दिव्यावदान · अध्याय 28
299.020. ततः सा द्रुतपदमभिक्रान्ता।
299.020. किन्नराः कथयन्ति--देव, अयं सुधनः कुमारो बलवीर्यपराक्रमसमन्वितो मनोहरायाः प्रतिरूपः।
299.021. किमर्थं विप्रलभ्य? दीयतामस्य मनोहरेति।
299.022. ततो द्रुमः किन्नरराजः किन्नरगणेन संवर्णितः सुधनं किन्नराभिमेतेन महता सत्कारेण पुरस्कृत्य मनोहरां दिव्यालंकारविभूषितां वामेन पाणिना गृहीत्वा दक्षिणेन सौवर्णभृङ्गारं सुधनं कुमारमभिहितह्--कुमार, एषा ते मनोहरा किन्नरीपतिवृता भार्यार्थाय दत्ता।
299.024. अपरिचिता मानुषाः, यथैनां न परित्यक्षसीति।
299.025. परं तातेति सुधनः कुमारो द्रुमस्य किन्नरराजस्य प्रतिश्रुत्य किन्नरभवनस्थो मनोहरया सार्धं निष्पुरुषेण तूर्येण क्रीडते रमते परिचारयति।
299.027. सो ऽपरेण समयेन स्वदेशमनुस्मृत्य मातापितृवियोगजेन दुःखेनात्याहतो मनोहराया निवेदयति--मातापितृवियोगजं मे दुःखं बाधत इति।
299.028. ततो मनोहरया एष वृत्तान्तो विस्तरेण पितुर् निवेदितः।
299.029. स कथयति--गच्छ कुमारेण सार्धम्।
299.029. अपक्रान्तया ते भवितव्यम्।
299.029. विप्रलम्भका मनुष्याः।
299.030. ततो द्रुमेण किन्नरराजेन प्रभूतं मणिमुक्तासुवर्णादीन् दत्त्वा अनुप्रेषितः।
299.030. स मनोहरया सार्धमुपरिविहायसा किन्नरखगपथेन संप्रस्थितः।
299.031. अनुपूर्वेण हस्तिनापुरनगरमनुप्राप्तह्<300>।
300.001. ततो हस्तिनापुरं नगरं नानामनोहरेण सुरभिना गन्धविशेषेण सर्वा दिगामोदितम्।
300.002. श्रुत्वा धनेन राज्ञा आनन्दभेर्यस्ताडिताः, सर्वं च तन्नगरमपगतपाषाणशर्करकठल्लं कारितम्।
300.003. चन्दनवारिषिक्तमामुक्तपट्टदामकलापसमुच्छ्रितध्वजपताकं सुरभिधूपघटिकोपनिबद्धं नानापुष्पावकीर्णरमणीयम्।
300.004. ततः कुमारो ऽनेकनरवरसहस्रपरिवृतो मनोहरया सार्धं हस्तिनापुरं नगरं प्रविष्टः।
300.005. ततो मार्गश्रमं प्रतिविनोद्य विविधानि रत्नान्यादाय पितुः सकाशमुपसंक्रान्तः।
300.006. पित्रा कण्ठे परिष्वक्तः।
300.006. पार्श्वे राजासने निषण्णः।
300.006. किन्नरनगरगमनागमनं च विस्तरेण समाख्यातम्।
300.007. ततो धनेन राज्ञा अतिबलवीर्यपराक्रम इति विदित्वा राज्याभिषेकेणाभिषिक्तः।
300.008. सुधनः कुमारः संलक्षयति--यन्मम मनोहरया सार्धं समागमः संवृत्तो राज्याभिषेकश्चानुप्राप्तः, तत्पूर्वकृतहेतुविशेषात्।
300.009. यन्न्वहमिदानीं दानानि दद्याम्, पुण्यानि कुर्यामिति।
300.010. तेन हस्तिनापुरे नगरे द्वादश वर्षाणि निर्गटो यज्ञ इष्टः॥
300.011. स्यात्खलु ते महाराज अन्यः स तेन कालेन समयेन सुधनः कुमारो वेति? न खल्वेवं द्रष्टव्यम्।
300.012. अपि त्वहमेव तेन कालेन तेन समयेन बोधिसत्त्वचर्यायां वर्तमानः सुधनो नाम राजा बभूव।
300.013. यन्मया मनोहरानिमित्तं बलवीर्यपराक्रमो दर्शितः, द्वादश वर्षाणि निरर्गटो यज्ञ इष्टः, न तेन मया अनुत्तरा सम्यक्सम्बोधिरधिगता, किं तु तद्दानं तच्च वीर्यमनुत्तरायाः सम्यक्सम्बोदेर्हेतुमात्रकं प्रत्ययमात्रकं संभारमात्रकम्॥
300.016. इत्यवोचद्भगवान्।
300.016. आत्तमनसस्ते च सर्वे लोका भगवतो भाषितमभ्यनन्दन्॥
300.017. इति सुधनकुमारावदानं समाप्तम्॥
********** अवदान 31 **********
301.001. दिव्31 तोयिकामहावदानम्।
301.002. तत्र भगव्बानायुष्मन्तमामन्त्रयते--स्म आगमय आनन्द येन श्राअवस्तीति।
301.002. एवं भदन्तेत्यायुच्मानानन्दो भगवतः प्रत्यश्रौषीत्।
301.003. अथ भगवान् येन श्रावस्ती तेन चारिकां प्रक्रान्तः।
301.004. यावदन्यतमस्मिन् प्रदेशे ब्राह्मणश्छिन्नभक्तो हलं वाहयति, तस्यार्थाय दारिका पेयामादाय गता।
301.005. भगवांश्च प्रदेशमनुप्राप्तः।
301.005. ददर्श स ब्राह्मणो बुद्धं भगवन्तं द्वात्रिंशता महापुरुषलक्चणैः समलंकृतमशीत्यानुव्यञ्जनैर्विराजितगात्रं व्यामप्रभालंकृतं सूर्यसहस्रातिरेकप्रभं जङ्गममिव रत्नपर्वतं समन्ततो भद्रकम्।
301.007. सहदर्शनाच्चास्य भगवति प्रसाद उत्पन्नः।
301.008. न तथा द्वादशवर्षाभ्यस्तः शमथश्चत्तस्य कल्यतां जनयति, अपुत्रस्य वा पुत्रप्रतिलम्भः, दरिद्रस्य वा निधिदर्शनम्, राज्याभिनन्दनो वा राज्याभिषेकः, यथोपचितकुशलमूलस्य सत्त्वस्य तत्प्रथमतो बुद्धदर्शनम्।
301.010. स तां पेयामादाय लघुलध्वेव येन भगवांस्तेनोपसंक्रान्तः।
301.011. उपसंक्रम्य भगवन्तमेतदवोचत्--इयं भो गौतम पेया।
301.011. यद्यस्ति ममान्तिके ऽनुकम्पा, पिबेद्भगवान् गौतमः पेयामिति।
301.012. ततो भगवता ब्राह्मणस्य जीर्णकूपो दर्शितह्--सचेत्ते ब्राह्मण परित्यक्ता, अस्मिञ् जीर्णकूपे प्रक्षिपेति।
301.013. तेन तस्मिञ् जीर्णकूपे प्रक्षिप्ता।
301.013. स जीर्णकूपो वाप्यायमानः पेयापूर्णः, यथापि तद्बुद्धानां बुद्धानुभावेन देवतानां च देवतानुभावेन।
301.014. ततो भगवता स ब्राह्मणो ऽभिहितह्--चारय महाब्राह्मण पेयामिति।
301.015. स चारयितुमारब्धः।
301.015. भगवता तथा अधिष्ठिता यथा सर्वसंघेन पीता।
301.016. स च जीर्णकूपो वाप्यायमानस्तथैव पेयापूर्णो ऽवस्थितः।
301.017. ततो ऽसौ ब्राह्मणो भूयस्या मात्रया अभिप्रसन्नो भगवतः पादाभिवन्दनं कृत्वा पुरस्तान्निषण्णो धर्मश्रवणाय।
301.018. तस्य भगवता आशयानुशयं धातुं प्रकृतिं च ज्ञात्वा तादृशी चतुरायसत्यसम्प्रतिवेधिकी धर्मदेशना कृता, पूर्ववद्यावदनादिकालोपचितं सत्कायदृष्टिशैलं ज्ञानवज्रेण भित्त्वा स्रोताअपत्तिफलं साक्षात्कृतम्।
301.020. अतिक्रान्तो ऽहं भदन्त, अतिक्रान्तः।
301.020. एषो ऽहं भगवन्तं बुद्धं शरणं गच्छामि धर्मं च भिक्षुसंघं च।
301.021. उपासकं च मां धारय अद्याग्रेण यावज्जीवं प्राणोपेतं शरणं गतमभिप्रसन्नम्।
301.022. अथासौ ब्राह्मणो वणिगिव लब्धलाभः शस्यसम्पन्न इव कृषीवलः शूर इव विजितसंग्रामः सर्वरोगनिर्मुक्त इवातुरो भगवतो भाषितमभ्यानन्द्यानुमोद्य भगवतः पादौ शिरसा वन्दित्वा भगवतो ऽन्तिकात् प्रक्रान्तो यावत्क्षेत्रं गतः।
301.025. पश्यति तस्मिन् क्षेत्रे सौवर्णान् यवान् संपन्नान्।
301.025. दृष्ट्वा च पुनर्विस्मयोत्फुल्ललोचनो गाथां भाषते--
301.027. अहो गुणमयं क्षेत्रं सर्वदोषविवर्जितम्।
301.028. अद्यैव वापितं बीजमद्यैव फलदायकम्
301.029. ततो ऽसौ ब्राह्मणस्त्वरितत्वरितं राज्ञः सकाशमुपसंक्रान्तः।
301.029. उपसंक्रम्य जयेनायुषा वर्धयित्वा राजानमुवाच--देव, मया यवाः प्रकीर्णाः, ते सौवर्णाः संवृत्ताः।
301.030. तस्याधिष्ठायकेन प्रसादः क्रियतामिति।
301.031. राज्ञा अधिष्ठायको ऽनुप्रेषितः।
301.031. ब्राह्मणेन राशीकृत्य भाजितः।
301.031. राजभागः स्वाभाविका यवाः संवृत्ताः।
301.032. अधिष्ठायकेन राज्ञे निवेदितम्।
301.032. राज्ञा समादिष्टम्--<302>पुनर्भाजयतेति।
302.001. तैः पुनर्भाजितम्।
302.001. तथैव राजभागः स्वाभाविका यवाः संवृत्ताः।
302.001. एवम् यावत् सप्तकृत्वो भाजितम्।
302.002. तथैव।
302.002. राजा कुतूहलजातः स्वयमेव पश्यति--तथैव।
302.003. तेनासौ ब्राह्मणो ऽभिहितह्--ब्राह्मण, तवैतत्पुण्यनिर्जातम्।
302.003. अलं राजभागेन, यथाभिप्रेतं तन्ममानुप्रयच्छेति।
302.004. ततस्तेन ब्राह्मणेन परितुष्टेन यद्दत्तम्, तत्सौवर्णाः संवृत्ताः॥
302.005. ततो भगवान् संप्रस्थितः।
302.005. यावदन्यतमस्मिन् प्रदेशे पञ्चकार्षशतान्युत्पाडूत्पाण्डुकानि स्फुटितपाणिपादानि शणशाटीनिवासितानि लङ्गलानि वाहयन्ति।
302.006. ते ऽपि बलीवर्दा बद्धैः प्रयोक्त्रैः प्रतोदयष्टिभिः क्षतविक्षतगात्रा मुहुर्मुहुर् निश्वसन्तो वहन्ति।
302.007. तदृशुस्ते कार्षाका बुद्धं भगवन्तं द्वात्रिंशता महापुरुषलक्षणैः समलंकृतं पूर्ववद्यावदुपचितकुशलमूलसत्त्वस्य तत्प्रथमतो बुद्धदर्शनम्।
302.009. ततो येन भगवांस्तेनोपसंक्रान्ताः।
302.009. अद्राक्षीद्भगवांस्तान् कार्षकान् दूरादेव।
302.010. दृष्ट्वा च पुनर्विनेयापेक्षया मार्गादपक्रम्य पुरस्ताद्भिक्षुसंघस्य प्रज्ञप्त एवासने निषण्णः।
302.010. एत कार्षका भगवतः पादौ शिरसा वन्दित्वा एकान्तनिषण्णाः।
302.011. ततो भगवता तेषां कार्षकाणामाशयानुशयं धातुं प्रकृतिं च ज्ञात्वा तादृशी चतुरार्यसत्यसम्प्रतिवेधिकी धर्मदेशना कृता, पूर्ववद्यावदनादिकालोपचितं सत्कायदृष्टिशैलं ज्ञानवज्रेण भित्त्वा स्रोताअपत्तिफलं साक्षात्कृतम्।
302.014. ते दृष्टसत्या येन भगवांस्तेनोपसंक्रान्तः।
302.014. प्रणमय्य भगवन्तमिदमवोचत्--देशय भदन्त, स्वाख्याते धर्मविनये प्रव्रज्यामुपसम्पदं भिक्षुभावम्।
302.015. चरेम भगवतो ऽन्तिके ब्रह्मचर्यमिति।
302.016. ते भगवता एहिभिक्षुकया प्रव्राजिताः पूर्ववद्यावत्ते ऽवस्थिता बुद्धमनोरथेन।
302.017. तेषां भगवता अववादो दत्तः।
302.017. तैर्युज्यमानैः पूर्ववदभिवाद्याश्च संवृत्ताः।
302.017. ते ऽपि बलीवर्दा योक्त्राणि वरत्राणि च च्छित्त्वा येन भगवांस्तेनोपसंक्रान्ताः।
302.018. उपसंक्रम्य भगवन्तं सामन्तकेन अनुपरिवार्यावस्थिताः।
302.019. तेषां भगवता त्रिभिः पदार्थैर्धर्मो देशितः पूर्ववद्यावद्यथा गङ्गावतारे हंसमत्स्यकूर्माणाम् यावद् दृष्टसत्याः स्वर्भवनं गताः॥
302.021. भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुह्--किं नु तैः कार्षकपूर्वकैर्भिक्षुभिः कर्म कृतम् येन कार्षकाः संवृत्ताः, भगवतश्च शासने प्रव्रज्य सर्वक्लेशप्रहाणादर्हत्त्वं साक्षात्कृतम्? तैर्बलीवर्दपूर्वकैर्देवपुत्रैः किं कर्म कृतम्, यन बलीवर्देषूपपन्नाः, सत्यदर्शनं च कृतमिति? भगवानाह--एभिरेव भिक्षवः कर्माणि कृतान्युपचितानि लब्धसम्भाराणि पूर्ववद्यावत्फलन्ति खलु देहिनाम्॥
302.026. भूतपूर्वं भिक्षवो ऽस्मिन्नेव भद्रकल्पे विंशतिवर्षसहस्रायुषि प्रजायां काश्यपो नाम शास्ता लोक उदपादि।
302.027. पूर्ववत्।
302.027. स वाराणसीनगरीमुपनिश्रित्य विहरति ऋषिवदने(पतने) मृगदावे।
302.028. तस्य शासने एतानि पञ्च कर्षकशतानि प्रव्रजितान्यभूवन्।
302.028. तत्रैभिर् न पठितं न स्वाध्यायितं नापि मनसिकारो विहितः।
302.029. किं तु श्रद्धादेयं भुक्त्वा भुक्त्वा संगणिकाभिरतैः कौसीद्येनाभिनामितम्॥
303.001. <303>किं मन्यध्वे भिक्षवो यानि तानि पञ्च भिक्षुशतानि, एतान्येव तानि पञ्च कर्षकशतानि।
303.002. यो ऽसौ विहारस्वामी, स एवासौ गृहपतिर्यस्यैते कार्षहाः।
303.002. यदेभिर्विहारस्वामिसन्तकं श्रद्धादेयं परिभुज्य न पठितं न स्वाध्यायितं नापि मनसिकारो विहितः, किं तु संगणिकाभिरतैः कौसीद्येनाभिनामितम्, तेन कर्मणा पञ्च जन्मशतानि तस्य विहारस्वामिनः कार्षकाः संवृत्ताः।
303.005. यावदेतर्ह्यपि तस्यैव कार्षका जाताः।
303.005. यदेभिः काशयपस्य सम्यक्सम्बुद्धास्य शासने प्रव्रज्य ब्रह्मचर्यं चरितम्, तेनैतर्हि मम शासने प्रव्रज्य सर्वक्लेशप्रहाणादर्हत्त्वं साक्षात्कृतम्।
303.007. ते च बलीवर्दपूर्विणो देवपुत्राः काश्यपस्य सम्यक्सम्बुद्धस्य शासने प्रव्रजिता आसन्।
303.008. तत्रैभिः क्षुद्रानुक्षुद्राणि शिक्षापदानि खण्डितानि।
303.008. तेन कर्मणा बलीवर्देषूपपन्नाः।
303.009. यन्ममान्तिके चित्तमभिप्रसादितम्, तेन देवेषूपपन्नाः।
303.009. यत्काश्यपे सम्यक्सम्बुद्धे ब्रह्मचर्यं वासितम्, तेनेदानीं देवपुत्रभूतैः सत्यदर्शनं कृतम्।
303.010. इति भिक्षव एकान्तकृष्णानां कर्मणामेकान्तकृष्णो विपाकः, पूर्ववद्यावदाभोगः करणीयः।
303.011. इत्येवं वो भिक्षवः शिक्षितव्यम्॥
303.013. तत्र भगवानायुच्मन्तमामन्त्रयते स्म--आगमय आनन्द येन तोयिका।
303.013. एवं भदन्तेत्यायुष्मानानन्दो भगवतो ऽश्रौषीत्।
303.014. भगवांस्तोयिकामनुप्राप्तः।
303.014. तस्मिंश्च प्रदेशे ब्राह्मणो लाङ्गलं वाहयति।
303.015. अथासौ ददर्श बुद्धं भगवन्तं द्वात्रिंशता महापुरुषलक्षणैः समलंकृतगात्रं पूर्ववद्यावत्समन्ततो भद्रकम्।
303.016. दृष्ट्वा संलक्षयति--यदि भगवन्तं गौतममुपेत्य अभिवादयिष्यामि, कर्मपरिहाणिर्मे भविष्यति।
303.017. अथ नोपेत्याभिवादयिष्यामि, पुण्यपरिहाणिः।
303.018. तत्को ऽसावुपायः स्याद्येन मे न कर्मपरिहाणि स्यान्नापि पुण्यपरिहाणिरिति? तस्य बुद्धिरुत्पन्ना--अत्रस्थ एवाभिवादनं करोमि।
303.019. एवं न कर्मपरिहाणिर्भवति नापि पुण्यपरिहाणिरिति।
303.020. तेन यथागृहीतयैव प्रतोदयष्ट्या तत्रस्थेनाभिवादनं कृतम्--अभिवादये बुद्धं भगवन्तम्।
303.021. तत्र भगवानायुष्मन्तमानन्दमामन्त्रयते--क्षण आनन्द एष ब्राह्मणः।
303.022. सचेदस्यैवं सम्यक्प्रत्यात्मज्ञानदर्शनं प्रवर्तते।
303.022. एतस्मिन् प्रदेशे काश्यपस्य सम्यक्सम्बुद्धस्याविकोपितो ऽस्ह्तिसंघातस्तिष्ठतीति।
303.023. अथानेनोपसंक्रम्य वन्दितो भवेयम्।
303.023. एवमनेन द्वाभ्यां सम्यक्सम्बुद्धाभ्यां वन्दना कृता भवेत्।
303.024. तत्कस्य हेतोह्? अस्मिन्न् आनन्द प्रदेशे काश्यपस्य सम्यक्सम्बुद्धस्याविकोपितो ऽस्थिसंघातस्तिष्ठतीति।
303.025. अथायुष्मानानन्दो लघुलघ्वेव चतुर्गुणमुत्तरासङ्गं प्रज्ञप्य भगवन्तमिदमवोचत्--निषीदतु भगवान् प्रज्ञप्त एवासने।
303.027. एवमयं पृथिवीप्रदेशो द्वाभ्यां सम्यक्सम्बुद्धाभ्यां परिभुक्तो भविष्यति, यच्च काश्यपेन सम्यक्सम्बुद्धेन, यच्चैतर्हि भगवतेति।
303.028. निषण्णो भगवान् प्रज्ञप्त एवासने।
303.028. निषद्य भगवान् भिक्षूनामन्त्रयते स्म--इच्छथ यूयं भिक्षवः काश्यपस्य सम्यक्सम्बुद्धस्य शरीरसंघातमविकोपितं द्रष्टुम्? एतस्य भगवन् कालः, एतस्य सुगत समयो ऽयम्।
303.030. भगवान् भिक्षूणां काश्यपस्य सम्यक्सम्बुद्धस्याविकोपितं शरीरसंघातमुपदर्शयतु, दृष्ट्वा भिक्षवश्चित्तमभिप्रसादयिष्यन्ति।
303.032. भगवता लौकिकं चित्तमुत्पादितम्।
303.032. धर्मता खलु यस्मिन् समये बुद्धा भगवन्तो लौकिकम् <304>
304.001. <304>चित्तमुत्पादयन्ति, तस्मिन् समये कुन्तपिपीलिकादयो ऽपि प्राणिनो भगवतश्चेतसा चित्तमाजानन्ति।
304.002. नागाः संलक्षयन्ति--किं कारणं भगवता लौकिकं चित्तमुत्पादितम्? भगवान् काश्यपस्य सम्यक्सम्बुद्धस्य शरीरसंघातमविकोपितं द्रष्टुकामः।
304.003. ततस्तैः काश्यपस्य सम्यक्सम्बुद्धस्याविकोपितः शरीरसंघात उच्छ्रापितः।
304.004. तत्र भगवान् भिक्षूनामन्त्रयते स्म--गृह्णीत भिक्षवो निमित्तम्।
304.005. अन्तर्धास्यतीति।
304.005. अन्तर्हितः॥
304.006. राज्ञा प्रसेनजिता श्रुतम्--भगवता श्रावकाणां दर्शनाय अविकोपितः कश्यपस्य सम्यक्सम्बुद्धस्य शरीरसंघात उच्छ्रापित इति।
304.007. श्रुत्वा च पुनः कुतूहलजातः सार्धमन्तह्--पुरेण कुमारौरमात्यैर्भटबलाग्रैर् नैगमजनपदैश्च द्रष्टुं संप्रस्थितः।
304.008. एवं विरूढको ऽनाथपिण्डदो गृहपतिः, ऋषिदत्तः पुराणस्थपतिः, विशाखा मृगरमाता, अनेकानि च प्राणिशतसहस्राणि कुतूहलजातानि द्रष्टुं संप्रस्थितानि पूर्वकैश्च कुशलमूलैः संचोद्यमानानि।
304.010. यावदसौ अन्तर्हितः।
304.011. तैः श्रुतम्--अन्तर्हितो ऽसौ भगवतः काश्यपस्य सम्यक्सम्बुद्धस्य शीररसंघात इति।
304.012. श्रुत्वा च पुनस्तेषां दुःखदौर्मनस्यमुत्पन्नम्--वृथा अस्माकमागमनं जातमिति॥
304.013. अथान्यतमेन चोपासकेन स प्रदेशः प्रदक्षिणीकृतः।
304.013. एवं चेतसा चित्तमभिसंस्कृतम्--अस्मान्मे पदाविहारात् कियत्पुण्यं भविष्यतीति? अथ भगवांस्तस्य महाजनकायस्याविप्रतिसारसंजननार्थं तस्य चोपासकस्य चेतसा चित्तमाज्ञाय गाथां भाषिते--
304.016. शतंसहस्राणि सुवर्णनिष्का जाम्बूनदा नास्य समा भवन्ति।
304.018. यो बुद्धचैत्येषु प्रसन्नचित्तः पदाविहारं प्रकरोति विद्वान्
304.020. अन्यतमेनाप्युपासकेन तस्मिन् प्रदेशे मृत्तिकापिण्डो दत्तः।
304.020. एवं चित्तमभिसंस्कृतम्--पदाविहारस्य तावदियत्पुण्यमाख्यातं भगवता।
304.021. अस्य तु मृत्तिकापिण्डस्य कियत्पुण्यं भविष्यतीति? अथ भगवांस् तस्यापि चित्तमाज्ञाय गाथां भाषते--
304.023. शतंसहस्राणि सुवर्णपिण्डं जाम्बूनदा नास्य समा भवन्ति।
304.025. यो बुद्धचैत्येषु प्रसन्नचित्त आरोपयेन्मेत्तिकपिण्डमेकम्
इति।
304.028. तच्छ्रुत्वा अनेकैः प्राणिशतसहस्रैर्मृत्पिण्डसमारोपणं कृतम्।
304.028. अपरैस्तत्र मुक्तपुष्पाणि क्षिप्तानि, एवं चित्तमभिसंस्कृतम्--पदाविहारस्य मृत्तिकापिण्डस्य चेयत्पुण्यमुक्तं भगवता, अस्माकं तु मुक्तपुष्पाणां कियत्पुण्यं भविष्यतीति? अथ भगवांस्तेषामपि चित्तमाज्ञाय गाथां भाषते--
305.001. <305>शतंसहस्राणि सुवर्णमूढं जाम्बूनदा नास्य समा भवन्ति।
305.003. यो बुद्धचैत्येषु प्रसन्नचित्त आरोपयेन्मुक्तकपुष्पराशिम्
इति।
305.005. अपरैस्तत्र मालाविहारः कृतः, चित्तं चाभिसंस्कृतम्--मुक्तपुष्पाणां भगवता इयत्पुण्यमुक्तम्।
305.006. अस्माकं मालाविहारस्य कियत्पुण्यं भविष्यतीति? अथ भगवांस्तेषामपि चित्तमाज्ञाय गाथां भाषते--
305.008. शतसहस्राणि सुवर्णवाहा जाम्बूनदा नास्य समा भवन्ति।
305.010. यो बुद्धचैत्येषु प्रसन्नचित्तो मालाविहारं प्रकरोति विद्वान्
इति।
305.012. अपरैस्तत्र दीपमाला दत्ता, चित्तं चाभिसंस्कृतम्--मालाविहारस्य भगवता इयत्पुण्यमुक्तम्।
305.013. अस्माकं प्रदीपदानस्य कियत्पुण्यं भविष्यतीति? अथ भगवांस्तेषामपि चेतसा चित्तमाज्ञाय गाथां भाषते--
305.015. शतंसहस्राणि सुवर्णकोट्यो जाम्बूनदा नास्य् भवन्ति।
305.017. यो बुद्धचैत्येषु प्रसन्नचित्तः प्रदीपदानं प्रकरोति विद्वान्
इति।
305.019. अपरैस्तत्र गन्धाभिषेको दत्तः, चित्तं चाभिसंस्कृतम्--प्रदीपदानस्य भगवता इयत् पुण्यमुक्तम्।
305.020. अस्माकं गन्धाभिषेकस्य कियत्पुण्यं भविष्यतीति? अथ भगवांस्तेषां चेतसा चित्तमाज्ञाय गाथां भाषते--
305.022. शतसहस्राणि सुवर्णाशयो जाम्बूनदा नास्य समा भवन्ति।
305.024. यो बुद्धचैत्येषु प्रसन्नचित्तो गन्धाभिषेकं प्रकरोति विद्वान्
इति।
305.026. अपरैस्तत्र ध्वजपताकारोपणं कृतम्, चित्तं चाभिसंस्कृतम्--पदविहारस्य मृत्पिण्डदानस्य, मुक्तपुष्पाणां मालविहारस्य प्रदीपदानस्य गन्धाभिषेकस्य च इयत्पुण्यमुक्तं भगवता, आस्माकं छत्रध्वजपताकारोपणस्य कियत्पुण्यं भविष्यतीति? अथ भगवांस्तेषां चित्तमाज्ञाय गाथां भाषते--
306.001. <306>शतसहस्राणि सुवर्णपर्वता मेरोः समा नास्य भवन्ति।
306.003. यो बुद्धचैत्येषु प्रसन्नचित्त आरोपयेच्छत्रध्वजपताकम्
306.005. एषां हि दक्षिणा प्रोक्ता अप्रमेये तथागते।
306.006. समुद्रकल्पे संबुद्धे सार्थवाहे अनुत्तरे
इति।
306.007. तेषामेतदभवत्--परिनिर्वृतस्य तावद्भगवतः पूजाकरणादि यत्पुण्यमुक्तं भगवता, तिष्ठतः कियत्पुण्यं भविष्यतीति।
306.008. अथ भगवांस्तेषामपि चेतसा चित्तमाज्ञाय गाथां भाषते--
306.009. तिष्ठन्तं पूजयेद्यच्च यच्चापि परिनिर्वृतम्।
306.010. समं चित्तप्रसादेन नास्ति पुण्यविशेषता।
306.011. एवं ह्यचिन्तिया बुद्धा बुद्धधर्माप्यचिन्तिया
306.012. अचिन्तियैः प्रसन्नानामप्रतिहतधर्मचक्रप्रवर्तिनाम्।
306.013. सम्यक्सम्बुद्धानां नालं गुणपारमधिगन्तुम्
मूल पाठ: Divyāvadāna · Edition: L. Vaidya, Mithila 1959 (Buddhist Sanskrit Texts ; 20) · Data entry Kensuke Okamoto · GRETIL (Göttingen) · CC BY-NC-SA 4.0