भाषा

ENहिગુ
ग्रंथ पाठ

देवीगीता · अध्याय 8

8.1

इति देवीगीतायां सप्तमो ऽध्यायः -
इति श्रीदेवीभागवते महापुराणे सप्तमस्कन्धे देवीगीतायां सप्तत्रिंशो ऽध्यायः
अष्टमो ऽध्यायः
सप्तमः स्कन्धः
अथाष्टत्रिंशो ऽध्यायः
हिमालय उवाच
कति स्थानानि देवेशि द्रष्टव्यानि महीतले ।
मुख्यानि च पवित्राणि देवीप्रियतमानि च

8.2

व्रतान्यपि तथा यानि तुष्टिदान्युत्सवा अपि ।
तत्सर्वं देव मे मातः कृतकृत्यो यतो नरः

8.3

श्रीदेव्युवाच
सर्वं दृश्यं मम स्थानं सर्वे काला व्रतात्मकाः ।
उत्सवाः सर्वकालेषु यतो ऽहं सर्वरूपिणी

8.4

तथापि भक्तवात्सल्यात् किञ्चित्किञ्चिदथोच्यते ।
शृणुष्वावहितो भूत्वा नगराज वचो मम

8.5

कोलापुरं महास्थानं यत्र लक्ष्मीः सदा स्थिता ।
मातुः पुरं द्वितीयं च रेणुकाधिष्ठितं परम्

8.6

तुलजापुरं तृतीयं स्यात्सप्तशृङ्गं तथैव च ।
हिङ्गुलाया महास्थानं ज्वालामुख्यास्तथैव च

8.7

शकम्भर्याः परं स्थानं भ्रामर्याः स्थानमुत्तमम् ।
श्रीरक्तदन्तिकास्थानं दुर्गास्थानं तथैव च

8.8

विन्ध्याचलनिवासिन्याः स्थानं सर्वोत्तमोत्तमम् ।
अन्नपूर्णमहास्थानं काञ्चीपुरमनुत्तमम्

8.9

भीमादेव्याः परं स्थानं विमलास्थानमेव च ।
श्रीचन्द्रलामहास्थानं कौशिकीस्थानमेव

8.10

नीलाम्बायाः परं स्थानं नीलपर्वतमस्तके ।
जाम्बूनदेश्वरीस्थानं तथा श्रीनगरं शुभम्

8.11

गुह्यकाल्या महास्थानं नेपाले यत्प्रतिष्ठितम् ।
मीनाक्ष्याः परं स्थानं यच्च प्रोक्तं चिदम्बरे

8.12

वेदारण्यं महास्थानं सुन्दर्याः समधिष्ठितम् ।
एकाम्बरं महास्थानं परशक्त्या प्रतिष्ठितम्

8.13

महालसापरं स्थानं योगेश्वर्यास्तथैव च ।
तथा नीलसरस्वत्याः स्थानं चीनेषु विश्रुतम्

8.14

वैद्यनाथे तु बगलास्थानं सर्वोत्तमं मतम् ।
श्रीमच्छ्रीभुवनेश्वर्या मणिद्वीपं मम स्मृतम्

8.15

श्रीमत्त्रिपुरभैरव्याः कामाख्यायोनिमण्डलम् ।
भूमण्डले क्षेत्ररत्नं महामायाधिवासितम्

8.16

नातः परतरं स्थानं क्वचिदस्ति धरातले ।
प्रतिमासं भवेद्देवी यत्र साक्षाद्रजस्वला

8.17

तत्रत्या देवताः सर्वाः पर्वतात्मकतां गताः ।
पर्वतेषु वसन्त्येव महत्यो देवता अपि

8.18

तत्रत्या पृथिवी सर्वा देवीरूपा स्मृता बुधैः ।
नातः परतरं स्थानं कामाख्यायोनिमण्डलात्

8.19

गायत्र्याश्च परं स्थानम् स्रीमत्पुष्करमीरितम् ।
अमरेशे चण्डिका स्यात्प्रभासे पुष्करेक्षिणी

8.20

नैमिषे तु महास्थाने देवी सा लिङ्गधारिणी ।
पुरुहूता पुष्कराक्षे अषाढै च रतिस्तथा

8.21

चण्डमुण्डीमहास्थाने दण्डिनी परमेश्वरी ।
भारभूतौ भवेद्भूतिर्नाकुले नकुलेश्वरी

8.22

चन्द्रिका तु हरिश्चन्द्रे श्रीगिरौ शाङ्करी स्मृता ।
जप्येश्वरे त्रिशूला स्यात्सूक्ष्मा चाम्रातकेश्वरे

8.23

शाङ्करी तु महाकाले शर्वाणी मध्यमाभिधे ।
केदाराख्ये महाक्षेत्रे देवी सा मार्गदायिनी

8.24

भैरवाख्ये भैरवी सा गयायां मङ्गला स्मृता ।
स्थाणुप्रिया कुरुक्षेत्रे स्वायम्भुव्यपि नाकुले

8.25

कनखले भवेदुग्रा विश्वेशा विमलेश्वरे ।
अट्टहासे महानन्दा महेन्द्रे तु महान्तका

8.26

भीमे भीमेश्वरी प्रोक्ता स्थाने वस्त्रापथे पुनः ।
भवानी शाङ्करी प्रोक्ता रुद्राणी त्वर्धकोटिके

8.27

अविमुक्ते विशालाक्षी महाभागा महालये ।
गोकर्णे भद्रकर्णी स्याद्भद्रा स्याद्भद्रकर्णके

8.28

उत्पलाक्षी सुवर्णाक्षे स्थाण्वीशा स्थाणुसञ्ज्ञिके ।
कमलालये तु कमला प्रचण्डा छगलण्डके

8.29

कुरण्डले त्रिसन्ध्या स्यान्माकोटे मुकुटेश्वरी ।
मण्डलेशे शाण्डकी स्यात्काली कालञ्जरे पुनः

8.30

शङ्कुकर्णे ध्वनिः प्रोक्ता स्थूला स्यात्स्थूलकेश्वरे ।
ज्ञानिनां हृदयाम्भोजे हृल्लेखा परमेश्वरी

8.31

प्रोक्तानीमानि स्थानानि देव्याः प्रियतमानि च ।
तत्तत्क्षेत्रस्य माहात्म्यं श्रुत्वा पूर्वं नगोत्तम

8.32

तदुक्तेन विधानेन पश्चाद्देवीं प्रपूजयेत् ।
अथवा सर्वक्षेत्राणि काश्यां सन्ति नगोत्तम

8.33

तत्र नित्यं वसेन्नित्यं देवीभक्तिपरायणः ।
तानि स्थानानि सम्पश्यञ्जपन्देवीं निरन्तरम्

8.34

ध्यायंस्तच्चरणाम्भोजं मुक्तो भवति बन्धनात् ।
इमानि देवीनामानि प्रातरुत्थाय यः पठेत्

8.35

भस्मीभवन्ति पापानि तत्क्षणान्नग सत्वरम् ।
श्राद्धकाले पठेदेतान्यमलानि द्विजाग्रतः

8.36

मुक्तास्तत्पितरः सर्वे प्रयान्ति परमां गतिम् ।
अधुना कथयिष्यामि व्रतानि तव सुव्रत

8.37

नारीभिश्च नरैश्चैव कर्तव्यानि प्रयत्नतः ।
व्रतमनन्ततृतीयाख्यं रसकल्याणिनीव्रतम्

8.38

आर्द्रानन्दकरं नाम्ना तृतीयाया व्रतम् च यत् ।
शुक्रवारव्रतं चैव तथा कृष्णचतुर्दशी

8.39

भौमवारव्रतं चैव प्रदोषव्रतमेव च ।
यत्र देवो महादेवो देवीं संस्थाप्य विष्टरे

8.40

नृत्यं करोति पुरतः सार्धं देवैर्निशामुखे ।
तत्रोपोष्य रजन्यादौ प्रदोषे पूजयेच्छिवाम्

8.41

प्रतिपक्षं विशेषेण तद्देवीप्रीतिकारकम् ।
सोमवारव्रतं चैव ममातिप्रियकृन्नग

8.42

तत्रापि देवीं सम्पूज्य रात्रौ भोजनमाचरेत् ।
नवरात्रद्वयं चैव व्रतं प्रीतिकरं

8.43

एवमन्यान्यपि विभो नित्यनैमित्तिकानि च ।
व्रतानि कुरुते यो वै मत्प्रीत्यर्थं विमत्सरः

8.44

प्राप्नोति मम सायुज्यं स मे भक्तः स मे प्रियः ।
उत्सवानपि कुर्वीत् दोलोत्सवसुखान्विभो

8.45

शयनोत्सवं यथा कुर्यात्तथा जागरणोत्सवम् ।
रथोत्सवं च मे कुर्याद्दमनोत्सवमेव च

8.46

पवित्रोत्सवमेवापि श्रावणो प्रीतिकारकम् ।
मम भक्तः सदा कुर्यादेवमन्यान्महोत्सवान्

8.47

मद्भक्तान्भोजयेत्प्रीत्या तथा चैव सुवासिनीः ।
कुमारीर्बटुकांश्चापि मद्बुद्ध्या तद्गतान्तरः

8.48

वित्तशाठ्येन रहितो यजेदेतान्सुमादिभिः ।
य एवं कुरुते भक्त्या प्रतिवर्षमतन्द्रितः

8.49

स धन्यः कृतकृत्यो ऽसौ मत्प्रीतेः पात्रमञ्जसा ।
सर्वमुक्तं समासेन मम प्रीतिप्रदायकम्

8.50

नाशिष्याय प्रदातव्यं नाबक्ताय कदाचन

मूल पाठ: Devīgītā (= Devībhāgavata-Purāṇa 7,31-40) · Data entry Ursula Honegger · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc