धर्मधातुगर्भविवरण · भाग 11
आचार्य नागार्जुनपादविरचितम्
आर्यधर्मधातुगर्भविवरणम्
भारतीयभाषायाम्- आर्यधर्मधातुगर्भविवरणम्।
भोटभाषायाम्- फग्-पा-छोस्-क्यि-यिङ्-क्यि-ञिङ्-पोई-नम-पर-डेल-पा।
नमो रत्नत्रयाय
ये धर्मा हेतुप्रभवा हेतुं तेषां तथागतो ह्यवदत् ।
तेषां च यो निरोध एवंवादी महाश्रमणः ॥
इत्युक्तम् ।
अत्र ऽये धर्माऽ इति सप्तभिः प्रकारैरवगन्तव्याः । तद्यथा- विज्ञानं नामरूपं षडायतनं स्पर्शः वेदना जातिर्जरामरणमिति । इमे धर्माः अपि पञ्चभ्यः प्रकारेभ्य उत्पद्यन्त इति ऽहेतुप्रभवाःऽ इत्युक्तम् । के ते पञ्च हेतवः? अविद्या तृष्णा उपादानं संस्कारा भवश्चेति ।
सप्तविधानां धर्माणां पञ्चप्रकाराणां च तेषां हेतूनां निरोधस्तावद् ऽहेतुं तेषां च यो निरोधःऽ इत्यादिनाभिहितः । स एवोपशमः मोक्षो निर्वाणमिति । स च केनोक्तः? ऽतथागतो ह्यवदत् । इति । तेनोपदिष्ट इत्यभिप्रायेण तथा कथितम् ।
अर्थानां यथा स्थितिस्तथा (यथावत्) अवबोधात् ऽतथागतःऽ इत्युच्यते । वस्तूनां यथा स्थितिः, तस्या अभ्रान्ततया अन्येभ्यो देशनाद् वा ऽतथागतःऽ । एवंविधो यो देशकः, यश्चैवं स्वयं बोधकः श्रवणशीलयुक्तश्च स ऽएवंवादीऽ (महाश्रमणः) इत्युक्तः ।
ऽमहान्ऽ-शब्दः प्रधान-अद्भुतपरमप्रवरपर्यायः । यो वादी विद्वान् वीरः तपस्वी महोत्साहः तीव्रवीर्यः अद्भुतकर्मकारि च भवति, स एव ऽमहान्ऽ इति । (स) अशेषज्ञातव्यानां ज्ञानाद् ऽविद्वान्ऽ । अशेषक्लेशानां दमने समर्थत्वाद् ऽवीरःऽ । शीलस्य सम्यग्भावनया ऽतपस्वीऽ । गुणादिष्वपरिखेदाद् ऽमहोत्साहःऽ । यस्य शिरः कपालं वा अग्निना दीप्तम्, तदवान् इव ऽतीव्रवीर्यः तथा अद्भुतधर्माणां साक्षात्कारित्वाद् ऽअद्भुतकर्मकारीऽ इति । एतादृश एव ऽमहान्ऽ इत्युच्यते ।
श्रमणः इति पापानां क्लेशानां चोपशमाद् ऽश्रमणःऽ । सर्वपापानां प्रक्षालनाद् ऽब्राह्मणःऽ । क्लेशक्लमथपरिवर्जनाद् ऽश्रमणःऽ स्वकीयमलापसारणात् ऽप्रव्रजितःऽ इति । इत्येवंविधैर्गुणैः समन्वागत इति । भगवता बुद्धेनोक्त इत्यनेन योगः करणीयः । एवमेव दुःखसमुदयनिरोधमार्गसत्येष्वपि योगः करणीयः ।
अविद्याहेतोः संस्काराः, इत्यारभ्य जरामरणपर्यन्तं (स्वभावतः सिद्धं) कर्तारमनपेक्ष्य समुत्पादस्तावद् ऽअनुलोमःऽ । अविद्यादिहेतूनां निवृत्तेरवबोधः ऽप्रतिलोमःऽ इत्युक्तः ।
अविद्यानिवृत्तेः संस्कारादयो निवर्तन्त इत्युपदेशकारकत्वात् (भगवान् बुद्ध एव) ऽमहाश्रमणःऽ इति ।
॥ आचार्यनागार्जुनपादविरचितं ऽआर्यधर्मधातुगर्भविवरणम्ऽ समाप्तम् ॥
भारतीयोपाध्यायेन ज्ञानगर्भेण ऽमहालोचावा वन्दे पलचेक्महाभागेन चानूद्य संशोध्य च सुनिर्णीतम् ।
॥ भवतु सर्वमङ्गलम् ॥
मूल पाठ: Dharmadhātugarbhavivaraṇa · Edition: Gyaltsen Namdrol: Pratityasamutpada hrdaya and Dharmadhatugarbhavivarana, Sarnath : Central Institute of Higher Tibetan Studies 1997 · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0