देवतासूत्र · भाग 12
देवतासूत्र (ग्ब्म् 1542.5)
एवं मया श्रुतम् एकस्मिं समये भगवां च्छ्रावस्त्यां विहरति स्म ( द्स्; ग्ब्म् 1542.6 ) जेतवने ऽनाथपिण्डदस्यारामे अथान्यतमा देवता अतिक्रान्तवर्णा अतिक्रान्तायां रात्र्यां येन भगवांस् तेनोपसंक्रान्ता ( द्स्; ग्ब्म् 1542.7 ) उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वा एकान्ते निषण्णा । अथ तस्या देवताया वर्णानुभावेन सर्वं जेतवनं उदारेणावभासे न ( द्स्; ग्ब्म् 1542.8 ) स्फुटम् अभूत् । एकान्ते निषण्णा सा देवता तस्यां वेलायाम् इमां गाथाम् अभाषत
किं नु तं निशितं शस्त्रं किं वा हालाहलं विषं ।
को नु प्रज्वा लि तो वह्नि किं वा तद् दारुणं तमः 1 ( द्स्; ग्ब्म् 1543.1 )
भगवान् आह ।
दुष्टा वाङ् निशितं शस्त्रं रागो हालाहलं विषं ।
द्वेषः प्रज्वालितो वह्नि ऽविद्या तद् दारुणं तमः 2
देवता प्रा ह ( द्स्; ग्ब्म् 1543.2 )
गृहीतं किं नु मर्त्येन किं वा तद् यद् इहोज्झितं ।
अभेद्यं कवचं किं नु किं वा तीक्ष्णम् इहायुधं । 3
भगवान् आह ।
गृहीतं यत् स्वयं दत्तं यद् गृहे तद् इहो ज्झि तं । ( द्स्; ग्ब्म् 1543.3 )
अभेद्यं कवचं क्षान्ति प्रज्ञा तीक्ष्णम् इहायुधम् । 4
देवता प्राह ।
को न्व् असौ प्रोच्यते चौरो धनं किं वा सतां मतं ।
के वा सदेवके लोके प्रो च्य न्ते मुषिता इति । 5 ( द्स्; ग्ब्म् 1543.4 )
भगवान् आह ।
वितर्कः कुशलश् चौरो धनं शीलं सतां मतं ।
ते चापि मुषिता लोके यैः शीलं विनिपातितम् । 6 ( द्स्; ग्ब्म् 1543.5 )
देवता प्राह ।
को न्व् असौ सुखितो ज्ञेय को वा यः परमेश्वरः
को वा विभूषितो नित्यं ब्रूहि को वा विडंबितः 7
भगवान् आह । ( द्स्; ग्ब्म् 1543.6 )
अल्पेच्छः सुखितो ज्ञेयः संतुष्टो परमेश्वरः
शीलवां विभूषितो नित्यं भ्रष्टशीलो विडंबितः 8
देवता प्राह ।
किं स्विद् अग्निर् न दहति न भि न त्ति च मारुतः ( द्स्; ग्ब्म् 1543.7 )
किं स्विन् न क्लेदयन्त्य् आपः प्लावयन्तो वसुन्धराम् । 9
भगवान् आह ।
पुण्यम् अग्निर् न दहति न भिनत्ति च मारुतः
पुण्यं न क्लेदयन् त्य् आपः प्लावयन्तो वसुन्धराम् । 10 ( द्स्; ग्ब्म् 1543.8 )
देवता प्राह ।
किं स्विद् राजा च चौराश् च स्पन्दमाना समुद्यता ।
नापहर्तुं शक्नुवन्ति स्त्रिया वा पुरुष स्य वा । 11 ( द्स्; ग्ब्म् 1544.1 )
भगवान् आह ।
पुण्यं राजा च चौराश् च स्पन्दमाना समुद्यता ।
नापहर्तुं शक्नुवन्ति स्त्रिया वा पुरुषस्य वा । 12
देवता प्राह ।
वत्सलो बा न्ध वः को ऽसौ को वा दुष्टाशयो रिपुः ( द्स्; ग्ब्म् 1544.2 )
किं वा तद् दारुणं दुःखं किं वा परमं सुखम् । 13
भगवान् आह ।
वत्सलो बान्धवः पुण्यं पापं दुष्टाशयो रि पुः ( द्स्; ग्ब्म् 1544.3 )
नारकं दारुणं दुःखं शुद्धा भावः परमं सुखम् । 14
देवता प्राह ।
केनायम् आवृतो लोकः केन लोको वशीकृतः
केन त्यजति मित्राणि के न स्वर्गं न गच्छति । 15 ( द्स्; ग्ब्म् 1544.4 )
भगवान् आह ।
अज्ञानेनावृतो लोको मोहेन च वशीकृतः
लोभात् त्यजति मित्राणि संगात् स्वर्गं न गच्छ ति । 16 ( द्स्; ग्ब्म् 1544.5 )
देवता प्राह ।
किं तत् प्रियम् अपथ्यं च किं वा पथ्यं न च प्रियं
को वा पीडाकरो व्याधिः को ऽसाव् एको भिषग् वरः । 17
भगवान् आह ।
का माः प्रिया अपथ्याश् च मोक्षः पथ्यो न च प्रियः ( द्स्; ग्ब्म् 1544.6 )
रागः पीडाकरो व्याधिर् बुद्धश् चैको भिषग् वरः । 18
देवता प्राह ।
केन मित्राणि वर्धन्ते के न शाम्यन्ति शत्रवः ( द्स्; ग्ब्म् 1544.7 )
केन स्वर्गम् अवाप्नोति केन मोक्षं च गच्छति । 19
भगवान् आह ।
त्यागान् मित्राणि वर्धन्ते मैत्र्या शाम्यन्ति शत्रवः
शीला त् स्वर्गम् अवाप्नोति ज्ञानान् मोक्षं च गच्छति । 20 ( द्स्; ग्ब्म् 1544.8 )
देवता प्राह ।
इदं संशयम् अद्यापि मम त्वं छेत्तुम् अर्हसि ।
अस्माल् लोका त् प रं लोकं को गतो ऽत्यन्तवंचितः । 21 ( द्स्; ग्ब्म् 1545.1 )
भगवान् आह ।
विद्यमानेषु भोगेषु पुण्यं येन न संचितं ।
अस्माल् लोकात् परं लोकं सो गतो ऽत्यन्तवंचितः । 22
दे वता प्राह ( द्स्; ग्ब्म् 1545.2 )
चिरस्य बत पश्यामि ब्राह्मणं परिनिर्वृतं ।
सर्ववैरभयातीतं तीर्णं लोके विषक्तिकाम् ॥ 23
इत्य् उक्त्वा सा देवता भगवतो भा षितम् ( द्स्; ग्ब्म् 1545.3 ) अभिनन्द्यानुमोद्य भगवतः पादौ शिरसा वन्दित्वा भगवतो ऽन्तिकात् प्रक्रान्ता ॥
अल्पदेवतासूत्र = अद्स्
एवं मया श्रुतम् एकस्मिं समये भगवां च्छ्रा व स्त्यां ( अद्स्; ग्ब्म् 1545.4 ) विहरति स्म जेतवने अनाथपिण्डदस्यारामे अथान्यतमा देवता अतिक्रान्तवर्णा अतिक्रान्तायां रात्र्यां येन भ गवांस् ( अद्स्; ग्ब्म् 1545.5 ) तेनोपसंक्रान्ता उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वैकान्ते निषण्णा अपीदानीं तस्या देवताया वर्णा नु भावेन ( अद्स्; ग्ब्म् 1545.6 ) सर्वं जेतवनं उदारेणावभासेन स्फुटम् अभूत् । एकान्ते निषण्णा सा देवता तस्यां वेलायां गाथाम् अभाषत ॥
किं शी लाः किंसमाचाराः के गुणाः केन कर्मणा । ( अद्स्; ग्ब्म् 1545.7 )
के .ए .इहादि .. प्राज्ञाः के जना स्वर्गगामिनः 1
तस्या शास्ता व्याकार्षी देवता .. .. .. .. ..ः ( अद्स्; ग्ब्म् 1545.8 )
श्रूयतां देवते मह्यं ये जना स्वर्गगामिनः 2
प्राणातिपाताद् विरता सुशीलाः संयमे रताः
येन हिंसन्ति भूतानि ते जनाः स्वर्गगामिनः 3
मूल पाठ: Devatāsūtra and Alpadevatāsūtra · Edition: Adelheid Mette: "Zwei kleine Fragmente aus Gilgit", Studien zur Indologie und Iranistik 7 (1981), pp. 133-151. · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0