भाषा

ENहिગુ
ग्रंथ पाठ

एकाक्षरकोश · भाग 12

अकारो वासुदेवः स्याद् आकारश् च पितामहः ।
पूजायाम् अपि माङ्गल्ये आकारः परिकीर्त्तितः ॥ पेक्_1
इकारो उच्यते कामो लक्ष्मी रीकार उच्यते ।
उकारः शङ्करः प्रोक्त ऊकारश् चापि रक्षणे ॥ पेक्_2
ऋकारो देवमाता स्याद् ॠकारो दनुजप्रसूः ।
ऌकारो देवयोनिः स्याल् ॡर् माता सद्भिर् उच्यते ॥ पेक्_3
एकारः कथितो विष्णुर् ऐकारश् च महेश्वरः ।
ओकारस् तु भवेद् ब्रह्मा औकारो रुद्र उच्यते ॥ पेक्_4
अं स्याच् च परमं ब्रह्म अः स्याद् देवो महेश्वरः ।
कः प्रजापतिर् उद्दिष्टो को वायुर् इति शब्दितः ॥ पेक्_5
कश् चात्मा च समाख्यातः कः प्रकाश उदाहृतः ।
कं शिरो जलम् आख्यातं कं सुखं च प्रकीर्तितम् ॥ पेक्_6
पृथिव्यां कुः समाख्याता कुत्सायां कुः प्रकीर्तितः ।
खम् इन्द्रियं समाख्यातं खम् आकाशम् उदाहृतम् ॥ पेक्_7
खं स्वर्गे च समाख्यातं खं सर्पे च प्रकीर्तितं ।
तथा श्वभ्रे च खं प्राहुः खं शून्ये च प्रकीर्त्तितम् ॥ पेक्_8
गो गणपतिर् उद्दिष्टो गो गन्धर्वः प्रकीर्त्तितः ।
गं गीतं गा च गाथा स्याद् गौर् धेनुर् गौः सरस्वती ॥ पेक्_9
गौर् मातापि समुद्दिष्टा पृथिव्यां गौः प्रकीर्त्तिता ।
घो घण्टायां समाख्यातः किङ्किणी घा प्रकीर्त्तिता ॥ पेक्_10
उपमा घा समाख्याता कुस्वरे घुः प्रकीर्त्तितः ।
हनने घा समाख्याता गन्धने घः प्रकीर्त्तितः ॥ पेक्_11
ङकारो भैरवः ख्यातो ङकारो विषये स्मृतः ।
चकारश् चन्द्रमाः ख्यातस् तस्करश् च प्रकीर्त्तितः ॥ पेक्_12
निर्मलं छं समाख्यातं तरणी छः प्रकीर्त्तितः ।
छेदने छः समाख्यातो विद्वद्भिः शब्दकोविदैः ॥ पेक्_13
वेगिते जः समाख्यातो जघने जः प्रकीर्त्तितः ।
जेता च जः समाख्यातः प्रसिद्धैः शब्दकोविदैः ॥ पेक्_14
झंझावाते झकारः स्यान् नष्टे झः समुदाहृतः ।
ञकारो गायने प्रोक्तो ञकारो घर्घरध्वनौ ॥ पेक्_15
टङ्कारे टः पृथिव्यां टा टो ध्वनौ च प्रकीर्तितः ।
ठो महेश्वर आख्यातः शून्ये च ठः प्रकीर्तितः ॥ पेक्_16
बृहद्ध्वनौ च ठः प्रोक्तस् तथा चन्द्रस्य मण्डले ।
डकारः शङ्करः प्रोक्तस् त्रासध्वन्योः प्रकीर्तितः ॥ पेक्_17
ढकारः कीर्तिता ढक्का निर्गुणे च ध्वनाव् अपि ।
णकारः कीर्तितो ज्ञाने निर्णये ऽपि प्रकीर्तितः ॥ पेक्_18
तकारः कथितश् चौरः क्रोडे पुच्छे प्रकीर्तितः ।
शिलोच्चये थकारः स्यात् थकारो भयरक्षणे ॥ पेक्_19
दं कलत्रे समाख्यातं दो दानच्छेदधातुषु ।
धं धने च धनेशे धो धा धातरि निदर्शितः ॥ पेक्_20

धिषणा धीः समाख्याता धूश् च स्याद् भारचिन्तयोः ।
नकारः सुगते बन्धे नुः स्तुतौ च प्रकीर्तितः ॥ पेक्_21
नेता नीश् च समाख्यातस् तरणौ नौः प्रकीर्तिता ।
नकारः सौगते बुद्धौ स्तुतो सूर्ये च कीर्तितः ॥ पेक्_22
नशब्दः स्वागते बन्धौ वृक्षे सूर्ये च कीर्तितः ।
पः कुबेरः समाख्यातः पश्चिमे च प्रकीर्तितः ॥ पेक्_23
पवने पः समाख्यातः पाः पाने पाश् च पातरि ।
कफे वाते फकारः स्यात् तथाह्वाने प्रकीर्तितः ॥ पेक्_24
झंझावाते फकारः स्याद् अक्षरे च प्रकीर्तितः ।
कोपे फिश् च समाख्यातस् तथा निष्फलभाषणे ॥ पेक्_25
वक्षःस्थले च बः प्रोक्तो गदायां समुदाहृतः ।
नक्षत्रं भं बुधैः प्रोक्तं भ्रमरे भः प्रकीर्तितः ॥ पेक्_26
भा दीप्तिर् अपि भूर् भूमिर् भीर् भयं कथिता बुधैः ।
मः शिवश् चन्द्रमा वेधा मा च लक्ष्मीः प्रकीर्तिता ॥ पेक्_27

मूल पाठ: Ekākṣarakośa · Edition: in: "Dictionaries of Tantrashastra," ed. by Ram Kumar Rai. - Benares: Prachya Prakashan, 1984. · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc