्धः प्रदर्श्यते ॥ ग्क्त्_1.1अब्:24
* द्विविधः खल्व् अत्र ब्राह्मणो ऽपवर्गगन्ता श्रूयते साधक आचार्यश् चेति ॥ ग्क्त्_1.1अब्:25
* तत्रेह दर्शने यः साधकः सन्न् अपवर्गं गन्तुम् इच्छति ॥ ग्क्त्_1.1अब्:26
* शास्त्रं श्रुत्वाचार्योपदेशमात्राद् वा विध्यादिस्वरूपं ज्ञात्वा विधियोगानुष्ठानम् अत्यन्ताभियोगेन कर्तव्यम् ॥ ग्क्त्_1.1अब्:27
* यस् त्व् आचार्यः सन्न् अपवर्गम् गन्तुम् इच्छति तेन किं कर्तव्यम् इति आह ॥ ग्क्त्_1.1अब्:28
* पञ्चकास् त्व् अष्ट विज्ञेया गणश् चैकस् त्रिकात्मकः इति ॥ ग्क्त्_1.1अब्:29
* तुशब्दः समस्तसूत्रसूत्रावयवानाम् उपोद्घातादिनिश्चयद्वारेण नवगणा विज्ञेयास् तान् विज्ञाय शिष्याणां संशयाद् यज्ञानं निर्वर्तयता संस्कारः कर्तव्य इत्य् एवंभूतं विशेषं सूचयति ॥ ग्क्त्_1.1अब्:30
* शेषस् त्व् अवयवार्थः पूर्ववत् ॥ ग्क्त्_1.1अब्:31
* कथं पुनर् एतत् गम्यते ॥ ग्क्त्_1.1अब्:32
* दुःखनिमित्तम् आचार्यत्वम् आत्मन इच्छता नवगणा विशेषतो ज्ञातव्या इति गम्यते ॥ ग्क्त्_1.1अब्:33
* यस्मात् ॥ ग्क्त्_1.1अब्:34]
वेत्ता नवगणस्यास्य संस्कर्ता गुरुर् उच्यते ॥ ग्क्_1.1
* [<गणकारिकाटीका>
* एवं चानुष्ठानाभिनिवेशासमर्थो ऽपि यदि श्रद्धान्वितो भूत्वेषद् अपि समयमात्रं पालयन् ज्ञानाभ्यासं न मुञ्चति तदापवर्गगन्ता भवत्य् आचार्य इति चोच्यते ॥ ग्क्त्_1.1च्द्:1

* यस् त्व् आगमार्थज्ञानमात्रेण तुष्टः सन् श्रद्धादिविरहितः श्रद्धादिमात्रयुक्तो वा लाभादिज्ञानविकलः स खल्व् आचार्याभास एव नापवर्गगन्तेति ॥ ग्क्त्_1.1च्द्:2
* गणस्वरूपं तर्हि वाच्यम् ॥ ग्क्त्_1.1च्द्:3
* के ऽष्ट पञ्चकाः कश् च त्रिकात्मको गणः इत्य् अत आह ॥ ग्क्त्_1.1च्द्:4]
लाभा मला उपायाश् च देशावस्थाविशुद्धयः ।
दीक्षाकारिबलान्य् अष्ट पञ्चकास् त्रीणि वृत्तयः ॥ ग्क्_1.2
* [<गणकारिकाटीका>
* विधीयमानम् उपायफलं लाभः अथवा ज्ञानतपोदेवनित्यत्वस्थितिसिद्धिभेदभिन्ना लाभाः अथवानभिव्यक्तपूर्वा भावाः साधकात्मनि व्यज्यमाना लाभाः ॥ ग्क्त्_1.2:1
* येषाम् आत्माश्रितानां भावानां क्षपणार्थं साधकः प्रयतते ते मलाः ॥ ग्क्त्_1.2:2
* अथवा मिथ्याज्ञानाधर्मसङ्गच्युतिपशुत्वभेदभिन्ना मलाः ॥ ग्क्त्_1.2:3
* साधकस्य साधकतमाः शुद्धिवृद्धिहेतव उपायाः ॥ ग्क्त्_1.2:4
* अथवा वासश्चर्याजपध्यानसदास्मृतिप्रसादभेदभिन्ना उपायाः ॥ ग्क्त्_1.2:5
* चशब्दः पादपूरणे लाभादीनां वा परस्परासंकीर्णलक्षणसूत्रक इति ॥ ग्क्त्_1.2:6
* देशाश् चावस्थाश् च विशुद्धयश् चेति द्वंद्वः ॥ ग्क्त्_1.2:7
* यदाश्रयसामर्थ्येन साधकः शुद्धिवृद्धी प्राप्नोति ते देशा गुरुजनगुहाश्मशानरुद्रलक्षणा इति वक्ष्यामः ॥ ग्क्त्_1.2:8
* आलाभप्राप्तेर् एकमर्यादयावस्थितयः साधकस्य अवस्थास् ता व्यक्तादिविशेषेण विशिष्टा वक्ष्यन्ते ॥ ग्क्त्_1.2:9
* मिथ्याज्ञानादीनाम् अत्यन्तव्यपोहा विशुद्धयः ॥ ग्क्त्_1.2:10
* दीक्षाकारीणि च बलानि चेति द्वंद्वः ॥ ग्क्त्_1.2:11
* दीक्षानिमित्तानि दीक्षाकारीणि द्रव्यकालक्रियामूर्तिगुरुसंज्ञकानि साधकात्मगतान्य् उपायप्रवृत्तिनिमित्तानि ॥ ग्क्त्_1.2:12
* बलानि गुरुभक्तिमतिप्रसादद्वंद्वजयधर्माप्रमादलक्षणानि ॥ ग्क्त्_1.2:13
* अष्ट पञ्चका इत्य् उपसंहारः ॥ ग्क्त्_1.2:14
* तिस्रो वृत्तय इति प्राप्ते त्रीणि वृत्तय इति छान्दसः प्रयोगः कृतः पञ्चमलघूकरणार्थम् ॥ ग्क्त्_1.2:15
* आगमाविरोधिनो ऽन्नार्जनोपाया वृत्तयः भैक्षोत्सृष्टयथालब्धसंज्ञिकाः ॥ ग्क्त्_1.2:16
* तत्र प्रथमावस्थस्य तावद् भैक्षम् एव वृत्तिस् तस्याः को विधिर् इत्य् उच्यते ॥ ग्क्त्_1.2:17
* ज्ञात्वा भिक्षाकालं शुचिर् भूत्वा भस्मना हस्तौ प्रक्षाल्य पात्रं गृहीत्वा उदकप्रक्षालितं संस्कृतं च कृत्वा महादेवं प्रणम्यानुज्ञां प्रार्थयेत् तदनु गुरून् इति ॥ ग्क्त्_1.2:18
* ततो देवगुरुभिर् अनुज्ञातो मन्त्रान् आवर्तयन् ईश्वरासक्तचित्तो वा दृष्टिपूतेन पथाभिशस्तपतितगृहाणि वर्जयित्वा यत्र च भयनिमित्तं च काकादि कलुषनिमित्तं चामेध्यविवस्त्रयुवतिविटदुर्जनवचनभिक्षुकाकीर्णत्वाद्य् उपलभ्यते तद्गृहाण्य् अपि वर्जयन्न् एकम् एव ग्रामादीनाम् अन्यतमं पर्यटेद् यद्य् अन्तराले एव पर्याप्तिर् न भवति उपघातो वा कश्चिद् इति ततः स्वायतनम् आगत्यापराधानुरूपं प्रायश्चित्तं कृत्वा मन्त्रसंस्कृतं च कृत्वा तद्भैक्षं शिवायानुगुरवे च निवेद्य महेश्वरं हृदि संधाय संयतवागुदङ्मुखः प्राङ्मुखो वा समरसं कृत्वोपर्युपरि वा भुञ्जीतेति ॥ ग्क्त्_1.2:19
* पात्रं पात्रशौचं च सूत्रानुमतं स्मृतिप्रसिद्धं प्रतिपत्तव्यम् ॥ ग्क्त्_1.2:20
* तथा च याज्ञवल्क्यः ।
* यतिपात्राणि मृद्वेणुदार्वलाबुमयानि च ।
* सलिलैः शुद्धिरेतेषां गोवालैश्च निघर्षणम् ॥ ग्क्त्_1.2:21
* मनुरप्याह ।
* अतैजसानि पात्राणि तस्य स्युर् निर्व्रणानि च ।
* तेषाम् अद्भिः स्मृतं शौचं चमसानामिवाध्वरे ॥ ग्क्त्_1.2:22
* सापन्नं च सलेपं च विभिन्नं चापि यद्भवेत् ।
* तत्र भुक्त्वा च पीत्वा च यतिश्चान्द्रायणं चरेत् ॥ ग्क्त्_1.2:23
* इति यमः ॥ ग्क्त्_1.2:24
* आगमाविरोधिग्रहणाद् एकान्नस्य विद्याख्यापनानुशासनलोकयात्रादिभिर् निमित्तैर् अर्जितभैक्षस्य प्रतिषेधो द्रष्टव्य इत्येषा प्रातिपदावस्थस्य विधिः ॥ ग्क्त्_1.2:25
* तृतीयावस्थस्याप्ययं विधिः ॥ ग्क्त्_1.2:26
* एतावानत्र विशेषः ॥ ग्क्त्_1.2:27
* प्रायश्चित्तनिवेदनपञ्चब्रह्मजपानुस्नानादिकं न करोति तृतीयावस्थः परमयोगित्वादिति ॥ ग्क्त्_1.2:28
* द्वितीयावस्थस्योत्सृष्टम् एव वृत्तिः ॥ ग्क्त्_1.2:29

* देवाद्युद्देशेन परित्यक्तमन्नपानं कारुण्यकौतूहलाभ्यां वा यदि कश्चिद् अदुष्टजातिर् दद्याद् अशुचित्वादिदोषरहितं तदुत्सृष्टम् ॥ ग्क्त्_1.2:30
* तच्च मायाभेदेनोपयोक्तव्यम् ॥ ग्क्त्_1.2:31
* भैक्षनिवृत्तेः पात्रनियमो नास्ति ॥ ग्क्त्_1.2:32
* चतुर्थावस्थस्य यथालब्धं वृत्तिः ॥ ग्क्त्_1.2:33
* श्मशानदेशावस्थितेनैव दिवसे दिवसद्वये त्रये वा यद् अन्नपानं प्राप्यते तद्यथालब्धम् उच्यते ॥ ग्क्त्_1.2:34
* पञ्चमावस्थस्य तु शरीराभावादेव वृत्त्यनुपपत्तिरिति ॥ ग्क्त्_1.2:35
* ग्रन्थक्रमस्य अप्राधान्यम् अर्थज्ञानस्यैव प्राधान्यं मन्यमानोऽक्रमेणैव निर्देशं करोति गुरुभक्तिः इत्यादिना ॥ ग्क्त्_1.2:36
* अथवा सर्वारम्भाणां लाभार्थत्वात् तत्प्राधान्यज्ञापनार्थं पूर्वम् आदौ लाभा उद्दिष्टा इदानीं पुनः सर्वेऽपि लाभा उपायसाध्यास्ते चोपाया बलहीनैः पुरुषैरनुष्ठातुं न शक्यन्त इत्यतः प्राधान्यज्ञापनार्थं बलानाम् आदौ निर्देशम् आह ॥ ग्क्त्_1.2:37]
गुरुभक्तिः प्रसादश् च मतेर् द्वंद्वजयस् तथा ।
धर्मश् चैवाप्रमादश् च बलं पञ्चविधं स्मृतम् ॥ ग्क्_1.3
* [<गणकारिकाटीका>
* गुरुः आचार्यः पञ्चार्थज्ञानोपदेष्टा ॥ ग्क्त्_1.3:1
* तस्य भक्तिः श्रद्धा सर्वदुःखाभिभूतस्य ममायम् एव त्रातेत्य् एषा भावना कार्या ॥ ग्क्त्_1.3:2
* तथा चोक्तम् ।
* गुरुर् देवो गुरुः स्वामी इत्यादि न च कारणप्रवचनयोर् भक्तिविरोधस् तदनुमत्यैव तयोर् भक्तिसम्भवात् ॥ ग्क्त्_1.3:3
* यतस् तु तयोर् भक्तिः कर्तव्येति नानुमन्यते स गुरुर् एव न भवति अननुग्रहकारित्वात् ॥ ग्क्त्_1.3:4
* सा च गुरुभक्तिस् तद् अनभिप्रेतम् परिहरतोत्थानादिकं कुर्वता च सततं सेवनीया ॥ ग्क्त्_1.3:5
* ज्ञात्वा तदभिप्रायम् अशास्त्रोक्तम् अपि तद्धितं कर्तव्यम् ॥ ग्क्त्_1.3:6
* तथा चोक्तम् ।
* ग्रन्थार्थविदुषः इत्यादि ॥ ग्क्त्_1.3:7
* यद् एव हि गुरोर् अभिप्रेतं तद् एव विहितं शास्त्रानुक्तम् अपि श्रेयस्करि भवति रामस्य मातृवधवत् ॥ ग्क्त्_1.3:8
* गुरोर् वाक्यानि च श्रद्धेयानि अन्यथा दोषश्रवणात् तत्त्वज्ञानालाभप्रसङ्गाच् च ॥ ग्क्त्_1.3:9
* भक्तिबलविहीनो हि ग्रहणाद्युपेतो ऽपि ज्ञानावलेपेनान्यथा ऽपि शास्त्रार्थं प्रतिपद्यत इत्य् अतो ग्रहणाद्युपेतस्य भक्तिर् एव बलम् ॥ ग्क्त्_1.3:10
* भाष्यविरोधो ऽपि नास्ति ॥ ग्क्त्_1.3:11
* यतो बलम् अष्टाङ्गं ब्रह्मचर्यम् इत्य् अस्यायम् अर्थः ॥ ग्क्त्_1.3:12
* अष्टानां ग्रहणादीनाम् अङ्गम् अष्टाङ्गं भक्तिर् एवोच्यते वेदाङ्गवदर्थान्तराभिधानात् ॥ ग्क्त्_1.3:13
* सैव ब्रह्मचर्यनिमित्तत्वात् ब्रह्मचर्यम् इत्य् उच्यते ॥ ग्क्त्_1.3:14
* यदि पुनर् यथाश्रुतार्थः स्यात् तदा वासोविधानम् इत्यादिज्ञापकाभिधानविरोधः स्याद् इति ॥ ग्क्त्_1.3:15
* विधाव् अधिकृतस्य द्वितीयं बलम् आह ॥ ग्क्त्_1.3:16
* प्रसादश् च मतेः इति ॥ ग्क्त्_1.3:17
* मतिप्रसादशब्देनाकलुषत्वम् उक्तम् ॥ ग्क्त्_1.3:18
* सति हि तस्मिन् मतिः प्रसन्ना भवति ॥ ग्क्त्_1.3:19
* तथा च बलम् अकलुषत्वम् इति भाष्यम् ॥ ग्क्त्_1.3:20
* अत्रापि तर्हि स्पष्टाभिधानं किम् अर्थं न कृतम् ॥ ग्क्त्_1.3:21
* मतिप्रसादहेतोर् अन्यस्याप्य् आशौचव्यामोहाद्यभावस्य बलत्वज्ञापनार्थं प्रधानापेक्षया त्व् अकलुषत्वम् उक्तम् ॥ ग्क्त्_1.3:22
* चशब्दः पूर्वोक्तबलस्य विद्यमानस्यापि चरितार्थत्वात् तद्बलत्वं प्राधान्यान् न चिन्त्यत इति सूचयति ।
* तच् चाकलुषत्वं द्विविधं परम् अपरं च ॥ ग्क्त्_1.3:23
* तत्र कलुषत्वबीजसद्भावे ऽप्य् उत्पन्नकलुषत्वनिरोधि यावद् अनागतं कलुषं नोत्पद्यते तावत्कालं यद् अकलुषत्वं तद् अपरं यद् बीजक्षयाद् अत्यन्तनिमित्तसद्भावे ऽपि कलुषं नोत्पद्यते तत् परम् इति ॥ ग्क्त्_1.3:24
* योगक्रियायाम् अधिकृतस्य तृतीयं बलम् आह ॥ ग्क्त्_1.3:25
* द्वंद्वजयस् तथा इति ॥ ग्क्त्_1.3:26

* आध्यात्मिकाधिभौतिकाधिदैविकानि दुःखसाधनानि द्वंद्वानि तेषां जयः सहिष्णुत्वं द्वंद्वानभिभाव्यत्वम् इत्य् अर्थः ॥ ग्क्त्_1.3:27
* तथाशब्दः समानार्थे ॥ ग्क्त्_1.3:28
* यथा प्रागुक्तबले सत्य् अप्य् अचरितार्थविध्यधिकृतस्याकलुषत्वम् एव बलं चिन्त्यते तथा बलद्वयसद्भावे ऽप्य् अचरितार्थं द्वंद्वसहिष्णुत्वम् एव प्राधान्येन बलं चिन्त्यत इति ॥ ग्क्त्_1.3:29
* तद् अपि द्विविधं परापरभेदात् यत् तावद् अक्षपिते पापे योगक्रियायाम् अभिनिविष्टस्य साधकस्य मृदुमध्यमशीतातपादिभिर् अनुभाव्यत्वं ध्यानाद्यभ्यासस् तद् अपरम् ॥ ग्क्त्_1.3:30
* यत् क्षपिते निःशेषपापे गुहादेशं गतस्यातितीव्रैर् अपि शीतादिभिर् अनभिभाव्यस्वलक्षणं द्वंद्वसहिष्णुत्वं तत् परम् ॥ ग्क्त्_1.3:31
* भाष्यकृता तु परम् एव गोमृगधर्मत्वं व्याख्यातम् ॥ ग्क्त्_1.3:32
* अकलुषत्ववद् अभ्यूह्य शिष्या अपरं गोमृगधर्मित्वं प्रतिपत्स्यन्त इत्य् अभिप्रायवता नोक्तम् इति ॥ ग्क्त्_1.3:33
* सदास्मृत्यधिकृतस्य चतुर्थं बलम् आह धर्मश् चैव इति ॥ ग्क्त्_1.3:34
* एवशब्दो ऽवधारणे ॥ ग्क्त्_1.3:35
* यदा धर्म एवावस्थितस् तदा बलम् इत्य् अर्थः ॥ ग्क्त्_1.3:36
* ईषदधर्मसद्भावे ऽप्य् अवधारणे नास्ति दोषः कृष्णबिन्दुसद्भावे शुक्ल एवायं पट इति यथा ॥ ग्क्त्_1.3:37
* चशब्दः पूर्वोक्तबलत्रयसद्भावे ऽपि धर्म एवाचरितार्थत्वेन बलम् इति सूचयति ॥ ग्क्त्_1.3:38
* निष्ठायोगयुक्तस्य पञ्चमं बलम् आह अप्रमाद इति ॥ ग्क्त्_1.3:39
* विशिष्टं ज्ञानम् एवात्राप्रमाद इत्य् अभिप्रेतम् ॥ ग्क्त्_1.3:40
* तथा च भाष्यम् अस्य तु ज्ञानम् अस्ति यस्माद् आहाप्रमादी इति ॥ ग्क्त्_1.3:41
* चशब्दः शरीरेन्द्रियधर्माधर्मव्यावृत्तौ सत्याम् अप्रमाद एव बलम् इति सूचयति बलानां न्यूनाधिकभावव्यवच्छेदं चेति ॥ ग्क्त्_1.3:42
* बलं पञ्चविधम् इत्य् उपसंहारः ॥ ग्क्त्_1.3:43
* स्मृतम् इत्य् आप्तोक्तत्वं दर्शयति ॥ ग्क्त्_1.3:44
* ननु च तत्र बलचिन्ता युज्यते यत्र तत् सम्पाद्य शत्रुक्षय उपपद्यते ॥ ग्क्त्_1.3:45
* अत्र पुनर् मोक्षशास्त्रे वीतरागस्य निष्परिग्रहस्य शत्रव एव न विद्यन्ते कुतः तत्क्षय इत्य् अतो ऽत्र बलचिन्तानुपपन्नेति ॥ ग्क्त्_1.3:46
* नैतद् एवम् ॥ ग्क्त्_1.3:47
* अत्रापि साधकस्याज्ञानादिशत्रुहान्युपपत्तेस् तत्प्रतिपादनार्थम् आह ॥ ग्क्त्_1.3:48]
अज्ञानहान्यधर्मस्य हानिः सङ्गकरस्य च ।
च्युतिहानिः पशुत्वस्य शुद्धिः पञ्चविधा स्मृता ॥ ग्क्_1.4
* [<गणकारिकाटीका>
* अज्ञानहानिर् अधर्मस्य इति प्राप्ते छन्दोभङ्गपरिहारार्थम् अज्ञानहान्यधर्मस्येत्य् उक्तम् ॥ ग्क्त्_1.4:1
* आर्षत्वान् न दोष इति ॥ ग्क्त्_1.4:2
* अज्ञानं च वक्ष्यमाणकं तस्य हानिः सबीजस्यात्यन्तोच्छेदः ॥ ग्क्त्_1.4:3
* अधर्मो ऽपि वक्ष्यमाणकस् तस्य हानिः सविकारस्यात्यन्तोच्छेदः ॥ ग्क्त्_1.4:4
* अधर्मवत् सङ्गकरस्यापि हानिर् व्याख्याता ॥ ग्क्त्_1.4:5
* चकारो हानिपदस्यानुकर्षणार्थः ॥ ग्क्त्_1.4:6
* च्युतेः खलु वक्ष्यमाणिकायाः सह बीजेनात्यन्तोच्छेदश् च्युतिहानिर् इत्य् उच्यते ॥ ग्क्त्_1.4:7
* पशुत्वस्येति षष्ट्यन्तत्वाभिधानाद् अनन्तरोक्तहानिपदेन सम्बन्धः ॥ ग्क्त्_1.4:8
* डमरुकमणिन्यायेन वा मध्योक्तं हानिपदं च्युतिपशुत्वाभ्यां सम्बध्यते ॥ ग्क्त्_1.4:9
* चकारो वा सङ्गकरपदान्तोक्तो ऽत्रानुवृत्तः ॥ ग्क्त्_1.4:10
* स न केवलं हानिपदानुकर्षकः शुद्धीनां न्यूनाधिकभावं व्यवच्छिनत्ति ॥ ग्क्त्_1.4:11
* पशुत्वस्य माहेश्वरैश्वर्यसम्बन्धाद् आत्यन्तिको निरोधः पशुत्वहानिर् इत्य् उच्यते ॥ ग्क्त्_1.4:12
* शुद्धिः पञ्चविधा इत्य् उपसंहारः ॥ ग्क्त्_1.4:13
* स्मृता इत्य् आप्तोक्तत्वप्रदर्शनार्थम् ॥ ग्क्त्_1.4:14
* किं पुनर् एताः शत्रुनिवृत्तयो बलानि चावस्थाभेदभिन्नस्य सम्पद्यन्ते ऽथैकावस्थस्येति ॥ ग्क्त्_1.4:15

* कुतः संशयः उभयथा दर्शनाद् विष्णुचक्रवत् ॥ ग्क्त्_1.4:16
* उच्यते प्रायेण तावद् अवस्थाभेदभिन्नस्य यस्माद् अवस्थाभेदम् आह ॥ ग्क्त्_1.4:17]
व्यक्ताव्यक्तं जयच्छेदो निष्ठा चैवेह पञ्चमी ।
* [<गणकारिकाटीका>
* प्रातिपदावस्था खलु व्यक्तावस्थेत्य् उक्ता ॥ ग्क्त्_1.5अब्:1
* कस्मात् ॥ ग्क्त्_1.5अब्:2
* पाशुपत्ये ऽयम् इति व्यक्तिनिमित्तत्वात् भस्मस्नानशयनानुस्नानादिभिर् लिङ्गधारीत्य् उपदेशाद् इति ॥ ग्क्त्_1.5अब्:3
* द्वितीयावस्था तु जात्यादिव्यक्तेर् अहेतुत्वाद् अव्यक्तावस्थेत्य् उक्ता ॥ ग्क्त्_1.5अब्:4
* कस्मात् ॥ ग्क्त्_1.5अब्:5
* अव्यक्तलिङ्गोपदेशाद् विद्यादिगोपनोपदेशाच् चेति ॥ ग्क्त्_1.5अब्:6
* तृतीयावस्था पुनर् इन्द्रियजयार्थत्वेन जयावस्थेत्य् उच्यते ॥ ग्क्त्_1.5अब्:7
* देवनित्यस्वार्थत्वे ऽप्य् अस्या इन्द्रियजयार्थतैव प्राधान्येनोक्ता सूत्राणां सम्बन्धकथनद्वारेणाचार्यभाष्यकृतेति ॥ ग्क्त्_1.5अब्:8
* छेदावसानार्थावस्था छेदावस्थेत्य् उक्ता ॥ ग्क्त्_1.5अब्:9
* सर्वस्य साधकव्यापारस्यात्यन्तोपरमो निष्ठा ॥ ग्क्त्_1.5अब्:10
* तदुपलक्षितावस्था निष्ठावस्थेत्य् उच्यते ॥ ग्क्त्_1.5अब्:11
* व्यक्तादिविशेषणाभिधानाद्यूहादिशक्तिमतां विशेषप्रतिपत्तिर् भविष्यतीत्य् अभिप्रायवतात्रावस्थाग्रहणं न कृतम् इति ॥ ग्क्त्_1.5अब्:12
* चशब्दो न्यूनाधिकव्यवच्छेदसूचकः ॥ ग्क्त्_1.5अब्:13
* प्रेतोन्मत्तमूढावस्थान्तरसद्भावाद् अधिकव्यवच्छेदानुपपत्तिर् इति चेन् न गोपननियमेनाव्यक्तावस्थायाम् एवान्तर्भावात् ॥ ग्क्त्_1.5अब्:14
* जयच्छेदावस्थयोर् अप्य् अव्यक्तावस्थात्वप्रसङ्ग इति चेन् नानयोर् गोपननियमानभ्युपगमान् निष्ठावस्थाम् अनभ्युपगम्य सिद्धावस्थां पञ्चमीम् आहुः ॥ ग्क्त्_1.5अब्:15
* केचित् तन्मतम् अवधारणेनैव निराचष्टे ॥ ग्क्त्_1.5अब्:16
* निष्ठा चैवेह पञ्चमी इति ॥ ग्क्त्_1.5अब्:17
* इहेत्य् अस्मिन् पञ्चार्थदर्शने निष्ठावस्थैव पञ्चमी सूत्रप्रामाण्यात् प्रतीयते न सिद्धावस्था ॥ ग्क्त्_1.5अब्:18
* तत्र क्षपणीयप्रापणीयाभावात् साधकावस्थाश् चेह निरूप्यन्ते न ततो ऽन्यस्येति ॥ ग्क्त्_1.5अब्:19
* अत्राह ॥ ग्क्त्_1.5अब्:20
* अनधिकारिणो ऽवस्थाप्राप्तिर् अयुक्ता ॥ ग्क्त्_1.5अब्:21
* तत्र तथा द्वितीयाद्यवस्थाप्राप्तौ ज्ञानाकलुषत्वादयो ऽधिकारित्वापादकाः तथा प्रथमावस्थाप्राप्तौ को हेतुर् इत्य् उच्यते ॥ ग्क्त्_1.5अब्:22
* अत्रापि कारणविशेषोत्पादिता दीक्षा हेतुः ॥ ग्क्त्_1.5अब्:23
* यतस् तत्कारणप्रतिपादनार्थम् इदम् आह ॥ ग्क्त्_1.5अब्:24]
द्रव्यं कालः क्रिया मूर्तिर् गुरुश् चैवेह पञ्चमः ॥ ग्क्_1.5
* [<गणकारिकाटीका>
* अत्र विद्याकलापशुसंज्ञितं विविधं कार्यं द्रव्यम् इत्य् उच्यते ॥ ग्क्त्_1.5च्द्:1
* तत्र विद्या तावच् छिष्यगता दीक्षाङ्गं यया शिष्यो दीक्षाधिकृतो भवति ॥ ग्क्त्_1.5च्द्:2
* यया त्व् आचार्यः सम्पूर्णां दीक्षां निर्वर्तयति साचार्यगता विद्या ॥ ग्क्त्_1.5च्द्:3
* कला दर्भाद्या दीक्षाङ्गम् ॥ ग्क्त्_1.5च्द्:4
* उक्तं हि दर्भाः पुनर् भस्म चन्दनं सूत्रम् एव च ॥ ग्क्त्_1.5च्द्:5
* पुष्पाणि च पुनर् धूपम् एष क्रमः स्मृतः ॥ ग्क्त्_1.5च्द्:6
* पशुः संस्कर्तव्यो ब्राह्मणः ॥ ग्क्त्_1.5च्द्:7
* इत्थं व्याख्यानकरणाद् उपकरणादेर् अपि संग्रह इत्य् अतो न संस्कारकारिकाविरोधः ॥ ग्क्त्_1.5च्द्:8
* कालः पूर्वाह्णः ॥ ग्क्त्_1.5च्द्:9
* कारणमूर्तिशिष्ययोः संस्कारकर्म क्रियेत्य् उच्यते ॥ ग्क्त्_1.5च्द्:10

* तत्क्रमश् च संस्कारकारिकायां द्रष्टव्यः ॥ ग्क्त्_1.5च्द्:11
* मूर्तिशब्देन यद् उपहारसूत्रे महादेवेज्यास्थानम् ऊर्ध्वलिङ्गादिलक्षणं व्याख्यातं तत्समीपदक्षिणभूप्रदेशः कुट्याद्यव्यवहितो ऽत्राभिप्रेतः ॥ ग्क्त्_1.5च्द्:12
* गुरुर् आचार्यः स द्विविधः परापरभेदात् ॥ ग्क्त्_1.5च्द्:13
* तत्रापरः पञ्चार्थज्ञानमर्यादान्वितः ॥ ग्क्त्_1.5च्द्:14
* तथा चोक्तम् ।
* शास्त्रानुगे प्रचारे यो ऽभिनिविष्टः प्रकृष्टधीः कुशलः ।
* स भवति मतः किल सताम् आचार्यो ज्ञानहेतुश् च ॥ ग्क्त्_1.5च्द्:15
* तथा ।
* आचारे स्थापयन् शिष्यान् यस्माद् आचरति स्वयम् ।
* आचिनोति च शास्त्रार्थान् आचार्यस् तेन कीर्त्यते ॥ ग्क्त्_1.5च्द्:16
* तस्याधिष्ठाता भगवान् महेश्वरः परो गुरुस् तथा चैवं वर्णिते निमित्तम् अप्य् अत्र नानुक्तं भवति ॥ ग्क्त्_1.5च्द्:17
* चशब्दो न्यूनाधिकव्यवच्छेदसूचकः ॥ ग्क्त्_1.5च्द्:18
* एवशब्दो गुरोः प्राधान्यम् अवधारयति ॥ ग्क्त्_1.5च्द्:19
* इह इति स्वसिद्धान्तनिर्देशः ॥ ग्क्त्_1.5च्द्:20
* पञ्चम इत्य् उपसंहारः ॥ ग्क्त्_1.5च्द्:21
* अथवा एव इह पदयोः पाठविपर्ययं कृत्वान्यथार्थः प्रदर्श्यते ॥ ग्क्त्_1.5च्द्:22
* इहैव पाशुपतदर्शने एवंविशिष्टानि दीक्षानिमित्तानि नान्यत्र ॥ ग्क्त्_1.5च्द्:23
* ततश् च निष्पाद्या दीक्षाप्य् अत्रैव विशिष्टास्ति नान्यत्रेत्य् उक्तं भवति ॥ ग्क्त्_1.5च्द्:24
* अथ किं कारणविशेषैर् एवेयं दीक्षा विशिष्यते न किं तर्हि फलविशेषैर् अपि ॥ ग्क्त्_1.5च्द्:25
* यस्मात् तदर्थम् इदम् आह ॥ ग्क्त्_1.5च्द्:26]
ज्ञानं तपो ऽथ नित्यत्वं स्थितिः सिद्धिश् च पञ्चमी ।
* [<गणकारिकाटीका>
* तत्र पञ्चपदार्थविषयं समासविस्तरविभागविशेषोपसंहारनिगमनतस् तत्त्वज्ञानं प्रथमो विद्यालाभो ज्ञानम् इति चोच्यते ॥ ग्क्त्_1.6अब्:1
* तेषां समासादीनां स्वरूपं यद्य् अपि श्रीमताचार्येण भाष्यावसाने प्रकटितं तथापि लेशतस् तद्भाष्यविवरणार्थम् अस्माभिर् अप्य् उच्यते ॥ ग्क्त्_1.6अब्:2
* तत्र पदार्थानाम् उद्देशः समासः ॥ ग्क्त्_1.6अब्:3
* सो ऽथ शब्दादिभिर् दुःखान्तादीनाम् अभिहितः ॥ ग्क्त्_1.6अब्:4
* उद्दिष्टानां प्रमाणतः प्रपञ्चाभिधानं विस्तरः ॥ ग्क्त्_1.6अब्:5
* पतिः संनाद्य इत्य् एवमादि ॥ ग्क्त्_1.6अब्:6
* तत्साधनत्वेन प्रमाणान्य् अपि विस्तरशब्देनोक्तानि ॥ ग्क्त्_1.6अब्:7
* धर्मधर्मिणां यथासम्भवं लक्षणतो ऽन्यत्वाभिधानं विभागः ॥ ग्क्त्_1.6अब्:8
* सर्वत्राप्य् अभिधीयत इत्य् अभिधानम् ॥ ग्क्त्_1.6अब्:9
* कर्मव्युत्पत्तिर् द्रष्टव्या ॥ ग्क्त्_1.6अब्:10
* तत्र दुःखान्तस्य विभागस् तावद् उच्यते ॥ ग्क्त्_1.6अब्:11
* सर्वदुःखापोहो दुःखान्तः ॥ ग्क्त्_1.6अब्:12
* स द्विविधो ऽनात्मकः सात्मकश् चेति ॥ ग्क्त्_1.6अब्:13
* तत्रानात्मकः सर्वदुःखानाम् अत्यन्तोच्छेदः सात्मकस् तु महेश्वरैश्वर्यलक्षणा सिद्धिः ॥ ग्क्त्_1.6अब्:14
* सा द्विरूपा ज्ञानशक्तिः क्रियाशक्तिश् चेति ॥ ग्क्त्_1.6अब्:15
* तत्र ज्ञानम् एव शक्तिर् ज्ञानशक्तिः ॥ ग्क्त्_1.6अब्:16
* सा खल्व् एकापि सती समस्तव्यस्तविषयभेदात् पञ्चधोक्ता दर्शनश्रवणेत्यादिना ब्रह्मादेर् इवोपचरितसर्वज्ञत्वप्रतिषेधार्थम् ॥ ग्क्त्_1.6अब्:17
* क्रियाहेतुः शक्तिः क्रियाशक्तिः सा त्रिविधा मनोजवित्वादिभेदा ॥ ग्क्त्_1.6अब्:18

* तत्र निरतिशयं शीघ्रकारित्वं मनोजवित्वं कर्मादिनिरपेक्षस्येच्छयैवानन्तररूपकर्तृत्वाधिष्ठातृत्वं कामरूपित्वं संभृतकायेन्द्रियस्यापि निरतिशयैश्वर्यसम्बन्धित्वं विकरणधर्मित्वं चेति ॥ ग्क्त्_1.6अब्:19
* यदा चेयं द्विरूपा सिद्धिः प्राप्यते तदा दश सिद्धिलक्षणान्य् अवश्यत्वादीनि पतित्वान्तानि भवन्ति ॥ ग्क्त्_1.6अब्:20
* तत्र निरतिशयमपराधीनत्वम् अवश्यत्वम् ॥ ग्क्त्_1.6अब्:21
* अथ किम् इदम् अवश्यत्वं नामेति ॥ ग्क्त्_1.6अब्:22
* वश्यत्वमलनिवृत्तावश्यत्वाख्यः पुरुषे ऽवस्थितो धर्मो ऽभिव्यज्यते पटे शुक्लतावद् इत्य् एके ॥ ग्क्त्_1.6अब्:23
* तच् चायुक्तम् ऐश्वर्याभिव्यक्तेः प्रतिषिद्धत्वाद् अनात्मकस्य च धर्मस्याभिव्यक्त्यनुपपत्तेर् अन्यथानात्मकत्वविरोधः स्याद् यदा गुणैर् युक्त इत्यादि भाष्यविरोधाच् च नावस्थिताभिव्यक्तिः किं त्व् ऐश्वर्यसम्बन्ध एव पराधीनत्वनिवर्तकत्वाद् अवश्यत्वम् उच्यते ॥ ग्क्त्_1.6अब्:24
* अथवा यदा गुणैर् युक्तस् तदा स एवातथाभूतपूर्वस् तथा भवति सर्पशिक्यादिवत् तस्य भावस् तत्स्वरूपम् अवश्यत्वं भेदनोच्यते व्यवहारार्थम् इत्य् एवम् अनावेश्यत्वादिष्व् अपि विचारो द्रष्टव्यः ॥ ग्क्त्_1.6अब्:25
* सत्कार्यविचारे चायं विस्तारितो मया तेनेह न प्रतन्यते ॥ ग्क्त्_1.6अब्:26
* सत्त्वान्तरानभिभाव्यज्ञानसम्बन्धित्वम् अनावेश्यत्वं सत्त्वान्तराधीनजीवितरहितत्वम् अवध्यत्वम् समस्तभयातिक्रान्तत्वम् अभयत्वम् ऐश्वर्येण नित्यसम्बन्धित्वम् अक्षयत्वं कायेन्द्रियवैकल्यफलेनात्यन्तासम्बन्धित्वम् अजरत्वं प्राणादिवियोगजदुःखासंस्पर्शित्वम् अमरत्वं सर्वत्राभिप्रेतार्थेषु प्रवर्तमानस्य महेश्वरेणाप्य् अप्रतिबन्धधर्मित्वम् अप्रतीघातः सर्वपशुभ्यो ऽभ्यधिकत्वम् ऐश्वर्यातिशयान् महत्त्वं सर्वपश्वादिकार्यस्वामित्वं पतित्वम् इति ॥ ग्क्त्_1.6अब्:27
* यद् अस्वतन्त्रं तत् सर्वकार्यं तस्य विभाग उच्यते विद्या कला पशुश् चेति ॥ ग्क्त्_1.6अब्:28
* तत्र पशुगुणो विद्या स्वशास्त्रदृष्ट्योक्ता ॥ ग्क्त्_1.6अब्:29
* वैशेषिकदृष्ट्या द्रव्यवत् ॥ ग्क्त्_1.6अब्:30
* सा द्विधा बोधाबोधस्वभावभेदात् ॥ ग्क्त्_1.6अब्:31
* तत्राबोधस्वभावा धर्मादिलक्षणा विद्यान्तर्भावकरणाद् अविद्यात्मकस्य विद्यान्तर्भावे कलादेर् अप्य् अन्तर्भावः स्याद् इति ॥ ग्क्त्_1.6अब्:32
* बोधस्वभावा तु विषयभेदाच् चतुर्धा पञ्चधा चोक्ता ॥ ग्क्त्_1.6अब्:33
* स्वरूपतस् तु द्विधा विवेकवृत्तिः सामान्यवृत्तिश् चेति ॥ ग्क्त्_1.6अब्:34
* तत्र विवेकवृत्तिः प्रायेणोपदेशव्यङ्ग्या न च तत्र समाख्यान्तरम् अस्ति ॥ ग्क्त्_1.6अब्:35
* विद्यैव हि विशेषसमाख्या सामान्यवृत्तिस् तु प्रमाणमात्रव्यङ्ग्या चित्तम् इत्य् उक्ता ॥ ग्क्त्_1.6अब्:36
* अनयोर् भेदष् टीकान्तरे मया दर्शित नेह प्रदर्श्यते ॥ ग्क्त्_1.6अब्:37
* चेतनानाश्रितत्वे सति निश्चेतना कला ॥ ग्क्त्_1.6अब्:38
* सापि द्विविधा कार्याख्या करणाख्या चेति ॥ ग्क्त्_1.6अब्:39
* तत्र कार्याख्या दशविधा पृथिव्यप्तेजोवाव्याकाशगन्धरसरूपस्पर्शशब्दलक्षणा करणाख्या तु त्रयोदशविधा पञ्च कर्मेन्द्रियाणि पञ्च बुद्धीन्द्रियाण्य् अन्तःकरणत्रयं चेति ॥ ग्क्त्_1.6अब्:40
* पशुत्वसम्बन्धी पशुः ॥ ग्क्त्_1.6अब्:41
* सो ऽपि द्विविधः साञ्जनो निरञ्जनश् चेति ॥ ग्क्त्_1.6अब्:42
* तत्र साञ्जनः शरीरेन्द्रियसम्बन्धी चतुर्दशविधः ॥ ग्क्त्_1.6अब्:43
* उक्तं हि दैवम् अष्टविधं ज्ञेयं तैर्यग्योनं च पञ्चधा ।
* पर्वम् एकं तु मानुष्यम् एतत् संसारमण्डलम् ॥ ग्क्त्_1.6अब्:44
* इति निरञ्जनस् तु त्रिविधः संहृतः कैवल्यगतो निष्ठायोगयुक्तश् चेति ॥ ग्क्त्_1.6अब्:45
* समस्तसृष्टिसंहारानुग्रहकारि कारणं तस्यैकस्यापि गुणधर्मभेदाद् विभाग उक्तो ऽन्यत्पतित्वम् इत्यादिना ॥ ग्क्त्_1.6अब्:46
* निरतिशयदृक्क्रियाशक्तिः पतित्वं तेनैश्वर्येण नित्यसम्बन्धित्वं सत्त्वम् अनागन्तुकैश्वर्यत्वम् आद्यत्वं समस्तजन्मरहितत्वम् अजातत्वं महासृष्टिसंहारकर्तृत्वं भवोद्भवत्वं परमोत्कृष्टं गुणधर्मनिमित्तनामाभिधेयत्वं वामत्वं दुःखान्तनिमित्तधर्मोत्पादकनामाभिधेयत्वं वा स्वेच्छयैवाशेषकार्योत्पत्त्यादिकारणस्वभावः क्रीडा तद्धर्मित्वं देवत्वं सिद्धसाधकपशुभ्यः परत्वं ज्येष्ठत्वं सर्गादाव् अपि रुतभयसंयोजकत्वं रुद्रत्वम् कर्मादिनिरपेक्षस्य स्वेच्छयैवाशेषकार्यकर्तृत्वं कामित्वं शमसुखनिर्वाणकरत्वं शंकरत्वम् अन्तरसृष्ट्याम् अपि संहारकर्तृत्वं कालत्वं कार्यकारणाख्यानां कलानां स्थानशरीरादिभावेन संयोजकत्वं कलविकरणत्वं धर्मादिबलानां यथेष्टं वृत्तिलाभलोपाक्षेपकर्तृत्वं बलप्रमथनत्वं सर्वदेवमानुषतिरश्चां रतिरञ्जनाधिवासनाकर्तृत्वं सर्वभूतदमनत्वं सकलनिष्कलावस्थायास् तुल्यशक्तित्वं मनोमनस्त्वं सुखकरानन्तशरीराधिष्टातृत्वम् अघोरत्वं दुःखकरानन्तशरीराधिष्टातृत्वं घोरतरत्वं सर्वविद्यादिकार्याणां व्याप्ताधिष्ठातृत्वं पूरणं यथेप्सितानन्तशरीरादिकरणशक्तिः पौरुष्यम् ॥ ग्क्त्_1.6अब्:47
* तद् उभयं भगवतः पुरुषत्वम् उच्यते ॥ ग्क्त्_1.6अब्:48
* सर्वपश्वादिभ्यो ऽभ्यधिकोत्कृष्टव्यतिरिक्तत्वं महत्त्वं देवत्वं पूर्वोक्तम् ॥ ग्क्त्_1.6अब्:49
* दुःखान्तनिमित्तं ध्यानैकविषयत्वम् ओंकारत्वम् ॥ ग्क्त्_1.6अब्:50
* ऋषित्वं क्रियाशक्तिर् ज्ञानशक्तिस् तु विप्रत्वम् ॥ ग्क्त्_1.6अब्:51
* अनयोर् आश्रयव्यापित्वानन्तविषयत्वनिरतिशयत्वज्ञापनार्थं तदाश्रयो भगवान् महान् इत्य् उक्तः ॥ ग्क्त्_1.6अब्:52
* सर्वदा सर्वत्राविचलितस्वभावेन वर्तमानो भगवान् एष इत्य् उच्यते ॥ ग्क्त्_1.6अब्:53
* गुणधर्मद्वारेण वाचः प्रवर्तन्ते यस्माद् अतस् तद्व्यतिरिक्तस् तदविशेषितश् च भगवान् विशुद्ध इत्य् उच्यते ॥ ग्क्त्_1.6अब्:54
* नित्यानागन्तुकैश्वर्ययुक्ते परमकारणे ।
* यत्र वाचो निवर्तन्ते वाग्विशुद्धः स कीर्तितः ॥ ग्क्त्_1.6अब्:55
* क्षणैकम् अपि यस् तत्र प्राप्नोत्य् एकाग्रतां यतिः ।

* स दग्ध्वा सर्वकर्माणि शिवसायुज्यम् आप्नुयात् ॥ ग्क्त्_1.6अब्:56
* सर्वैश्वर्यप्रदातृत्वं महेश्वरत्वं समस्तकार्यविषयं प्रभुत्वम् ईशत्वं सर्वविद्याविषयं प्रभुत्वम् ईशानत्वं सर्वभूतविषयं प्रभुत्वम् ईश्वरत्वम् ॥ ग्क्त्_1.6अब्:57
* प्रक्रमापेक्षः खल्व् एवम् ईशादिशब्दानाम् अर्थः प्रदर्शितो ऽन्यथा पुनर् एकार्थत्वम् एवेति ॥ ग्क्त्_1.6अब्:58
* ब्रह्मग्रहणस्योदाहरणार्थत्वाद् अशेषपतिविषयप्रभुत्वम् अधिपतित्वं बृंहणबृहत्त्वं ब्रह्मत्वं परिपूर्णपरितृप्तत्वं शिवत्वम् इति ॥ ग्क्त्_1.6अब्:59
* एवं सुनिश्चिताः खल्व् इमे गुणधर्माः परमेश्वरस्योपहारकाले गायता भावयितव्याः सततं वा जपं च कुर्वता विभक्त्युपसर्गनिपातक्रियापदानाम् अर्थैः सह चिन्तनीयास् ततो ऽचिरेणैव कालेन शुद्धिवृद्धी भवतः ॥ ग्क्त्_1.6अब्:60
* ते च स्वात्मसंवेद्ये इति ॥ ग्क्त्_1.6अब्:61
* धर्मार्थः साधकव्यापारो विधिः ॥ ग्क्त्_1.6अब्:62
* स द्विविधः प्रधानभूतो गुणभूतश् चेति ॥ ग्क्त्_1.6अब्:63
* तत्राव्यवधानेन धर्महेतुर् यो विधिः स प्रधानभूतश् चर्येति वक्ष्यते ॥ ग्क्त्_1.6अब्:64
* यस् तु चर्यानुग्राहकः स गुणभूतो ऽनुस्नानादिः ॥ ग्क्त्_1.6अब्:65
* तत्र भुक्तोच्छिष्टादिनिमित्तायोग्यताप्रत्ययनिवृत्त्यर्थं लिङ्गाभिव्यक्त्यर्थं च यत् स्नानं यत् कलुषनिवृत्त्यर्थं तद् उपस्पर्शनम् ॥ ग्क्त्_1.6अब्:66
* एतद् उभयम् अप्य् अजपतैवेश्वरनियोगम् अनुसंधाय संसारदोषं भावयता गुरुलघुभावं च पर्यालोच्य भस्मनैव कर्तव्यम् ॥ ग्क्त्_1.6अब्:67
* निर्माल्यधारणम् अपि लिङ्गाभिव्यक्तिभक्तिवृद्धिद्वारेण चर्यानुग्राहकम् ॥ ग्क्त्_1.6अब्:68
* विचार्य कारणनिर्माल्यं निष्परिग्रहं परं कृतं गृहीत्वा संयतात्मना कारणं प्रणम्यानुज्ञां प्रार्थयेत् ततः प्रसन्नमुखं भगवन्तं स्वनिर्माल्यं निर्मलीकरणाय प्रयच्छन्तं ध्यात्वा महाप्रसाद इत्य् अभिसंधाय भक्त्यैव शिरसि धारयेत् ॥ ग्क्त्_1.6अब्:69
* तथायतनवासित्वम् अपि चर्यानुग्राहकम् ॥ ग्क्त्_1.6अब्:70
* तथा चोक्तम् ।
* धर्मक्षेत्रं परं ह्य् एतच् छिवायतनं भुवि ।
* विधिबीजस्य सा भूमिस् तत्र वप्तम् महाफलम् ॥ ग्क्त्_1.6अब्:71
* लिङ्गाद्धस्तशतं साग्रं शिवक्षेत्रं समन्ततः ।
* जन्तूनां तत्र पञ्चत्वं शिवसायुज्यकारणम् ॥ ग्क्त्_1.6अब्:72
* ग्रामे वा यदि वेत्यादि ॥ ग्क्त्_1.6अब्:73
* उपस्पर्शनेनाक्षपितकलुषक्षापणार्थं प्राणायामः ॥ ग्क्त्_1.6अब्:74
* कोष्ठस्य वायोर् गतिनिरोधः प्राणायामः ॥ ग्क्त्_1.6अब्:75
* तत्रोपस्पृश्य कारणतीर्थकरगुरून् अनुप्रणम्य प्राङ्मुख उदङ्मुखो वा पद्मकस्वस्तिकादीनाम् अन्यतमं यथासुखम् आसनं बद्ध्वा कृतम् उन्नतं च कृत्वा शनैः संयतान्तःकरणेन रेचकादीन् कुर्यात् ॥ ग्क्त्_1.6अब्:76
* कलुषाभावे ऽपि चित्तस्यातिनिर्मलत्वापादनार्थम् अभ्यासार्थं नित्यं कुर्यात् ॥ ग्क्त्_1.6अब्:77
* उक्तं हि ।
* प्राणायामैर् दहेद् दोषान् धारणाभिश् च किल्बिषम् ।
* प्रत्याहारेण विषयान् ध्यानेनानीश्वरान् गुणान् ॥ ग्क्त्_1.6अब्:78
* प्राणायामेन युक्तस्य विप्रस्य नियतात्मनः ।
* सर्वे दोषाः प्रणश्यन्ति सत्त्वस्थश् चैव जायते ॥ ग्क्त्_1.6अब्:79
* जलबिन्दुकुशाग्रेण मासे मासे च यः पिबेत् ।
* संवत्सरशतं साग्रं प्राणायामैकतत्समम् ॥ ग्क्त्_1.6अब्:80
* प्राणायामविशुद्धात्मा यस्मात् पश्यति तत्परम् ।
* तस्मात् किंचित् परं नास्ति प्राणायामाद् इति श्रुतिः ॥ ग्क्त्_1.6अब्:81
* तदक्षपितकलुषक्षपणार्थं जपः कर्तव्यः ॥ ग्क्त्_1.6अब्:82
* तृतीयचतुर्थयोर् अन्यतरस्मिन् ब्रह्मणि प्रयत्ननिरुद्धं चित्तं सम्पूर्णाक्षरानुबोधेन तदर्थानुबोधेन वा पुनः पुनः संचारयेद् इति ॥ ग्क्त्_1.6अब्:83
* एवं च प्रायश्चित्तान्तरम् उत्सूत्रत्वान् न कर्तव्यम् इति ॥ ग्क्त्_1.6अब्:84
* ननु च त्रिकस्य कलुषनिवृत्त्यर्थम् एवाभिधानं व्यभिचारान्तरेषु पुनः किं प्रायश्चित्तम् ॥ ग्क्त्_1.6अब्:85
* न चैतद् वाच्यं यतेर् अप्रमत्तस्य सर्वदैव संयतत्वाद् असम्भवी व्यभिचार इति कामादिव्यभिचारेण समानत्वात् त्रिकस्याप्य् अनारम्भप्रसङ्गो वा ॥ ग्क्त्_1.6अब्:86
* किं चाधर्मसामर्थ्याद् विदुषो ऽपि व्यभिचारसम्भवात् ॥ ग्क्त्_1.6अब्:87

* उक्तं च ह्रियते बुध्यमानो ऽपि इत्यादि ॥ ग्क्त्_1.6अब्:88
* हिंसायाश् चावश्यंभावित्वात् ॥ ग्क्त्_1.6अब्:89
* उक्तं हि ।
* अह्णा रात्र्या च याञ् जन्तून् निहन्त्य् अज्ञानतो यतिः ।
* तेषां स्नात्वा विशुद्ध्यर्थं प्राणायामान् षड् आचरेत् ॥ ग्क्त्_1.6अब्:90
* प्रतिदिनम् इत्य् अर्थः ॥ ग्क्त्_1.6अब्:91
* अत्रैके सर्वव्यभिचारेषु त्रिकम् एव कर्तव्यम् इति मन्यन्ते ॥ ग्क्त्_1.6अब्:92
* वयं तु पश्यामः कलुषनिवृत्त्यर्थम् एव त्रिकं कर्तव्यम् ॥ ग्क्त्_1.6अब्:93
* भाष्यस्यापि तथैव श्रुतत्वान् नादृष्टार्थम् अदृष्टशुद्धेश् चानिश्चयात् त्रिकानुपरमप्रसङ्गः स्यात् तस्मात् कलुषनिवृत्तौ पूर्वकृताधर्मक्षपणवद् व्यभिचारकृताधर्मक्षपणार्थम् अपि विध्याचरणम् एव कर्तव्यम् ॥ ग्क्त्_1.6अब्:94
* तथा च सूत्रं भूयस् तपश् चरेत् इति ॥ ग्क्त्_1.6अब्:95
* मनुर् अप्य् आह ।
* यत् किंचिद् एनः कुर्वन्ति वाङ्मनोमूर्तिभिर् जनाः ।
* तत् सर्वं निर्णुदन्त्य् आशु तपसैव तपोधनाः ॥ ग्क्त्_1.6अब्:96
* महापातकिनश् चैव शेषाश् चाकार्यकारिणः ।
* तपसैव सुतप्तेन मुच्यन्ते किल्बिषात् ततः ॥ ग्क्त्_1.6अब्:97
* तथा श्रीमद्भाष्यकृतापि ज्ञापकम् उक्तम् ।
* तपोभिर् आर्या निर्णुदन्ति पापं ध्यानोपयोगात् क्षपयन्ति पुण्यम् ।
* ते निर्मलास् तत्त्वविदो विशुद्धा गच्छन्ति मोक्षं ह्य् उभयोर् अभावात् ॥ ग्क्त्_1.6अब्:98
* न चायं नियमः पुण्यक्षय एव ध्यानात् किंतु पापक्षयो ऽपि ॥ ग्क्त्_1.6अब्:99
* यतः तत्रैव ज्ञापकान्तरम् उक्तम् ॥ ग्क्त्_1.6अब्:100
* सर्वं दहति ध्यानेन पुण्यपापक्रियाश्रयम् ।
* पुण्यपापफले दग्धे स्वामी तस्य न विद्यते ॥ ग्क्त्_1.6अब्:101
* इति ॥ ग्क्त्_1.6अब्:102
* एवं तर्ह्य् अनर्थकं विध्यनुष्ठानम् इति चेन् नानेन विधिना रुद्रसमीपं गत्वेति प्रवचनाद् विध्यनुष्ठानविकलस्य योगानुष्ठानसामर्थ्याभावात् ॥ ग्क्त्_1.6अब्:103
* तथा चान्यत्राप्य् उक्तम् ।
* धर्मः प्रयत्नतः कार्यो योगिना तु विशेषतः ।
* नास्ति धर्माद् ऋते योग इति योगविदो विदुः इति ॥ ग्क्त्_1.6अब्:104
* तस्माद् उपस्पर्शनादिभिः प्रसन्नं चित्तं कृत्वा सर्वस्याधर्मस्य क्षपणार्थं विधियोगानुष्ठानम् एवात्यन्ताद्यभियोगेन कर्तव्यं न प्रायश्चित्तान्तरम् इति ॥ ग्क्त्_1.6अब्:105
* तथा दशाहिंसादयो यमाश् चर्यानुग्राहका यदा तदा विध्यन्तर्भूता यदा तु योगक्रियानुग्राहकास् तदा योगान्तर्भूता इति ॥ ग्क्त्_1.6अब्:106
* तत्र वाक्कायमनोभिः परदुःखानुत्पादनम् अहिंसा इन्द्रियसंयमो ब्रह्मचर्यं धर्मसाधनानङ्गवचनप्रतिषेधः सत्यं वर्णाश्रमिभिः सह दृष्टार्थसंगतिप्रतिषेधो ऽसंव्यवहारः धर्मसाधनाङ्गाद् अभ्यधिकस्य न्यायतो ऽप्य् अस्वीकरणम् अन्यायतस् तु धर्मसाधनाङ्गस्याप्य् अस्वीकरणं चास्तेयं परैर् अपकृतस्याप्य् अम्लानचित्तत्वम् अक्रोधः वाक्कायमनोभिर् गुरौ हितभावेनैव वर्तनं गुरुशुश्रूषा कायान्तःकरणात्मशुद्धिः शौचं स्ववृत्त्यैवोपार्जितान्नस्य विधियोगानुष्ठानाविरोधेनाभ्यवहरणम् आहारलाघवम् ॥ ग्क्त्_1.6अब्:107
* अष्टौ ग्रासा मुनेर् इति केचित् तन् नेष्टं विधियोगानुष्ठानविरोधप्रसङ्गात् ॥ ग्क्त्_1.6अब्:108
* सव्यञ्जनाशनोदकाभ्यां कोष्ठस्य भागत्रयं पूरयित्वा चतुर्थं भागं वायोः संचरणार्थम् अवशेषयेद् इत्य् अन्ये ॥ ग्क्त्_1.6अब्:109
* तद् इष्टम् एवाविरोधात् ॥ ग्क्त्_1.6अब्:110
* अत्र च पञ्चविधभैक्षाभिधायकं वाक्यं चरेन् माधुकरीम् इत्याद्य् अविरोधेन व्याख्येयम् ॥ ग्क्त्_1.6अब्:111
* यथाविहितविधियोगानुष्ठाने सततम् एवोद्यमो ऽप्रमादः ॥ ग्क्त्_1.6अब्:112
* अयं च प्रधानभूतो यमः ॥ ग्क्त्_1.6अब्:113
* तथा चोक्तम् ।
* यतिधर्मस्य सद्भावः श्रूयतां गुणदोषतः ।
* अप्रमादात् परा सिद्धिः प्रमादान् नरकं ध्रुवम् ॥ ग्क्त्_1.6अब्:114
* इति ।

* वासो ऽपि ज्ञानोत्पादनद्वारेण चर्यानुग्राहकत्वाद् गुणविधिर् एवेति ॥ ग्क्त्_1.6अब्:115
* चित्तद्वारेणेश्वरसम्बन्धः पुरुषस्य योगः ॥ ग्क्त्_1.6अब्:116
* स द्विविधः क्रियालक्षणः क्रियोपरमलक्षणश् चेति ॥ ग्क्त्_1.6अब्:117
* तत्र क्रियालक्षणो जपयन्त्रणधारणध्यानस्मरणात्मक इति ॥ ग्क्त्_1.6अब्:118
* वक्ष्यामः ॥ ग्क्त्_1.6अब्:119
* क्रियोपरमलक्षणो ऽप्य् अतिगत्यादिशब्दवाच्य इति ॥ ग्क्त्_1.6अब्:120
* शास्त्रान्तरोक्तपदार्थेभ्यो ऽमीषाम् अतिशयाभिधानं विशेषः ॥ ग्क्त्_1.6अब्:121
* तथाहि शास्त्रान्तरे दुःखनिवृत्तिर् एव दुःखान्तः इह तु परमैश्वर्यप्राप्तिश् च ॥ ग्क्त्_1.6अब्:122
* तथान्यत्राभूत्वा भावि कार्यम् इह तु नित्यं पश्वादि ॥ ग्क्त्_1.6अब्:123
* तथान्यत्रास्वतन्त्रं प्रधानादि कारणम् इह तु स्वतन्त्रो भगवान् एव ॥ ग्क्त्_1.6अब्:124
* तथान्यत्र कैवल्याभ्युदयफलो योगः इह तु परमदुःखान्तफलः ॥ ग्क्त्_1.6अब्:125
* तथान्यत्रावर्तकः स्वर्गादिफलो विधिर् इह त्व् अनावर्तको रुद्रसमीपादिफल इति ॥ ग्क्त्_1.6अब्:126
* पदार्थानां समाप्तिसंहारस् तत्र दुःखकार्यकारणविधीनाम् इति शब्देन समाप्तिर् उक्ता ॥ ग्क्त्_1.6अब्:127
* योगस्य तु त्वाशब्देनेति ॥ ग्क्त्_1.6अब्:128
* समाप्तानां निःशेषीकरणार्थं प्रासङ्गिकसंशयनिवृत्त्यर्थं च धर्मान्तराभिधानं निगमनम् ॥ ग्क्त्_1.6अब्:129
* प्रतिज्ञातार्थेन सहैकवाक्यत्वख्यापनार्थम् इत्य् अन्ये ॥ ग्क्त्_1.6अब्:130
* तद् एवं विधियोगयोः कार्यान्तर्भावे ऽपि अतिप्रयोजनवशात् पृथगभिधानं कृत्वा पञ्चानाम् एव समासादय उक्ता इत्य् अतः पञ्चैव पदार्था उच्यन्ते ॥ ग्क्त्_1.6अब्:131
* अन्ये तु पदार्थभेदम् अन्यथा वर्णयन्ति ॥ ग्क्त्_1.6अब्:132
* तत्त्वं गुणो भाव इति ॥ ग्क्त्_1.6अब्:133
* तत्र यद् अनाश्रितं तत् तत्त्वम् ॥ ग्क्त्_1.6अब्:134
* तच् च विंशतिभेदम् ॥ ग्क्त्_1.6अब्:135
* पञ्च पृथिव्यादीनि त्रयोदशेन्द्रियाणि पशुः कारणं चेति ॥ ग्क्त्_1.6अब्:136
* तत्त्ववृत्तयः भावाश्रया गुणास् तत्र पृथिव्यादिषु यथासम्भवं रूपरसगन्धस्पर्शशब्दाः पञ्चैव वर्तन्ते ॥ ग्क्त्_1.6अब्:137
* इन्द्रियतत्त्वानि तु निर्गुणानि ॥ ग्क्त्_1.6अब्:138
* पशुषु सप्त गुणा वर्तन्ते पशुत्वधर्माधर्मचित्तविद्याप्रयत्नेच्छालक्षणाः ॥ ग्क्त्_1.6अब्:139
* सुखादीनां तु तद्विकारत्वात् तदन्तर्भाव एव मृद्विकारवत् ॥ ग्क्त्_1.6अब्:140
* कारणे त्रयो गुणाः कामार्थित्वविप्रत्वाख्या इति धर्मिभ्यो ऽन्यानन्यत्वेनानिर्वचनीयाः ॥ ग्क्त्_1.6अब्:141
* सत्त्वगुणानां धर्मा भावा इत्य् उच्यन्ते ॥ ग्क्त्_1.6अब्:142
* तद्विचारश् च सत्कार्यविचारे कृते इति नेह क्रियते ॥ ग्क्त्_1.6अब्:143
* तद् एवं कारणादिनिश्चयज्ञानं प्रथमो लाभ इति ॥ ग्क्त्_1.6अब्:144
* द्वितीयं लाभम् आह तपः इति ॥ ग्क्त्_1.6अब्:145
* भस्मस्नानादिविधिजनितो धर्मस् तप इत्य् उच्यते ॥ ग्क्त्_1.6अब्:146
* तस्योत्पादो रक्षणादिलिङ्गाद् अपि निश्चीयते ॥ ग्क्त्_1.6अब्:147
* अधर्मतस्करेण सन्मार्गाद् अपह्रियमाणः साधकः पुरपालस्थानीयेन धर्मेण रक्ष्यते ॥ ग्क्त्_1.6अब्:148
* अवस्थानाद् अवस्थान्तरगमनं गतिः ॥ ग्क्त्_1.6अब्:149
* विहितानुष्ठान एव संतोषः प्रीतिः ॥ ग्क्त्_1.6अब्:150
* लाभसम्बन्धः प्राप्तिः ॥ ग्क्त्_1.6अब्:151
* यद्बलेन विधियोगाभिनिविष्टस्य चित्तं रम्भादीनां गीतवाद्यादिभिर् अपि क्षोभयितुं न शक्यते तन्माहात्म्यं धर्मशक्तिर् इत्य् अर्थः ॥ ग्क्त्_1.6अब्:152
* अतिगतिसायुज्यस्थितिशब्दा निष्ठायोगपर्यायाः ॥ ग्क्त्_1.6अब्:153
* यस्मिन् सति पदार्थाः साधकस्याध्यक्षोपलब्धियोग्या भवन्ति स प्रकाशः द्विविधः परापरभेदात् ॥ ग्क्त्_1.6अब्:154

* तत्र येन विधियोगसाधनानि सम्यग् विवेचयति ध्येयतत्त्वे ब्रह्मणि च स्वं चित्तं समाहितं च्युतं च च्यवमानं च लक्षयति सो ऽपरः प्रकाशः ॥ ग्क्त्_1.6अब्:155
* येन तु स्थापनावसरे सर्वतत्त्वानि सगुणधर्माण्य् आनन्त्येन दृष्ट्वा योज्यायोज्यभावेन विवेचयति स पर इति ॥ ग्क्त्_1.6अब्:156
* विषयिणाम् इष्टविषयेष्व् इवानिच्छतो ऽपि रुद्रे चित्तवृत्तिप्रवाहः समीपं तद् एवात्यन्तोत्कर्षापन्नं देवनित्यत्वम् इत्य् एतत् सर्वं धर्मज्ञापकत्वेनोक्तम् इति ॥ ग्क्त्_1.6अब्:157
* तृतीयं लाभम् आह ॥ ग्क्त्_1.6अब्:158
* अथ नित्यत्वम् इति ॥ ग्क्त्_1.6अब्:159
* अथेत्यानन्तर्ये तपोऽनन्तरं यद् देवे भावाभ्यासलक्षणं नित्यत्वं तृतीयो लाभः स उच्यते ॥ ग्क्त्_1.6अब्:160
* न तु नित्ययुक्ततेत्य् अर्थः ॥ ग्क्त्_1.6अब्:161
* अव्युच्छिन्नप्रवाहो नित्यत्वम् अत्राभिप्रेतं यथा नित्यप्रवाहा गङ्गेती ॥ ग्क्त्_1.6अब्:162
* चतुर्थं लाभम् आह स्थितिर् इति ॥ ग्क्त्_1.6अब्:163
* दोषहेतुजालेभ्यश् छिन्नस्य मूलाख्यानिवृत्तौ चित्तस्य रुद्रे ऽवस्थानम् अत्यन्तनिश्चलत्वं स्थितिर् उच्यते ॥ ग्क्त्_1.6अब्:164
* तत्समकालं योगिनो ऽसङ्गित्वादीनि नव लक्षणानि भवन्ति ॥ ग्क्त्_1.6अब्:165
* तत्र लक्ष्यमाणस्य सङ्गस्यात्यन्तव्यावृत्तिर् असङ्गित्वम् ॥ ग्क्त्_1.6अब्:166
* केवलरुद्रतत्त्वावस्थितिचित्तत्त्वं योगित्वम् ॥ ग्क्त्_1.6अब्:167
* अनुरुध्यमानचित्तवृत्तित्वं नित्यात्मत्वम् ॥ ग्क्त्_1.6अब्:168
* अप्रादुर्भाविचित्तत्वम् अजत्वम् ॥ ग्क्त्_1.6अब्:169
* परमसमता मैत्रत्वम् ॥ ग्क्त्_1.6अब्:170
* शरीरादिवियुक्तत्वम् एकत्वम् ॥ ग्क्त्_1.6अब्:171
* सर्वाशङ्कास्थानातिक्रान्तत्वं क्षेमित्वम् ॥ ग्क्त्_1.6अब्:172
* बाह्याध्यात्मिकक्रियाशून्यत्वं निष्क्रियत्वम् ॥ ग्क्त्_1.6अब्:173
* समस्तचिन्तारहितत्वं वीतशोकत्वम् इत्य् एतानि लक्षणान्य् अस्य योगस्यात्यन्तोत्कृष्टत्वप्रतिपादनार्थम् उक्तानि ॥ ग्क्त्_1.6अब्:174
* पञ्चमं लाभम् आह सिद्धिश् च इति ॥ ग्क्त्_1.6अब्:175
* सिद्धिः पूर्वव्याख्याता ॥ ग्क्त्_1.6अब्:176
* सानुमानाद् अप्य् अवगम्यते ॥ ग्क्त्_1.6अब्:177
* निरुपचरिता मुक्तात्मानः परमैश्वर्योपेताः पुरुषत्वे सति समस्तदुःखबीजरहितत्वान् महेश्वरवत् ॥ ग्क्त्_1.6अब्:178
* पराभिप्रेता मुक्तात्मानः परमैश्वर्यविकलत्वाद् अस्मदादिवद् इति ॥ ग्क्त्_1.6अब्:179
* चकारो न्यूनाधिकव्यवच्छेदसूचकः ॥ ग्क्त्_1.6अब्:180
* पञ्चमीति लाभानां पञ्चत्वोपसंहारार्थम् इति ॥ ग्क्त्_1.6अब्:181
* अथैते लाभाः किं देशनियमेन प्राप्तव्या यथा ब्रह्मचारिगृहस्थवानप्रस्थभिक्षुभिर् विद्याप्रजातयोगाख्या लाभाः किं वा देशानियमेनापि पञ्चविंशतितत्त्वज्ञेन कैवल्यवद् इति ॥ ग्क्त्_1.6अब्:182
* उच्यते ॥ ग्क्त्_1.6अब्:183
* देशनियमेन ॥ ग्क्त्_1.6अब्:184
* यतस् तदर्थम् इदम् आह ॥ ग्क्त्_1.6अब्:185]
गुरुजनगुहादेशः श्मशानं रुद्र एव च ॥ ग्क्_1.6
* [<गणकारिकाटीका>
* आर्षत्वाद् वा यथाश्रुते ऽप्य् अदोषः ॥ ग्क्त्_1.6च्द्:1
* गुरुः पूर्वोक्तस् तदाज्ञयावतिष्ठमानस् तदाश्रितो भवति यथा ग्रामण्यम् आश्रितो ग्राम इति ॥ ग्क्त्_1.6च्द्:2
* तत्रादिधर्मावस्थस्य तावदायतने वास इत्यत्रायतनशब्दो गुराव् एव द्रष्टव्यो लिङ्गकर्तेत्यादिज्ञापकादुपचाराद् वा पञ्चशब्दवत् ॥ ग्क्त्_1.6च्द्:3
* यद्यप्यायतनसूत्रे प्रतिषेधः श्रूयते तथापि देशप्रस्तावे गुरुरभिप्रेत एवाचार्यो लोक इत्यादि ज्ञापकाभ्यनुज्ञानात् ॥ ग्क्त्_1.6च्द्:4
* अत एव गूढव्रतोपदेशादायतने वास इत्यत्रायतनशब्दो जने विवक्षितो मर्यादयायतनादिति कृत्वा बद्धस्य रुद्रस्य हि शिवायतनवासानुपपत्तेः ॥ ग्क्त्_1.6च्द्:5
* यदापि वासस्तदापि जनाधीन एवेत्यतो द्वितीयावस्थस्य जन एव देशः ॥ ग्क्त्_1.6च्द्:6
* जनशब्देनात्र धर्माधर्मजननाधिकृता वर्णाश्रमिनो ऽभिधीयन्त इति ॥ ग्क्त्_1.6च्द्:7

* तृतीयावस्थस्य गुहा देशः ॥ ग्क्त्_1.6च्द्:8
* गुहाग्रहणं सूत्रार्थोपलक्षणार्थम् अतः शून्यागारगुहयोरन्यतरं व्यासङ्गादिदोषवर्जितं यत्प्राप्यते तत्र वस्तव्यम् ॥ ग्क्त्_1.6च्द्:9
* देशग्रहणं तत्रावस्थानमात्रेण गुहाया देशत्वज्ञापनार्थं न तु गुरुजनवत् तदायत्तत्वेनेति ॥ ग्क्त्_1.6च्द्:10
* चतुर्थावस्थस्य श्मशानदेशः ॥ ग्क्त्_1.6च्द्:11
* श्मशानं च प्रसिद्धमेव ग्राह्यम् ॥ ग्क्त्_1.6च्द्:12
* तस्य च न गुहावद्देशत्वं किं त्व् आ देहपातात् तत्रैवानिर्गच्छता स्थेयम् इत्ययं विशेषः ॥ ग्क्त्_1.6च्द्:13
* पञ्चमावस्थस्य देशो रुद्रः ॥ ग्क्त्_1.6च्द्:14
* रुद्रो भगवान्महेश्वरः ॥ ग्क्त्_1.6च्द्:15
* प्रागपि रुद्रायत्तत्वात् साधकस्य रुद्रोऽस्त्येव देशस्तथापि प्रागन्यव्यपदेशो ऽप्यस्ति साम्प्रतं पुनः शरीरादिरहितस्य सर्वदेशविकलत्वाद् अवधारणं करोति रुद्र एवेति ॥ ग्क्त्_1.6च्द्:16
* चशब्दो न्यूनाधिकव्यवच्छेदक इति ॥ ग्क्त्_1.6च्द्:17
* अथ किमेतद्देशावस्थितिमात्रेणैवैते लाभाः प्राप्यन्ते कल्पवृक्षदेशावस्थितिवत् ॥ ग्क्त्_1.6च्द्:18
* उच्यते ॥ ग्क्त्_1.6च्द्:19
* न ॥ ग्क्त्_1.6च्द्:20
* किं तर्हि देशभेदवदुपायभेदो ऽप्यस्ति ॥ ग्क्त्_1.6च्द्:21
* यतस् तत्प्रतिपादनार्थम् आह ॥ ग्क्त्_1.6च्द्:22]
वासश्चर्या जपध्यानं सदारुद्रस्मृतिस्तथा ।
प्रसादश्चैव लाभानामुपायाः पञ्च निश्चिताः ॥ ग्क्_1.7
* [<गणकारिकाटीका>
* ग्रहणधारणोहापोहविज्ञानवचनक्रियायथान्यायाभिनिवेशानां वास इति संज्ञा तान्त्रिकी शिष्टैः कृता ॥ ग्क्त्_1.7:1
* तत्र सकृदुच्चारितवाक्यस्य सम्यगर्थप्रतिपत्तिसामर्थ्यं ग्रहणम् ॥ ग्क्त्_1.7:2
* गृहीतस्य चिरकालव्यवधानेऽपि स्मरणसामर्थ्यं धारणम् ॥ ग्क्त्_1.7:3
* एकदेशश्रवणात् तन्न्यायेनापूर्वार्थप्रतिपत्तिसामर्थ्यमूहः ॥ ग्क्त्_1.7:4
* आचार्यदेशीयैरुक्तार्थानां युक्तायुक्तप्रविभागेन प्रतिपत्तित्यागसामर्थ्यम् अपोहः ॥ ग्क्त्_1.7:5
* श्रुतस्यार्थस्यानेकधाविचारणे परप्रतिपादने च सामर्थ्यं विज्ञानम् ॥ ग्क्त्_1.7:6
* व्याहतपुनरुक्तादिदोषरहितं वाक्यं वचनम् ॥ ग्क्त्_1.7:7
* निर्दुष्टशब्दोच्चारणेनाचार्यं परितोषयतो मिथ्याज्ञानमलनिवृत्तौ विद्याभिव्यक्तिर् भवति ॥ ग्क्त्_1.7:8
* तथोत्थानप्रत्युत्थानादिका गुरौ परिचर्या क्रियेत्युक्ता ॥ ग्क्त्_1.7:9
* युक्त्यापि पूर्वोत्तराविरुद्धशास्त्रार्थपर्यालोचने तदर्थानुष्ठानार्थमतियत्नो यथा न्यायाभिनिवेशः ॥ ग्क्त्_1.7:10
* तथा चोक्तम् ।
* पूर्वोत्तराविरोधेन वाक्यार्थं ह्य् अविचालितम् ।
* यस्तर्केणानुसंधत्ते स धर्मं वेद नेतरः ॥ ग्क्त्_1.7:11
* धर्मस्योपायः चर्या ॥ ग्क्त्_1.7:12
* भस्मस्नानादिर् मूढान्तः क्रियासमूहश्चर्येत्युच्यते ॥ ग्क्त्_1.7:13
* सा च त्र्यङ्गा दानयागतापाङ्गेति ॥ ग्क्त्_1.7:14
* पञ्चसु पवित्रेष्वावर्त्यमानेषु दशभिर्नमस्कारैः परमेश्वरायात्मसमर्पणं दानम् ॥ ग्क्त्_1.7:15
* तदेवातिदानम् अनावृत्तिफलत्वात् ॥ ग्क्त्_1.7:16
* अन्यत्तु कुदानम् आवृत्तिफलत्वाद् इति ॥ ग्क्त्_1.7:17
* परमेश्वरनियोगाभिसंधिना भस्मस्नानादिक्रियाणां यथाविहितकरणं यागः ॥ ग्क्त्_1.7:18
* स एवातियागो ऽन्यस्तु कुयागः पूर्वोक्तहेतुद्वयात् ॥ ग्क्त्_1.7:19
* स्वविध्यभिनिविष्टस्यैव त्रिविधदुःखोपनिपाते सति अनुपायतः प्रतीकारमकुर्वतः सहिष्णुत्वं तापः ॥ ग्क्त्_1.7:20

* स एवातितापोऽन्यत्तु कुताप इति ॥ ग्क्त्_1.7:21
* सा त्र्यङ्गापि चर्या द्विविधा व्रतं द्वाराणि चेति ॥ ग्क्त्_1.7:22
* तत्र स्नानशयनोपहारजपप्रदक्षिणानि व्रतम् धर्मनिष्पत्त्यधर्मोच्छेदार्थं प्राधान्येन क्रियमाणत्वात् ॥ ग्क्त्_1.7:23
* द्वाराणि तु क्राथनस्पन्दनमन्दनशृङ्गारणापितत्करणापि तद्भाषणानि ॥ ग्क्त्_1.7:24
* अपमानपरिभवपरिवादनिष्पादनद्वारेण पूर्वोत्पन्नयोर् धर्माधर्मयोर् आयव्ययनिमित्तत्वादिति क्रमः स्वरूपं चैषां भाष्य एव प्रपञ्चितम् ॥ ग्क्त्_1.7:25
* तदनुसारेण शिष्यहितार्थं मयापि लेशतः प्रदर्श्यते ॥ ग्क्त्_1.7:26
* प्रागादित्योदयात् घटिकाद्वयं पूर्वाह्णसंध्या ॥ ग्क्त्_1.7:27
* सा त्रिदेवता ॥ ग्क्त्_1.7:28
* प्रथमा ब्राह्मी मध्यमा वैष्णवी अन्त्या रौद्री ॥ ग्क्त्_1.7:29
* तत्र पूर्वसंध्ययोः शौचं कृत्वा भस्म संस्कर्तव्यम् ॥ ग्क्त्_1.7:30
* कर्तृकारकादिदोषरहितं शुक्लादिगुणयुक्तं च भस्मार्जितं शिवदक्षिणमूर्तौ मन्त्रैः संस्कृत्य प्रदक्षिणं च दत्त्वा सूर्यरूपिणं भगवन्तं लोचनत्रयेण प्रसन्नदृष्ट्या भस्म पश्यन्तं ध्यायेत् ॥ ग्क्त्_1.7:31
* तदनु चाचार्याय शिवतत्त्वानुरञ्जितदृष्टये ज्येष्ठभ्रात्रे वा निवेदयेत् ॥ ग्क्त्_1.7:32
* तदन्व् एकान्ते शुचौ प्रदेशे जन्तुस्थावरहीने पञ्च पवित्राण्यावर्तयतैव स्थेयं रौद्रसवनं यावत्ततो भगवन्तं प्रणम्य त्वदाज्ञां करोमीत्यभिसंधाय जपन्नैवापादतलमस्तकं यावत् प्रभूतेन भस्मनाङ्गं प्रत्यङ्गं च प्रयत्नातिशयेन निघृष्य निघृष्य स्नानमाचरेद् इत्येवं मध्याह्नापराह्णसंध्ययोर् अपीति ॥ ग्क्त्_1.7:33
* एतावदत्र विशिष्यते ॥ ग्क्त्_1.7:34
* मध्याह्ने प्रथमा ब्राह्मी मध्ये मस्तकोपरिस्थिते रवौ रौद्री तदन्ते वैष्णवी अर्कास्तसमयोत्तरत्र प्रथमा रौद्री तदनु वैष्णवी तदन्ते ब्राह्मी चेति ॥ ग्क्त्_1.7:35
* सर्वत्र रौद्रसवनमेव स्नानकालः ॥ ग्क्त्_1.7:36
* एवं स्नानं निर्वर्त्य जपन्न् एवायतनं गत्वा शिवं भक्त्यतिशयेन प्रणम्य स्नानं निवेद्य च शनैर्गर्भगृहं प्रविशेत् ॥ ग्क्त्_1.7:37
* तदनु मूर्तिदक्षिणे देशे जानुनी पातयित्वा हृदि चाञ्जलिं बद्ध्वा मूर्तिस्थं साक्षादिव शिवं पश्यन् यद्यनिवृत्तप्रत्याहारस्तदा गतमात्र एव हसितं कुर्यादित्येके ॥ ग्क्त्_1.7:38
* वयं तु पश्यामोऽभिगम्य च यत्पूर्वं जपतीत्यादि भाष्यस्यार्थो यदि विचार्यते तदावश्यं गत्वा संयतात्मनोत्तराभिमुखेन प्रत्याहारविशेषार्थं जप्तव्यं जप्त्वा तु शिवध्यानासक्त एवाट्टहासं पुनः पुनः कुर्यात् ॥ ग्क्त्_1.7:39
* तदनु गीतम् आरभ्य गायन्न् एवोत्तिष्ठेत् ॥ ग्क्त्_1.7:40
* ततो गीतसहितमेव नृत्यं कुर्यात् ॥ ग्क्त्_1.7:41
* तत्रादौ गीतं परिसमाप्य पश्चान्नृत्यं समापयेत् ॥ ग्क्त्_1.7:42
* तदनु पूर्वोक्तविधिनोपविश्य शिवं ध्यायन्नेव हुडुक्कारं कृत्वा नमस्कारं कुर्यात्तदनु जपमिति ॥ ग्क्त्_1.7:43
* अत्र जपनमस्कारौ मानसाव् एव नृत्यं कायिकमेव हसितगीतहुडुक्कारा वाचिका एवेति नियम इष्टः ॥ ग्क्त्_1.7:44
* तत्र दीर्घोच्छ्वासत्रयं यावद्धसितं दण्डकत्रिरावर्तनं यावद्गीतनृत्ये गम्भीरहुडुक्कारत्रयं षष्टि नमस्कारान् पञ्चपवित्राणां त्रिर् आवर्तनं कुर्यादित्याह भगवानाचार्यः स्वामी मम येनाहमज्ञानार्णवादुत्तारितः ॥ ग्क्त्_1.7:45
* टीकाकारास्तु सर्वम् आ परितोषात् कर्तव्यमित्येवं प्रतिपन्नाः ॥ ग्क्त्_1.7:46
* तदेवं निर्वर्त्योपहारं ध्यायन्नीशं हसितगीतनृत्यहुडुक्कारनमस्कारजप्यैः षडङ्गोपहारं भगवन्महादेव युष्मदनुज्ञया निर्वर्तितवान् अहम् अवभृथस्नानं च करिष्यामीत्येवं निवेदयेत् ॥ ग्क्त्_1.7:47
* ततो निष्क्रम्येशं प्रणम्य प्रणामान्तं प्रदक्षिणत्रयं जपन्न् एव शनैः कुर्यात् ॥ ग्क्त्_1.7:48
* ततोऽवभृथस्नानं कृत्वा भगवंल्लकुलीशादीन् राशीकरान्तांश्च तीर्थकराननुक्रमेण यथावद्भक्त्या नमस्कुर्यात् तदनु प्रदक्षिणमेकमिति ॥ ग्क्त्_1.7:49
* अन्यदा तु यावदिच्छं प्रदक्षिणं जपन्न् एव कुर्यात् पञ्चमन्त्रजपस्तु केवलोऽपि धर्महेतुर् इति ॥ ग्क्त्_1.7:50
* अथायतनसंधिनं देशं दिवा परिगृहीतस्थावरादिदोषवर्जितत्वेन सुपरीक्षितं संध्यावसाने वस्त्रान्तादिमृदुपवित्रेण विवेच्य भस्मनैव शुचिं कुर्यात् ॥ ग्क्त्_1.7:51
* तदनु तत्रोपविश्य विध्यभिनिविष्टस् तावत् तिष्ठेद् यावद् अतिनिद्राभिभूतः श्रान्तश्च भवति ॥ ग्क्त्_1.7:52
* ततः पुनरुत्थाय विवेचयेत् ॥ ग्क्त्_1.7:53
* तदनु मन्त्रैः संस्कृत्य भस्म प्रभूतं प्रस्तरेत् ॥ ग्क्त्_1.7:54
* ततस्तत्र पञ्च मन्त्रानावर्तयन्नेव स्वपेत् पुनरुत्थायानेनैव विधिना स्वपेद्येनाश्वेव शुद्धिवृद्धी भवतः ॥ ग्क्त्_1.7:55
* सुप्तस्यापि प्राणात्यये चातिगतिः स्यादन्यथा विधिभ्रष्टस्य संसारापत्तिर् एवेति ॥ ग्क्त्_1.7:56
* एवं प्रथमावस्थायां विधिम् अनुष्ठाय यदा खलु प्राप्तज्ञानः प्रक्षीणकलुषः कृताभ्यनुज्ञश्च भवति तदावस्थान्तरं गत्वा रङ्गवदवस्थितेषु जनेषु मध्ये नटवदवस्थितो विवेच्य विवेच्य क्राथनादीनि कुर्यात् ॥ ग्क्त्_1.7:57
* तत्रासुप्तस्येव सुप्तलिङ्गप्रदर्शनं क्राथनं वाय्वभिभूतस्येव शरीरावयवानां कम्पनं स्पन्दनम् उपहतपादेन्द्रियस्येव गमनं मन्दनम् ॥ ग्क्त्_1.7:58
* यौवनसम्पन्नां स्त्रियमवलोकयन् कामुकम् इवात्मानं यैर् लिङ्गैः प्रदर्शयति तच् छृङ्गारणं कार्याकार्यविवेकशून्यस्येव लोकनिन्दितकरणम् अपि तत्करणं व्याहतापार्थकादिशब्दोच्चारणम् अपि तद् भाषणम् इति ॥ ग्क्त्_1.7:59
* न चैषां क्रमो नियम्यते ॥ ग्क्त्_1.7:60

* किंत्वपमानादिनिष्पादकत्वं येन परिभवं गच्छेद् इत्युपदेशाद् दवाग्नितुल्यत्वेनापमानादेर् इष्टतमत्वाद् इति ॥ ग्क्त्_1.7:61
* एवं तर्हि हिंसास्तेयादिकरणदुष्टशब्दोच्चारणप्रसङ्गोऽपि स्याद् अपमानादिनिष्पादकत्वाद् इति ॥ ग्क्त्_1.7:62
* नापि तत्करणापि तद्भाषणो देवाशेषक्रियाव्याप्तावहिंसाद्यविरोधज्ञापनार्थत्वात् क्राथनाद्यारम्भस्येति ।
* देवनित्यत्वे कस्तर्हि उपाय इत्याह जपध्यानम् इति ॥ ग्क्त्_1.7:63
* तत्र तृतीयचतुर्थकस्य मन्त्रस्यावर्तनं जपः ॥ ग्क्त्_1.7:64
* स द्विविधः प्रत्याहारफलः समाधिफलश्चेति ॥ ग्क्त्_1.7:65
* तत्राद्यः प्रत्याहारफलस्तन्निष्पत्तौ च क्रियमाणो जपः समाधिफल इति ॥ ग्क्त्_1.7:66
* ननु चान्यासक्तत्वे क्रियमाणो जपः संवत्सरशतेनापि न प्रत्याहारं करोत्यपि तु दोषमेव तस्य जनयतीति ॥ ग्क्त्_1.7:67
* सत्यम् एवमेतत् ॥ ग्क्त्_1.7:68
* किंतु प्रत्याहारद्वैविध्यमिहेष्टं परापरभेदात् ॥ ग्क्त्_1.7:69
* तत्रान्तःकरणपूर्वको ऽपरः ॥ ग्क्त्_1.7:70
* तत्सहितेन जपेन निर्मलीकृतं चित्तं प्रयत्ननिरपेक्षमपि ब्रह्मण्येवालातचक्रवद् अवतिष्ठते यदा तदासौ परः प्रत्याहारो जपपूर्वक एवायम् इत्युक्तः ॥ ग्क्त्_1.7:71
* स ह्य् अनेकजन्मोपार्जितं कर्म लक्षणमात्रेण दग्ध्वा ध्येयतत्त्वे चित्तं स्तम्भनिक्षिप्तायःकीलकवन् निश्चलीकरोति ॥ ग्क्त्_1.7:72
* रुद्रतत्त्वे सदृशश्चिन्ताप्रवाहो ध्यानम् ॥ ग्क्त्_1.7:73
* तद् द्विविधं जपपूर्वकं धारणापूर्वकं च ॥ ग्क्त्_1.7:74
* तत्र जपपूर्वकं प्रसङ्गेनैव पूर्वम् उक्तं धारणापूर्वकं तूच्यते ॥ ग्क्त्_1.7:75
* निरालम्बनं चित्तममूढस्य धारणम् ॥ ग्क्त्_1.7:76
* संहृतमूर्छाद्यवस्थस्यापि चित्तं वृत्तालाभान्निरालम्बनम् अस्तीति तन्निवृत्त्यर्थम् अमूढस्येत्युक्तम् ॥ ग्क्त्_1.7:77
* यो विद्यानुगृहीतया बुद्ध्या स्वं चित्तं निरालम्बनं करोति सो ऽमूढ इत्युच्यते ॥ ग्क्त्_1.7:78
* तया धारणया निर्मलीकृतं चित्तं रुद्रतत्त्वे स्थापितं सुदीर्घकालं न च्यवत इत्यनेनैव विशेषेण पूर्वध्यानापेक्षयेदं धारणासहितं ध्यानं परमित्युक्तं श्रीमद्भाष्यकृता परमयोगिना ॥ ग्क्त्_1.7:79
* यद्यप्येव दीक्षाप्रभृति चित्तं निर्मलीकर्तुं न शक्यते तथापि धानुष्कचित्रकरादिवद् अभ्यासार्थं सर्वावस्थासु यथाशक्त्या ध्यानं कर्तव्यं मृत्युकालस्यानिश्चितत्वात् ॥ ग्क्त्_1.7:80
* अन्यथा हि युद्धकाल एव अश्वदमनन्यायः स्यादिति ॥ ग्क्त्_1.7:81
* इत्थं सम्यग्विधिं ज्ञात्वा यस्तु ध्यायति शंकरम् ।
* निशादाव् अर्धरात्रे च निशान्ते चाच्युतव्रतः ॥ ग्क्त्_1.7:82
* यामं यामं तदर्घं यावच्छक्त्या दिवापि च ।
* संत्यज्यासक्तिम् अन्यत्र पश्यन्दुःखमयं भवम् ॥ ग्क्त्_1.7:83
* परं वैराग्यमास्थाय लघ्वाहारो जितेन्द्रियः ।
* उत्साहातिशयं कुर्वन् शुद्धोत्कर्षं विवर्धयन् ॥ ग्क्त्_1.7:84
* नैरन्तर्येण षण्मासं ब्रह्महत्यादिमानपि ।
* एकं संवत्सरं वापि तच्चित्तस्तन्मयो भवेत् ॥ ग्क्त्_1.7:85
* स हत्वा दुष्कृतं घोरं रागादीनां च पञ्जरम् ।
* पश्यत्येवाखिलं तत्त्वं सर्वोपाधिसमन्वितम् ॥ ग्क्त्_1.7:86
* सर्वसत्त्वाधिपं पश्यन्न् अनन्तं शिवमव्ययम् ।
* यो न पाशुपतादन्यैर् योगीशैरपि दृश्यते ॥ ग्क्त्_1.7:87
* तं दृष्ट्वा परमैश्वर्यं लब्ध्वा स्यान्निर्भयः सदा ।
* अज्ञात्वापि विधानं यस्तेषु कालेषु सुव्रतः ॥ ग्क्त्_1.7:88
* सद्भक्त्युत्साहवैराग्यैर् नित्यं ध्यायति शंकरम् ।
* तस्यापीशः प्रसन्नस्तां सिद्धिं दद्यादनुत्तमाम् ॥ ग्क्त्_1.7:89
* यां प्राप्य त्यक्तसंसारः स्वतन्त्रः शिववद्भवेत् ।
* ध्यायन्नेव तमीशानं यदि प्राणान् विमुञ्चति ॥ ग्क्त्_1.7:90

* तस्य देहान्तकाले वै दद्यादीशः परां गतिम् ।
* अब्भक्षा वायुभक्षाश्च ये चात्युग्रतपश्चराः ॥ ग्क्त्_1.7:91
* क्षित्यादीनां च दातारो यज्ञानुष्ठायिनश्च ये ।
* संवत्सरसहस्रेण यां सिद्धिं प्राप्नुवन्ति ते ॥ ग्क्त्_1.7:92
* तां प्राप्नोत्यर्धयामेन जपध्याने रतो यतिः ।
* ज्ञात्वैवं योगमाहात्म्यं देहादेः स्थित्यनिश्चयम् ॥ ग्क्त्_1.7:93
* दुःखार्णवं च संसारं न कुर्यादन्यथा मतिम् ।
* शरीरं ध्रियते यावद्यावद्बुद्धिर्न हीयते ॥ ग्क्त्_1.7:94
* तावद्ध्यानं जपं चैव यावच्छक्त्या समभ्यसेत् ।
* इष्टं द्रव्यं यथा नष्टं कश्चिद्ध्यायत्यहर्निशम् ।
* तद्वद्वागाद्यसंसृष्टं शिवं ध्यायेद् अनालसः ॥ ग्क्त्_1.7:95
* विवक्षोर् वाग्विशुद्धः प्राग् यद्वच्चेतसि भासते ।
* तद्वत्तं प्रणिधानेन दिवा रात्रौ च चिन्तयेत् ॥ ग्क्त्_1.7:96
* गुणैर्धर्मैर्विशिष्टं वा भावयित्वाशु निश्चितः ।
* पश्चात्तं केवलं ध्यायेद्बुद्ध्या कृत्वा पृथक्ततः ॥ ग्क्त्_1.7:97
* इत्येतत् पाशुपतयोगविधानं परमोत्तमं सुरैरपि अलभ्यं परमगुह्यम् आ परमेश्वराद् गुरुपारम्पर्योपदेशैकसमधिगम्यं स्वल्पप्रज्ञानाम् अनुग्रहार्थं व्यक्तम् एवोपन्यस्तम् ॥ ग्क्त्_1.7:98
* यस्त्वेवं न श्रद्दधात्यपरीक्षितेभ्यो वा ददाति तस्य ब्रह्महत्यादिभ्यो ऽपि गरीयः पातकं स्याद् इत्यतः शिष्यपरीक्षायां श्रद्धायां च यत्नः कर्तव्य इति ॥ ग्क्त्_1.7:99
* स्थितेर् उपायमाह ॥ ग्क्त्_1.7:100
* सदारुद्रस्मृतिस् तथा इति ॥ ग्क्त्_1.7:101
* देवनित्यत्वमेव सदास्मृतिर् इत्य् उच्यते ॥ ग्क्त्_1.7:102
* स्थितिं प्रत्युपायत्वप्रतिपादनार्थं संज्ञान्तराभिधानम् इति ॥ ग्क्त्_1.7:103
* तथाशब्दः समानार्थः ॥ ग्क्त्_1.7:104
* यथा देवनित्यत्वं प्रत्यध्ययनध्यानयोरेवोपायत्वं धर्मं च प्रति चर्याया एव तदनुग्राहकत्वेनानुस्नानादियमयन्त्रणादिर् अप्युपायत्वम् उपचर्यते तथा स्थितिं प्रति स्मृतिरेव प्राधान्येनोपायस् तदनुग्राहकत्वेनेन्द्रियजयो ऽप्युपायत्वेनोक्त इत्यतो नेन्द्रियजयाद् इत्यनेन विरोधः ॥ ग्क्त्_1.7:105
* सङ्गादिनिवृत्तेरुपायान्तरमिन्द्रियजय इत्येके ॥ ग्क्त्_1.7:106
* तन्न पञ्चोपायत्वविरोधात् त्यागादानसूत्रभाष्यविरोधाच् च ॥ ग्क्त्_1.7:107
* देवनित्यत्वेन्द्रियजययोर् अभेद इत्यन्ये ऽपि ॥ ग्क्त्_1.7:108
* तदपि न ॥ ग्क्त्_1.7:109
* लक्षणभेदादीन्द्रियोत्सर्गग्रहयोः प्रभुत्वमिन्द्रियजयः ॥ ग्क्त्_1.7:110
* देवे भावाभ्यासतरत्वं देवनित्यत्वमिति ॥ ग्क्त्_1.7:111
* सिद्धेस्तर्ह्युपायो वाच्य इत्यत आह ॥ ग्क्त्_1.7:112
* प्रसादश् चैव इति ॥ ग्क्त्_1.7:113
* कारणस्य स्वगुणदित्सा प्रसाद इत्युच्यते ॥ ग्क्त्_1.7:114
* चशब्दो न्यूनाधिकव्यवच्छेदसूचकः ॥ ग्क्त्_1.7:115
* एवशब्दः प्रसादस्यान्यानपेक्षत्वम् अवधारयति ॥ ग्क्त्_1.7:116
* लाभानामुपाया इत्येतद् गम्यमानार्थस्याप्यभिधानं शास्त्रान्तरोक्तानां मोक्षोपायानाम् अनुपायत्वज्ञापनार्थम् ॥ ग्क्त्_1.7:117
* पञ्च इत्युपसंहारार्थम् ॥ ग्क्त्_1.7:118
* निश्चिता इत्याप्तैर्दृष्टा इत्यर्थः ॥ ग्क्त्_1.7:119
* अथ किमेतैरुपायैः पञ्चलाभा एव प्राप्तव्या इति न किं तर्हि मलाश्च पञ्च क्षपणीयाः ॥ ग्क्त्_1.7:120
* के पुनस्ते इत्याह ॥ ग्क्त्_1.7:121]
मिथ्याज्ञानमधर्मश्च सक्तिहेतुश् च्युतिस्तथा ।

पशुत्वं मूलं पञ्चैते तन्त्रे हेयाधिकारतः ॥ ग्क्_1.8
* [<गणकारिकाटीका>
* तत्र प्रमाणाभासजं ज्ञानं मिथ्याज्ञानम् उक्तं संशयविपर्ययादिलक्षणम् ॥ ग्क्त्_1.8:1
* शास्त्रान्तरेभ्योऽपि तर्हि संशयादिनिवृत्तेर् अविशेषप्रसङ्ग इति चेन् न शास्त्रान्तरप्रणेत्ःणाम् अपि विपर्ययानिवृत्तिप्रतिपादनाद् आचार्यवैशेष्यप्रकरणे ॥ ग्क्त्_1.8:2
* तन्न शास्त्रान्तरेभ्योऽपि संशयादिनिवृत्तिरिति ॥ ग्क्त्_1.8:3
* कामक्रोधद्वेषाः कलुषं तस्याप्यज्ञाने ऽन्तर्भावः ॥ ग्क्त्_1.8:4
* कस्मात् ॥ ग्क्त्_1.8:5
* अव्यक्तावस्थागमने प्रत्यनीकत्वात् ॥ ग्क्त्_1.8:6
* तदिदं संशयादि कलुषं च सह बीजेन मिथ्याज्ञानम् इत्युच्यते ॥ ग्क्त्_1.8:7
* द्वितीयं मलं दर्शयति अधर्मश्च इति ॥ ग्क्त्_1.8:8
* पाप्मबीजं पापम् एवात्राधर्म इत्यभिप्रेतम् ॥ ग्क्त्_1.8:9
* तस्य सविकारस्यैकमलत्वं विकारविकारिणोरनन्यत्वाद् इति ॥ ग्क्त्_1.8:10
* सत्य् अप्य् अज्ञानकलुषसङ्गच्युतिहेतोर् अधर्मत्वे पापाख्य एवात्राधर्मो ऽभिप्रेत इति चः सूचयति ॥ ग्क्त्_1.8:11
* तृतीयं मलम् आह ॥ ग्क्त्_1.8:12
* सक्तिहेतुः इति ॥ ग्क्त्_1.8:13
* सक्तिः सङ्गः विषयासक्तिलक्षणसुखं भाष्ये सुखाभिमान इत्यनेनोक्तम् ॥ ग्क्त्_1.8:14
* तस्यैव लक्षणार्थं भाष्यम् अविवेचनमिश्रणप्रेरणलक्षणो वनगजवत् इति ॥ ग्क्त्_1.8:15
* तस्य सङ्गस्य हेतुस् तन्मयकरणं विध्यन्तरोपार्जितो धर्मः सङ्गकर इति य उक्तः सह विकारेणासौ तृतीयो मल इति ॥ ग्क्त्_1.8:16
* चतुर्थं मलम् आह ॥ ग्क्त्_1.8:17
* च्युतिस् तथा इति ॥ ग्क्त्_1.8:18
* रुद्रतत्त्वादीषच्चित्तं च्यवते विषयं न प्राप्नोति तच्चित्तच्यवनं च्युतिर् इत्युच्यते ॥ ग्क्त्_1.8:19
* तथाशब्दः समानार्थे ॥ ग्क्त्_1.8:20
* यथा मिथ्याज्ञानस्य स्वबीजेन सह मलत्वम् अधर्मसङ्गकरयोश् च सविकारेण तथा च्युतेरपि ऊष्मवद् अवस्थिताधर्माख्येन स्वबीजेन सह मलत्वम् इति ॥ ग्क्त्_1.8:21
* अत्र भाष्यविरोधान्न मिथ्याज्ञानकलुषपाप्मसङ्गच्युतयः पुरुषस्य भावाश् चित्तविद्ययोर् वा ॥ ग्क्त्_1.8:22
* नापि कलुषमिच्छाया भावः किंत्वधर्मविकारा एवैते ज्ञानेच्छाभ्यां सह क्षीरोदकवद् अभिन्ना इव गृह्यन्ते ॥ ग्क्त्_1.8:23
* तथा च सत्कार्यविचारे प्रपञ्चितमेतद् इति ॥ ग्क्त्_1.8:24
* पञ्चमं मलमाह पशुत्वम् इति ॥ ग्क्त्_1.8:25
* धर्माधर्मव्यतिरिक्तः प्रतिघातानुमेयः पुरुषगुणः पशुत्वम् ॥ ग्क्त्_1.8:26
* तस्य चतुर्दशलक्षणोपेतस्य मलत्वम् ॥ ग्क्त्_1.8:27
* तानि च लक्षणान्य् असर्वज्ञत्वादीन्य् अपतित्वान्तानि सर्वज्ञत्वादिविपर्ययेणैव व्याख्यातानीति ॥ ग्क्त्_1.8:28
* तच्चेत्थंभूतं पशुत्वं संसारस्यानादिकारणं प्रधानभूतम् इत्येवं मत्वाह मूलमिति ॥ ग्क्त्_1.8:29
* तथाहि कैवल्यगतानामन्यमलाभावे ऽपि पशुत्वादेव पुनः संसारापत्तिरिति ॥ ग्क्त्_1.8:30
* पञ्च इति न्यूनाधिकव्यवच्छेदेनोपसंहारार्थम् ॥ ग्क्त्_1.8:31
* एते इत्यवधारणार्थम् ॥ ग्क्त्_1.8:32
* एते एव संसारबन्धात्मका मला न तु शास्त्रान्तरोक्ता भोक्तृभोग्यसम्बन्धादय इत्यर्थः ॥ ग्क्त्_1.8:33
* क्व पुनरित्थंभूता मलाः प्रसिद्धा इत्याह ॥ ग्क्त्_1.8:34
* तन्त्रे साक्षान् महेश्वरप्रणीतम् अथशब्दादि शिवान्तं शास्त्रं तन्त्रं तस्मिन्नेते प्रतिपादिता इत्यर्थः ॥ ग्क्त्_1.8:35
* धर्मज्ञानादेरपि त्यज्यमानत्वाद् अधर्मादेरिव मलत्वं प्राप्तमित्याशङ्क्याह हेयाधिकारतः इति ॥ ग्क्त्_1.8:36
* येषां कर्दमादिवद्दुःखहेतुत्वं मत्वा साधकः क्षपणार्थम् अधिक्रियते त एव मला न तु येषां पुष्पादिवदनिच्छतोऽपि विनाश इत्यतो हेयाधिकाराद् अज्ञानादय एव मला इति ॥ ग्क्त्_1.8:37
* हेयाधिकारिका इति वा पाठस्तत्राप्ययम् अर्थः ॥ ग्क्त्_1.8:38

* हेयत्वेन क्षपणीयत्वेनाधिकारो योग्यतास्ति येषां ते हेयाधिकारिणस्त एव हेयाधिकारिकाः ॥ ग्क्त्_1.8:39
* स्वार्थे कप्रत्ययः ॥ ग्क्त्_1.8:40
* अधिकारशब्दाद् वा इकङ्प्रत्यये कृते हेयपदेन कर्मधारयस् तदयमर्थो यतो हेयाधिकारिका एवात्र मला विवक्षिताः ॥ ग्क्त्_1.8:41
* तस्मान्न धर्मज्ञानवैराग्यादयोऽपि मला इति ॥ ग्क्त्_1.8:42
* इत्येतत्सर्वमाख्यातं संक्षिप्याब्धिसमं मया ।
* आचार्याणां प्रसादेन ज्ञानं पञ्चार्थलक्षणम् ॥ ग्क्त्_1.8:43
* किं ज्ञातैर्बहुभिः शास्त्रैः स्वानुष्ठानापहारिभिः ।
* इदमेवोत्तमं ज्ञात्वा योगाभ्यासरतिर्भवेत् ॥ ग्क्त्_1.8:44
* कृतकृत्यं स्वमात्मानं श्रुत्वैतन्मन्यते तु यः ।
* तस्मै देयमिदं ज्ञानं नान्यस्मिन् सिद्धिमिच्छता ॥ ग्क्त्_1.8:45
* यस्तु मर्यादाहीनेभ्यो दद्यात्केनापि हेतुना ।
* स गुह्यभेदतो गच्छेत्सह शिष्यैरधोगतिम् ॥ ग्क्त्_1.8:46
* नमः सद्गुरवे तस्मै सर्वविद्यान्तगामिने ।
* सच्छ्लोकैर् अष्टभिर् येन पञ्चार्थाब्धिः प्रदर्शितः ॥ ग्क्त्_1.8:47]

मूल पाठ: Gaṇakārikā 1 · Edition: Chimanlai D. Dalal Baroda: Oriental Institute, 1920 (repr. 1966) (Gaekwad's Oriental Series; 15) · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc