भाषा

ENहिગુ
ग्रंथ पाठ

Dharmaskandha · भाग 111

1. (अविद्याप्रत्ययाः संस्काराः)
( ध्स्क्द् 3र्1 ) संमोहः प्रमोहो मोहं मोहजम् इयम् उच्यते अविद्या । अविद्याप्रत्ययाः संस्काराः कतमे । एवम् उक्तं भगवता ।
अविद्या भिक्षवो हेतुः संरागाय हेतुः संद्वेषाय हेतुः सं मोहाय । इति ( ध्स्क्द् 3र्2 ) या सा संरागता संमोहता इयम् उच्यते अविद्याप्रत्ययाः संस्काराः ।
अपि खल्व् एवम् उक्तं भगवता ।
अविद्या भिक्षवः पूर्वंगमं पूर्वनिमित्तम् अनेकविधानां पाप कानाम् अकुशला नां ( ध्स्क्द् 3र्3 ) धर्माणां समुत्पत्तये ऽनूत्पातिको भवति यद् उत आःरीक्यं चानपत्राप्यं च । अह्रीमान् भिक्षवो भिक्षुर् अनपत्रापी मिथ्यादृष्टिको भवति । तत्र भिक्षवो मिथ्या मिथ्यादृष्ट्या मिथ्यासंकल्पो भव ति ।
मिथ्या संकल्पान् ( ध्स्क्द् 3र्4 ) मिथ्यावाचं भाषति । मिथ्यावाचो मिथ्याकर्मान्तः प्रभवति । मिथ्याकर्मान्तान् मिथ्याजीवः प्रभवति । मिथ्याजीवान् मिथ्याव्यायामः प्रभवति । मिथ्याव्याया मा न् मिथ्यास्मृति ः प्रभवति । मिथ्यास्मृ तेर् ( ध्स्क्द् 3र्5 ) मिथ्यासमाधिः प्रभवति । इति या सा मिथ्यादृष्टिर् मिथ्यासंकल्पो मिथ्यावाङ् मिथ्याकर्मान्तो मिथ्याजीवो मिथ्याव्यायामो मिथ्यास्मृतिः मिथ्यासमाधिर् इम उच्यन्ते अविद्या प्रत्ययाः ( ध्स्क्द् 3र्6 ) संस्काराः ।
अपि खल्व् एवं उक्तं भगवता ।
ये के चिद् भिक्षवो ऽनेकविधाः पापका अकुशला धर्माः संभवन्ति सर्वे ते अविद्यामूलका अविद्यासमुदया अविद्याजातीया अविद्या प्रभवा । ( ध्स्क्द् 3र्7 ) अविदागतो हि भिक्षवः अजानन् कुशलाकुशलान् धर्मान् यथाभूतं न प्रजानाति सावद्यानवद्यान् सेवितव्यासेवितव्यान् हीनप्रणीतान् कृष्णशुक्लान् सप्रतिभागप्रती त्यसमु त्पन्नान् ( ध्स्क्द् 3र्8 ) धर्मान् यथाभूतं न प्रजानाति । स एवं कुशलाकुशलान् धर्मान् यथाभूतम् अप्रजानन् सावद्यानवद्यान् सेवितव्यासेवितव्यान् हीनप्रणीतकृष्णशुक्लसप्रतिभागप्र तीत्यस मुत्पन्नान् ( ध्स्क्द् 3र्9 ) धर्मान् यथाभूतम् अप्रजानन् मिथ्यादृष्टिको भवति । तत्र भिक्षवो मिथ्यादृष्ट्या मिथ्यासंकल्पः प्रभवति विस्तरेण यथा पूर्वोक्तं । इम उच्यन्ते अविद्याप्रत्ययाः स ं स्काराः ।
( ध्स्क्द् 3व्1 ) अपि खल्व् एवम् उक्तं भगवता कुंभोपमे व्याकरणे ।
पुण्यान् अपि संस्कारान् अभिसंस्करोति अविद्याप्रत्ययान् । अपुण्यान् अप्य् आनिंज्यान् अपि संस्कारान् अभिसंस्करोति । अविद्याप्रत्ययाः पुण्यसंस्का राः कतमे । आह कुशलं कायकर्म ( ध्स्क्द् 3व्2 ) वाक्कर्म कुशलाश् चित्तचैतसिका धर्माः कुशलाश् चित्तविप्रयुक्ताः संस्काराः । यद् अपि तत् कुशलस्य कायकर्मवाक्कर्मणः कुशलानां चित्तचैतसिकानां कुशलानां चित्तविप्रयुक्तानां संस्काराणां दीर्घरात्रं इष्टं कान्तं प्रि यं ( ध्स्क्द् 3व्3 ) मनापं विपाकं प्रतिसंवेदयते तद् इदम् उच्यते पुण्यम् इति वा पुण्यफलम् इति वा पुण्यफलविपाकम् इति वा ।
अपुण्याः संस्काराः कतमे । आहाकुशलं कायकर्मवाक्कर्म अकुशलाश् चित्तचैतसिका धर्माः अकु शलाश् चि त्तविप्रयुक्ता ः ( ध्स्क्द् 3व्4 ) संस्कारा । यद् अपि तद् अकुशलस्य कायकर्मवाक्कर्मणः अकुशलानां चित्तचैतसिकानां धर्माणाम् अकुशलानां चित्तविप्रयुक्तानां संस्काराणां दीर्घरात्रम् अनिष्टम् अकान्तम् अप्रियम् अमनापं प्रतिसंवे दयते त द् ( ध्स्क्द् 3व्5 ) उच्यते अपुण्यम् इति वा अपुण्यफलम् इति वा अपुण्यफलविपाकम् इति वा । इम उच्यन्ते अपुण्याः संस्काराः ।
आनिंज्याः संस्कारा ः कतमे । आह । चत्वार्य् आरूप्याण्य् आनिंज्यम् इत्य् उच्यते ॥
कथम् अपुण्यान् संस्कारान् अ भिसंस्कुरु ते ( ध्स्क्द् 3व्6 ) अविद्याप्रत्ययान् । आह । यथा खल्व् इहैकत्यो रागपर्यवस्थितो द्वेषपार्यवस्थितो मोहपर्यवस्थितः कायेन दुश्चरितं चरति वाचा मनसा दुश्चरितं चरति । इतीमे ते अकुशलाः कायसंस्कारा वाक्संस्कारा ( ध्स्क्द् 3व्7 ) मनःसंस्कारा । इम उच्यन्ते अपुण्या ः संस्कारा । यद् अपि तद्धेतोस् तत्प्रत्ययं कायस्य भेदान् नरकेषूपपद्यन्ते । तत्र च संस्कारान् अभिनिर्वर्तयन्ते । एवम् अपुण्यान् संस्कारान् अभिसंस्करोति अविद्याप्रत्य यान् ।
यथा ( ध्स्क्द् 3व्8 ) नरकेष्व् एवं तिर्यक्प्रेतेषु ।
कथं पुण्यान् संस्कारान् अभिसंस्करोति अविद्याप्रत्ययान् । आह । यथा खल्व् इहैकत्यो मनुष्यसुखकेष्व् अवेक्षावान् भवति प्रतिबद्धचित्तस् । तस्यैवं भवत्य् । अहो बताहं मनुष्यसुखकानां सभागता याम् ( ध्स्क्द् 3व्9 ) उपपद्येयम् इति । स तं प्रार्थयमानस् तद्धेतुकं संवर्तनीयं कायेन सुचरितं चरति वाचा मनसा सुचरितं चरति । इति ये ते कुशलाः कायसंस्कारा वा वाक्संस्कारा वा मनःसंस्कारा वा इम उच्यन्ते पु ण्याः ( ध्स्क्द् 3व्10 ) संस्काराः । यद् अपि तद्धेतु तत्प्रत्ययं कायस्य भेदान् मनुष्यसुखकानां सभागतायाम् उपपद्यते । तत्र च संस्कारान् अभिनिर्वर्तयत्य् । एवं पुण्यान् संस्कारान् अभिसंस्करोति अविद्याप्रत्ययान् । न् अ है वावेक्षावा न् ( ध्स्क्द् 4र्1 ) भवति प्रतिबद्धचित्तः । अपि त्व् अविद्यायां सत्याम् अविद्यासंचेतनाहेतोः कायेन सुचरितं चरति वाचा मनसा सुचरितं चरति । इति ये ते कुशलाः कायसंस्कारा विस्तरेण यावन् मनुष्यसुखकानां सभागताया म् उपपद्यते । ( ध्स्क्द् 4र्2 ) तत्र च संस्कारान् अभिसंवर्तयत्य् । एवं पुण्यान् संस्कारान् अभिसंस्कुरुते अविद्याप्रत्ययान् ।
यथा मनुष्यसुखकानाम् एवं चातुर्महाराजकायिकानां त्रयस्त्रिंशानां यामानां तुषितानां निर्माणरतीनां परनिर्मितव शवर्तिनां ।
( ध्स्क्द् 4र्3 ) यथा खल्व् इहैको ब्रह्मकायिकानां देवानाम् अवेक्षावान् भवति प्रतिबद्धचित्तः । तस्यैवं भवति । अहो बताहं ब्रह्मकायिकानां देवानां सभागतायाम् उपपद्येयं । स तं प्रार्थयमानः तद्धेतोस् तत्संवर्तनीयं विविक्तं का मैर् विवि क्तं ( ध्स्क्द् 4र्4 ) पापकैर् अकुशलैर् धर्मैः सवितर्कं सविचारं विवेकजं प्रीतिसुखं प्रथमं ध्यानम् उपसंपद्य विहरति । तथा समापन्नस्य यत् कायसंवरो वाक्संवरः आजीवपरिशुद्धिः इम उच्यन्ते पुण्याः संस्काराः । यद् अपि तद्धेतोस् त त्प्रत्ययं ( ध्स्क्द् 4र्5 ) कायस्य भेदाद् ब्रःमकायिकानां देवानां सभागतायाम् उपपद्यते । तत्र च संस्कारान् अभिनिर्वर्तयति । एवं पुण्यान् संस्कारान् अभिनिर्वर्तयत्य् अविद्याप्रत्ययान् । न हैवावेक्षावान् भवति प्रतिबद्धचि त्तः । अपि ( ध्स्क्द् 4र्6 ) त्व् अविद्यायां सत्याम् अविद्यासंचेतनाहेतोर् विविक्तं कामैर् यावत् प्रथमं ध्यानम् उपसंपद्य विहरति । तथा समापन्नस्य यः कायसंवरो वाक्संवरः । विस्तरेण यावत् । तत्र च संस्कारान् अभिनिर्वर्तयति । एवम् पुण्यान् ( ध्स्क्द् 4र्7 ) संस्कारान् अभिनिर्वर्तयत्य् अविद्याप्रत्ययान्* ।
यथा ब्रह्मकायिकानाम् एवं ब्रह्मपुरोहितानां महाब्रःमाणां परीत्ताभानां अप्रमाणाभाना म् आ भास्वराणां परीत्तशुभानाम् अप्रमाणशुभानां शुभकृत्स्नानाम् अ नभ्रका णां ( ध्स्क्द् 4र्8 ) पुण्यप्रसवानां बृहत्फलानां । एषु सर्वेषु यथायोग्यानि ध्यानानि वक्तव्यानि ।

यथा खल्व् इहैकत्यः असंज्ञिसत्वानां देवानाम् अवेक्षावान् भवति प्रतिबद्धचित्तः । तस्यैवं भवत्य् । अहो बताहं असंज्ञिस त्त्वानां देवा नां ( ध्स्क्द् 4र्9 ) सभागतायाम् उपपद्येयं । स तं प्रार्थयमानस् तद्धेतोस् तत्संवर्तनीयं संज्ञाम् औदारिकतो दुःखिलतः स्थूलभित्तिकतो मनसिकरोति आसंज्ञिकं च शान्ततः प्रणीततो निःसरण तः । तस्य संज्ञाम् औ दारिकतो ( ध्स्क्द् 4र्10 ) दुःखिलतः स्थूलभित्तिकतो मनसिकुर्वतः आसंज्ञिकं च शान्ततः प्रणीततो निःसरणतः संज्ञा अन्तरायत्य् आसंज्ञिकं च संस्थिहति । यत्रास्य संज्ञा अन्तरायत्य् आसंज्ञिकं संस्थिहत्य् एता वद् ( ध्स्क्द् 4व्1 ) असंज्ञिसमापत्तिं समापन्न इति वक्तव्यं । तथा समापन्नस्य यः कायसंवरो वाक्संवरः आजीवविशुद्धिर् इम उच्यन्ते पुण्याः संस्काराः । यद् अपि तद्धेतोस् तत्प्रत्ययं कायस्य भे दाद् असं ज्ञ् इसत्त्वानां सभा गतायाम् ( ध्स्क्द् 4व्2 ) उपपद्यते । तत्र च संस्कारान् अभिसंनिर्वर्तयत्य् अविद्याप्रत्ययान् । न हैवावेक्षावान् भवति प्रतिबद्धचित्तो । ऽपि त्व् अविद्यायां सत्यां अविद्याभिसंचेतनाहेतोः संज्ञाम् औदारिकतो दुःखिलतः स्थूलभित्तिकतो ( ध्स्क्द् 4व्3 ) मनसिकुरुते आसंज्ञिकं च शान्ततः प्रणीततो निःसरणतः । तस्य विस्तरेण यावद् आसंज्ञिकं संस्थिहत्य् एतावत् असंज्ञिसमापत्तिं समापन्न इति वक्तव्यं । तथा समापन्नस्य यः कायसंवरो । विस्तरे ण ( ध्स्क्द् 4व्4 ) यावत् । तत्र च संस्कारान् अभिनिर्वर्तयत्य् । एवं पुण्यान् संस्कारान् अभिसंस्करोत्य् अविद्याप्रत्ययान् ।
कथम् आनिंज्यान् संस्कारान् अभिसंस्करोत्य् अविद्याप्रत्ययान् । आह । यथा खल्व् इहैकत्यः आकाशानन्त्यायत नानां देवाना म् ( ध्स्क्द् 4व्5 ) अवेक्षावान् भवति प्रतिबद्धचित्तः । तस्यैवं भवत्य् । अहो बताहं आकाशानन्त्यायत ना नां देवानां सभागतायाम् उपपद्येयं । स तं प्रार्थयमानः तद्धेतोस् तत्संवर्तनीयं सर्वशो रूपसं ज्नानाम् अ तिक्रमात् ( ध्स्क्द् 4व्6 ) प्रतिघसंज्ञानां अस्तंगमान् नानात्वसंज्ञानाम् अमनसिकाराद् अनन्तम् आकाशम् इत्य् आकाशानन्त्यायतनम् उपसंपद्य विहरति । तथा समापन्नस्य या चेतना चेतितं चेतनामितं चेतयि तत्वं ( ध्स्क्द् 4व्7 ) चेतनागतं चित्ताभिसंस्कारो मनस्कर्म इम उच्यन्ते आनिंज्याः संस्काराः । यद् अपि तद्धेतोस् तत्प्रत्ययं कायस्य भेदाद् आकाशानन्त्यायतनानां देवानां सभागतायाम् उपपद्यते त त्र च सं स्कारान् ( ध्स्क्द् 4व्8 ) अभिनिर्वर्तयत्य् । एवम् आनिंज्यान् संस्कारान् अभिनिर्वर्तयत्य् अविद्याप्रत्ययान् । न हैवावेक्षावान् भवति प्रतिबद्धचित्तः । अपि त्व् अविद्यायां सत्यां अविद्याभिसंचेतनाहेतोः सर्वशो रूपसंज्ञानां समति क्रमाद् ( ध्स्क्द् 4व्9 ) विस्तरेण यावद् आकाशानन्त्यायतनम् उपसंपद्य विहरति । तथा समापन्नस्य या चेतना विस्तरेण इम उच्यन्ते आनिंज्याः संस्कारा । यद् अपि तद्धेतोस् तत्प्रत्ययं कायस्य भेदा द् आ काशा नन्त्यायत नानां ( ध्स्क्द् 4व्10 ) देवानां सभागतायाम् उपपद्यते । तत्र च संस्कारान् अभिनिर्वर्तयत्य् । एवं आनिंज्यान् संस्कारान् अभिनिर्वर्तयत्य् अविद्याप्रत्ययान्* ।
यथाकाशानन्त्यायतनानाम् एवं विज्ञानानन्त्यायतनानाम् आ किंचन्याय तनानां ( ध्स्क्द् 5र्1 ) नैवसंज्ञानासंज्ञायतनानाम् एतेषां प्रत्येकप्रत्येकसः आरूप्या वक्तव्या । इति ये ते संस्कारा अविद्याम् आगम्याविद्यां निश्रित्याविद्यां प्रतिष्ठाय उत्पद्यन्ति समुत्पद्यन्ते जायन्ति संजायन्ति समुदागच्छन्ति ( ध्स्क्द् 5र्2 ) प्रादुर्भवन्ति इम उच्यन्ते अविद्याप्रत्ययास् संस्काराः ॥
2. (संस्कारप्रत्ययं विज्ञानं)
उद्दानं ।
हेतुः पूर्वंगमं बलं संस्काराः कुम्भेन ।
चतुष्कं ॥
उद्दानं ।
लोभः अलोभः अथ चक्षुः संस्कृतं कुम्भोपमेन ।
द्वितीयं चतुष्कं ॥
संस्का रप्रत्ययं ( ध्स्क्द् 5र्3 ) विज्ञानं कतमद् । आह । यथ तावल् लोभसहजां वेदनां प्रतीत्य लोभसहजस्य विज्ञानस्याभिनिर्वृत्तिर् भवति प्रादुर्भावश् च द्वेषसहजां मोहसहजां वेदनां प्रतीत्य मोहसहजस्य विज्ञान स्याभिनिर्वृत्तिर् भव ति ( ध्स्क्द् 5र्4 ) प्रादुर्भावः । तद् उच्यते संस्कारप्रत्ययं विज्ञानं । अपि खलु चक्षुः प्रतीत्य रूपाणि चोत्पद्यते चक्षुर्विज्ञानं । तत्र चक्षुःसंस्कृतं रूपाणि च बाह्यं प्रत्ययं चक्षुर्विज्ञानस्य तद् उच्यते संस्कार प्रत्ययं विज्नानं । ( ध्स्क्द् 5र्5 ) श्रोत्रघ्राणजिह्वाकायमनः प्रतीत्य धर्मांश् चोत्पद्यते मनोविज्ञानं । तत्र मनःसंस्कृतं धर्माश् च बाह्यं प्रत्ययं मनोविज्ञानस्य तद् उच्यते संस्कारप्रत्ययं विज्ञानं । अपि खल्व् एवम् उक्तं भगवता कुम्भो पमेस्मिन् ( ध्स्क्द् 5र्6 ) व्याकरणे ।
तस्य पुण्यान् संस्कारान् अभिसंस्कृत्य पुण्योपगं भवति विज्ञानं । अपुण्यान् आनिंज्यान् संस्कारान् अभिसंस्कृत्यानिंज्योपगं भवति विज्ञानं ।
कथम् अपुण्यं । आह । यथा ख ल्व् इहैकत्यो राग पर्यवस्थितो ( ध्स्क्द् 5र्7 ) द्वेषपर्यवस्थितो मोहपर्यवस्थितः कायेन दुश्चरितं चरति वाचा मनसा दुश्चरितं चरति । इति ये ते अकुशलाः कायसंस्कारा वाक्संस्कारा मनःसंस्कारा इ म उच्यन्ते ऽपु ण्याः ( ध्स्क्द् 5र्8 ) संस्काराः । यद् अपि तद्धेतोस् तत्प्रत्ययं कायस्य भेदान् नरकेषूपपद्यते । तत्र च विज्ञानम् अभिनिर्वर्तयति । एवम् अपुण्यान् संस्कारान् अभिसंस्कृत्यापुण्योपगं विज्ञानं भवति ।
यथा न रकेषु तिर्यक्प्रे तेषु ( ध्स्क्द् 5र्9 ) ।
कथं पुण्यान् अभिसंस्कारान् अभिसंस्कृत्य पुण्योपगं भवति विज्ञानं । आह । यथा खल्व् इहैकत्यो मनुष्यसुखकेष्व् अवेक्षावान् भवति प्रतिबद्धचित्तः । विस्तरेण यावत् । तत्र च विज्ञानम् अभि निर्वर्तयति । ए वं ( ध्स्क्द् 5र्10 ) पुण्यान् संस्कारान् अभिसंस्कृत्य पुण्योपगं भवति विज्ञानं ।
यथा मनुष्यसुखकानाम् एवं यावत् परनिर्मितवशवर्तिनां ब्रह्मकायिकानां विविक्तं कामैर् विविक्तं तत्र च विज्ञानम् अभि निर्वर्तयति । ( ध्स्क्द् 5र्11 ) (अबोउत् 65-70 अक्षरस् इल्लेगिब्ले)
( ध्स्क्द् 5व्1 ) यावद् बृहत्फलानां सर्वेषु प्रतिप्रतिध्यानानि वक्तव्यानि ।
कथम् आनिंज्यान् संस्कारान् अभिसंस्कृत्यानिंज्योपगं भवति विज्ञानं । आह । यथा खल्व् इहैकत्य आकाशानन्त्यायतनानां देवानाम् अवे क्षावान् भवति प्रति बद्धचित्तो ( ध्स्क्द् 5व्2 ) विस्तरेण तत्र च विज्ञानम् अभिनिर्वर्तयति । एवं यावन् नैवसंज्ञानासंज्ञायतनानाम् इति यावद् विज्ञानं संस्कारान् आगम्य विस्तरः ॥
3. (विज्ञानप्रत्ययम् नामरूपं)
लोभसहजं विज्ञानम् अलोभसहजं तथा
नादि कफल्गुनवा दं ( ध्स्क्द् 5व्3 ) स्वातिर् आनन्द एव च ।
उद्दानं ॥

विज्ञानप्रत्ययं नामरूपं कतरद् । आह । यथा तावल् लोभसहजं विज्ञानं प्रतीत्य लोभसहजस्य कायकर्मवाक्कर्मणो ऽभिनिर्वृत्तिर् भवति प्रादुर्भा वश् च लोभस हजा ( ध्स्क्द् 5व्4 ) विविधा उत्पद्यन्ते रूपि विकृतं । य इदं रूपस्य तज्जा वेदना संज्ञा संस्कारा विज्ञानम् इदं नामस्य विज्ञानप्रत्ययं नामरूपस्य । तद् उच्यते विज्ञानप्रत्ययं नामरूपं ।
एवं लोभसहजं ( ध्स्क्द् 5व्5 ) मोहसहजं विपर्ययेण शुक्लपक्षेष्व् अलोभसहजम् अमोहसहजं वक्तव्यं ।
अपि खल्व् एवम् उक्तं भगवता नादिकाववादव्याकरणे ।
प्रियाणां नादिक ज्ञातीनां विपरिणामा न्यथीभा वाद् ( ध्स्क्द् 5व्6 ) उत्पद्यन्ते शोकाः परिदेवा दुःखदौर्मनस्योपायासाः ।
इत्य् एतच् छोकसहजं विज्ञानं प्रतीत्य शोकसहजस्य कायवाक्कर्मणो ऽभिनिर्वृत्तिर् भवति प्रादुर्भावः । यद् इदं रूपस्य तज्जा ( ध्स्क्द् 5व्7 ) वेदना संज्ञा संस्कारा विज्ञानं । इदं नामस्य विज्ञानं विज्ञानस्य प्रत्ययं नामरूपस्य । तद् उच्यते विज्ञानप्रत्ययं नामरूपं ।
अपि खल्व् एवम् उक्तं भगवता फल्गुनाववादे व्याक रणे ।
विज्नानं ( ध्स्क्द् 5व्8 ) फल्गुन आहारं यावद् एवायत्यां पुनर्भवस्याभिनिर्वृत्तये प्रादुर्भावाय ।
तत् कतरद् विज्ञानं । आह । यत् तद् गन्धर्वस्य चरमं चित्तं मनोविज्ञानं आचितम् उपचितं प्रतिष्ठितम् अप्रह तम् अपरिज्ञा तं ( ध्स्क्द् 5व्9 ) अनिरोधितम् अशान्तीकृतं । यस्य विज्ञानस्य समनन्तरं मातुः कुक्षौ कललात्मभावो ऽभिसंमूर्च्छति । कललम् आत्मभावं अभिसंमूर्च्छतीति । इदं रूपस्य तज्जा वेदना संज्ञा संस्का रास् तज्जं ( ध्स्क्द् 5व्10 ) विज्ञानम् इदं नामस्य विज्ञानप्रत्ययं नामरूपस्य । तद् उच्यते विज्ञानप्रत्ययं नामरूपं ।
अस्ति खल्व् एवम् उक्तं भगवता स्वातिं भिक्षुं कैवर्तपूर्विणम् आरभ्य ।
त्रयाणां भि क्षवः ( ध्स्क्द् 6र्1 ) सन्निपातान् मातुः कुक्षौ गर्भस्यावक्रान्तिर् भवति । कतमेषां त्रयाणां । इह भिक्षवो मातापितरौ रक्तौ भवतः सन्निपतितौ माता च कल्या भवति ऋतुमती गन्धर्वश् च प्रत्युपस्थितो ( ध्स्क्द् 6र्2 ) भवति । इमेषां भिक्षवस् त्रयाणां सन्निपातान् मातुः कुक्षौ गर्भस्यावक्रान्तिर् भवति ।
इति यत् तद् गर्भस्य चरमं चित्तं मनोविज्ञानं विस्तरेण यावद् विज्ञानप्रत्यययं ( ध्स्क्द् 6र्3 ) नामरूपस्य । तद् उच्यते विज्ञानप्रत्ययं नामरूपं ।
अस्ति खल्व् एवम् उक्तं भगवता महानिदानपर्याये व्याकरणे आयुष्मते आनन्दाय ।
अस्ति प्रत्ययम् आनन्द नामरूपं । ( ध्स्क्द् 6र्4 ) पृष्टे सति अस्तीत्य् अस्य वचनीयं । किंप्रत्ययं आनन्द नामरूपं । विज्ञानप्रत्ययम् इति स्याद् वचनीयं ।
विज्ञानप्रत्ययं आनन्द नामरूपं । इति मया यद् उक्तम् ( ध्स्क्द् 6र्5 ) इदं मे तत् प्रत्युक्तं । विज्ञानं चेद् आनन्द मातुः कुक्षौ नावक्रमिष्यद् अपि नु नामरूपं कललत्वं हि संमुर्च्छिष्यत्* । नो भदन्त । विज्ञानं चेद् आनन्द मातुः कुक्षौ नावक्रमित्वा पुन र् न व्यु त्क्रमिष्यत्* ( ध्स्क्द् 6र्6 ) अपि नु नामरूपं इमं धातुम् आगमिष्यन् । नो भदन्त । विज्ञानं चेद् आनन्दादाव् एव दःर म् अ स्य तरुणस्य कुमारकस्य उच्छिद्येत विनश्येत न भवेत अपि नु नामरू पं वि रूढिं ( ध्स्क्द् 6र्7 ) वैपुल्यताम् आपद्येत । नो भदन्त । सर्वशो वा पुनः सर्वश आनन्द विज्ञाने असति न नामरूपं प्रज्ञायेत । नो भदन्त । तस्माद् धि आनन्द एतन् निदानम् एष हेतुः एष प्रत्ययो ना मरूपस्य ( ध्स्क्द् 6र्8 ) यद् उत विज्ञानं । विज्ञानप्रत्ययम् आनन्द नामरू प म् । इति मया यद् उक्तम् इदं मे तत् प्रत्युक्तं ॥
4. (नामरूपप्रत्ययं विज्ञानं)
उद्दानं ॥
द्वयप्रत्ययात्* विज्ञानं फल्गुनः स्वातिर् एव च
रागजं द्वेषमोहश् च आनन्दो भवति + +
( ध्स्क्द् 6र्9 ) नामरूपप्रत्ययं विज्ञानं कतरद् । आह । चक्षुः प्रतीत्य रूपाणि चोत्पद्यते चक्षुर्विज्ञानं । तत्र यच् चक्षुर् यानि च रूपाणि इदं रूपस्य तज्जा वेदना संज्ञा संस्कारा विज्ञानं । इदं ना मरूपस्य ( ध्स्क्द् 6र्10 ) मनसिकारं नामप्रत्ययस्य मनोविज्ञानस्य । तद् उच्यते नामरूपप्रत्ययं मनोविज्ञानं ।
एवं श्रोत्रं घ्राणं जिह्वां कायं ।
मनः प्रतीत्य धर्मांश् चोत्पद्यते मनोविज्ञानं । ( ध्स्क्द् 6व्1 ) तत्र ये रूपिणो मनोविज्ञेया धर्मा इदं रूपस्य तज्जा वेदना संज्ञा संस्काराः तज्जं विज्ञानं । इदं नामरूपस्य तज्जं मनसिकारं नामप्रत्ययस्य मनोविज्ञानस्य । तद् उच्यते नामरूपप्रत्य यं मनोविज्ञानम् ।
अपि ( ध्स्क्द् 6व्2 ) खल्व् एवम् उक्तं भगवता फल्गुनाववादे व्याकरणे । विज्ञानं फल्गुनाहारं यावद् एवायत्यां पुनर्भवस्याभिनिर्वृत्तये प्रादुर्भावाय ।
तत् कतरद् विज्ञानं । आह । यत् तद् गन्धर्वस्य चरमं चित्तं वि स्तरेण यावद् ( ध्स्क्द् 6व्3 ) यस्य गन्धर्वस्य समनन्तरं मातुः कुक्षौ कललम् आत्मभावं संमूर्च्छति । कललम् आत्मभावं संमूर्च्छतीति । इदं रूपस्य तज्जा वेदना संज्ञा संस्कारास् तज्जं विज्ञानं इदं नामस्य । इत्य् एतद् अयोनिशोम नसिकारस हजं ( ध्स्क्द् 6व्4 ) नामरूपं प्रतीत्य मातुः कुक्षौ विज्ञानस्याभिनिर्वृत्तिर् भवति प्रादुर्भावस् । तद् उच्यते नामरूपप्रत्ययं विज्ञानं ।
अपि खल्व् एवम् उक्तं भगवता स्वातिं भिक्षुं कैवर्तपूर्विणम् आरभ्य ।
त्रयाणां भिक्षवः स न्निपातान् ( ध्स्क्द् 6व्5 ) मातुः कुक्षौ गर्भस्यावक्रान्तिर् भवति । विस्तरेण यावद् । इत्य् एवम् अयोनिशोमनसिकारेण सहजं नामरूपं प्रतीत्य मातुः कुक्षौ विज्ञानस्यावक्रान्तिर् भवति प्रादुर्भावस् । तद् उ च्यते नामरू पप्रत्ययं ( ध्स्क्द् 6व्6 ) विन्ज्ञानं ।
अपि खल्व् एवम् उक्तं भगवता महानिदानपर्याये ।
विस्तरेण यावद् । विज्ञानं चेद् आनन्द नामरूपप्रतिष्ठां न लभेत तथाप्रतिष्ठिते विज्ञाने अनतिरूढे + + + + + ( ध्स्क्द् 6व्7 ) भवसमुदयसमुत्थापकं जातिजरामरणम् अभिनिर्वर्तेत । नो भदन्त । सर्वशो वा पुनर् आनन्द नामरूपे असति अपि नु विज्ञानं प्रज्ञायेत । नो भदन्त । तस्माद् आनन्द ( ध्स्क्द् 6व्8 ) एतन् निदानं विस्तरेण यथा पूर्वोक्तं ।
5. (नामरूपप्रत्ययं षडायतनम्)
उद्दानं ।
शीतम् उष्णं च भोज्य ं च पानम् उद्वर्तनं तथा
शीतोदिका पुष्करिणी स्वातिर् एव च रागजं
द्वेषजं चैव मोहजं भवति पश्चिमं ॥
( ध्स्क्द् 6व्9 ) नामरूपप्रत्ययं षडायतनं कतरद् । आह । यथा खल्व् इहैकत्यः शीतप्रचुराद् उष्णं गच्छति । तस्य तत उत्पद्य न् ते उष्णसहजानि महाभूतानि । तत्र यानि च उष्णसहजानि ( ध्स्क्द् 6व्10 ) महाभूतानि इदं रूपस्य तज्जा वेदना संज्ञा संस्कारा विज्ञानं इदं नामस्य । इत्य् एतच् छीतसहजं नामरूपं प्रतीत्य चक्षुरिन्द्रियस्योपचयो भवति ।
( ध्स्क्द् 7र्1 ) एवं श्रोत्रं घ्राणं जिह्वा कायो मनो ऽपि तत्र उपचीयते । तद् उच्यते नामरूपप्रत्ययं षडायतनम् । इति एष उष्णप्रचुराच् छीतं ।

यथा खल्व् इहैकत्यो जिघत्सादौर्बल्यपरीतः शुचि प्राणीतं खादनीयं भोजनीय म् खादयति । तस्य ( ध्स्क्द् 7र्2 ) तत उत्पद्यन्ते भोजनसहजानि महाभूतानि । तत्र यच् च भोजनं यानि च भोजनसहजानि महाभूतानि इदं रूपस्य तज्जा वेदना । विस्तरेण यथा पूर्वोक्तं ।
यथा खल्व् इहैकत्यस् तृषितः क्लान्तः पि पासितः ( ध्स्क्द् 7र्3 ) शुचि शीतलं पानीयं पिबति । तस्य तत उत्पद्यन्ते पानसहजानि महाभूतानि । विस्तरः ।
यथा खल्व् इहैकत्यः उत्सदनपरिमर्दनसंवाहनायोगम् अनुयुक्तो विहरति । तस्य तत उत्पद्यन्ते उत्सद नप रिमर्दनसंवाहनसहजानि ( ध्स्क्द् 7र्4 ) महाभूतानि । तत्र यच् च उत्सदनं परिमर्दनसंवाहनं यानि च उत्सदनपरिमर्दनसंवाहनसहजानि महाभूतानि इदं रूपस्य तज्जा वेदना संज्ञा संस्कारास् तज्जं वि ज्ञा नम् ( ध्स्क्द् 7र्5 ) इदं नामस्य । विस्तरः ।
यथा खल्व् इहैकत्यो ग्रीष्माभितप्तो ग्रीष्मपरीतस् तृषितः क्लान्तः पिपासितः वातातपपरिद्यूनः शीतोदिकां पुष्करिणीम् अवगाहयेत्* । तस्य तत उ त्पद्यन्ते ( ध्स्क्द् 7र्6 ) शीतसहजानि महाभूतानि । तत्र च यच् च शीतं यानि च शीतसहजानि महाभूतानि {।} तस्य तज्जा वेदना । विस्तरः ।
अपि खल्व् एवम् उक्तं भगवता फल्गुनाववादे व्याकरणे ।
वि ज्ञानं फल्गु न ( ध्स्क्द् 7र्7 ) आहारं यावद् आयत्यां पुनर्भवस्याभिनिर्वृत्तये प्रादुर्भावाय ।

यत् तत् कतरद् विज्ञानं । विस्तरेण यावत्* । यस्य विज्ञानस्य समनन्तरं मातुः कुक्षौ कललम् आत्मभावम् अभि संमूर्च्छति । ( ध्स्क्द् 7र्8 ) क ललं आत्मभावं संमूर्च्छतीति । इदं रूपस्य तज्जा वेदना संज्ञा संस्कारास् तज्जं विज्ञानम् इदं नामस्य । इत्य् एतद् अयोनिशोमनसिकारसहजं नामरूपं प्रतीत्य मातुः कुक्षौ षण्णा म् इन्द्रियाणा म् ( ध्स्क्द् 7र्9 ) अभिनिर्वृत्तिर् भवति प्रादुर्भावस् । तद् उच्यते नामरूपप्रत्ययं षडायतनम् इति ।
अपि खल्व् एवम् उक्तं भगवता स्वातिं भिक्षुं कैवर्तपूर्विणम् आरभ्य ।
त्रयाणाम् भिक्षवः संनिपातान् मातुः कुक्षौ गर्भस्याव क्रान्तिर् ( ध्स्क्द् 7र्10 ) भवति । विस्तरेण यावन् । मातुः कुक्षौ षण्णाम् इन्द्रियाणाम् अभिनिर्वृत्तिर् भवति प्रादुर्भावः । तद् उच्यते षडायतनप्रत्ययं नामरूपम् इति ।
यथा खल्व् इहै कत्यो + + + रा गपर्यवस्थितो ( ध्स्क्द् 7व्1 ) द्वेषपर्यवस्थितो मोहपर्यवस्थितः कायेन दुश्चरितं चरति । वाचा मनसा दुश्चरितं चरति । कायेन वाचा दुश्चरितं चरति । इदं रूपस्य । मनसा दुश्चरितम् इदं नामस्येत्य् । एत द् अकुशलं नाम रूपं ( ध्स्क्द् 7व्2 ) प्रतीत्य दुःखोदयं दुःखविपाकं कायस्य भेदान् नरकेषूपपद्यते । तत्र च षण्णाम् इन्द्रियाणाम् अभिनिर्वृत्तिर् भवति प्रादुर्भावः । तद् उच्यते नामरूपप्रत्ययं षडायतनं ।
यथा नर केषु तिर्य क्प्रेतेषु ( ध्स्क्द् 7व्3 ) ।
यथा खल्व् इहैकत्यो मनुष्यसुखकेष्व् अवेक्षावान् भवति प्रतिबद्धचित्तः । तस्यैवं भवत्य् । अहो बताहं मनुष्यसुखकानां सभागतायाम् उपपद्येयं । स तं प्रार्थयमानो । विस्तरेण या वत् कायेन वा चा ( ध्स्क्द् 7व्4 ) मनसा सुचरितं चरतीति । इदं रूपस्य । मनसा सुचरितं चरतीति । इदं नामस्येत्य् । एतत् कुशलं नामरूपं प्रतीत्य सुखोदयं सुखविपाकं कायस्य भेदान् मनुष्यसुखकानां सभागता या(5)म् उ पपद्यते ( ध्स्क्द् 7व्5 ) । तत्र च षण्णाम् इन्द्रियाणाम् अभिनिर्वृत्तिर् भवति प्रादुर्भावः । तद् उच्यते नाम रूप प्रत्ययं षडायतनम् इति ।
यथा मनुष्यसुखकानाम् एवं यावत् परनिर्मितवशवर्तिनां ।
यथा ख ल्व् ( ध्स्क्द् 7व्6 ) इहैकत्यो ब्रह्मकायिकानां देवानाम् अवेक्षावान् भवति प्रतिबद्धचित्तः । विस्तरेण यावत् । तथा समापन्नस्य यः कायसंवरो वाक्संवरः आजीवविशुद्धिः इदं रूपस्य तज्जा वेदना ( ध्स्क्द् 7व्7 ) विस्तरेण यावद् विज्ञानं इदं नामस्य । इत्य् एतत् कुशलं नामरूपं प्रतीत्य सुखोदयं सुखविपाकं कायस्य भेदाद् ब्रह्मकायिकानां देवानां सभागतायाम् उपपद्यते । तत्र च षण्णां ( ध्स्क्द् 7व्8 ) इन्द्रियाणाम् अभिनिर्वृत्तिर् भवति प्रादुर्भावः । तद् उच्यते नामरूपप्रत्ययं षडायतनम् इति ।
यथा ब्रह्मकायिकानाम् एवं यावद् असंज्ञिसत्वसंगृहीतानां बृहत्फलानां । इति यत् त त् षडाय तनं ( ध्स्क्द् 7व्9 ) नामरूपम् आगम्य च नामरूपं निश्रित्य नामरूपं प्रतिष्ठाय उत्पद्यते समुत्पद्यते जायते संजायते निर्वर्तयत्य् अभिनिर्वर्तयति समुदागच्छति प्रादुर्भवति इदं उच्य ते नामरू पप्रत्ययं ( ध्स्क्द् 7व्10 ) षडायतनं ॥
6. (नामरूपप्रत्ययः स्पर्शः)
नामरूपप्रत्ययः स्पर्शः कतरः ।
॥ उद्दानं
+ + य प्र त्ययाच् च स्पर्श ः फल्गुनः स्वातिर् एव च
रागजं द्वेषजं मोहजम् आनन्देन पंचिकाह ।
( ध्स्क्द् 8र्1 ) चक्षुः प्रतीत्य रूपाणि चोत्पद्यते चक्षुर्विज्ञानं । त्रयाणां सन्निपातः स्पर्शः । तत्र यच् चक्षुर् यानि च रूपाणि इदं रूपस्य तज्जा वेदना संज्ञा संस्कारास् तज्जं विज्ञानं । इदं नामस्य तज्जं मनसिकारं नामप्रत्य यं चक्षुः संस्पर्शस्य ( ध्स्क्द् 8र्2 ) । तद् उच्यते नामरूपप्रत्ययः स्पर्शः ।
एवं श्रोत्रघ्राणजिह्वाकायमनः प्रतीत्य धर्मांश् चोत्पद्यते मनोविज्ञानं । त्रायाणां सन्निपातः स्पर्शः । तत्र ये रूपिणो मनोविज्ञेया धर्मा इदं रूप स्य ( ध्स्क्द् 8र्3 ) तज्जा वेदना संज्ञा संस्कारा विज्ञानं । इदं नामस्य तज्जं मनसिकारं नामप्रत्ययम् मनःसंस्पर्शस्य । तद् उच्यते नामरूपप्रत्ययः स्पर्शः ।
अपि खल्व् एवम् उक्तं भगवता फल्गुनाववादे व्याकरणे ।
विज्ञानं फ ल्गुनाहारं ( ध्स्क्द् 8र्4 ) यावद् एवायत्यां पुनर्भवस्याभिनिर्वृत्तये प्रादुर्भावाय ।
तत् कतरद् विज्ञानम् । आह । यत् तद् गन्धर्वस्य चरमं चित्तं मनोविज्ञानं । विस्तरेण यावत् । कललम् आत्मभावम् अभिसंमूर्च्छतीति । इदं रूपस्य ( ध्स्क्द् 8र्5 ) तज्जा वेदना संज्ञा संस्कारास् तज्जं विज्ञानं इदं नामस्य । इत्य् एतद् अयोनिशोमनसिकारसहितं नामरूपं प्रतीत्य मातुः कुक्षौ स्पर्शस्याभिनिर्वृत्तिर् भवति प्रादुर्भावः । तद् उच्यते नामरूपप्रत्ययः ( ध्स्क्द् 8र्6 ) स्पर्शः ।
अपि खल्व् एवम् उक्तं भगवता स्वातिं भिक्षुं कैवर्तपूर्विणम् आरभ्य ।
त्रयाणां भिक्षवः सन्निपातान् मातुः कुक्षौ गर्भस्यावक्रान्तिर् भवति । विस्तरेण यावद् । अयोनिशोमनसिकारसहजं ( ध्स्क्द् 8र्7 ) नामरूपं प्रतीत्य मातुः कुक्षौ गर्भस्यावक्रान्तिर् भवति प्रादुर्भावस् । तद् उच्यते नामरूपप्रत्ययः स्पर्शः ।
यथा खल्व् इहैकत्यो रागपर्यवस्थितो द्वेषपर्यवस्थितो मोहपर्यवस्थितः ( ध्स्क्द् 8र्8 ) कायेन दुश्चरितं चरति । वाचा मनसा दुश्चरितं चरति इदं रूपस्य । मनसा दुश्चरितं चरतीति इदं नामस्य । इत्य् एतद् अकुशलं नामरूपं प्रतीत्य दुःखोदयं दुःखविपाकं कायस्य भेदान् नरकेषूपपद्यते । ( ध्स्क्द् 8र्9 ) तत्र च स्पर्शम् अभिनिर्वर्तयति । तद् उच्यते नामरूपप्रत्ययः स्पर्श इति ।
यथा नरकेष्व् एवं तिर्यक्प्रेतेषु ।
यथा खल्व् इहैकत्यो मनुष्यसुखकेष्व् अवेक्षावान् भवति प्रतिबद्धचित्तो । विस्तरेण ( ध्स्क्द् 8र्10 ) यावत् । कायेन वाचा सुचरितं चरतीति इदं रूपस्य । मनसा सुचरितं चरतीति इदं रूपस्य । मनसा सुचरितं चरतीति इदं नामस्येत्य् । एतत् कुशलं नामरूपं प्रतीत्य विस्तरेण ( ध्स्क्द् 8व्1 ) यावत् । तत्र च स्पर्शम् अभिनिर्वर्तयति । तद् उच्यते नामरूपप्रत्ययः स्पर्श इति ।
यथा मनुष्यसुखकेष्व् एवं यावत् परनिर्मितवशवर्तिषु ।
यथा खल्व् इहैकत्यो ब्रह्मकायिकानां देवानाम् अवेक्षावान् भवति प्रति बद्ध चित्तो । ( ध्स्क्द् 8व्2 ) यावत् । तथा समापन्नस्य यः कायसंवरो वाक्संवरः आजीवपरिशुद्धिर् इदं रूपस्य तज्जा वेदना संज्ञा संस्कारास् तज्जं विज्ञानम् इदं नामस्य । इत्य् एतत् कुशलं नामरूपम् प्रतीत्य विस्तरेण यावत् । तत्र च स्पर्शम् ( ध्स्क्द् 8व्3 ) अभिनिर्वर्तयति । तद् उच्यते नामरूपप्रत्ययः स्पर्शः ।
यथा ब्रह्मकायिकानां एवं यावद् असंज्ञिसत्वसंगृहीतानां बृहत्फलानां ।
अपि खल्व् एवम् उक्तं भगवता महानिदानपर्यायेस्मिन् व्याकरणे आयुष्मते ( ध्स्क्द् 8व्4 ) आनन्दाय ।

अस्ति प्रत्ययम् आनन्द स्पर्श इति । विस्तरेण यावत्* । येषाम् आनन्दाकाराणां येषाम् उद्देशानां सति नामकायस्य प्रज्ञप्तिर् भवति तेषाम् आकाराणां तेषाम् उद्देशानाम् असत्य् अपि ( ध्स्क्द् 8व्5 ) नु अधिवचनसंस्पर्शः प्रज्ञायेत । नो भदन्त । येषाम् आनन्दाकाराणां येषाम् उद्देशानां सति रूपकायस्य प्रज्ञप्तिर् भवति तेषाम् आकाराणां तेषाम् उद्देशानां असत्य् अपि नु प्रतिघसंस्पर्शः प्रज्ञायेत । ( ध्स्क्द् 8व्6 ) नो भदन्त । सर्वशो वा पुनर् आनन्द नामकायरूपकायानाम् असति अपि नु स्पर्शो वा प्रज्ञायेत स्पर्शप्रज्ञप्तिर् वा । नो भदन्त । तस्माद् ध्य् आनन्दैतन् निदानं विस्तरेण यावद् । इदं मया यद् ( ध्स्क्द् 8व्7 ) उक्तम् इदं मे तत् प्रत्युक्तं ।
7. (षडायतनप्रत्ययः स्पर्शः)
त्रयाणां सन्निपाताच् चक्षुर् आध्यात्मिकं तथा
चक्षुष्टो रूपतश् चैवं न चक्षुष्टो न रूपतः ॥
षडायतनप्रत्ययः स्पर्शः कतम । आह । चक्षुः प्रतीत्य रूपाणि चोत्पद्यते चक्षुर्विज्ञानं । ( ध्स्क्द् 8व्8 ) त्रयाणां संनिपातः स्पर्शः ।
एवं श्रोत्रघ्राणजिह्वाकायमनः प्रतीत्य धर्मांश् चोत्पद्यते मनोविज्ञानं । त्रयाणां सन्निपातात् स्पर्शस् । तद् उच्यते षडायतनप्रत्ययः स्पर्श इति ।
अपि खलु ( ध्स्क्द् 8व्9 ) चक्षुः प्रतीत्य रूपाणि चोत्पद्यते चक्षुर्विज्ञानं । त्रयाणां सन्निपातात् स्पर्शः । तत्र चक्षुर् आध्यात्मिकम् आयतनं रूपं च बाह्यं प्रत्ययं चक्षुःसंस्पर्शस्य । तद् उच्यते षडायतनप्रत्ययः स्पर्श इति ।
एवं ( ध्स्क्द् 8व्10 ) श्रोत्रं घ्राणं जिह्वा कायो ।
मनः प्रतीत्य धर्मांश् चोत्पद्यते मनोवि ज्ञान ं । (त्रयाणां संनि )पातात् स्पर्शः । तत्र मन आध्यात्मिकम् आयतनं धर्माश् च बाह्यं प्रत्ययं मनःसंस्पर्शस्य । तद् उच्यते षडायत )नप्रत्ययः ( ध्स्क्द् 9र्1 ) स्पर्श इति ।
अपि खलु चक्षुः प्रतीत्य रूपाणि चोत्पद्यते चक्षुर्विज्ञानं । त्रया णां सन्निपातात् स्पर्शः । चक्षुष्टो रूपतश् च चक्षुर्विज्ञानतः ।
एवं श्रोत्रघ्राणजिह्वाकायमनो वक्तव्य म् ।
अपि खलु चक्षु ः प्रती त्य ( ध्स्क्द् 9र्2 ) रूपाणि चोत्पद्यते चक्षुर्विज्ञानं । त्रयाणां सन्निपातात्* स्पर्शः । तत्र सचक्षु + + + + रूपाणि न चक्षुर्विज्ञानं । या त्व् एषा त्रयाणां धर्माणां संगति ः सन्निकर्षः सन्निपातः संस्पर्शः ।

एवं श्रोत्रघ्राणजिह्वाकायमनो ( ध्स्क्द् 9र्3 ) वक्तव्यं ।
मनः प्रतीत्य धर्मांश् चोत्पद्यते मनोविज्ञानं । या त्व् एषा त्रयाणां धर्माणां संगतिः सन्निकर्षः समवायः संस्पर्शः तद् उच्यते षडायतनप्रत्ययः स्पर्श । इति स्पर्शः षडायतनम् ( ध्स्क्द् 9र्4 ) आगम्य षडायतनं निश्रित्य षडायतनं प्रतिष्ठाय उत्पद्यते समुत्पद्यते जायते संजायते निर्वर्तयत्य् अभिनिर्वर्तयति समुदागच्छति प्रादुर्भवति । अयम् उच्यते षडायतनप्रत्ययः ( ध्स्क्द् 9र्5 ) स्पर्श इति ।
8. (स्पर्शप्रत्यया वेदना)
त्रयाणां सन्निपाताज् जायते या हि वेदना
सुखवेदनीयः स्पर्शः घोषिलानन्द एव च ॥
उद्दानं ॥
स्पर्शप्रत्यया वेदना कतमा । आह । चक्षुः प्रतीत्य रूपाणि चोत्पद्यते ( ध्स्क्द् 9र्6 ) चक्षुर्विज्ञानं । त्रयाणां सन्निपातात्* स्पर्शः । स्पर्शप्रत्यया वेदना ।
एवं श्रोत्रघ्राणजिह्वाकायमनः प्रतीत्य धर्मांश् चोत्पद्यते मनोविज्ञानं । त्रयाणां सन्निपातात्* स्पर्शः । स्पर्शप्रत्यया वेदना । ( ध्स्क्द् 9र्7 )
अपि खलु चक्षुः प्रतीत्य रूपाणि चोत्पद्यते चक्षुर्विज्ञानं । त्रयाणां सन्निपातात्* स्पर्शः सुखवेदनीयो दुःखवेदनीयो ऽदुःखासुखवेदनीयः । तत् खलु सुखवेदनीयं स्पर्शं प्रतीत्योत्पद्यते ( ध्स्क्द् 9र्8 ) सुखा वेदनासुखवेदनीयं स्पर्शं प्रतीत्योत्पद्यते दुःखा वेदना । अदुःखासुखवेदनीयं स्पर्शं प्रतीत्योत्पद्यते दुःखा वेदना । अदुःखासुखवेदनीयं स्पर्शं प्रतीत्योत्पद्यते अदुःखासुखा ( ध्स्क्द् 9र्9 ) वेदना । तद् उच्यते स्पर्शप्रत्यया वेदना ।
अपि खल्व् एवम् उक्तम् आयुष्मता आनन्देन घोषिलस्य गृहपतेर् ।
अन्यो च गृहपते चक्षुर्धातुर् अन्यो रूपधातुर् अन्यश् चक्षुर्विज्ञानधातुः । सुखवेदनीयं गृहपते ( ध्स्क्द् 9र्10 ) द्वयं प्रतीत्य विज्ञानस्योत्पादो भवति । त्रयाणां सन्निपातात्* स्पर्शः । तत् खलु सुखवेदनीयं स्पर्शं प्रतीत्योत्पद्यते सुखा वेदना । अन्य एव यावद् । दुःखवेदनीयं गृहपते द्वयं प्रतीत्य ( ध्स्क्द् 9व्1 ) विज्ञानस्योत्पादो भवति । त्रयाणां सन्निपातात्* स्पर्शः दुःखवेदनीयः । तत् खलु दुःखवेदनीयं स्पर्शं प्रतीत्योत्पद्यते दुःखा वेदना । अन्य एव यावद् । अदुःखासुखवेदनीयं गृहपते द्वयं प्रतीत्य विज्ञानस्योत्पादो ( ध्स्क्द् 9व्2 ) भवति । त्रयाणां सन्निपातः स्पर्शः अदुःखासुखवेदनीयः । तत् खल्व् अदुःखासुखवेदनीयं स्पर्शं प्रतीत्योत्पद्यते अदुःखासुखा वेदना ।
अन्य एव गृह प ते श्रोत्रघ्राणजिह्वाकायमनोधातुर् अन्यो धर्मधातुर् ( ध्स्क्द् 9व्3 ) अन्यो मनोविज्ञानधातुः । सुखवेदनीयं गृहपते द्वयं प्रतीत्य विस्तरेण यथा पूर्वोक्तं । तद् उच्यते स्पर्शप्रत्यया वेदना ।
अपि खल्व् एवम् उक्तं भगवता महानिदानपर्यायेस्मिन् व्याकरणे आयुष्मते आनन्दाय । ( ध्स्क्द् 9व्4 )
अस्ति प्रत्ययम् आनन्द वेदना विस्तरेण यावच् । चक्षुःसंस्पर्शश् चेद् आनन्द नाभविष्यद् अपि नु चक्षुःसंस्पर्शप्रत्ययम् अध्यात्मम् उत्पद्येत सुखं वा दुःखं वा अदुःखासुखं वा । नो भदन्त ।
एवं श्रोत्रघ्राणजिह्वाकायमहःसंस्पर्शः ( ध्स्क्द् 9व्5 ) चेद् आनन्द नाभविष्यद् अपि नु मनःसंस्पर्शप्रत्ययम् अध्यात्मं उत्पद्येत वेदितं सुखं वा दुःखं वा अदुःखासुखं वा । नो भदन्त । सर्वशो वा आनन्द स्पर्शे असति ( ध्स्क्द् 9व्6 ) वेदना प्रज्ञायेत । नो भदन्त । तस्माद् ध्य् आनन्दैतन् निदानं विस्तरेण यावद् । इदं मया यद् उक्तम् इदं तत् प्रत्युक्तं ॥
9. (वेदनाप्रत्यया तृष्णा)
उद्दानं ॥
चक्षुः प्रतीत्यास्वादं द्वौ स्कन्धौ आयतनौ
गुह्येनापरद्वयं महानामा ( ध्स्क्द् 9व्7 ) लिच्छविश् चैव
निदानं पूर्णमासिकं ॥
वेदनाप्रत्यया तृष्णा कतमा । आह । चक्षुः प्रतीत्य रूपाणि चोत्पद्यते चक्षुर्विज्ञानं । त्रयाणां सन्निपातः स्पर्शः । स्पर्शप्रत्यया वेदना । वेदनाप्रत्यया ( ध्स्क्द् 9व्8 ) तृष्णा ।
एवं श्रोत्रघ्राणजिह्वाकायमनः प्रतीत्य धर्मांश् चोत्पद्यते मनोविज्ञानं । त्रयाणां सन्निपातात् स्पर्शः । स्पर्शप्रत्यया वेदना । वेदनाप्रत्यया तृष्णा । तद् उच्यते वेदनाप्रत्यया तृष्णा ।
अपि खलु चक्षुरास्वादं ( ध्स्क्द् 9व्9 ) वेदयितं प्रतीत्य भूयो भूयश् चक्षुषि अप्रतिकूलता संतिष्ठते । अप्रतिकूले सति भूयो भूयश् चक्षुषि उत्पद्यते रागः संरागः आलयो नियन्तिर् अध्यवसानं तृष्णा ।
एवं श्रोत्रघ्राणजिह्वाकायमनःआस्वादं ( ध्स्क्द् 9व्10 ) वेदयितव्य्ं प्रतीत्य भूयो भूयो मनसि अप्रतिकूलता संतिष्ठते । अप्रतिकूले सति भूयो भूयो मनस्य् उत्पद्यते रागः संरागः आलयो नियन्तिर् अध्यवसानं वा तृष्णा । तद् उच्यते ( ध्स्क्द् 10र्1 ) वेदनाप्रत्यया तृष्ना ।
अपि खल्व् एवम् उक्तं भगवता पंचोपादानस्कन्धिके व्याकरणे ।
रूपस्याहं भिक्षवः आस्वादपर्येषणाम् अचार्षं । यो रूपे आस्वादस् तम् अन्वभोत्स्यं यावद् रूपे आस्वादः प्रज्ञया मे सुदृष्ट । इत्य् एत द् रूपा स्वादं ( ध्स्क्द् 10र्2 ) वेदयितं प्रतीत्य भूयो भूयो रूपे अप्रतिकूलता संतिष्ठते । अप्रतिकूले सति भूयो भूयो रूपे उत्पद्यते रागः संरागः आलयो नियन्तिर् अध्यवसानं तृष्णा । तद् उच्यते वेदनाप्रत्यया तृष्णा ।
एवं वेदनायाः ( ध्स्क्द् 10र्3 ) संज्ञायाः संस्काराणां
विज्ञानस्याहं भिक्षवः आस्वादपर्येषणाम् अचार्षं । यो विज्ञाने आस्वादस् तम् अन्वभोत्स्यं यावद् विज्ञाने आस्वादः प्रज्ञया मे सुदृष्ट । इत्य् एतद् विज्ञानास्वादं वेदयितं प्रतीत्य भूयो भूयो विज्ञाने अप्रतिकूलता ( ध्स्क्द् 10र्4 ) संतिष्ठते । अप्रतिकूले सति भूयो भूयो विज्ञाने उत्पद्यते रागः संरागः आलयो नियन्तिर् अध्यवसानं तृष्णा । तद् उच्यते वेदनाप्रत्यया तृष्णा ।
अपि खल्व् एवम् उक्तं भगवता पंचोपादानस्कन्धिके व्याकरणे । ( ध्स्क्द् 10र्5 )
रूपे चेद् भिक्षव आस्वादो न भवेन् नेमे सत्वा रूपे संरज्येरन्* । यस्मात् तु भिक्षवो ऽस्ति रूपे आस्वादः तेनेमे सत्वा रूपे संरज्यन्ते । इत्य् एतद् रूपास्वादं वेदयितम् प्रतीत्य भूयो विस्तरेण यावद् उत्पद्यते तृष्णा ।
( ध्स्क्द् 10र्6 ) वेदनायां संज्ञायां संस्कारेषु
विज्ञाने चेद् भिक्षवः आस्वादो न भवेन् नेमे सत्वा विज्ञाने संरज्येरन्* । यस्मात् तु भिक्षवो ऽस्ति विज्ञाने आस्वादस् तस्माद् इमे सत्वा विज्ञाने संरज्यन्ते । इत्य् एतद् विज्ञानास्वाद वेद यितं प्रतीत्य भूयो ( ध्स्क्द् 10र्7 ) भूयो विस्तरेण यावद् उत्पद्यते तृष्णा । तद् उच्यते वेदनाप्रत्यया तृष्णा ।
अपि खल्व् एवम् उक्तं भगवता षडायतनिके व्याकरणे ।
चक्षुषो ऽहं भिक्षव आस्वादपर्येषणाम् अचार्षं । यश् चक्षुषि आस्वादस् तम् अन्वभोत्स्यन् । यावांश् चक्षुष्य् आस्वादः ( ध्स्क्द् 10र्8 ) प्रज्ञया मे स सुदृष्टः । इत्य् एतच् चक्षुष आस्वादं वेदयितं प्रतीत्य भूयो विस्तरेण यावत् तृष्णा । तद् उ च्य् अते वेदनाप्रत्यया तृष्णा ।

एवं श्रोत्रघ्राणजिह्वाकायमनसो ऽहं भिक्षवः आस्वादपर्येषणाम् अचार्षं । यो ( ध्स्क्द् 10र्9 ) मनस्य् आस्वादस् तं अन्वभोत्स्यं यावन् मनस्य् आस्वादः प्रज्ञया मे स सुदृष्ट । इत्य् एतन् मनस आस्वादवेदयितं प्रतीत्य भूयो विस्तरेण यावत् तृष्णा । तद् उच्यते वेदनाप्रत्यया तृष्णा ।
अपि खल्व् एवम् उक्तं भगवता षडायन्तिके ( ध्स्क्द् 10र्10 ) व्याकरणे ।
चक्षुषि भिक्षव आस्वादश् चेन् न भवेन् नेमे सत्वाश् चक्षुषि संरज्येरन्* । यस्माद् भिक्षवः अस्ति चक्षुष्व् आस्वादस् तस्माद् इमे सत्वाश् चक्षुषि संरज्यन्ते । इत्य् एतच् चक्षुरास्वादं वेदयितं विस्तरेण प्रतीत्य यावत् तृष्णा । तद् उच्यते ( ध्स्क्द् 10व्1 ) वेदनाप्रत्यया तृष्णा ।
एवं श्रोत्रघ्राणजिह्वायां कायेमनसि चेद् भिक्षवः आस्वादो न भवेन् नेमे सत्वा मनसि संरज्येरन्* । यस्मात् तु भिक्षवो ऽस्ति मनस्य् आस्वादस् तस्माद् इमे सत्वा मनसि संरज्यन्ते । इत्य् एतन् मनस आस्वादवेदयितं ( ध्स्क्द् 10व्2 ) प्रतीत्य भूयो भूयो मनस्य् अप्रतिकूलता संतिष्ठते । विस्तरेण यावत् तृष्णा । तद् उच्यते वेदनाप्रत्यया तृष्णा ।
अपि खल्व् एवम् उक्तं भगवता षडायतनिके व्याकरणे ।
रूपस्याहं भिक्षवः आस्वादपर्येषणाम् अचार्षम्* । ( ध्स्क्द् 10व्3 ) यो रूपे आस्वादस् तम् अन्वभोत्स्यं यावद् रूपे आस्वादः प्रज्ञया मे स सुदृष्टः । इत्य् एतद् रूपास्वादवेदयितं प्रतीत्य यावत् तृष्णा । तद् उच्यते वेदनाप्रत्यया तृष्णा ।

एवं शब्दगन्धरसस्पर्शधर्माणाम् अहं भिक्षव आस्वादपर्येषणाम् ( ध्स्क्द् 10व्4 ) अचार्षं । यो धर्मे आस्वादस् तं अन्वभोत्स्यं । यावान् धर्मेष्व् आस्वादः प्रज्ञया मे स सुदृष्टः । इत्य् एतद् धर्मास्वादवेदयितं प्रतीत्य विस्तरेण यावत् तृष्णा । तद् उच्यते वेदनाप्रत्यया तृष्णा ।
अपि खल्व् एवम् उक्तं भगवता ( ध्स्क्द् 10व्5 ) षडायतनिके व्याकरणे ।
रूपे चेद् भिक्षव आस्वादो न भवेन् नेमे सत्वा रूपे संरज्येरन् । यस्मात् तु भिक्षवो ऽस्ति रूपे आस्वादस् तस्माद् इमे सत्वा रूपे संरज्यन्ते । इत्य् एतद् रूपास्वादवेदयितं प्रतीत्य विस्तरेण यावत् ( ध्स्क्द् 10व्6 ) तृष्णा । तद् उच्यते वेदनाप्रत्यया तृष्णा ।
एवं शब्दे गन्धे रसे स्प्रष्टव्ये धर्मे चेद् भिक्षव आस्वादो न भवेन् नेमे सत्वा धर्मे संरज्येरन्* । तस्मात् तु भिक्षवो ऽस्ति धर्मेष्व् आस्वादस् । तेनेमे सत्वा धर्मे संरज्यन्ते । इत्य् एतद् ( ध्स्क्द् 10व्7 ) धर्मास्वादं प्रतीत्य वेदयितं विस्तरेण यावत् तृष्णा । तद् उच्यते वेदनाप्रत्यया तृष्णा ॥
अपि खल्व् एवम् उक्तं भगवता महानामानं लिच्छविम् आगम्य ।
रूपं चेन् महानामन्न् एकान्तदुःखं भवेन् न सुखं न सुखानुगतं ( ध्स्क्द् 10व्8 ) न सुखसौमनस्यपरीतम् अवक्रान्तम् एव सुखेन हेतुर् अपि महानामन् न प्रज्ञायेत सत्वानां रूपे संरागाय न चेमे सत्वा रूपे संरज्येरन्* । यस्मात् तु महानामन् रूपं नैकान्तदुःखं सुखं ( ध्स्क्द् 10व्9 ) सुखानुगतं सुखसौमनस्यपरीतम् अवक्रान्तम् एव सुखेन तस्माद् इमे सत्वा रूपे संरज्यन्ते संरक्ताः संयुज्यन्ते संयुक्ताः संक्लिष्यन्ते । इत्य् एतद् रूपास्वादवेदयितं प्रतीत्य विस्तरेण यावत् तृष्णा । तद् उच्यते ( ध्स्क्द् 10व्10 ) वेदनाप्रत्यया तृष्णा ।
वेदना संज्ञा संस्कारा विज्ञानं चेन् महानामन्न् एकान्तदुःखं भवेन् न सुखं न सुखानुगतं न सुखसौमनस्यपरीतम् अवक्रान्तं चैव सुखेन हेतुर् अपि महानामन् न प्रज्ञायेत स त्त्वानां ( ध्स्क्द् 11र्1 ) विज्ञाने संरागाय न चेमे सत्वा विज्ञाने संरज्येरन्* । यस्मात् तु महानामन् विज्ञानं नैकान्तदुःखं सुखं सुखानुगतं सुखसौमनस्यपरीतं अनवक्रान्तम् एव सुखेन तस्माद् इमे सत्वा विज्ञाने संरज्यन्ते संरक्ता ः सं युज्यन्ते ( ध्स्क्द् 11र्2 ) संयुक्ताः संक्लिष्यन्ते । इत्य् एतद् विज्ञानास्वादवेदयितं प्रतीत्य विस्तरेण यावत् तृष्णा । तद् उच्यते वेदनाप्रत्यया तृष्णा ।
अपि खल्व् एवम् उक्तं भगवता पौर्णमासिके व्याकरणे ।
यद् भिक्षवो रूपं प्रतीत्योत्पद्यते ( ध्स्क्द् 11र्3 ) सुखम् उत्पद्यते सौमनस्यम् अयं रूपे आस्वादः । इत्य् एतद् रूपास्वादवेदयितं प्रतीत्य यावत् तृष्णा । तद् उच्यते वेदनाप्रत्यया तृष्णा ।
यद् भिक्षवो वेदनासंज्ञासंस्कारान् यद् विज्ञानं प्रतीत्योत्पद्यते सुखम् उत्पद्यते सौमनस्यम् ( ध्स्क्द् 11र्4 ) अयं विज्ञाने आस्वाद । इत्य् एतद् विज्ञानास्वादवेदयितं प्रतीत्य भूयो भूयो विज्ञाने अप्रतिकूलता संतिष्ठते । अप्रतिकूले सति भूयो भूयो विज्ञाने उत्पद्यते रागः संरागः आलयो नियन्तिर् अध्यवसानम्* ( ध्स्क्द् 11र्5 ) तृष्णा । तद् उच्यते वेदनाप्रत्यया तृष्णा ।
अपि खल्व् एवम् उक्तं भगवता महानिदानपर्याये आयुष्मत्य् आनन्दे ।
तत्रानन्द या च भवतृष्णा या च विभवतृष्णा इतीमे द्वे तृष्णाद्वयेन वेदनासमवसरणे ( ध्स्क्द् 11र्6 ) भवतः । तद् उच्यते वेदनाप्रत्यया तृष्णा ॥
10. (तृष्णाप्रत्ययम् उपादानम्)
उद्दानं ॥
तत्प्रथमाभिनिपातः कामैश् चावेक्षावांस् तथा
दृष्टिर् विचिकित्सा उपादानं विभागो नन्दम् एव च ॥
तृष्णाप्रत्ययम् उपादानं कतमद् । आह । यत् प्रथमाभिनिपातं ( ध्स्क्द् 11र्7 ) तृष्णावैपुल्यम् उपादानं यथा कथम् इति ।
यथा खल्व् इहैकत्यः कामेष्व् अवेक्षावान् भवति प्रतिबद्धचित्तः कामरागपर्यवस्थानं उत्पादयति । स तस्मात् पर्यवस्थानाद् अन्यं पर्यवस्थानम् उत्पादयति ( ध्स्क्द् 11र्8 ) अधिमात्राद् अधिमात्रतरं तीव्रात् तीव्रतरं पूर्णात् पूरिततरं । इति पूर्वकं पर्यवस्थानं तृष्णा पश्चिमम् उपादानं तद् उच्यन्ते तृष्णाप्रत्ययं उपादानं ।
यथा खल्व् इहैकत्यो रूपेष्व् आरूप्येष्व् अवेक्षावान् भवति प्रतिबद्धचित्त ( ध्स्क्द् 11र्9 ) आरूप्यरागपर्यवस्थानम् उत्पादयति । स तस्मात् पर्यवस्थानाद् अन्यत् पर्यवस्थानम् उत्पादयति अधिमात्राद् अधिमात्रतरं यावत् परिपूर्णात् परिपूर्णतरं । इति पूर्वकं पर्यवस्थानं तृष्णा पश्चिमम् उपादानम्* । ( ध्स्क्द् 11र्10 ) तद् उच्यते तृष्णाप्रत्ययम् उपादानं ।
अस्ति खल्व् एवम् उक्तं भगवता पातलेयव्याकरणे ।
देशिता वो भिक्षवो मया धर्माः स्कन्धानां प्रविचयाय । यद् उत चत्वारि स्मृत्युपस्थानानि चत्वारि सम्यक्प्रधानानि ( ध्स्क्द् 11व्1 ) चत्वार ऋद्धिपादाः पंचेन्द्रियाणि पंच बलानि सप्त बोध्यंगान्य् आर्याष्टांगो मार्ग । एवं देशितेषु वो भिक्षवो मया धर्मेषु स्कन्धानां प्रविचयाय ।
अथ च पुनर् इहैकत्या मोहपुरुषा न तीव्रच्छन्दा विहरन्ति न तीव्रस्नेहा न तीव्रप्रेमाणो ( ध्स्क्द् 11व्2 ) न तीव्रप्रमादास् । ते धन्धम् एवानुत्तर्यं स्पृशन्ति यद् उतास्रवाणां क्षयाय । एवं देशितेषु वो भिक्षवो मया धर्मेषु स्कन्धानां प्रविचयाय ।
अथ च पुनर् इहैकत्याः कुलपुत्राः अतीवतीव्रच्छन्दा विहरन्ति अतीवतीव्रस्नेहा ( ध्स्क्द् 11व्3 ) अतीवतीव्रप्रेमाणो ऽतीवतीव्रप्रमादास् । ते क्षिप्रम् एवानुत्तर्यं स्पृशन्ति यद् उतास्रवाणां क्षयाय । एवं देशितेषु वो भिक्षवो मया धर्मेषु स्कन्धानां प्रविचयाय ।
अथ च पुनर् इहैकत्यो रूपम् आत्मतः ( ध्स्क्द् 11व्4 ) समनुपश्यति । या सा समनुपश्यना संस्कारास् ते । ते पुनः संस्काराः किन्निदानाः किंसमुदयाः किंजातीयाः किंप्रभवाः । अविद्यासंस्पर्शजं भिक्षवो वेदयितं प्रतीत्य तृष्णोत्पन्ना । ततस् ते सं स् कारास् । तृष्णा पुनर् भिक्षवः ( ध्स्क्द् 11व्5 ) किन्निदाना किंसमुदया किंजातीया किंप्रभवा । तृष्णा भिक्षवो वेदनानिदाना वेदनासमुदया वेदनाजातीया वेदनाप्रभवा । वेदना पुनर् भिक्षवः किन्निदाना किंसमुदया किंजातीया किंप्रभवा । वेदना भिक्षवः ( ध्स्क्द् 11व्6 ) स्पर्शनिदाना स्पर्शसमुदया स्पर्शजातीया स्पर्शप्रभवा । स्पर्शः किन्निदानः किंसमुदयः किंजातीयः किंप्रभवः । स्पर्शो भिक्षवः षडायतननिदानः षडायतनसमुदयः षडायतनजातीयः ( ध्स्क्द् 11व्7 ) षडायतनप्रभवः । तत्र भिक्षवः षडायतनम् अनित्यं संस्कृतं चेतितं प्रतीत्यसमुत्पन्नं । सो ऽपि स्पर्शः सापि वेदना सापि तृष्णा सापि समनुपश्यना अनित्या संस्कृता चेतिता प्रतीत्यसमुत्पन्ना । ( ध्स्क्द् 11व्8 )
स रूपम् आत्मेति समनुपश्यतीति सत्कायदृष्टिपर्यवस्थानम् उत्पादयति । स तस्मात् पर्यवस्थानाद् अन्यत् पर्यवस्थानम् उत्पादयति अधिमात्राद् अधिमात्रतरं यावत् परिपूर्णात् परिपूर्णतरं ( ध्स्क्द् 11व्9 ) । इति पूर्वकं पर्यवस्थानं तृष्णा पश्चिमम् उपादानं । तद् उच्यते तृष्णाप्रत्ययम् उपादानं ।

न हैव रूपम् आत्मेति समनुपश्यत्य् अपि तु रूपवन्तम् आत्मानं समनुपश्यति । न हैव रूपवन्तम् आत्मानं संअनुपश्यत्य् अपि ( ध्स्क्द् 11व्10 ) तु रूपम् आत्मीयं समनुपश्यति । न हैव रूपम् आत्मीयं समनुपश्यत्य् अपि तु रूपे आत्मानं समनुपश्यति ।
न हैव रूपे आत्मानं समनुपश्यत्य् अपि तु वेदनाम् आत्मतः समनुपश्यति । न हैव वेदना म् आत्मतः ( ध्स्क्द् 12र्1 ) संअनुपश्यत्य् अपि तु वेदनावन्तम् आत्मानं समनुपश्यति । न हैव वेदना वन्तं आत्मानं समनुपश्यत्य् अपि तु वेदनाम् आत्मीयां समनुपश्यति । न हैव वेदनाम् आत्मीयां समनुपश्यत्य् अपि तु वेदनायाम् आत्मानं समनुप श्यति ।
( ध्स्क्द् 12र्2 ) न हैव वेदनायाम् आत्मानं समनुपश्यत्य् अपि तु संज्ञाम् आत्मतः समनुपश्यति । न हैव संज्ञाम् आत्मतः समनुपश्यत्य् अपि तु संज्ञावन्तम् आत्मानं समनुपश्यति । न हैव संज्ञावन्तम् आत्मानं समनुपश्यत्य् अपि तु संज्ञाम् आत्मीयां ( ध्स्क्द् 12र्3 ) समनुपश्यति । न हैव संज्ञाम् आत्मीयां समनुपश्यत्य् अपि तु संज्ञायाम् आत्मानं समनुपश्यति ।
न हैव संज्ञायाम् आत्मानं समनुपश्यत्य् अपि तु संस्कारान् आत्मतः समनुपश्यति । न हैव संस्कारान् आत्मतः ( ध्स्क्द् 12र्4 ) समनुपश्यत्य् अपि तु संस्कारवन्तम् आत्मानं समनुपश्यति । विस्तरः ।
विज्ञानम् आत्मतः समनुपश्यति । न हैव विज्ञानम् आत्मतः समनुपश्यत्य् अपि तु विज्ञानवन्तम् आत्मानं समनुपश्यति । न हैव विज्ञानवन्तम् आत्मानं ( ध्स्क्द् 12र्5 ) समनुपश्यति अपि तु विज्ञानम् आत्मीयं समनुपश्यति । न हैव विज्ञानम् आत्मीयं समनुपश्यत्य् अपि तु विज्ञाने आत्मानं समनुपश्यति ।
न हैव विज्ञाने आत्मानं समनुपश्यत्य् अपि तु कांक्षी भवति विचिकित्सी । न हैव कांक्षी भवति विचिकित्सी अपि ( ध्स्क्द् 12र्6 ) तु भवदृष्टिर् भवति विभवदृष्टिः । न हैव भवदृष्टिर् भवति विभवदृष्टिः अपि त्व् अस्तीति वाचाधिगतं भवत्य् । अयम् अहम् अस्मीति समनुपश्यति । यो ऽसाव् अस्मीत्य् अधिगमो ऽयम् अहम् अस्मीत्य् अधिगमो । यासाव् अस्मी ति समनुपश्यना ( ध्स्क्द् 12र्7 ) संस्कारास् ते । ते पुनः संस्काराः किंनिदानाः किंसमुदयाः किंजातीयाः किंप्रभवा । विस्तरेण यावत् ।
तत्र भिक्षवः षडायतनम् अनित्यं संस्कृतं चेतितं प्रतीत्यसमुत्पन्नं । सो ऽपि स्पर्शः सापि वेदना सापि तृष्णा ( ध्स्क्द् 12र्8 ) ते ऽपि संस्काराः सापि समनुपश्यना अनित्या संस्कृता चेतिता प्रतीत्यसमुत्पन्ना अस्मीत्य् अधिगता भवत्य् । अयम् अहम् अस्मीति संअनुपश्यति । सत्कायदृष्टिपर्यवस्थानं उत्पादयति । स तस्मात् पर्यवस्थानाद् अन्यत् ( ध्स्क्द् 12र्9 ) पर्यवस्थानम् उत्पादयति अधिमात्राद् अधिमात्रतरं तीव्रात् तीव्रतरं परिपूर्णात् परिपूर्णतरं । इति पूर्वकं पर्यवस्थानं त्र्ष्णा पश्चिमम् उपादानं । तद् उच्यते तृष्णाप्रत्ययम् उपादानं ।
अपि खलु शाश्वतो लोकः ( ध्स्क्द् 12र्10 ) अन्तग्राहदृष्टिपर्यवस्थानम् उत्पादयत्य् अधिमात्रा द् अ धिमात्रतरं यावत् परिपूर्णात् परिपूर्णतरम् । इति पूर्वकं पर्यवस्थानं तृष्णा पश्चिमकम् उपादानं । तद् उच्यते तृष्णाप्रत्ययम् उपादानं ।
अशाश्वतो ( ध्स्क्द् 12व्1 ) लोकः । शाश्वतश् चाशाश्वतश् च । नैव शाश्वतो नाशाश्वतः । अन्तवान् लोकः । अनन्तवान् लोकः । अन्तवांश् चानन्तवांश् च । नैवान्तवान् अनन्तवांश् च । स जीवस् तच् छरीरं । अन्यो जीवो ऽन्यच् छरीरं भवति । तथागतः परं मरणान् न भवति । तथागतः ( ध्स्क्द् 12व्2 ) परं मरणाद् भवति च न भवति च । नैव भवति न न भवति परं मरणाद् । अन्तग्राहदृष्टिपर्यवस्थानम् उत्पादयति । स तस्मात् पर्यवस्थानाद् यावत् परिपूर्णात् परिपूर्णतरं । इति पूर्वकं पर्यवस्थानं तृष्णा पश्चिमकम् ( ध्स्क्द् 12व्3 ) उपादानं । तद् उच्यते तृष्णाप्रत्ययम् उपादानं ।
अपि खलु न भगवांस् तथागतो ऽर्हन् सम्यक्संबुद्धो न विद्याचरणसंपन्नो न सुगतो लोकविद् अनुत्तरः पुरुषदंयसारथि शास्ता देवमनुष्याणां बुद्धो भगवां मिथ्या दृष्टिपर्यवस्थानं ( ध्स्क्द् 12व्4 ) उत्पादयति । स तस्मात् पर्यवस्थानाद् विस्तरेण परिपूर्णात् परिपूर्णतरं । तद् उच्यते तृष्णाप्रत्ययम् उपादानं ।
न स्वाख्यातो भगवतो धर्मो न सांदृष्टिको न निर्ज्वरः नाकालिकः नौपनायिको नैहिपश्यकः ( ध्स्क्द् 12व्5 ) न प्रत्यात्मवेदनीयो विज्ञैर् ।
न सुप्रतिपन्नो भगवतः श्रावकसंघो न ऋजुप्रतिपन्नो न न्यायप्रतिपन्नो न सामीचीप्रतिपन्नो नानुधर्मचारी ।
न दुःखं । न समुदयो । न निरोधो । न मार्गो ।
न सर्वसंस्कारा ( ध्स्क्द् 12व्6 ) अनित्या । न सर्वधर्मा अनात्मानो । न शान्तं निर्वाणम् । इति मिथ्यादृष्टिपर्यवस्थानम् उत्पादयति । स तस्मात् पर्यवस्थानाद् अन्यत् पर्यवस्थानम् उत्पादयति । विस्तरेण यावद् । इति पूर्वकं पर्यवस्थानं ( ध्स्क्द् 12व्7 ) तृष्णा पश्चिमम् उपादानं । तद् उच्यते तृष्णाप्र त्य यम् उपादानम् इति ।
अपि खलु शाश्वतो लोक इदम् एव सत्यं मोहम् अन्यद् । इति दृष्टिपरामर्शपर्यवस्थानम् उत्पादयति । स तस्मात् पर्यवस्थानाद् अन्यत् पर्यवस्थानम् ( ध्स्क्द् 12व्8 ) उत्पादयति । विस्तरेण यावत् पश्चिमकम् उपादानं । तद् उच्यते तृष्णाप्रत्ययम् उपादानं ।

शाश्वतो लोको विस्तरेण यावच् चैव भवति तथागतः परं मरणाद् इति इदम् एव सत्यं मोहं अन्यद् । ( ध्स्क्द् 12व्9 ) इति दृष्टिपरामर्शपर्यवस्थानम् उत्पादयति । स तस्मात् पर्यवस्थानाद् अन्यत् पर्यवस्थानम् उत्पादयति । विस्तरेण यावत् पश्चिमकम् उपादानं । तद् उच्यते तृष्णाप्रत्ययं उपादानं ।
अपि खलु शीलं परामृशति ( ध्स्क्द् 12व्10 ) शीलेन शुच्यति मुच्यति निर्याति सुखदुःखं व्यतिक्रामति सुखदुःखव्यतिक्रमं चानुप्राप्नोति । शीलव्रतपरामर्शपर्यवस्थानम् उत्पादयति । स तस्मात् पर्यवस्थानाद् अन्यत् पर्यवस्थानं उत्पादयति ( ध्स्क्द् 13र्1 ) । विस्तरेण यावत् पश्चिमकं उपादानं । तद् उच्यते तृष्णाप्रत्ययम् उपादानं ।
व्रतं परामृशति यद् उभयतः शीलव्रतं परामृशति । शीलव्रतेन शुच्यति मुच्यते निर्याति यावत् सुखदुःखं व्यतिक्रमम् अनुप्राप्नोति ( ध्स्क्द् 13र्2 ) । शीलव्रतपरामर्शपर्यवस्थानम् उत्पादयति । स तस्मात् पर्यवस्थानाद् अन्यत् पर्यवस्थानम् उत्पादयति । विस्तरेण यावत् पश्चिमकम् उपादानं । तद् उच्यते तृष्णाप्रत्ययम् उपादानं ।
अपि खलु तथागतो भगवान् अर्हन् सम्यक्संबुद्धो ( ध्स्क्द् 13र्3 ) नेति विचिकित्सापर्यवस्थानम् उत्पादयति । स तस्मात् पर्यवस्थानाद् अन्यं पर्यवस्थानम् उत्पादयति । विस्तरेण यावत् पश्चिमकं उपादानं । तद् उच्यते तृष्णाप्रत्ययम् उपादानं । विद्याचरणसंपन्नो न विद्याचरणसंपन्नः ( ध्स्क्द् 13र्4 ) । सुगतो लोकवित्* न सुगतो लोकवित्* । अनुत्तरो नानुत्तरः । पुरुषदम्यसारथिः न पुरुषदम्यसारथिः । शास्ता देवमनुष्याणां न शास्ता देवमनुष्याणां । बुद्धो भगवान् न बुद्धो भगवान् * ।
( ध्स्क्द् 13र्5 ) स्वाख्यातो भगवतो धर्मो न स्वाख्यातो भगवतो धर्मः । सांदृष्टिको न सांदृष्टिको । निर्ज्वरो न निर्ज्वरः । आकालिको नाकालिकः । औपनायिको नौपनायिकः । ऐहिदर्शिको नैहिदर्शिकः । प्रत्यात्मवेद् अनी यो ( ध्स्क्द् 13र्6 ) विज्ञैः न प्रत्यात्मवेदनीयो विज्ञैः ।
सुप्रतिपन्नो भगवतः श्रावकसंघो न सुप्रतिपन्नो भगवतः श्रावकसंघः । ऋजुप्रतिपन्नो न ऋजुप्रतिपन्नो । न्यायप्रतिपन्नो न न्यायप्रतिपन्नो ( ध्स्क्द् 13र्7 ) । धर्मानुधर्मप्रतिपन्नो न धर्मानुधर्मप्रतिपन्नः । सामीचीप्रतिपन्नो न सामीचीप्रतिपन्नः । अनुधर्मचारी नानुधर्मचारी ।
दुःखं न दुःखं । समुदयो न समुदयो । निरोधो न निरोधः । मार्गो न मार्गः । सर्वसंस्कारा ( ध्स्क्द् 13र्8 ) अनित्या न सर्वसंस्कारा अनित्याः । सर्वधर्मा अनात्मानः न सर्वधर्मा अनात्मानः । शान्तं निर्वाणं न शान्तं निर्वाणं । इति विचिकित्सापर्यवस्थानम् उत्पादयति । विस्तरेण यावत् पश्चिमकम् उपादानम्* । ( ध्स्क्द् 13र्9 ) तद् उच्यते तृष्णाप्रत्ययम् उपादानं ।
अपि खलु सर्वाण्य् एव चत्वार्य् उपादानानि तृष्णासमुदयानि तृष्णाजातीयानि तृष्णाप्रभवानि । कतमानि चत्वारि । कामोपादानं दृष्ट्युपादानं शीलव्रतोपादानम् आत्मवादोपादानं ( ध्स्क्द् 13र्10 ) ।
कामोपादानं कतमद् । आह । कामप्रतिसंयुक्तां दृष्टिं शीलव्रतं च स्थाप्य यानि तद न्यानि कामप्रतिसंयुक्तानि संयोजनबन्धनानुशयोपक्लेशपर्यवस्थानानि इदम् उच्यते ( ध्स्क्द् 13व्1 ) कामोपादानं ।
दृष्ट्युपादानं कतमद् । आह । चतस्रो दृष्टयो दृष्ट्युपादानम् इत्य् उच्यते सत्कायदृष्टिर् अन्तग्राहदृष्टिर् मिथ्यादृष्टिर् दृष्टिपरामर्श इतीमाश् चतस्रो दृष्टयो । दृष्ट्युपादानम् इत्य् उच्यते ।
शीलव्रतोपादानं कतमद् । यथा ( ध्स्क्द् 13व्2 ) खल्व् इहैकत्यः शीलं परामृशति विस्तरेण यावत्* । उभयेन शीलव्रतेन शुच्यति मुच्यते निर्याति सुखदुःखं व्यतिक्रामति सुखदुःखव्यतिक्रमम् अनुप्राप्नोति । इदम् उच्यते शीलव्रतोपादानं ।
आत्मव्रतोपादानम् ( ध्स्क्द् 13व्3 ) आत्मव् आद् ओपादानं कतमत्* । रूपारूप्यप्रतिसंयुक्ता ं दृष्टि ं शीलव्रतं च स्थाप्य तदन्यानि रूपारूप्यप्रतिसंयुक्तानि संयोजनबन्धनानुशयोपक्लेशपर्यवस्थानानीदम् उच्यते आत्मवादोपादानं ।
( ध्स्क्द् 13व्4 ) अपि खल्व् एवम् उक्तं भगवता महानिदाने व्याकरणे आयुष्मत्य् आनन्दे ।
अस्ति प्रत्ययम् आनन्दोपादानं विस्तरेण यावत् ।
तृष्णा चेद् आनन्द नाभविष्यद् अपि नु कस्य चित् का चित् तृष्णाभविष्यन् । नो भदन्त । सर्वशो वा पुनर् आनन्द ( ध्स्क्द् 13व्5 ) तृष्णायाम् असत्याम् अपि नु उपादानं प्रज्ञापयेत । नो भदन्त । तस्मात् तर्ह्य् आनन्द एतन् निदानम् एष हेतुर् एष समुदय एष प्रत्ययः उपादानस्य यद् उत तृष्णा तृष्णाप्रत्ययम् उपादानं । इति ( ध्स्क्द् 13व्6 ) यद् उक्तम् इदं मे तत् प्रत्युक्तम् इति ॥
11. (उपादानप्रत्ययो भवः)
भवः कतम । आह । उपादानान्य् एव प्रतीत्यानेकविधा भवप्रज्ञप्तिर् उक्ता भगवता । एकविधा अस्ति भवप्रज्ञप्तिर् यत्र त्रैधातुकाः पंच स्कन्धा उक्ता भगवता । ( ध्स्क्द् 13व्7 ) अस्ति भवप्रज्ञप्तिर् यत्रायत्यां पुनर्भवाभिनिर्व र्त कं कर्मोक्तं भगवता । अस्ति भवप्रज्ञप्तिर् यत्रोपप त् त्यंगिका पंच स्कन्धा उक्ता भगवता ।
कतमा भवप्रज्ञप्तिर् यत्र त्रैधातुकाः पंच स्कन्धा भवा उक्ता ( ध्स्क्द् 13व्8 ) भगवता । यद् उक्तं । त्रयो भवाः कामभवो रूपभवः आरूप्यभवः । इयं भवप्रज्ञप्तिर् यत्र त्रैधातुकाः पंच स्कन्धा भव उक्ता भगवता ।
कतमा भवप्रज्ञप्तिर् यत्रायत्यां पुनर्भवाभिनिर्वर्तकं कर्मोक्तं भगवता ( ध्स्क्द् 13व्9 ) । यद् उक्तं । यद् अपि तद् आनन्द कर्मायत्यां पुनर्भवाय संवर्तते इदम् अत्र भवस्य । इयं भवप्रज्ञप्तिर् यत्रायत्यां पुनर्भवाभिनिर्वर्तकं कर्म भव उक्तं भगवता ।
कतमा भवप्रज्ञप्तिर् यत्रोपप त् त्यांगिकाः ( ध्स्क्द् 13व्10 ) पंच स्कन्धा भव उक्ता भगवता । यद् उक्तं । विज्ञानं फल्गुनाहारं यावद् एवायत्यां पुनर्भवाभिनिर्वर्तये प्रादुर्भावाय । इयं भवप्रज्ञप्तिर् यत्रोपपत् त् यांगिकाः पंच स्कन्धा भव उक्तं भगवता ।
अपि ( ध्स्क्द् 14र्1 ) खल्व् एवम् उक्तं भगवता निदानपर्याये व्याकरणे आयुष्मत्य् आनन्दे ।
अस्ति प्रत्ययम् आनन्द भवो । विस्तरेण यावत् ।
सर्वशो वा पुनर् आनन्द उपादाने असति अपि नु भवः प्रज्ञायेत । नो भदन्त । तस्मात् तर्ह्य् आनन्द एत न् नि दानं ( ध्स्क्द् 14र्2 ) चैष हेतुर् एष समुदय एष प्रत्ययो भवस्य यद् उतोपादानं । उपादानप्रत्ययम् आनन्द भव । इति यद् उक्तम् इदं मे तत् प्रत्युक्तं ॥
12. (भवप्रत्यया जातिः)

भवप्रत्यया जातिः कतमा । आह । यथा खल्व् इहैकत्यो रागपर्यवस्थितो ( ध्स्क्द् 14र्3 ) द्वेषपर्यवस्थितो मोहपर्यवस्थितः कायेन दुश्चरितं चरति वाचा मनसा दुश्चरितं चरति । ये ते अकुशला कायसंस्कारा वाक्संस्कारा मनःसंस्कारा अयम् उच्यते अकुशलः कर्मभवः । यद् अपि तद्धेतु ( ध्स्क्द् 14र्4 ) तत्प्रत्ययं कायस्य भेदान् नरकेषूपपद्यते । तत्र या जातिः संजातिर् अवक्रान्तिर् अभिनिर्वृत्तिः प्रादुर्भावः स्कन्धप्रतिलाभो धातुप्रतिलाभ आयतनप्रतिलाभो जीवितेन्द्रियस्य प्रादुर्भाव इतीयं जातिर् ( ध्स्क्द् 14र्5 ) इमं भवं प्रतीत्य तद् उच्यते भवप्रत्यया जातिर् ।
इति यथा नरकेष्व् एवं तिर्यक्प्रेतेषु ।
यथा खल्व् इहैकत्यो मनुष्यसुखकानाम् अवेक्षावान् भवति प्रतिबद्धचित्तः । तस्यैवं भवत्य् । अहो बताहं मनुष्यसुभगानां ( ध्स्क्द् 14र्6 ) सभागतायाम् उपपद्येयम् इति । स तत्प्रार्थयमानस् तद्धेतोस् तत्संवर्तनीयं कायेन सुचरितं चरति वाचा मनसा सुचरितं चरति । ये ते कुशलाः कायसंस्कारा वाक्संस्कारा मनःसंस्कारा ( ध्स्क्द् 14र्7 ) अयम् उच्यते कुशलः कर्मभवः । यद् अपि तद्धेतु तत्प्रत्ययं कायस्य भेदान् मनुष्यसुभगानां सभागतायाम् उपपद्यते । तत्र या जातिः संजातिर् विस्तरेण तद् उच्यते भवप्रत्यया जाति ।
यथा मनुष्यसुभगानां ( ध्स्क्द् 14र्8 ) एवं चातुर्महाराजिकानां त्रयस्त्रिंशानां यामानां तुषितानां निर्माणरतीनां परनिर्मितवशवर्तिनां ।
यथा खल्व् इहैकत्यो ब्रह्मकायिकानां देवानाम् अवेक्षावान् भवति प्रतिबद्धचित्तः तस्यैवं भवत्य् ( ध्स्क्द् 14र्9 ) । अहो बताहं ब्रह्मकायिकानां देवानां सभागतायाम् उपपद्येयम् इति । स तत्प्रार्थयमानस् तद्धेतोस् तत्संवर्तनीयं विविक्तं कामैर् विविक्तं पापकैर् अकुशलैर् धर्मैः सवितर्कं सविचारं विवेकजं ( ध्स्क्द् 14र्10 ) प्रीतिसुखं प्रथमं ध्यानम् उपसंपद्य विहरति । तथा समापन्नस्य यः कायसंवरो वाक्संवर आजीवपरिशुद्धि र् अयम् उच्यते कुशलः कर्मभवः । यद् अपि तद्धेतु तत्प्रत्ययं कायस्य भेदाद् ( ध्स्क्द् 14व्1 ) ब्रह्मकायिकानां देवानां सभागतायाम् उपपद्यते । तत्र जातिः संजातिर् विस्तरेण यावद् । इयं जातिर् इमं भवं प्रतीत्य तद् उच्यते भवप्रत्यया जातिर् इति ।
यथा ब्रह्मकायिकानां एवं ब्रह्मपुरोहितानां महाब्रह्मणां ।
( ध्स्क्द् 14व्2 ) यथा खल्व् इहैकत्यः परीत्ताभानां देवानाम् अवेक्षावान् भवति प्रतिबद्धचित्तः । तस्यैवं भवत्य् । अहो बताहं परीत्ताभानां देवानां सभागतायाम् उपपद्येयम् इति । स तत्प्रार्थयमानो वितर्कविचाराणां व्युपशमाद् ( ध्स्क्द् 14व्3 ) अध्यात्मसंप्रसादाच् चेतस एकोतीभावाद् अवितर्कम् अविचारं समाधिजं प्रीतिसुखं द्वितीयं ध्यानम् उपसंपद्य विहरति । तथा समापन्नस्य यः कायसंवरो वाक्संवर आजीवपरिशुद्धिः अयम् उच्यते ( ध्स्क्द् 14व्4 ) कुशलः कर्मभवः । यद् अपि तद्धेतु तत्प्रत्ययं कायस्य भेदात् परीत्ताभनां देवानां सभागतायाम् उपपद्यते । तत्र या जातिः संजातिर् विस्तरेण जीवितेन्द्रियस्य प्रादुर्भावः । इतीयं जातिर् इमं भवम्* ( ध्स्क्द् 14व्5 ) प्रतीत्य तद् उच्यते भवप्रत्यया जातिः ।
यथा परीत्ताभानाम् एवम् अप्रमाणाभानाम् आभास्वराणां ।
यथा खल्व् इहैकत्यः परीत्तशुभानां देवानाम् अवेक्षावान् भवति प्रतिबद्धचित्तः । तस्यैवं भवत्य् । अहो बताहं ( ध्स्क्द् 14व्6 ) परीत्तशुभानां देवानां सभागतायाम् उपपद्येयं । स तत्प्रार्थयमानस् तद्धेतोस् तत्संवर्तनीयं प्रीतेर् विरागाद् उपेक्षको विहरति । स्मृतः संप्रजानन् सुखं च कायेन प्रतिसंवेदयते । यत् ( ध्स्क्द् 14व्7 ) तद् आर्या आचक्षते उपेक्षकः स्मृतिमां सुखविहारीति तृतीयं ध्यानम् उपसंपद्य विहरति । तथा समापन्नस्य यः कायसंवरो वाक्संवरः आजीवपरिशुद्धिर् अयम् उच्यते कुशलः कर्मभवः । ( ध्स्क्द् 14व्8 ) यद् अपि तद्धेतु तत्प्रत्ययं कायस्य भेदात् परीत्तशुभानां देवानां सभागतायाम् उपपद्यते । तत्र या जातिः संजातिर् विस्तरेण । इयम् उच्यते भवप्रत्यया जातिर् इति ।
यथा परीत्तशुभानाम् एवम् ( ध्स्क्द् 14व्9 ) अप्रमाण् अशु भानां शुभकृत्स्नानां ।
यथा खल्व् इहैकत्यः अनभ्रकाणां देवानाम् अवेक्षावान् भवति प्रतिबद्धचित्तः । तस्यैवं भवत्य् । अहो बताहम् अनभ्रकाणां देवानां सभागतायाम् उपपद्येयम् इति । स तत्प्रार्थयमानस् ( ध्स्क्द् 14व्10 ) तद्धेतोस् तत्संवर्तनीयं सुखस्य च प्रहाणा द् दुःखस्य च प्रहाणा त् पूर्वम् एव च सौमनस्यदौर्मनस्ययोर् अस्तगमाद् अदुःखासुखं उपेक्षास्मृतिपरिशुद्धं चतुर्थं ध्यानम् उपसंपद्य विहरति । ( ध्स्क्द् 15र्1 ) तथा समापन्नस्य यः कायसंवरो वाक्संवर आजीवपरिशुद्धिर् अयम् उच्यते कुशलः कर्मभवः । यद् अपि तद्धेतु तत्प्रत्ययं कायस्य भेदाद् अनभ्रकाणां देवानां सभागतायाम् उपपद्यते ( ध्स्क्द् 15र्2 ) । तत्र या जातिः संजातिः विस्तरेण यावज् जीवितेन्द्रियस्य प्रादुर्भावः । इतीयं जातिर् इमं भवं प्रतीत्य तद् उच्यते भवप्रत्यया जातिः ।
यथा अनभ्रकाणाम् एवं पुण्यप्रसवानाम् ( ध्स्क्द् 15र्3 ) असंज्ञिसत्व् अ संगृहीतानां च बृहत्फलानां ।
यथा खल्व् इहैकत्यः असंज्ञिसत्वानां देवानाम् अवेक्षावान् भवति प्रतिबद्धचित्तः । तस्यैवं भवत्य् । अहो बताहम् असंज्ञिसत्वानां देवानां सभागतायाम् ( ध्स्क्द् 15र्4 ) उपपद्येयम् इति । स तं प्रार्थयमानस् तद्धेतोस् तत्संवर्तनीयं संज्ञाम् औदारिकतो दुःखिलतः स्थूलभित्तिकतो मनसिकरोति आसंज्ञिकं च शान्ततः प्रणीततो निःसरणतः । तस्य संज्ञाम् औदारिकतो ( ध्स्क्द् 15र्5 ) दुःखिलतः स्थूलभित्तिकतो मनसिकुर्वतः आसंज्ञिकं च शान्ततः प्रणीततो निःसरणतः संज्ना अन्तर्धीयते आसंज्ञिकं च संस्थिहति । इति यत्र मम संज्ञा अन्तरायत्य् आसंज्ञिकं ( ध्स्क्द् 15र्6 ) च संस्थिहत्य् एतावद् असंज्ञिसमापत्तिः समापन्न इति वक्तव्यं । तथा समापन्नस्य यः कायसंवरो वाक्संवरः आजीवपरिशुद्धिर् अयम् उच्यते कुशलः कर्मभवः । यद् अपि तद्धेतु तत्प्रत्ययं ( ध्स्क्द् 15र्7 ) कायस्य भेदाद् असंज्ञिसत्वानां देवानां सभागतायाम् उपपद्यते । तत्र या जातिः संजातिर् विस्तरेण यावज् जीवितेन्द्रियस्य प्रादुर्भाव इति । इतीयं जातिर् इमं भवं प्रतीत्य तद् उच्यते ( ध्स्क्द् 15र्8 ) भवप्रत्यया जातिर् इति ।

यथा खल्व् इहैकत्यः आकाशानन्त्यायतनानां देवानाम् अवेक्षावान् भवति प्रतिबद्धचित्तः । तस्यैवं भवत्य् । अहो बताहं आकाशानन्त्यायतनानां देवानां सभागतायाम् उपपद्येयम् ( ध्स्क्द् 15र्9 ) इति । स तत्प्रार्थयमानस् तद्धेतोस् तत्संवर्तनीयं सर्वशो रूपसंज्ञानां समतिक्रमात् प्रतिघसंज्ञानाम् अस्तगमान् नानात्वसंज्ञानाम् अमनसिकाराद् अनन्तम् आकाशम् इत्य् आकाशानन्त्यायत न म् ( ध्स्क्द् 15र्10 ) उपसंपद्य विहरति । तथा समापन्नस्य या चेतना संचेतनाभिसंचेतना चेतयितं चेतनागतं चित्ताभिसंस्कारो मनस्कर्म अयम् उच्यते कुशलः कर्मभवः । यद् अपि तद्धेतु ( ध्स्क्द् 15व्1 ) तत्प्रत्ययं कायस्य भेदाद् आकाशानन्त्यायतनानां देवानां सभागतायाम् उपपद्यते । तत्र या जातिः संजातिर् विस्तरेण याव ज् जीवितेन्द्रियप्रादुर्भाव । इतीयं जातिर् इमं भवं प्रतीत्य तद् उच्यते ( ध्स्क्द् 15व्2 ) भवप्रत्यया जातिर् इति ।
यथा खल्व् इहैकत्यो विज्ञानानन्त्यायतनानां देवानाम् अवेक्षावान् भवति प्रतिबद्धचित्तः । तस्यैवं भवत्य् । अहो बताहं विज्ञानानन्त्यायतनानां देवानां सभागतायाम् उपपद्येयं ( ध्स्क्द् 15व्3 ) इति । स तत्प्रार्थयमानस् तद्धेतोस् तत्संवर्तनीयं सर्वश आकाशानन्त्यायतनं समतिक्रम्यानन्तं विज्ञानम् इति विज्ञानानन्त्यायतनम् उपसंपद्य विहरति । तथा समापन्नस्य या चेतना यावच् चित्ताभिसंस्कारो ( ध्स्क्द् 15व्4 ) मनस्कर्मायम् उच्यते कुशलः कर्मभवः । यद् अपि तद्धेतु तत्प्रत्ययं कायस्य भेदाद् विज्ञानानन्त्यायतनानां देवानां सभागतायाम् उपपद्यते । तत्र या जातिः संजातिः विस्तरेण ( ध्स्क्द् 15व्5 ) यावज् जीवितेन्द्रियस्य प्रादुर्भाव । इतीयं जातिर् इमं भवं प्रतीत्य तद् उच्यते भवप्रत्यया जातिर् इति ।
यथा खल्व् इहैकत्य आकिंचन्यायतनानां देवानाम् अवेक्षावान् भवति प्रतिबद्धचित्तः ( ध्स्क्द् 15व्6 ) । तस्यैवं भवत्य् । अहो बताहम् आकिंचन्यायतनानां देवानां सभागतायाम् उपपद्येयम् इति । स तत्प्रार्थयमानस् तद्धेतोस् तत्संवर्तनीयं सर्वशो विज्ञानानन्त्यायतनं समतिक्रम्य नास्ति ( ध्स्क्द् 15व्7 ) किं चिद् इत्य् आकिंचन्यायतनम् उपसंपद्य विहरति । तथा समापन्नस्य या चेतना संचेतना विस्तरेण यावच् चित्ताभिसंस्कारो मनस्कर्म अयम् उच्यते कुशलः कर्मभवः । ( ध्स्क्द् 15व्8 ) यद् अपि तद्धेतु तत्प्रत्ययं कायस्य भेदाद् आकिंचन्यायतनानां देवानां सभागतायां उपपद्यते । तत्र या जातिः संजातिः विस्तरेण यावज् जीवितेन्द्रियस्य प्रादुर्भाव ( ध्स्क्द् 15व्9 ) । इतीयं जातिर् इमं भवं प्रतीत्य तद् उच्यते भवप्रत्यया जातिर् इति ।

यथा खल्व् इहैकत्यो नैवसंज्ञानासंज्ञायतनानां देवानाम् अवेक्षावान् भवति प्रतिबद्धचित्तः । ( ध्स्क्द् 15व्10 ) तस्यैवं भवत्य् । अहो बताहं नैवसंज्ञानासंज्ञायतनानां देवानां सभागतायां उपपद्येयम् इति । स तत्प्रार्थयमानस् तद्धेतोस् तत्संवर्तनीयं आकिंचन्यायतनं समतिक्रम्य ( ध्स्क्द् 16र्1 ) नैवसंज्ञानासंज्ञायतनम् उपसंपद्य विहरति । तथा समापन्नस्य या चेतना विस्तरेण याव च् चित्ताभिसंस्कारो मनस्कर्मायम् उच्यते कुशलः कर्मभवः । यद् अपि तद्धेतु तत्प्रत्ययं नैवसंज्ञानासंज्ञायतनानां ( ध्स्क्द् 16र्2 ) देवानां सभागतायां उपपद्यते । तत्र या जातिः संजातिर् अवक्रान्तिर् अभिनिर्वृत्तिः प्रादुर्भावः स्कन्धप्रतिलाभो धातुप्रतिलाभः आयतनप्रतिलाभः जीवितेन्द्रियस्य प्रादुर्भावः ( ध्स्क्द् 16र्3 ) । इतीयं जातिर् इमं भवं प्रतीत्य तद् उच्यते भवप्रत्यया जातिर् इति ।
अपि खल्व् एवम् उक्तम् भगवता महानिदानपर्याये व्याकरणे आयुष्मत्य् आनन्दे ।
अस्ति प्रत्ययम् आनन्द जातिर् । इति पृष्टैर् अस्तीति ( ध्स्क्द् 16र्4 ) वचनीयं । किंप्रत्यया जातिर् इति । भवप्रत्यया इति वचनीयं । भवप्रत्यया आनन्द जातिर् । इति मे यद् उक्तम् इदं मे तत् प्रत्युक्तं ।
भवश् चेद् आनन्द न स्याद् अपि नु मत्स्यानां मत्स्यत्वे पक्षिणानां वा पक्षित्वे ( ध्स्क्द् 16र्5 ) सरीसृपाणां सरीसृपत्वे चतुष्पदानां वा चतुष्पदत्वे नागानां वा नागत्वे यक्षाणां वा यक्षत्वे भूतानां वा भूतत्वे गन्धर्वाणां वा गन्धर्वत्वे देवानां वा देवत्वे मनुष्याणां वा मनुष्यत्वे ( ध्स्क्द् 16र्6 ) तेषां तेषाम् आनन्द सत्वानां तस्मिन् तस्मिन् सत्वनिकाये अपि नु कस्य चित् क श् चिद् भवः स्यान् । नो भदन्त । सर्वशो वा पुनर् आनन्द भवे असत्य् अपि नु कस्य चित् क् आ चिज् जाति ः प्रज्ञायेत । नो भदन्त । ( ध्स्क्द् 16र्7 ) तस्मात् तर्ह्य् आनन्दैतन् निदानम् एष समुदय एष हेतुर् एष प्रत्ययो जात्या यद् उत भवः । भवप्रत्यया आनन्द जातिर् । इति मे यद् उक्तम् इदं मे तत् प्रत्य् उ क्तं ।
13. (जातिप्रत्यया जरामरणशोकपरिदेवदुःखदौर्मनस्योपायासाः)
जातिप्रत्ययं जरामरणम् इति ।
जरा कतमा । ( ध्स्क्द् 16र्8 ) आह । यत् तेषां तेषां सत्वानां तस्मिं तस्मिं सत्वनिकाये जातिः संजातिर् अवक्रान्तिर् अभिनिर्वृत्तिर् विस्तरेण जीवितेन्द्रियस्य प्रादुर्भावः इयम् उच्यते जातिः ।
अपि खल्व् एवम् उक्तं भगवता महानिदानपर्याये ( ध्स्क्द् 16र्9 ) व्याकरणे आयुष्मत्य् आनन्दे ।
अस्ति प्रत्ययम् आनन्द जरामरणं । इति पृष्टैर् अस्तीति स्याद् वचनीयं । विस्तरेण यावज् ।
जातिश् चेद् आनन्द न स्याद् अपि नु मत्स्यानां वा मत्स्यत्वे पक्षिनां वा ( ध्स्क्द् 16र्10 ) पक्षित्वे विस्तरेण याव द् देवानां देवत्वे तेषां तेषाम् आनन्द सत्वानां तस्मिं तस्मिन् सत्वनिकाये अपि नु कस्य चित् क् आ चिज् जातिः स्यान् । नो भदन्त । सर्वशो वा पुनर् आनन्द जात्याम् अ सत्यां ( ध्स्क्द् 16व्1 ) अपि नु जरामरणं प्रज्नायेत । नो भदन्त । तस्मात् तर्ह्य् आनन्द तन् निदानं एष समुदय एष हेतुर् एष प्रत्ययो जरामरणस्य यद् उत जातिः । जातिप्रत्ययम् आनन्द जरामरणम् इति मे यद् उक्तम् ( ध्स्क्द् 16व्2 ) एतत् प्रत्युक्तं ॥
जरा कतमा । यत् तत् खालित्यं पालित्यं विस्तरेण यावत् संस्काराणां पुराणीभावो जर्जरीभाव इयम् उच्यते जरा ।
मरणं कतमद् । आह । यत् तेषां तेषां सत्वानां तस्मात् तस्मात् सत्वनिकायाच् ( ध्स्क्द् 16व्3 ) च्युतिश् च्यवनता भेदो ऽन्तर्हाणिः संमोषः परिहाणिः आयुषो हानिर् ऊष्मणो हानिः स्कन्धानां निक्षेपो जीवितेन्द्रियस्योपरोधो मरणं कालक्रिया इदम् उच्यते मरणं ।
शोकः कतम । आह ( ध्स्क्द् 16व्4 ) । यत् तन् मातृम र णेन पितृमरणेन भ्रातृमरणेन भगिनीमरणेन ज्ञातिक्षयाद् धनक्षयाद् भोगक्षयात् स्पृष्टस्य शारीरिकाभिर् वेदनाभिर् दुःखाबिस् तीव्राभिः खराभिः कटुकाभिर् अमनापाभिः ( ध्स्क्द् 16व्5 ) प्राणहारिणीभिर् यो दाघः संदाघः शोकः शोचना शोकायितत्वम् अयम् उच्यते शोकः ।
परिदेवः कतम । आह । तथा दह्यते तथा परिदह्यते । हा अंब हा तात हा भगिनि हा भ्रातः । तद् उपादाय ( ध्स्क्द् 16व्6 ) यद् वाक्यं वचनं व्याहारो भाषा गीर् निरुक्तिर् वाक्पथो वाग्घोषो वाचा वाक्कर्म वाग्विज्ञप्तिर् आर्त्तिर् भाष्यं विप्रलापो लालप्यं लालप्यनता परिदेवः परिदेवनता अयम् उच्यते ( ध्स्क्द् 16व्7 ) परिदेवः ।
दुःखं कतमद् । आह । पंचविज्ञानसंप्रयुक्तम् असातं वेदितं वेदनागतम् इदम् उच्यते दुःखं ।
दौर्मनस्यं कतरद् । आह । मनोविज्ञानंसप्रयुक्तं असातं वेदितं वेदनागतम् इदम् उच्यते दौर्मनस्यं ( ध्स्क्द् 16व्8 ) ।
उपायासः कतम । आह । यश् चेतस आयास उपायासः उपायासनता अयम् उच्यते उपायासः ॥
14. (दुःखस्कन्धस्याभिनिर्वृत्तिः)
अपि खल्व् अविद्यादुःखस्कन्धं प्रतीत्य संस्कारदुःखस्कन्धस्याभिनिर्वृत्तिर् भवति ( ध्स्क्द् 16व्9 ) प्रादुर्भावः । संस्कारदुःखस्कन्धं प्रतीत्य विज्ञानदुःखस्कन्धस्याभिनिर्वृत्तिर् भवति प्रादुर्भावः । विज्ञानदुःखस्कन्धं प्रतीत्य नामरूपदुःखस्कन्धस्याभिनिर्वृत्तिर् भवति प्रादुर्भावः । नामरूपदुःखस्कन्धं ( ध्स्क्द् 16व्10 ) प्रतीत्य षडायतनदुःखस्कन्धस्याभिनिर्वृत्तिर् भवति प्रादुर्भावः । षडायतनदुःखस्कन्धं प्रतीत्य स्पर्शदुःखस्कन्धस्याभिनिर्वृत्तिर् भवति प्रादुर्भावः । स्पर्शदुःखस्कन्धं ( ध्स्क्द् 17र्1 ) प्रतीत्य वेदनादुःखस्कन्धस्याभिनिर्वृत्तिर् भवति प्रादुर्भावः । वेदनादुःखस्कन्धं प्रतीत्य तृष्णादुःखस्कन्धस्याभिनिर्वृत्तिर् भवति प्रादुर्भावः । तृष्णादुःखस्कन्धं प्रतीत्योपादानदुःखस्कन्धस्याभिनिर्वृत्तिर् ( ध्स्क्द् 17र्2 ) भवति प्रादुर्भावः । उपादानदुःखस्कन्धं प्रतीत्य भवदुःखस्कन्धस्याभिनिर्वृत्तिर् भवति प्रादुर्भावः । भवदुःखस्कन्धं प्रतीत्य जातिदुःखस्कन्धस्याभिनिर्वित्तिर् भवति प्रादुर्भावः । जातिदुःखस्कन्धम्* ( ध्स्क्द् 17र्3 ) प्रतीत्य जरा म रणदुःखस्कन्धस्याभिनिर्वृत्तिर् भवति प्रादुर्भावः ॥ ॥
15. (पञ्च भयानि वद्यानि वैराणि)
एवं मया श्रुतम् एकस्मिन् समये भगवांश् छ्रावस्त्यां विहरति जेतवने ऽनाथपिण्डदस्यारामे । तत्र भगवान् भिक्षून् आमन्त्रयते स्म । यस्य कस्य चिद् भिक्षवः ( ध्स्क्द् 17र्4 ) पंच भयानि वद्यानि वैराणि अशान्तानि भवन्ति स दृष्ट एव धर्मे विज्ञानां गर्ह्यो भवति पश्चाच् चानुताप्यः कायस्य च भेदात् परं मरणाद् अपायदुर्गतिं विनिपातं नरकेषूपपद्यते ।
कतमानि पंच भयानि ( ध्स्क्द् 17र्5 ) वद्यानि वैराण्य् अशान्तानि भवन्ति ।
यत् प्राणातिपातिकः प्राणातिपातप्रत्ययं वद्यं वैरं प्रसवति प्राणातिपाताद् अप्रतिविरतस्य एवम् अस्येदं प्रथमं भयं वद्यं वैरम् अशान्तं भवति ।
यद् ( ध्स्क्द् 17र्6 ) अदत्तादायिकः काममिथ्याचारिको मृषावादिकः

सुरामैरेयमद्यप्रमादस्थायिकः सुरामैरेयमद्यप्रमादस्थानभयं वद्यं वैरं प्रसवति सुरामैरेयमद्यप्रमादस्थानाद् अप्रतिविरतस्य ( ध्स्क्द् 17र्7 ) एवम् अस्येदं पंचमं भयं वद्यं वैरम् अशान्तं भवति ।
यस्य कस्य चिद् इमानि पंच भयानि वद्यानि वैराण्य् अशान्तानि भवन्ति स दृष्ट एव धर्मे विज्ञानां गर्ह्यो भवति पश्चाच् चानुताप्यः । ( ध्स्क्द् 17र्8 ) कायस्य भेदात् परं मरणाद् अपायदुर्गतिं विनिपातं नरकेषूपपद्यते ।
यस्य तु कस्य चित् पंच भयानि वद्यानि वैराणि शान्तानि भवन्ति स दृष्ट एव धर्मे विज्ञानां प्रशस्यो भवति पश्चाच् च नानुताप्यः ( ध्स्क्द् 17र्9 ) कायस्य च भेदात् सुगतौ स्वर्गलोके देवेषूपपद्यते ।
कतमानि पंच भयानि वद्यानि वैराणि शान्तानि भवन्ति ।
यत्* प्राणातिपातिकः प्राणातिपातप्रत्ययं भयं वद्यं वैरं प्रसवति प्राणातिपातात् ( ध्स्क्द् 17र्10 ) प्रतिविरतस्य एवम् अस्येदं प्रथमं वद्यं वैरं शान्तं भवति ।
यद् अदत्तादायिकः काममिथ्याचारिको मृषावादिकः
सुरामैरेयमद्यप्रमादस्थायिकः सुरामैरेयमद्यप्रमादस्थानप्रत्ययं ( ध्स्क्द् 17व्1 ) भयं वद्यं वैरं प्रसवति सुरामैरेयमद्यप्रमादस्थानात् प्रतिविरतस्य एवम् अस्येदं पंचमं भयं वद्यं वैरं शान्तं भवति ।
यस्य कस्य चिद् इमानि पंच भयानि वद्यानि वैराणि शान्तानि भवन्ति स दृष्ट एव धर्मे ( ध्स्क्द् 17व्2 ) विज्ञानां प्रशस्यो भवति पश्चाच् च नानुताप्यः कायस्य च भेदात् सुगतौ स्वर्गलोके देवेषूपपद्यते । इदम् अवोचद् भगवान् । इदम् उक्त्वा सुगतो ह्य् अथापरम् एतद् उवाच शास्ता ॥
यः प्राणम् अतिपातयति मृषावादं ( ध्स्क्द् 17व्3 ) च भाषते ।
लोके अदत्तम् आदत्ते परदारं च गच्छति ।
सुरामैरेयपानं च यो नरो ह्य् अधिगृध्यति ।
सक्तः पंचसु धर्मेषु दुःशील इति कथ्यते ।
कायस्य भेदा द् दुष्प्रज्ञो नरकेषूपपद्यते ॥
यस् तु प्राणं नातिपातयति ( ध्स्क्द् 17व्4 ) मृषावादं न भाषते ।
लोके अदत्तं नादत्ते परदारं न गच्छति ।
सुरामैरेयपानं च यो नरो नाधिगृध्यति ।

मुक्तः पंचसु धर्मेषु शीलवान् इति कथ्यते ।
कायस्य भेदात् सुगतो स्वर्गलोके देवेषूपपद्यते ।
इदम् ( ध्स्क्द् 17व्5 ) अवोचत्* ॥
16. (उपासकः)
कियता उपासको भवति । यतश् च गृही अवदातवसनः पुरुषः पुरुषेन्द्रियेण समन्वागतः बुद्धं शरणं गच्छति धर्मं संघं शरणं गच्छति चित्तम् उत्पादयति वाचं च भाषते उपासकं ( ध्स्क्द् 17व्6 ) मां धारयेति । इयता उपासको भवति ।
कियता उपासकः शिक्षास्व् एकदेशकारी भवति । यतश् चोपासकः बुद्धं शरणं गतो भवति धर्मं संघं शरणं गतो भवति प्राणातिपातात् ( ध्स्क्द् 17व्7 ) प्रतिविरतः अदत्तादानात् काममिथ्याचारान् मृषावादाद् अप्रतिविरतः इयता उपासकः शिक्षास्व् एकदेशकारी भवति ।
कियता उपासकः शिक्षासु ( ध्स्क्द् 17व्8 ) प्रदेशकारी भवति । यतश् चोपासकः बुद्धं शरणं गतो भवति धर्मं संघं शरणं गतो भवति प्राणातिपाताद् अदत्तादानात् प्रतिविरतः काममिथ्याचारान् मृषावादात् सुरामैरेयमद्यप्रमादस्थानाद् ( ध्स्क्द् 17व्9 ) अप्रतिविरतः इयता उपासकः शिक्षासु प्रदेशकारी भवति ।
कियता उपासकः शिक्षासु यद्भूयस्कारी भवति । यतश् चोपासकः बुद्धं शरणं गतो भवति धर्मं संघं शरणं ( ध्स्क्द् 17व्10 ) गतो भवति प्राणातिपाताद् अदत्तादानात् काममिथ्याचारात् प्रतिविरतः मृषावादात् सुरामैरेयमद्यप्रमादस्थानाद् अप्रतिविरतः इयता उपासकः शिक्षासु यद्भूयस्कारि भवति ।
( ध्स्क्द् 18र्1 ) कियता उपासकः शिक्षास्व् अपरिपूर्णकारी भवति । यतश् चोपासकः बुद्धं शरणं गतो भवति धर्मं संघं शरणं गतो भवति प्राणातिपाताद् अदत्तादानात् काममिथ्याचारान् मृषावादात् प्रतिविरतः सुरामैरेयमद्यप्रमादस्थानाद् ( ध्स्क्द् 18र्2 ) अप्रतिविरतः इयता उपासकः शिक्षास्व् अपरिपूर्णकारी भवति ।
कियता उपासकः शिक्षासु परिपूर्णकारी भवति । यतश् चोपासकः बुद्धं शरणं गतो भवति धर्मं संघं शरणं गतो भवति प्राणातिपातात् ( ध्स्क्द् 18र्3 ) प्रतिविरतः अदत्तादानात् काममिथ्याचारान् मृषावादात् सुरामैरेयमद्यप्रमादस्थानात् प्रतिविरतः इयता उपासकः शिक्षासु परिपूर्णकारी भवति ॥
पंचभिर् धर्मैः समन्वागतः उपासकः ( ध्स्क्द् 18र्4 ) आत्महिताय प्रतिपन्नो भवति न परहिताय । कतमैः पंचभिः । आत्मना प्राणातिपातात् प्रतिविरतो भवति । नो तु परान् प्राणातिपातविरतौ समादापयति ।
आत्मना अदत्ता दा नात्326 ( ध्स्क्द् 18र्5 ) काममिथ्याचारान् मृषावादात् सुरामैरेयमद्यप्रमादस्थानात् प्रतिविरतो भवति । नो तु परान् सुरामैरेयमद्यप्रमादस्थानविरतौ समादापयति । एभिः पंचभिः ( ध्स्क्द् 18र्6 ) धर्मैः समन्वागत उपासक आत्महिताय प्रतिपन्नो भवति परहिताय ॥
दशभिर् धर्मैः समन्वागत उपासकः आत्महिताय प्रतिपन्नो भवति परहिताय च । आत्मना प्राणातिपातात् प्रतिविरतो ( ध्स्क्द् 18र्7 ) भवति परांश् च प्राणातिपातविरतौ समादापयति । आत्मना अदत्तादानात् काममिथ्याचारान् मृषावादात् सुरामैरेयमद्यप्रमादस्थानात् प्रतिविरतो भवति परांश् च सुरामैरेयमद्यप्रमादस्थानविरतौ ( ध्स्क्द् 18र्8 ) समादापयति । एभिर् दशभिर् धर्मैस् समन्वागतः उपासकः आत्महिताय प्रतिपन्नो भवति परहिताय च ॥
पंचदशभिर् धर्मैस् समन्वागत उपासकः अत्माहिताय प्रतिपन्नो भवति परहिताय च ( ध्स्क्द् 18र्9 ) बहुजनहिताय बहुजनसुखाय च । आत्मना प्राणातिपातात् प्रतिविरतो भवति परान् अपि प्राणातिपातविरतौ समादापयति प्राणातिपातविरतं च दृष्ट्वा सुमनोज्ञो भवति ।
आत्मना ( ध्स्क्द् 18र्10 ) अदत्तादानात् काममिथ्याचारान् मृषावादात् सुरामैरेयमद्यप्रमादस्थानविरतौ समादापयति सुरामैरेयमद्यप्रमादस्थानविरतं च दृष्ट्वा सुमनोज्ञो भवत्य् । एभिः पंचदशभिर् धर्मै ः ( ध्स्क्द् 18व्1 ) समन्वागतः उपासकः आत्महिताय प्रतिपन्नो भवति परहिताय बहुजनहिताय बहुजनसुखाय च ॥
अष्टाभिर् धर्मैस् समन्वागत उपासकः आत्महिताय प्रतिपन्नो भवति न परहिताय । आत्मना ( ध्स्क्द् 18व्2 ) श्रद्धासंपन्नो भवति नो तु परां च्छ्रद्धासंपदि समादापयति । आत्मा ना शीलसंपन्नस् त्यागसंपन्नः । अभीक्ष्णम् आरामं गन्ता भवति भिक्षूणां दर्शनाय । अवहितश्रोत्रो धर्मं शृणोति । श्रुतानां धर्माणां धारणजातीयो भवति ( ध्स्क्द् 18व्3 ) । धृतानां धर्माणाम् अर्थोपपरीक्षी भवति । आत्मना उपपरीक्षितानां धर्माणाम् अर्थम् आज्ञाय धर्मम् आज्ञाय धर्मानुधर्मप्रतिपन्नो भवति सामीचीप्रतिपन्नो ऽनुधर्म नो तु परान् धर्मचारी नो तु परान् धर्मानुधर्मप्रतिपत्तौ ( ध्स्क्द् 18व्4 ) समादापयति । एभिर् अष्टाभिर् धर्मैः समन्वागतः उपासकः आत्महिताय प्रतिपन्नो भवति न परहिताय ।
षोडशभिर् धर्मैः समन्वागत उपासकः आत्महिताय प्रतिपन्नो भवति ( ध्स्क्द् 18व्5 ) परहिताय च । आत्मना श्रद्धासंपन्नो भवति परान् अपि श्रद्धासंपदि समादापयति । आत्मना शीलसंपन्नस् त्यागसंपन्नो भवत्य् । आत्मना अभीक्ष्णम् आरामं गन्ता भवति भिक्षूणां दर्शनाय । अवहितश्रोत्रो ( ध्स्क्द् 18व्6 ) धर्मं शृणोति । श्रुतानां धर्माणां धारणजातीयो भवति । धृतानां धर्माणां उपपरीक्ष् अ णजातीयो भवति । आत्मना उपपरीक्षितानां धर्माणाम् अर्थम् आज्ञाय धर्मं आज्ञाय धर्मानुधर्मप्रतिपन्नो ( ध्स्क्द् 18व्7 ) भवति । सामीचीप्रतिपन्नो ऽनुधर्मचारी परांश् च धर्मानुधर्मप्रतिपत्तौ समादापयति । एभिः षोडशभिर् धर्मैः समन्वागत उपासक आत्महिताय ( ध्स्क्द् 18व्8 ) प्रतिपन्नो भवति परहिताय च ।
चतुर्विंशत्या धर्मैस् समन्वागत उपासकः आत्महिताय प्रतिपन्नो भवति परहिताय बहुजनहिताय बहुजनसुखाय च । आत्मना श्रद्धासंपन्नो भवति परान् ( ध्स्क्द् 18व्9 ) अपि श्रद्धासंपदि समादापयति श्रद्धासंपन्नं च दृष्ट्वा सुमनो ज्ञो भवति । आत्मना शीलसंपन्नः त्यागसंपन्नः । अभीक्ष्णम् आरामं गन्ता भवति भिक्षूणां दर्शनाय । अवहितश्रोत्रो धर्मं शृणोति । श्रुतानां ( ध्स्क्द् 18व्10 ) धर्माणां धारणजातीयो भवति । धृतानां धर्माणाम् अर्थोपपरिक्षी भवति । आत्मना उपपरिक्षितानां धर्माणाम् अर्थम् आज्ञाय धर्मम् आज्ञाय धर्मानुधर्मप्रतिपन्नो भवति सामीचीप्रतिपन्नो ऽनुधर्मचार् ( ध्स्क्द् 19र्1 ) । परान् अपि धर्मानुधर्मप्रतिपत्तौ समादापयति । धर्मा नुधर्मप्रतिपन्नं च दृष्ट्वा सुमनोज्ञो भवति । एभिश् चतुर्विंशत्या धर्मैः समन्वागत उपासकः आत्महिताय प्रतिपन्नो भवति परहिताय बहुजनहिताय बहुजनसु खा य ( ध्स्क्द् 19र्2 ) च ॥

दशभिर् धर्मैस् समन्वागत उपासकः कायस्य भेदात् परं मरणाद् अपायदुर्गतिविनिपातं नरकेषूपपद्यते । आत्मना प्राणातिपातिको भवति । अदत्तादायिकः काममिथ्याचारिको मृषावादिकः पिशुनवादिकः ( ध्स्क्द् 19र्3 ) परुषवादिकः संभिन्नप्रलापिको ऽभिध्यालुर् व्यापन्नचित्तो मिथ्यादृष्टिकश् च भवति । एभिर् दशभिर् धर्मैः समन्वागत उपासकः कायस्य भेदाद् यावन् नरकेषूपपद्यते ।
विंशत्या धर्मैः समन्वागत उपासकः कायस्य भेदाद् यावन् ( ध्स्क्द् 19र्4 ) नरकेषूपपद्यते । आत्मना प्राणातिपातिको भवति परान् अपि प्राणातिपाते समादापयति । आत्मना अदत्तादायिको यावन् मिथ्यादृष्टिकः । परान् अपि मिथ्यादृष्टौ समादापयत्य् । एभिर् विंशत्या धर्मैः समन्वागत ( ध्स्क्द् 19र्5 ) उपासकः कायस्य भेदाद् यावन् नरकेषूपपद्यते ।
त्रिंशता धर्मैः समन्वागतः उपासकः कायस्य भेदाद् यावन् नरकेषूपपद्यते । आत्मना प्राणातिपातिको भवति । परान् अपि प्राणातिपाते समादापयति ( ध्स्क्द् 19र्6 ) प्राणातिपातिकं च दृष्ट्वा सुमनोज्ञो भवति । आत्मना अदत्तादायिको यावन् मिथ्यादृष्टिकं च दृष्ट्वा सुमनोज्ञो भवति । एभिस् त्रिंशता धर्मैः समन्वागतः उपासको यावत् कायस्य भेदान् ( ध्स्क्द् 19र्7 ) नरकेषूपपद्यते ।
चत्वारिंशता धर्मैस् समन्वागत उपासकः कायस्य भेदाद् यावन् नरकेषूपपद्यते । आत्मना प्राणातिपातिको भवति । परान् अपि प्राणातिपाते समादापयति प्राणातिपातिकं च ( ध्स्क्द् 19र्8 ) दृष्ट्वा सुमनोज्ञो भवति प्राणातिपातस्य च वर्णं भाषते । आत्मना अदत्ता दा यिको यावन् मिथ्यादृष्टेश् च वर्णं भाषते । एभिश् चत्वारिंशता धर्मैस् समन्वागत उपासकः कायस्य भेदाद् यावन् नरकेषूपपद्यते ॥
( ध्स्क्द् 19र्9 ) दशभिर् धर्मैः समन्वागत उपासकः कायस्य भेदात् सुगतौ स्वर्गलोके देवेषूपपद्यते । आत्मना प्राणातिपातात् प्रतिविरतो भवति । आत्मना अदत्तादा नात् काममिथ्याचारान् मृषावादात् पैशुन्यात् पारुष्यात् ( ध्स्क्द् 19र्10 ) संभिन्नप्रलापाद् अनभिध्यालुर् अव्यापन्नचित्तः सम्यग्दृष्टिको भवति । एभिर् दशभिर् धर्मैः समन्वागत उपासकः कायस्य भेदात् सुगतौ स्वर्गलोके दे वे षूपपद्यते ॥
विंशत्या धर्मैस् समन्वागत उपासक ः ( ध्स्क्द् 19व्1 ) कायस्य भेदाद् यावद् देवेषूपपद्यते । आत्म ना प्राणाति पातात् प्रतिविरतो भवति । परान् अपि प्राणातिपातविरतौ समादापयति । आत्मना अदत्तादानाद् यावत् सम्यग्दृष्टि को भवति । परान् अपि सम्यग्दृष्टौ समादापयति । एभिर् ( ध्स्क्द् 19व्2 ) विंशत्या धर्मैः समन्वागत उपासको यावद् देवेषूपपद्यते ॥
त्रिंशता धर्मैस् समन्वागत उपासकः कायस्य भेदाद् यावद् देवेषूपपद्यते । आत्मना प्राणातिपात् आत् प्र तिविरतो भवति । परान् अपि प्राणातिपातविरतौ ( ध्स्क्द् 19व्3 ) समादापयति । प्राणातिपातविरतं च दृष्ट्वा सुमनोज्ञो भवति । आत्मना अदत्तादानाद् यावत् सम्यग्दृष्टिकं च दृष्ट्वा सुमनोज्ञो भवत्य् । एभिस् त्रिंशता धर्मैः समन्वा गत उपासकः कायस्य भेदाद् यावद् देवेषूपपद्यते ॥
( ध्स्क्द् 19व्4 ) चत्वारिंशता धर्मैस् समन्वागत उपासकः कायस्य भेदात् सुगतौ स्वर्गलोके देवेषूपपद्यते । आत्मना प्राणातिपातात् प्रतिविरतो भवति । परान् अपि प्रा णा तिपातविरतौ समादापयति । प्राणातिपातविरतं ( ध्स्क्द् 19व्5 ) च दृष्ट्वा सुमनोज्ञो भवति प्राणातिपातविरतेश् च वर्णं भाषते । आत्मना अदत्तादानात् काममिथ्याचारान् मृषावादात्* पैशुन्यात् पारुष्यात् संभिन्नप्रलापात् प्रतिविरतो भवत्य् । अनभिध्यालुर् अव्यापन्नचित्तः ( ध्स्क्द् 19व्6 ) सम्यग्दृष्टिको भवति । परान् अपि सम्यग्दृष्टौ समादापयति । सम्यग्दृष्टिकं च दृष्ट्वा सुमनोज्ञो भवति सम्यग्दृष्टेश् च वर्णं भाषते । एभिश् चत्वारिंशता धर्मैः समन्वागत उपासकः कायस्य ( ध्स्क्द् 19व्7 ) भेदात् सुगतौ स्वर्गलोके देवेषूपपद्यते ।
17. (पञ्चोपासकस्य शिक्षापदानि)
पंचोपासकस्य शिक्षापदानि । यावज्जीवं प्राणातिपाताद् विरतिर् उपासकस्य शिक्षापदं । यावज्जीवम् अदत्तादानात् काममिथ्याचारान् मृषावादात् ( ध्स्क्द् 19व्8 ) सुरामैरेयमद्यप्रमादस्थानाद् वैरमणिर् उपासकस्य शिक्षापदं ॥ ॥
यावज्जीवं प्राणातिपाताद् विरतिर् उपासकस्य शिक्षापदम् इति । तत्र कतरः प्राणातिपातः । कतरः प्राणी । कतमा प्राणातिपाताद् वैरमणिः ( ध्स्क्द् 19व्9 ) । यद् उच्यते प्राणातिपाताद् वैरमणिर् उपासकस्य शिक्षापदम् इत्य् आह ।
एवं ह्य् उक्तं भगवता ।
प्राणातिपाती खल्व् इहैको भवति रौद्रो रुधिरपाणिः हतप्रहतनिविष्टः अलज्जी अदयावान् सर्वसत्वप्राणिभूतेष्व् ( ध्स्क्द् 19व्10 ) अन्ततः कुन्तपिपीलकम् अपि प्राणातिपाताद् अप्रतिविरतो भवति । अयम् उच्यते प्राणातिपातिकः ।
प्राणी कतमः । यस्मिन् प्राणिनि प्राणिसंज्ञी जीवे जीवसंज्ञी सत्वे सत्वसंज्ञी पोषे पोषसंज्ञी ( ध्स्क्द् 20र्1 ) पुद्गले पुद्गलसंज्ञी अयम् उच्यते प्राणी ॥
प्राणातिपातः कतमः । आह । यस्मिन् प्राणिनि प्राणिसंज्ञिनः सत्वे सत्वसंज्ञिनः पोषे पोषसंज्ञिनः पुद्गले पुद्गलसंज्ञिनः यत् पराक्रमम् आगम्य यत् पापचित्तम् अकुशलचित्तं ( ध्स्क्द् 20र्2 ) वधकचित्तं हननचित्तं मारणचित्तं च प्रत्युपस्थितं भवति । तत्र यत् कर्मागम्य यत् प्रयोगम् आगम्य याम् ऊहाम् आगम्य यद् उपक्रमम् आगम्य प्राणिनो हनन ं मारणं संचिन्त्य जीविताद् व्यपरोपणम् इति । ( ध्स्क्द् 20र्3 ) यत् तत् कर्म यो ऽसौ प्रयोगः या सा ऊहा यद् उपक्रमं यत् तत् प्राणिनो हननं मारणं संचिन्त्य जीविताद् व्यपरोपणं अयं उच्यते प्राणातिपातः ॥
प्राणातिपाती खल्व् इहैको भवतीति आत्मा प्राणातिपाताद् ( ध्स्क्द् 20र्4 ) अनारतो भवतीत्य् अप्रतिविरतस् ततत्रस्थस् तेन समन्वागतस् । तेनाह । प्राणातिपाती खल्व् इहैको भवति ।
रौद्र इति । रौद्रता कतमा । आह । यत् तद् आचीर्णदण्डताचीर्णशस्त्रताचीर्णप्रहरणता इयम् उच्यते रौद्रता । ( ध्स्क्द् 20र्5 ) तेनाह । रौद्रता इति ।
रुधिरपाणिर् इति रुधिरपाणय उच्यन्ते औरभ्रिकाः कौक्कुटिकसौकरिकमात्सिकमृगलुब्धकाश् चौराः वध्यघातका गोघातका नागमण्डलिकाः शशवागुरिका बन्धनपालकाः ( ध्स्क्द् 20र्6 ) सूचकाः कारणकारका इम उच्यन्ते रुधिरपाणयः । केनैत उच्यन्ते रुधिरपाणयः । आह । किं चापि ये सुस्नाता भवन्ति सुविलिप्ताः कल्पितकेशनखावदातवस्त्रप्रावृताः ( ध्स्क्द् 20र्7 ) आमुक्तमाल्याभरणा अथ च पुनस् ते रुधिरपाणय एवोच्यन्ते । किं कारणम् । आह । यस्मात् ते अनारता अविरता अप्रतिविरतास् तस्य रुधिरस्योत्थापनाय जननाय संजननाय समुत्पादाय ( ध्स्क्द् 20र्8 ) प्राविष्करणाय । तेन कारणेन रुधिरपाणय उच्यन्ते ॥

हतप्रहतनिविष्टा इति स्यात् प्राणी प्रहतो न हतः । स्याद् धतो न प्रहतः । स्याद् धतश् च प्रहतश् च । प्रहतस् तावन् न हतः । यथा तावत् प्राणी आकोटितो भवति ( ध्स्क्द् 20र्9 ) पाणिना वा लोष्टेन वा दण्डेन वा शस्त्रेण वा अन्यतमान्यतमेन वा विविधेन प्रहरणेन । न तु सर्वेण सर्वं जीविताद् व्यपरोपितो भवति । एवं प्राणी हतो भवति न हतश् च । यथा तावत् प्राणी ( ध्स्क्द् 20र्10 ) आकोटितो भवति पाणिना वा लोष्टेन वा दण्डेन वा शस्त्रेण वा अन्यतमान्यतमेन वा विविधेन प्रहरणेन सर्वेण वा सर्वं प्राणी जीविताद् व्यपरोपितो भवति । एवं हतश् च भवति प्रहतश् च । ( ध्स्क्द् 20व्1 ) अपि हतप्रहतनिविष्टश् च भवति सन्निविष्टश् चानिविष्टश् च । तेनाह । हतप्रहतनिविष्ट इति ॥
अलज्जी अदयावान् सर्वसत्वप्राणिभूतेष्व् इति । तत्र कतमे प्राणाः । कतमे भूताः । यद् उच्यते अलज्जी अदयावान् सर्वसत्वप्राणिभूतेष्व् ( ध्स्क्द् 20व्2 ) इत्य् । आह । पृथग्जनाः प्राणाः भगवतः श्रावका भूताः । अपि खलु ये सत्वाः सरागाः सद्वेषा ः समोहा इम उच्यन्ते भूताः । अपि खलु ये सत्वा विगतरागा विगतद्वेषा विग त मोहा इम उच्यन्ते भूताः । अपि खलु ये सत्वाः ( ध्स्क्द् 20व्3 ) सतृष्णा सोपादाना इम उच्यन्ते प्राणाः । ये सत्वा निस्तृष्णा निरुपादाना इम उच्यन्ते भूताः । अपि खलु ये सत्वा आनिरुद्धा ः प्रतिविरुद्धा इम उच्यन्ते प्राणाः । ये सत्वा अनानिरुद्धाः अप्रतिविरुद्धा इम उच्यन्ते भूता । अपि खलु ( ध्स्क्द् 20व्4 ) ये सत्वा अविदुषो ऽविद्यागता इम उच्यन्ते प्राणाः । ये सत्वा विदुषो विद्यागता इम उच्यन्ते भूताः । अपि खलु ये सत्वाः कामेभ्यो ऽवीतरागाः इम उच्यन्ते प्राणाः । ये सत्वाः कामेभ्यो वीतरागा इम उच्यन्ते भूताः । ( ध्स्क्द् 20व्5 ) अपि खलु ये सत्वाः कामेभ्यो वीतरागा न तु भगवतः श्रावका इम उच्यन्ते प्राणाः । ये सत्वा कामेभ्यो वीतरागास् ते भगवतः श्रावका इम उच्यन्ते भूताः । अस्मिंस् त्व् अर्थे पृथग्जनाः प्राणाः भगवतः ( ध्स्क्द् 20व्6 ) श्रावका भूताः । किं कारणं भवनम् उच्यते निर्वाणं । तत् तैः प्राप्तं प्रतिलब्धम् अधिगतं स्पृष्टं साक्षात्कृतं । यथा चाह ।
समन्तानुसारी लोकं दिशः सर्वम् ईरितः ।
इच्छेद् भवनम् आत्मानं नाधिगच्छेद् अनिश्रितं ( ध्स्क्द् 20व्7 ) ॥

तद् अस्मिन्न् अर्थे पृथग्जनाः प्राणाः भगवतः श्रावका भूताः तद् एषां प्राणभूतानाम् अदयाय प्रतिपन्नो भवत्य् अननुदयाया नानुकंपाय ॥
शोकाष्टहारकाः कुन्ता उच्यन्ते ( ध्स्क्द् 20व्8 ) पिपीलकाः । पिपीलका एव । अस्मात् प्राणातिपाताद् उपासकः प्रतिसंख्यायारतो भवत्य् उपद्रुतरतः प्रतिविरतः संवृतश् च । यत्र या अक्रिया अकरणम् अनभिध्याचारो ऽनध्यापत्तिर् अनध्यापदनं ( ध्स्क्द् 20व्9 ) वेला सेतुः वैरमणी स्थितिर् अनतिक्रमो ऽव्यतिक्रमो ऽव्यतिक्रमणता । तेनाह । यावज्जीवं प्राणातिपाताद् वैरमणीर् उपासकस्य शिक्षापदम् इति ॥ * ॥
यावज्जीवम् अदत्तादानाद् वैरमणीर् उपासकस्य ( ध्स्क्द् 20व्10 ) शिक्षापदम् इति । अदत्तादानं कतमत् ।
एवं ह्य् उक्तं भगवता ।
अदत्तादायी खल्व् इहैको भवति । स ग्रामगतम् अरण्यगतं वा परेषाम् अदत्तं स्तेयसंख्यातम् आदत्ते । इदम् उच्यते अदत्तादानं ।
ध्स्क्म् 21र्1. अदत्तादानं । यावज्जीवम् अदत्तादानाद् वैरमणिर् उपासकस्य शिक्षापदम् इति तत्र कतरद् अदत्तं कतरद् अदत्तादानं कतमा अदत्तादानाद् वैरमणिः या उच्यते यावज्जीवम् अदत्ता दा नाद् वैरमणिर् उपासकस्य शिक्षापदम् इति अदत्तं .. ॥।
ध्स्क्म् 21र्2. -ते अदत्तं । अदत्तादानं कतमत्* आह परपरिगृहीते परिष्कारे परपरिगृहीतसंज्ञिनो यत् पापचित्तं चाकुशलचित्तं च हरणचित्तं चापहरणचित्तं चोद्ग्रहणचित्तं च ग्रहणचित्तं चादानचित्तम् आसादीयनचित्तं च प्रत्युपस्थितं भवति तत्र यत्. ॥।
ध्स्क्म् 21र्3. -पहारम् आगम्य परपरिगृहीते परिष्कारे परपरिगृहीतसंज्ञिनः यद् ग्रहणम् उद्ग्रहणम् आदीयनासादीयना हरणापहरणा संचिन्त्य स्थानात् स्थानसंक्रामणम् इति यत् तत् कर्म यत् प्रयोगं या सा ऊहा यद् उपक्रमं यत् पराक्रमं यत् तद् वा .. ॥।
ध्स्क्म् 21र्4. यत् तत् परपरिगृहीते परिष्कारे परपरिगृहीतसंज्ञिनो ग्रहणम् उद्ग्रहणम् आदीयनासादीयना संचिन्त्य स्थानात् स्थानसंक्रमणम् इदम् उच्यते अदत्तादानं । अदत्तादायी भवतीत्य् अस्माद् अदत्तादानाद् अनारतो भवत्य् अविरतो ऽप्रतिविरतः तत्रस्थ- ॥।
ध्स्क्म् 21र्5. -तं वेत्य् अन्तरगतः प्राकारस्य । अरण्यगतं वेति बहिः प्रकारस्य । अ द त्तम् इति परपरिगृ ही तं स्तेनम् आदत्ते ति परपरिगृहीतम् अदत्तम् आदत्ते अत्यन्तम् अमुक्तम् अनिःसृष्टम् अप्रतिनिःसृष्टम् अपि खलु स्तेयम् उच्यते परचित्तो ऽपहारकः तेन .. ॥।
ध्स्क्म् 21र्6. -सृष्टम् अप्रतिनिःसृष्टम् अपि खलु यत् परपरिगृहीतं परिष्कारम् अदत्तम् अपि तत्* स्तैन्यम् अपि तत्* संख्यातम् अपि तत्* तद् उच्यते अदत्तस्तैन्यं संख्यातम् आदत्ते ॥ अदत्तादानात् प्रतिविरतो भवतीत्य् अस्माद् अदत्तादानाद् उपासकस् य + + + य्. ॥।
ध्स्क्म् 21र्7. -संख्यातः संवृतः तत्र या अक्रिया अकरणम् अनध्याचारो ऽनध्यापत्तिर् अनध्यापदनम्* वेला सेतुर् वैरमणी स्थितिर् अनतिक्रमो ऽव्यतिक्रमो ऽव्यतिक्रमणता तद् उच्यते यावज्जीवम् अदत्तादानाद् वैरमणिर् उपासकस्य ॥।
ध्स्क्म् 21र्8. -मिथ्याचाराद् वैरमणिर् उपासकस्य शिक्षापदम् इति काममिथ्याचारः कतमः । एवं ह्य् उक्तं भगवता काममिथ्याचारी खल्व् इहैको भवति स यास् ता भवन्ति परस्त्रियः परभार्यास् तद्यथा मातृरक्षिता वा पितृ राक्षिता वा ॥।
ध्स्क्म् 21र्9. श्वश्रूरक्षिता वा श् व् अशुररक्षिता वा ज्ञातिरक्षिता वा जातिरक्षिता वा गोत्ररक्षिता वा सदण्डाः । सावरणाः सदण्डावरणा अन्ततो मालागुणपरिक्षिप्ता । अपि तद्रूपासु सहसा बलेनानुप्रस्कन्द्य कामेषु चारित्रम् आपद्यत्य् अयम् उच्य ते ॥।
ध्स्क्म् 21र्10. खल्व् इहैको भवतीत्य् अस्मात् काममिथ्याचाराद् अनारतो भवत्य् अनुपरतो ऽविरतो ऽप्रतिविरतः तद् उच्यते काममिथ्या चा री खलु भवतीति ॥ यास् ता भवन्ति परस्त्रियो परभार्या इति सप्त पुरुषस्य भार्याः । कतमा सप्त तद्यथा ॥।
ध्स्क्म् 21र्11. पटवासिनी समजीविका तत्क्षणिका च । उदकदत्ता कतमा या स्त्री कुमारिका वा पुरुषस्य मातापितृभ्याम् उदकेनानुप्रदत्ता भवति इयं ते भार्या भविष्यति प्रजापती इयम् उच्यते उदकदत्ता ॥ धनक्रीता क तमा ॥।
ध्स्क्म् 21र्12. -नक्रीता भवति इयं मे भार्या भविष्यति प्रजापती सा तस्य भार्या भवति प्रजापती इयम् उच्यते धनक्रीता । ध्वजाहृता यथा तावच् चौराः परराष्ट्रं परविषयं गत्वा स्वं शिरोध्वजं कृत्वा स्त्रियं कुमारिकां वाहरन्ति ॥।
ध्स्क्म् 21र्13. -मि ध्वजाहृता यथा तावद् राजा अजितं जयं जितम् अध्यावसन् यथा गृहीतिकाम् उत्सृजति । तत्र पुरुषो राज्ञः शिरोध्वजं कृत्वा स्त्रियं कुमारिकां वाहरति इयं मे भार्या भविष्यति प्रजापती स तस्य भा र्या ॥।
ध्स्क्म् 21व्1. च्छ न्दवासिनी कतमा या स्त्री स्वया श्रद्धया स्वेन प्रेम्णा स्वेन प्रसादेन पुरुषम् उपसंक्रम्यैवम् आह । आर्यपुत्रो मे स्वामी भवत्य् अहम् आर्यपुत्रस्य भार्या भविष्यामि । प्रजापती इयम् उच्यते च्छन्दवासिनी । प टवासिनी ॥।
ध्स्क्म् 21व्2. -पसंक्रम्यैवम् आह आर्यपुत्रो मे भक्ताच्छादनम् अनुप्रयच्छत्व् अहं आर्यपुत्रस्य भार्या भविष्यामि प्रजापती इयम् उच्यते पटवासिनी । समजीविका कतमा । या स्त्री पुरुषम् उपसंक्रम्यैव म् आह ॥।
ध्स्क्म् 21व्3. धनं तद् एकध्ये सन्निचयं गच्छतु ये चास्माकं क्रीडतां रमता ं परिचारयतां पुत्रा भविष्यन्ति पौत्रा वा ते ऽस्माकं मृतानां कालगतानां श्राद्धम् अनुप्रदास्यन्ति सा तस्य भार्या भवति प्रजापती ॥।
ध्स्क्म् 21व्4. .. .. .इकी ॥ मातृरक्षितेति यस्या स्त्रियाः कुमारिकाया वा पिता स्वामी वा उन्मत्तो भवति क्षिप्तचित्तः परराष्ट्रं परविषयं वा निष्पलानो भवति सा मातुर् अन्तिके प्रतिवसति स मा तृ ॥।
ध्स्क्म् 21व्5. गो पिता सुगोपिता मात्रपरे अप्रतिसंविदितं कामेषु चारित्रम् आपत्स्य न् त इति इयम् उच्यते मातृरक्षिता । यथा मातृरक्षिता एवं पितृरक्षिता ॥ भ्रातृरक्षिता कतमा । यस्य स्त्रि याः ॥।
ध्स्क्म् 21व्6. माता पितरौ स्वामी वा मृतो भवति कालगतः उन्मत्तो वा भवति क्षिप्तचित्तः परराष्ट्रं परविषयं निष्पलानो भवति सा भ्रातुर् अन्तिके प्रतिवसति सा भ्रात्रा रक्षिता ॥।
ध्स्क्म् 21व्7. सुगो पिता मात्रपरे अप्रतिसंविदितं कामेषु चारित्रम् आपत्स्यन्त इति इयम् उच्यते भ्रातृरक्षिता । यथा भ्रातृरक्षिता एवं भगिनीरक्षिता ॥ श्वश्रूरक्षिता कतमा + + ॥।
ध्स्क्म् 21व्8. प्.आ मातापितरौ स्वामी वा मृतो भवति कालगत उन्मत्तो वा भवति क्षिप्तचित्तः परराष्ट्रं परविषयं वा निष्पलानो भवति सा श्वश्र्वा अन्तिके प्रतिवसति वसव- ॥।
ध्स्क्म् 21व्9. त्रस्य सा श्वश्र्वा रक्षिता भवति सुरक्षिता गोपिता सुगोपिता मात्रपरे अप्रतिसंविदितं कामेषु चारित्रम् आपत्स्यन्त इति इयम् उच्यते श्वश्रूरक्षिता ॥ यथा श् वश्रूरक्षिता ॥।
ध्स्क्म् 21व्10. ज्ञातिर क्षिता कतमा । ज्ञातय उच्यन्ते यावद् आ सप्तमं मातामहं पितामहं युगम् उपादाय यस्या स्त्रियः कुमारिकाया वा पूर्व व त्* ॥ जातिरक्षिता कतमा । जात य उच्यन्ते ॥।

ध्स्क्म् 22र्1. वै श्याः शूद्राः यस्या स्त्रियाः कुमारिकाया वा पूर्ववत्* ॥ गोत्ररक्षिता कतमा । गोत्रा उच्यन्ते कौत्सा वात्साश् शाण्डिल्या भारद्वाजा उपपंचकाः यस्या स्त्रियाः कुमारिकाया वा मा ता ॥।
ध्स्क्म् 22र्2. का लगतः उन्मत्तः क्षिप्तचित्तः वेदनाभितुन्नो वा परराष्ट्रं परविषयं वा निष्पलानो भवति सा गोत्राणाम् अन्तिके प्रतिवसति गोत्रै रक्षिता भवति सुरक्षिता गोपिता ॥।
ध्स्क्म् 22र्3. अप्रतिसंविदि तं कामे षु चारित्रम् आपत्स्यन्त इति इयम् उच्यते गोत्ररक्षिता ॥ सदण्डा इति या सा भवति गूढिका न एवं यथा वेशी नाप्य् एवं यथा कुलस्त्री सचेद् एनं राजा जानीयात् तां + ॥।
ध्स्क्म् 22र्4. -ध्नीयाद् वा प्रवासयेद् वा हिरण्यदण्डं वानुप्रदापयेद् इयं उच्यते सदण्डाः । सावरणा इति यथा तावद् आर्येण वा आर्यपुत्रेण वा आवृता भवत्य् अपि खलु या एताः प + + ॥।
ध्स्क्म् 22र्5. -वरणाः सदण्डावरणाः किं कारणम् अतोनिदानं हि पुरुषो ऽधिगच्छति वधं वा बन्धनं वा ज्यानिं वा ग्रहणं वा ॥ अन्ततो मालागुणपरिक्षिप्ता अपीति यथा ताव- ॥।
ध्स्क्म् 22र्6. क ण्ठेगुणेन वा चन्दनचूर्णेन वा विलेपनपुटेन वा अन्यतमान्यतमेन वा केनचित् प्रतिगृहीता भवति इयम् उच्यते मालागुणपरिक्षिप्ता ॥ अपि खलु सर्व्. + ॥।
ध्स्क्म् 22र्7. -रिणी भिक्षुणिका चरिका परिव्राजिका व्रतपदधर्मजीविनी यथा तावत् पुरुषः स्वां प्रजापतीम् अनुजानीते गच्छ भद्रे चर ब्रह्मचरंस् (सिच्) तस्या तेन व्रतसमादा .. ॥।
ध्स्क्म् 22र्8. -य संस्पर्शं समापद्यते द्वयद्वयसमापत्तिं वापद्यते काममिथ्याचारां स्वं वा पुनर् पारम् अनङ्गे विज्ञपयन्न् आपद्यते काममिथ्याचारं । अस्मात् काममिथ्याचारा ॥।
ध्स्क्म् 22र्9. भवत्य् उपरतो विरतः संवृतः तत्र या अक्रिया अकरणम् अनाचारो ऽनध्यापत्तिर् अनध्यापदनं वेला सेतुर् वैरमणी स्थितिर् अनतिक्रमो ऽव्यतिक्रमणता तद् य ॥।
ध्स्क्म् 22र्10. -मिथ्याचाराद् वैरमणिः शिक्षापदम् इति ॥ ऋ ॥ यावज्जीवं मृषावादाद् वैरमणिर् उपासकस्य शिक्षापदम् इति मृषावादः कतमः एवं ह्य् उक्तं भगवता ॥।
ध्स्क्म् 22व्1. स सभागतो वा पर्षन्मध्यगतो वा राजकुलमध्यगतो वा युक्तकुलमध्यगतो वा ज्ञातिकुलमध्यगतो वा साक्षीपृष्टः सन् हं भोः पुरुष यज् जानीषे तद् वद यन् न जानीषे तन् मा वो चः ॥।
ध्स्क्म् 22व्2. तन् मा वोचः सो ऽजानक एव संजानामीत्य् आह । अपश्यक एव संपश्यामीत्य् आह । जानन्न् एन सन् न जानामीत्य् आह पश्यन्न् एव सन्* न पश्यामीत्य् आह इत्य् आत्महेतो परहेतो आमिषकिंचि त्क ॥।

ध्स्क्म् 22व्3. मृषावा दाद् अप्रतिविरतो भवतीत्य् अस्मान् मृषावादाद् अनारतो भवत्य् अनुपरतः अविरतो ऽप्रतिविरतः तत्रस्थस् तेन समन्वागतः तेनाह मृषावादी खलु भवतीति । सभागतो वेति ॥।
ध्स्क्म् 22व्4. -भा राष्ट्रसभा च । तत्रासौ गतश् च भवति समागतश् च । समवहितः संमुखीभूतः तेनाह सभागत इति ॥ पर्षद्गतो वेति चतस्रः पर्षदः तद्यथा क्षत्रियपर्षद् ब्राह्मण ॥।
ध्स्क्म् 22व्5. -र्षत् तत्रासौ गतश् च भवति समागतश् च समवहितः संमुखीभूतः तेनाह पर्षद्गत इति ॥ राजकुलमध्यगतो वेति आह राजामात्यपरिषत् सन्निषण्णा भवति ॥।
ध्स्क्म् 22व्6. -ति समागतश् च समवहितः संमुखीभूतः तेनाह राजकुलमध्यगत इति ॥ युक्तकुलमध्यगतो वेति युक्तपर्षत् सन्निषण्णा भवति सन्निपतिता तत्रासौ ॥।
ध्स्क्म् 22व्7. -हितः संमुखीभूतः तेनाह युक्तकुलमध्यगत इति ॥ ज्ञातिकुलमध्यगतो वेति आह ज्ञातयः सन्निषण्णा भवन्ति सन्निपतिता तत्रासौ गतश् च भ वति ॥।
ध्स्क्म् 22व्8. संमुखीभूतः तेनाह ज्ञातिकुलमध्यगत इति ॥ साक्षीपृष्टः सन्न् इति साक्षी अधीष्टः सन्न् आसादितो वा निपातितः । हं भो पुरुष इति उपैहि उपगच्छ यत्ने .. ॥।
ध्स्क्म् 22व्9. -य प्रज्ञपय प्रस्थापय प्रकाशय यत्ने न दृष्टं न श्रुतं न मतं न विज्ञातं तं मा वक्ष्व मा देशय मा प्रज्ञपय मा प्रस्थापय मा प्रकाशय । सो ऽजानन्न् एव संजा + ॥।
ध्स्क्म् 22व्10. -मीत्य् आह । श्रोत्रविज्ञानानुभूतं श्रोत्रविज्ञानप्रतिविज्ञप्तं स विनिधाय संज्ञां विनिधाय क्षान्तिं रुचिं मतिं प्रेक्षां दृष्टिं न मे श्रुतम् इत्य् आह । एवम् अजानन्न् एव सञ्जानामीत्य् आ ह ॥।
18. (मैत्री चेतःसमधिः)
( ध्स्क्द् 26र्1 ) + + + + + + पयिकं प्रतिरूपं प्रदक्षिणम् नि + + + ंग संभारं । एतच् चित्तम् एषा तावन् मैत्री चेतःसमाधिर् इति वक्तव्या । तथा समापन्नस्य यच् चित्तं मनोविज्ञानम् इदम् उच्यते मैत्रीसहगत म् चित्तं । या चेतना संचेत ना ( ध्स्क्द् 26र्2 ) अभिसंचेतना चेतितं चेतनागतं चित्ताभिसंस्कारा मनस्कर्म इदम् उच्यते मैत्रीसहभुवं कर्म । यश् चेतसो ऽधिमोक्षो ऽधिमुक्तिर् अधिमुच्यनतायम् उच्यते मैत्रीसहभुवो ऽधिमोक्षः । यद् अ पि तथा समापन्नस्य ( ध्स्क्द् 26र्3 ) वेदना वा संज्ञा वा च्छन्दो वा स्नेहो वा मनसिकारो वा स्मृतिर् वा समाधिर् वा प्रज्ञा वा इतीमे ऽपि धर्मा मैत्रीसहभुवः । तत् सर्व इमे धर्मा मैत्री चेतःसमाधिर् इति वक्तव्याः ।
मैत्री खलु भवे च् चेतःसमाधिर् द्विविधः ( ध्स्क्द् 26र्4 ) परीत्तश् चाप्रमाणश् च ।
कतरः प्रयोगः परीत्तस्य मैत्रस्य चेतःसमाधेः । कथं प्रयुक्तश् च पुनः परीत्तं मैत्रं चेतःसमाधिं संआपद्यते । आह ।
यथा खल्व् इहैकत्यस्य ये सत्वा भवन्तीष्टा ः कान्ता + + + + म नआपास् ( ध्स्क्द् 26र्5 ) तद्यथा माता वा पिता वा भ्राता वा भगिनी वा अन्यतमान्यतमो वा मित्रज्ञातिसालोहितो वा । एभिः परीत्तैः सत्वैः परीत्तं मैत्रीसहभुवं चित्तम् आस्थापयत्य् उप स्थापयति दमयति ( ध्स्क्द् 26र्6 ) शमयतु व्युपशमयति एकोतीकुरुते समादधाति । तस्यैभिः परीत्तैः सत्वैः परीत्तं मैत्रीसहभुवं चित्तं आस्थापयतः संस्थापयत उपस्थापयतो दमयतः शमयतो व्युपशम यतः ( ध्स्क्द् 26र्7 ) एकोतीकुर्वतः समादधतः तच् चित्तं विक्षिप्यति विसरति विधावति नैकोतीभवति न एकाग्रा स्मृतिः संतिष्ठते । परीत्तं सुखित् आ बत सत्वा इति यद् अस्य तच् चित्तं विक्षिप्यति विसरति विधावति ( ध्स्क्द् 26र्8 ) न एकोतीभवति न एकाग्रा स्मृतिः संतिष्ठते । परीत्तं सुखित् आ बत सत्वा इति न एकाग्रता परीत्तं मैत्रं चेतःसमाधिः समापन्न । इति वक्तव्यं ।
स तच् चित्तं विक्षिप्यन्तं विसरन्तं विधावन्तं तस्मिन्न् एवोप संहरति ( ध्स्क्द् 26र्9 ) । तद् एव निमित्तं मनसिकुरुते । परीत्तं सुखिता बत सत्वा इति एवं मनसिकुर्वतो यद् वीर्यं यो व्यायामो निष्क्रमः पराक्रमः स्थाम आरंभ उत्साह उत्सूधिर् अप्रतिश्रब्धि + + + + + + + + + ( ध्स्क्द् 26र्10 ) तद् यः अयं प्रयोगः परीत्तस्य मैत्रस्य चेतःसमाधेः एवं प्रयुक्तश् च पुनः परीत्तं मैत्रं चेतःसमाधिं समापद्यते ।
स तम् उत्पन्नं मार्गम् आसेवयति भावय ति बहुलीकुरुते तस्य इमं मार्ग म् ( ध्स्क्द् 26व्1 ) आसेवयतो भावयतो बहुलीकुर्वतः तच् चित्तम् आस्थिहति संस्थिहति उपस्थिहति एकोतीभवति समावर्ते । यतश् च तच् चित्तं स्थितं च भवति संस्थितं चोपस्थितम् चाद्वयं चा परिहीणं च परीत्तं सुखिता बत सत्वा इति ( ध्स्क्द् 26व्2 ) एतावत् परीत्तं मैत्रं चेतःसमाधिं समापन्न । इति वक्तव्यं । तथा समापन्नस्य यच् चित्तं मनोविज्ञानम् इदम् उच्यते परीत्तं मैत्रीसहभुवं । चित्ते या चेतना विस्तरेण यावद् ।
इमे ऽपि धर्मा परीत्तमैत्रीसहभुवः ( ध्स्क्द् 26व्3 ) ते सर्व इमे धर्माः परीत्तं मैत्रं चेतःसमाधिर् इति वक्तव्याः ।
कतरः प्रयोगो ऽप्रमाणस्य मैत्रस्य चेतःसमाधेः । कथं प्रयुक्तश् च पुनर् अप्रमाणं मैत्रं चेतःसमाधिं समापद्यते । यद् एवाभ्यस्ते परीत्ते ( ध्स्क्द् 26व्4 ) मैत्रे चेतःसमाधौ तं चित्तं दमयित्वा कारयित्वास्वेदयित्वा परिस्वेदयित्वा ऋजुकृत्वा मृदु कर्मणीयं आर्ज्जवम् आश्रवं विधेयं ।
ततः पश्चाद् अप्रमाणं सुखित् आ बत सत्वा इति शनैः स्फरति पूर्वां द क्षिणां ( ध्स्क्द् 26व्5 ) पश्चिमाम् उत्तरां दिशं तस्याप्रमाणं सुखिता बत सत्वा । इति स्फरतः पूर्वां दिशं दक्षिणां पश्चिमाम् उत्तरां दिशं तच् चित्तं विक्षिप्यति विसरति विधावति न एको तीभ्हवति न एकाग्रा ( ध्स्क्द् 26व्6 ) स्मृतिः संतिष्ठते । अप्रमाणं सुखिता बत सत्वा इति यतो ऽस्य तच् चित्तं विक्षिप्यति विस्तरेण यावत्* । तावताप्रमाणं मैत्री चेतःसमाधिः समापन्न इति वक्त व्यं । स तच् चित्तं विक्षिप्य न्तं ( ध्स्क्द् 26व्7 ) विसरन्तं विधावन्तं तस्मिन्न् एवोपसंहरति । तद् एव मनसिकुरुते । अप्रमाणं सुखिता बत सत्वा इति एवं मनसिकुर्वतो यद् वीर्यं विस्तरेण यावद् । अयं प्रयो गो ऽप्रमाणे मैत्रे चेतः समाधौ ( ध्स्क्द् 26व्8 ) । एवं प्रयुक्तश् च पुनर् अप्रमाणं मैत्रं चेतःसमाधिः समापन्न । इति वक्तव्यं । तथा समापन्नस्य यच् चित्तं मनोविज्ञानम् इदम् उच्यते अप्रमाणं मैत्रीसहभुवं चि त्तं । या चेतना विस्त रेण ( ध्स्क्द् 26व्9 ) यावद् ।
इमे ऽपि धर्मा अप्रमाणमैत्रीसहभुवः । तत् सर्व इमे धर्माः अप्रमाणं मैत्री चेतःसमाधिर् इति वक्तव्या ॥
19. (करुणा चेतःसमाधिः)
करुणा कतमा । आह । दुःखिता बत सत्वा इति + + + + + + + + ( ध्स्क्द् 26व्10 ) यच् चैवेमे प्रविवेकजा अध्यात्मसमुत्थिताःइ प्रतिसंख्याय समुत्पन्नाः कुशला रूपप्रतिसंयुक्ता अर्त्तिअर्त्तीयना दुःखदुःखायना करुणाकरुणायना + + + + + + + +

ध्स्क्म् 27र्1. -णासंप्रयुक्ता च या वेदना संज्ञा संस्कारा विज्ञानं ततः समुत्थितं कायकर्म वाक्कर्म तत्समुत्थिताश् चित्तविप्रयुक्ताः संस्कारा इयम् उच्यते करुणा ॥।
ध्स्क्म् 27र्2. -श् चाप्रमाणश् च । कतमः प्रयोगः परीत्तस्य करुणाचेतःसमाधेः कथं प्रयुक्तश् च पुनः परीत्तं करुणं चेतःसमाधिं समापद्यते आह यथा खल्व् इहैकत्य्. ॥।
ध्स्क्म् 27र्3. तद्यथा माता वा पिता वा भ्राता वा भगिनी वा अन्यतमान्यतमो मित्रज्ञातिसालोहितो वा स एभिः परीत्तैः परीत्तं करुणासहगतं चित्तम् आस्थापयति संस्थापय ति ॥।
ध्स्क्म् 27र्4. -ति व्युपशमयति एकोतीकुरुते समाधत्ते परीत्तं दुःखिता बत सत्वा इति तस्यैभिः परीत्तैः परीत्तं करुणासहगतं चित्तम् उपस्थापयतः दमयतः शमयतो ॥।
ध्स्क्म् 27र्5. -तः तच् चित्तं विक्षिप्यते विस्तरेण यथा मैत्रायाम् उक्तं ॥ मुदिता कतमा । आह मोदन्तां बत सत्वा इति एवं मनसिकुर्वतः यान् नैष्क्रम्यप्रविवेक .. ॥।
ध्स्क्म् 27र्6. कुशला रूपप्रतिसंयुक्ताः चेतस आमोदना प्रमोदनाभिप्रमोदना । मुदिता मोदना आत्तमनस्कता सुमनस्कता सौमनस्यं आरब्धि .. ॥।
ध्स्क्म् 27र्7. -म् औद्बिल्यायितत्वं प्रीतिः प्रीत्यायितत्वं उच्यते मुदिता । अपि खलु मुदिता मुदितासंप्रयुक्ता च या वेदना संज्ञा संस्कारा विज्ञानं ततः स मुत्थितं ॥।
ध्स्क्म् 27र्8. -त्तविप्रयुक्ताः संस्कारा इयम् उच्यते मुदिता । मुदिता खलु चेतःसमाधिः द्विविधः परीत्तश् चाप्रमाणश् च । कतरः प्रयोगः परीत्तस्य मुदितस्य चेतःस माधेः ॥।
ध्स्क्म् 27र्9. -समाधिं समापद्यते आह यथा खल्व् इहैकत्यस्य ये सत्वा भवन्ति इष्टाः कान्ताः प्रिया मनआपास् तद्यथा माता वा पिता वा भ्राता वा भगिनी वा अन्यत मान्यतमो ॥।
ध्स्क्म् 27र्10. एभिः परीत्तैः सत्वैः परीत्तं मुदितासहभुवं चित्तम् आस्थापयति संस्थापयत्य् उपस्थापयति दमयति शमयति व्युपशमयति एकोतीकरोति समा ॥।
ध्स्क्म् 27व्1. तस्यैभिः परीत्तैः सत्वैः परीत्तं मुदितासहगतं चित्तम् आस्थापयतः संस्थापयतः उपस्थापयतः दमयतः शमयतो व्युपशमयतः एकोतीकुर्वतः समादधतः तच् चित्तं विक्षिप्य ति ॥।
ध्स्क्म् 27व्2. -तमा आह सत्वा इत्य् एवं मनसिकुर्वतः यन् नैष्क्रम्यप्रविवेकध्यानसमुत्थिता प्रतिसंख्याय समुत्पन्ना कुशला रूपप्रतिसंयुक्ता चित्तसमता चित्तप्रसन्नता चेतसो ऽनाभो ॥।
ध्स्क्म् 27व्3. -लूपेक्षासंप्रयुक्ता च या वेदना संज्ञा संस्कारा विज्ञानं ततः समुत्थितं कायकर्म वाक्कर्म ततः समुत्थिताश् चित्तविप्रयुक्ताः संस्कारा इयम् उच्यते उपेक्षा । कतरः प्रयो गः ॥।
ध्स्क्म् 27व्4. -श् च पुनर् उपेक्षां समाधिं समापद्यते आह । यथा खल्व् इहैकत्यस्य सत्वा भवन्तीष्टाः कान्ताः प्रिया मनआपास् तद्यथा माता वा पिता वा भ्राता वा भगिनी वा अन्यतमान्यत मो ॥।
ध्स्क्म् 27व्5. -स्यैवं भवति इयं माता वा पिता वा भ्राता वा भगिनी वा अन्यतमान्यतमो वा मित्रज्ञातिसालोहितो वा कामम् अन्यत्र सत्वः सत्व इत्य् अधिमुक्तो भवति तद्यथा ॥।
ध्स्क्म् 27व्6. -त् स तत्र पश्येत्* सालान् वा तालान् वा नक्तमालान् वा अश्वत्थोदुंबरन्यग्रोधान् वा तस्य नैवं भवति इमे ऽत्र साला वा ताला वा नक्तमाला वा अश्वत्थोदुं बर ॥।
ध्स्क्म् 27व्7. -मुक्तो भवति । एवं एवैहैकत्यस्य ये सत्वा भवन्ति इष्टाः कान्ता विस्तरेण यावज् ज्ञातिसालोहितः तस्य नैवं भवतीयं मम माता वा पिता वा भ्रात वा ॥।
ध्स्क्म् 27व्8. -तिसालोहितो वा कामम् अन्यत्र सत्वः सत्व इत्य् अधिमुक्तो भवति अयं प्रयोगः उपेक्षस्य चेतःसमाधेर् एवं प्रयुक्तश् च पुनर् उपेक्षः चेतःसमाधिः संपद्यते ॥।
ध्स्क्म् 27व्9. -श् चाप्रमाणश् च । कतरः प्रयोगः परीत्तस्योपेक्षस्य चेतःसमाधेः कथं प्रयुक्तश् च पुनः परीत्तम् उपेक्षाचेतःसमाधिं समापद्यते आह । यथा खल्व् इहैकत्य स्य ॥।

ध्स्क्म् 27व्10. विस्तरेण यावज् ज्ञातिसालोहितं स एभिः परीत्तैः सत्वैः परीत्तम् उपेक्षासहगतं चित्तम् आस्थापयति संस्थापयत्य् उपस्थापयति दमयति शम यति ॥।

मूल पाठ: Dharmaskandha · Edition: Siglinde Dietz: Fragmente des Dharmaskandha - Ein Abhidharma-Text in Sanskrit aus Gilgit. Göttingen 1984 (Abhandlungen der Akademie der Wissenschaften in Göttingen, 142) = DhskD: fols. 3-20, 26, and Kazunobu Matsuda: "Newly Identified Sanskrit Fragments of the Dharmaskandha in the Gilgit manuscripts" (1), Sanskrit Fragments Transliterated, with an Appendix by Hajime Sakurabe, Kyoto 1986. GBM 151-1 · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc