भाषा

ENहिગુ
ग्रंथ पाठ

दशकुमारचरित · श्लोक p9318-p76983

p9318

एषो ऽस्मि पर्यटन्न् एकदा गतो विदेहेषु । मिथिलाम् अप्रविश्यैव बहिः क्व=चिन् मठि काया विश्रमितुम् एत्य कया अपि वृद्धतापस्या दत्तपाद्यः क्षणम् अलिन्दभूमाव् अवास्थिषि । तस्यास् तु मद्दर्शनाद् एव किम् अप्य् आबद्धधारम् अश्रु प्रावर्तत । ऽ किम् एतद् अम्ब कथय कारणम् ऽ इति पृष्टा सकरुणम् आचष्ट ऽजैवातृक ननु श्रूयते पतिर् अस्या मिथिलायाः प्रहारवर्मा नामासीत् । तस्य खलु मगधराजो राजहम्सः परं मित्रम् आसीत् । तयोश् च वल्लभे बलशम्बलयोर् इव वसुमतीप्रियम्वदे सख्यम् अप्रतिमम् अधत्ताम् । अथ प्रथमगर्भाभिनन्दितां तां च प्रियसखीं दिदृक्षुः प्रियम्वदा वसुमतीं सह भर्त्रा पुष्पपुरम् अगमत् । तस्मिन्न् एव च समये मालवेन मगधराजस्य महज् जन्यम् अजनि । तत्र लेशतो ऽपि दुर्लक्षां गतिम् अगमन् मगधराजः । मैथिलेन्द्रस् तु मालवेन्द्रप्रयत्नप्राणितः स्वविषयं प्रति निवृत्तो ज्येष्ठस्य सम्हारवर्मणः सुतैर् विकटवर्मप्रभृतिभिर् व्याप्तं राज्यम् आकर्ण्य स्वस्रीयात् सुह्मपतेर् दण्डावयवम् आदित्सुर् अटवीपथम् अवगाह्य लुब्धकलुप्तसर्वस्वो ऽभूत् । तत्सुतेन च कनीयसा हस्तवर्तिना सहैकाकिनी वनचरशरवर्षभयपलायिता वनम् अगाहिषि । तत्र च मे शार्दूलनखावलीढनिपतितायाः पाणिभ्रष्टः स बालकः कस्य अपि कपिलाशवस्य क्रोडम् अभ्यलीयत । तच्छवाकर्षिणश् च व्याघ्रस्य असून् इषुर् इष्वसनयन्त्रमुक्तः क्षणाद् अलिक्षत् । भिल्लदारकैः स बालो ऽपाहारि । सा त्व् अहं मोहसुप्ता केन अपि वृष्णिपालेनोपनीय स्वं कुटीरम् आवेश्य कृपयोपक्रान्तव्रणा स्वस्थीभूय स्वभर्तुर् अन्ति कम् उपतिष्ठासुर् असहायतया यावद् व्याकुलीभवामि तावन् ममैव दुहिता सह यूना केन अपि तम् एवोद्देशम् आगमत् । सा भृशं रुरोद । रुदितान्ते च सा सार्थघाते स्वहस्तगतस्य राजपुत्रस्य किरातभर्तृहस्तगमनम् आत्मनश् च केन अपि वनचरेण व्रणविरोपणम् स्वस्थायाश् च पुनस् तेनोपयन्तुं चिन्तिता या निकृष्टजातिसम्सर्गवैक्लव्यात् प्रत्याख्यानपारुष्यम् तद् अक्षमेण च अमुना विविक्ते विपिने स्वशिरः कर्तनोद्यमम् अनेन यूना यदृच्छया दृष्टेन तस्य दुरात्मनो हननम् आत्मनश् चोपयमनम् इत्य् अकथयत् । स तु पृष्टो मैथिलेन्द्रस्यैव को ऽपि सेवकः कारणविलम्बी तन्मार्गानुसारी जातः । सह तेन भर्तुर् अन्तिकम् उपसृत्य पुत्रवृत्ता न्तेन श्रोत्रम् अस्य देव्याः प्रियम्वदायाश् च अदहाव ।

p11545

स च राजा दिष्टदोषाज् ज्येष्ठपुत्रैश् चिरं विगृह्य पुनर् असहिष्णुतया अतिमात्रं चिरं प्रयुध्य बद्धः । देवी च बन्धनं गमिता । दग्धा पुनर् अहम् अस्मिन्न् अपि वार्द्धके हतजीवितम् अपारयन्ती हातुं प्रव्रज्यां किल अग्रहीषम् । दुहिता तु मम हतजीविताकृष्टा विकटवर्ममहादेवीं कल्पसुन्दरीं किल अशिश्रियत् । तौ चेद् राजपुत्रौ निरुपद्रवाव् एव अवर्धिष्येताम् इयता कालेन तवेमां वयोअवस्थाम् अस्प्रक्ष्येताम् । तयोश् च सतोर् न दायादा नरेन्द्रस्य प्रसह्यकारिणो भवेयुः ऽ इति प्रमन्युर् अभिरुरोद । श्रुत्वा च तापसीगिरम् अहम् अपि प्रवृद्धबाष्पो निगूढम् अभ्यधाम् - ऽयद्य् एवम् अम्ब समाश्वसिहि । नन्व् अस्ति कश् चिन् मुनिस् त्वया तदवस्थया पुत्राभ्युपपादनार्थं याचितस् तेन स लब्धो वर्धितश् च । वार्तेयम् अतिमहती । किम् अनया । सो ऽहम् अस्मि । शक्यश् च मया असौ विकटवर्मा यथाकथंचिद् उपश्लिष्य व्यापादयितुम् । अनुजाः पुनर् अतिबहवः तैर् अपि घटन्ते पौरजानपदाः । मां तु न कश्=चिद् इहत्य ईदृक्तया जनो जानाति । पितराव् अपि तावन् मां न सम्विदाते किम् उतेतरे । तद् एनम् अर्थम् उपायेन साधयिष्यामि ऽ इत्य् अगादिषम् । सा तु वृद्धा सरुदितं परिष्वज्य मुहुः शिरस्य् उपाघ्राय प्रस्नुतस्तनी सगद्गदम् अगदत् ऽवत्स चिरं जीव । भद्रं तव । प्रसन्नो ऽद्य भगवान् विधिः । अद्यैव प्रहारवर्मण्य् अधि विदेहा जाताः यतः प्रलम्बमानपीनबाहुर् भवान् अपारम् एतच् छोकसागरम् अद्योत्तारयितुं स्थितः । अहो महद् भागधेयं देव्याः प्रियम्वदायाः ऽ इति हर्षनिर्भरा स्नानभोजनादिना माम् उपाचरत् । अशिश्रियं च अस्मिन् मठैकदेशे निशि कटशय्याम् । अचिन्तयं च ऽविनोपधिना अयम् अर्थो न साध्यः । स्त्रियश् चोपधीनाम् उद्भवक्षेत्रम् । अतो ऽन्तःपुरवृत्तान्तम् अस्या अवगम्य तद्द्वारेण किञ्=चिज् जालम् आचरेयम् ऽ इति चिन्तयत्य् एव मयि महार्णवोन्मग्नमार्तण्डतुरङ्गमश्वासरयावधूतेव व्यावर्तत त्रियामा । समुग्रगर्भवासजडीकृत इव मन्दप्रतापो दिवसकरः प्रादुर् आसीत् ।

p13423

उत्थाय अवसायितदिनमुखनियमविधिस् तां मे मातरम् अवादिषम् - ऽ अम्ब जाल्मस्य विकटवर्मणः कच्=चिद् अन्तःपुरवृत्तान्तम् अभिजानासि ऽ इत्य् अनवसितवचनए एव मयि का=चिद् अङ्गना प्रत्यदृश्यत । तां च अवेक्ष्य सा मे धात्री हर्षाश्रुकुण्ठितकण्ठम् आचष्ट - ऽपुत्रि पुष्करिके पश्य भर्तृदारकम् । अयम् असाव् अकृपया मया वने परित्यक्तः पुनर् अप्य् एवम् आगतः ऽ इति । सा तु हर्षनिर्भरनिपीडिता चिरं प्ररुद्य बहु विलप्य शान्ता पुनः स्वमात्रा राजान्तःपुरवृत्तान्ताख्याने न्ययुज्यत । उक्तं च तया - ऽकुमार कामरूपेश्वरस्य कलिन्दवर्मनाम्नः कन्या कल्पसुन्दरी कलासु रूपे च अप्सरसो ऽप्य् अतिक्रान्ता पतिम् अभिभूय वर्तते । तदेकवल्लभः स तु बह्ववरोधो ऽपि विकटवर्मा ऽ इति । ताम् अवोचम् - ऽ उपसर्पैनां मत्प्रयुक्तैर् गन्धमाल्यैः । उपजनय च असमानदोषनिन्दादिना स्वभर्तरि द्वेषम् । अनुरूपभ र्तृगामिनीनां च वासवदत्तादीनां वर्णनेन ग्राहय अनुशयम् । अवरोधान्तरेषु च राज्ञो विलसितानि सु=गूढान्य् अपि प्रयत्नेन अन्विष्य प्रकाशयन्ती मानम् अस्या वर्धय ऽ इति । पुनर् इदम् अम्बाम् अवोचम् - ऽ इत्थम् एव त्वया अप्य् अन्=अन्यव्यापारया नृपाङ्गना असाव् उपस्थातव्या । प्रत्यहं च यद् यत् तत्र वृत्तं तद् अस्मि त्वयैव बोध्यः । मदुक्ता पुनर् इयम् उदर्कस्वादुनो ऽस्मत्कर्मणः प्रसाधनाय च्छायेव अन्=अपायिनी कल्पसुन्दरीम् अनुवर्तताम् ऽ इति । ते च तम् अर्थं तथैव अन्वतिष्ठताम् । केषुचिद् दिनेषु गतेष्व् आचष्ट मां मदम्बा - ऽवत्स माधवीव पिचुमन्दाश्लेषिणी यथा असौ शोच्यम् आत्मानं मन्येत तथोपपाद्य स्थापिता । किं भूयः कृत्यम् ऽ इति । पुनर् अहम् अभिलिख्यात्मनः प्रतिकृतिम् ऽ इयम् अमुष्मै नेया । नीतां चैनां निर्वर्ण्य सा नियतम् एवं वक्ष्यति - ऽ नन्व् अस्ति कश् चिद् ईदृशाकारः पुमान् ऽ इति । प्रतिब्रूह्य् एनाम् - ऽ यदि स्यात् ततः किम् ऽ इति । तस्य यद् उत्तरं सा दास्यति तद् अहम् अस्मि प्रतिबोधनीयः ऽ इति । सा ऽ तथा ऽ इति राजकुलम् उपसङ्क्रम्य प्रतिनिवृत्ता माम् एकान्ते न्यवेदयत् - ऽवत्स दर्शितो ऽसौ चित्रपटस् तस्यै मत्तकाशिन्यै । चित्रीयमाणा च असौ ऽ भुवनम् इदं सनाथीकृतं यद् देवे ऽपि कुसुमधन्वनि नेदृशी वपुःश्रीः सम्निधत्ते । चित्रम् एतच् चित्रतरम् । न च तम् अवैमि य ईदृशम् इहत्यो निर्मिमीते । केनेदम् आलिखितम् ऽ इत्य् आदृतवती व्याहृतवती च । मया च स्मेरयोदीरितम् - ऽ देवि सदृशम् आज्ञापयसि । भगवान् मकरकेतुर् अप्य् एवं सुन्दर इति न शक्यम् एव सम्भावयितुम् । अथ च विस्तीर्णेयम् अर्णवनेमिः । क्वचिद् ईदृ शम् अपि रूपं दैवशक्त्या सम्भवेत् । अथ तु यद्य् एवंरूपो रूपानुरूपशिल्पशीलविद्याज्ञानकौशलो युवा महाकुलीनश् च कश्=चित् सम्निहितः स्यात् स किं लप्स्यते ऽ इति । तयोक्तम् - ऽ अम्ब किं ब्रवीमि । शरीरं दृदयं जीवितम् इति सर्वम् इदम् अल्पम् अनर्हं च । ततो न किञ्=चिल् लप्स्यते । न चेद् अयं विप्रलम्भस् तस्य अमुष्य दर्शनानुभवेन यथेदं चक्षुश् चरितार्थं भवेत् तथा अनुग्रहः कार्यः ऽ इति । भूयो ऽपि मया दृढतरीकर्तुम् उपन्यस्तम् ऽ अस्ति को ऽपि राजसूनुर् निगूढं चरन् । अमुष्य वसन्तोत्सवे सह सखीभिर् नगरोपवनविहारिणी रतिर् इव विग्रहिणी यदृच्छया दर्शनपथं गता असि । गतश् च असौ कामशरैकलक्ष्य तां माम् अन्ववर्तिष्ट । मया च वाम् अन्योअन्यानुरूपैर् दुर्लभैर् आकारादिभिर् गुणातिशयैश् च प्रेर्यमाणया तद्रचितैर् एव कुसुमशेखरस्रगनुलेपनादिभिश् चिरम् उपासिता असि । सादृश्यं च स्वम् अनेन स्वयम् एव अभिलिख्य त्वत्समाधिगाढत्वदर्शनाय प्रेषि तम् । एष चेद् अर्थो निश्चितस् तस्य अमुष्य अतिमानुषप्राणसत्त्वप्रज्ञाप्रकर्षस्य न किञ्=चिद् दुष्करं नाम । तम् अद्यैव दर्शयेयम् । सङ्केतो देयः ऽ इति । तया तु किञ्=चिद् इव ध्यात्वा पुनर् अभिहितम् ऽ अम्ब तव नैतद् इदानीं गोप्यतमम् । अतः कथयामि । मम तातस्य राज्ञा प्रहारवर्मणा सह महती प्रीतिर् आसीत् । मातुश् च मे मानवत्याः प्रियवयस्या देवी प्रियम्वदासीत् । ताभ्यां पुनर् अजातापत्याभ्याम् एव कृतः समयो अभूत् - ऽ आवयोः पुत्रवत्याः पुत्राय दुहितृमत्या दुहिता देया ऽ इति । तातस् तु मां जातां प्रनष्टापत्या प्रियम्वदेति प्रार्थयमानाय विकटवर्मणे दैवाद् दत्तवान् । अयं च निष्ठुरः पितृद्रोही न अत्युपसन्नसंस्थानः कामोपचारेष्व् अलब्धवैचक्षण्यः कलासु काव्यनाटकादिषु मन्दाभिनिवेशः शौर्योन्मादी दुर्विकत्थनो अनृतवादी च अस्थानवर्षी । न अतिरोचते मे एष भर्ता विशेषतश् चैषु वासरेषु । यद् अयम् उद्याने मदन्तरङ्गभूतां पुष्करिकाम् अप्य् उपान्तवर्तिनीम् अनादृत्य मयि बद्धसापत्न्यमत्सराम् अनात्मज्ञाम् आत्मनाटकीयां रमयन्तिका नाम अपत्यनिर्=विशेषं मत्सम्वर्धितायाश् चम्पकलतायाः स्वयम् अवचिताभिः सु=मनोभिर् अलम् अकार्षीत् । मदुपभुक्तमुक्ते चित्रकूटगर्भवेदिकागते रत्नतल्पे तया सह व्यहार्षीत् । अयोग्यश् च पुमान् अवज्ञातुं च प्रवृत्तः । तत् किम् इत्य् अपेक्ष्यते । परलोकभयं च ऐहिकेन दुःखेन अन्तरितम् । अ=विषह्यं हि योषिताम् अन्=अङ्गशरनिषङ्गी भूतचेतसाम् अन्=इष्टजनसम्वासयन्त्रणादुःखम् । अतो ऽमुना पुरुषेण माम् अद्योद्यानमाधवीगृहे समागमय । तद्वार्ताश्रवणमात्रेणैव हि मम अतिमात्रं मनो ऽनुरक्तम् । अस्ति च अयम् अर्थराशिः । अनेन अमुष्य पदे प्रतिष्ठाप्य तम् एव अत्यन्तम् उपचर्य जीविष्यामि ऽ इति । मया अपि तद् अभ्युपेत्य प्रत्यागतम् । अतः परं भर्तृदारकः प्रमाणम् ऽ इति । ततस् तस्या एव सकाशाद् अन्तःपुरनिवेशम् अन्तर्वम्शिकपुरुषस्थानानि प्रमदवनप्रदेशान् अपि विभागेन अवगम्य अस्तगिरिकूटपातक्षुभितशोणित इव शोणीभवति भानुबिम्बे पश्चिमाम्बुधिपयःपातनिर्वापितपतङ्गाङ्गारधूमसम्भार इव भरितनभसि तमसि विजृम्भिते परदारपरामर्शोन्मुखस्य ममाचार्यकम् इव कर्तुम् उत्थिते गुरुपरिग्रहश्लाघिनि ग्रहाग्रेसरे क्षपाकरे कल्पसुन्दरीवदनपुण्डरीकेणेव मद्दर्शनातिरागप्रथमोपनतेन स्मयमानेन चन्द्रमण्डलेन सन्धुक्षमाणतेजसि भुवनविजिगीषोद्यते देवे कुसुमधन्वनि यथोचितं शयनीयम् अभजे । व्यचीतरं च ऽ सिद्धप्राय एव अयम् अर्थः । किं तु परकलत्रलङ्घनाद् धर्मपीडा भवेत् । सा अप्य् अर्थकामयोर् द्वयोर् उपलम्भे शास्त्रकारैर् अनुमतैवेति । गुरुजनबन्धमोक्षोपायसन्धिना मया चैष व्यतिक्रमः कृतस् तद् अपि पापं निर्हृत्य कियत्या अपि धर्मकलया मां समग्रयेद् इति । अपि त्व् एतद् आकर्ण्य देवो राजवाहनः सुहृदो वा किं नु वक्ष्यन्ति ऽ इति चिन्तापराधीन एव निद्रया परामृश्ये । अदृश्यत च स्वप्ने हस्तिवक्त्रो भगवान् । आह स्म च ऽ सौम्य उपहारवर्मन् मा स्म ते दुर्विकल्पो भूत् । यतस् त्वम् असि मदम्शः । शङ्करजटाभारलालनोचिता सुरसरिद् असौ वरवर्णिनी । सा च कदा=चिन् मद्विलोडना=सहिष्णुर् माम् अशपत् - ऽ एहि मर्त्यत्वम् ऽ इति । अशप्यत

मया च ऽ यथेह बहुभोग्या तथा प्राप्य अपि मानुष्यकम् अन्=एकसाधारणी भव ऽ इति । अभ्यर्थितश् च अनया ऽ एकपूर्वां पुनस् त्वाम् एवोपचर्य यावज्जीवं रमेयम् ऽ इति । तद् अयम् अर्थो भव्य एव भवता निर्=आशङ्क्यः ऽ इति । प्रतिबुध्य च प्रीतियुक्तस् तदहर् अपि प्रियासङ्केतव्यतिकरादिस्मरणेन अहम् अनैषम् । अन्येद्युर् अनन्यथावृत्तिर् अनङ्गो मय्य् एवेषुवर्षम् अवर्षत् । अशुष्यच् च ज्योतिष्मतः प्रभामयं सरः । प्रासरच् च तिमिरमयः कर्दमः । कार्दमिकनिवसनश् च दृढतरपरिकरः खड्गपाणिर् उपहृतोपस्करः स्मरन् मातृदत्तान्य् अभिज्ञानानि राजमन्दिरपरिखाम् उदम्भसम् उपातिष्ठम् । अथोप खातं मातृगृहद्वारे पुष्करिकया प्रथमसम्निधापितां वेणुयष्टिम् आदाय तया शायितया च परिखां स्थापितया च प्राकारभित्तिम् अलङ्घयम् । अधिरुह्य पक्वेष्टकचितेन गोपुरोपरितलाधिरोहिणा सोपानपथेन भुवम् अवातरम् । अवतीर्णश् च वकुलवीथीम् अतिक्रम्य चम्पकावलिवर्त्मना मनाग् इवोपसृत्योत्तराहि करुणं चक्रवाकमिथुनरवम् अशृणवम् । पुनर् उदीचा पाटलिपथेन स्पर्शलभ्यविशालसौधकुड्योदरेण शरक्षेपम् इव गत्वा पुनः प्राचा पिण्डीभाण्डीरखण्डमण्डितोभयपार्श्वेन सैकतपथेन किञ्=चिद् उत्तरम् अतिक्रम्य पुनर् अवाचीं चूतवीथीम् अगाहिषि । ततश् च गहनतरम् उदरोपरचितरत्नवेदिकं माधवीलतामण्डपम् ईषद्विवृतसमुद्गकोन्मिषितभासा दीपवर्त्या न्यरूपयम् । प्रविश्य चैकपा र्श्वे फुल्लपुष्पनिरन्तरकुरण्टपोतपङ्क्तिभित्तिपरिगतं गर्भगृहम् अवनिपतितारुणाशोकलतामयम् अभिनवकुसुमकोरकपुलकलाञ्छितं प्रत्यग्रप्रवालपटलपाटलं कपाटम् उद्घाट्य प्राविक्षम् । तत्र चासीत् स्वास्तीर्णं कुसुमशयनम् सुरतोपकरणवस्तुगर्भाश् च कमलिनीपलाशसम्पुटाः दन्तमयस् तालवृन्तः सुरभिसलिलभरितश् च भृङ्गारकः । समुपविश्य मुहूर्तं विश्रान्तः परिमलम् अतिशयवन्तम् आघ्रासिषम् । अश्रौषं च मन्दमन्दं पदशब्दम् । श्रुत्वैव सङ्केतगृहान् निर्गत्य रक्ताशोकस्कन्धपार्श्वव्यवहिताङ्गयष्टिः स्थितो ऽस्मि । सा च सुभ्रूर् अ=सुषीमकामा शनैर् उपेत्य तत्र माम् अदृष्ट्वा बलवद् अव्यथिष्ट । व्यसृजच् च मत्तराजहम्सीव कण्ठरागवल्गुगद्गदां गिरम् - ऽ व्यक्तम् अस्मि विप्रलब्धा । न अस्त्य् उपायः प्राणितुम् । अयि हृदय किम् इदम् अ=कार्यं कार्यवद् अध्यस्य तद=सम्भवेन किम् एवम् उत्ताम्यसि । भगवन् पञ्चबाणकस् तव अपराधः कृतो मया यद् एवं दहसि न च भस्मीकरोषि ऽ इति । अथ अहम् आविर्भूय विवृतदीपभाजनः ऽ भामिनि ननु बह्व् अपराद्धं भवत्या चित्तजन्मनो यद् अमुष्य जीवितभूता रतिर् आकृत्या कदर्थिता धनुर्यष्टिर् भ्रूलताभ्याम् भ्रमरमालामयी ज्या नीलालकद्युतिभिः अस्त्राण्य् अपाङ्गवीक्षितवृष्टिभिः महारजनध्वजपटाम्शुकं दन्तच्छदमयूखजालैः प्रथमसुहृन् मलयमारुतः परिमलपटीयसा निःश्वासपवनेन परभृतरुतम् अतिमञ्जुलैः प्रलापैः पुष्पमयी पताका भुजयष्टिभ्याम् दिग्विजयारम्भपूर्णकुम्भमिथुनम् उरोजकुम्भयुगलेन क्रीडासरो नाभिमण्डलेन सम्नाह्यरथः श्रोणिमण्डलेन भवरत्नतोरणस्त म्भयुगलम् ऊरुयुगलेन लीलाकर्णकिसलयं चरणतलप्रभाभिः । अतः स्थानए एव त्वां दुनोति मीनकेतुः । मां पुनर् अन्=अपराधम् अधिकम् आयासयतीत्य् एष एव तस्य दोषः । तत् प्रसीद सुन्दरि जीवय मां जीवनौषधिभिर् इव अपाङ्गैर् अन्=अङ्गभुजङ्गदष्टम् । ऽ इत्य् आश्लिष्टवान् । अरीरमं च अन्=अङ्गरागपेशलविशाललोचनाम् । अवसितार्थां चारक्तवलितेक्षणाम् ईषत्स्वेदरेखोद्भेदजर्जरितकपोलमूलाम् अन्=अर्गलकलप्रलापिनीम् अरुणदशनकररुहार्पणव्यतिकराम् अत्यर्थपरिश्लथाङ्गीम् आर्ताम् इव लक्षयित्वा मानसीं शारीरीं च धारणां शिथिलयन्न् आत्मानम् अपि तया समानार्थम् आपादयम् । तत्क्षणविमुक्तसङ्गतौ रतावसानिकं विधिम् अनुभवन्तौ चिरपरिचिताव् इव अतिगूढविश्रम्भौ क्षणम् अवातिष्ठावहि । पुनर् अहम् उष्णम् आयतं च निःश्वस्य किञ्=चिद्दीनदृष्टिः सचकितप्रसारिताभ्यां भुजाभ्याम् एनाम् अन्=अतिपीडं परिष्वज्य न अतिविशदम् अचुम्बिषम् । अश्रुमुखी तु सा ऽ यदि प्रयासि नाथ प्रयातम् एष मे जीवितं गणय । नय माम् अपि । न चेद् असौ दासजनो निष्प्रयोजनः । ऽ इत्य् अञ्जलिम् अवतम्सताम् अनैषीत् । अवादिषं च ताम् - ऽ अयि मुग्धे कः सचेतनः स्त्रियम् अभिकामयमानां न अभिनन्दति । यदि मदनुग्रहनिश्चलस् तव अभिसन्धिर् आचर अ=विचारं मदुपदिष्टम् । आदर्शय रहसि राज्ञे मत्सादृश्यगर्भं चित्रपटम् । आचक्ष्व च ऽ किम् इयम् आकृ तिः पुरुषसौन्दर्यस्य पारम् आरूढा न वा ऽ इति । ऽ बाढम् आरूढा ऽ इति नूनम् असौ वक्ष्यति । ब्रूहि भूयः - ऽ यद्य् एवम् अस्ति का अपि तापसी देशान्तरभ्रमणलब्धप्रागल्भ्या मम च मातृभूता । तयेदम् आलेख्यरूपं पुरस्कृत्य अहम् उक्ता - ऽ सो ऽस्ति तादृशो मन्त्रो येन त्वम् उपोषिता पर्वणि विविक्तायां भूमौ पुरोहितैर् हुतमुक्ते सप्तार्चिषि नक्तम् एकाकिनी शतं चन्दनसमिधः कर्पूरमुष्टीः पट्टवस्त्राणि च प्रभूतानि हुत्वा भविष्यस्य् एवमाकृतिः । अथ चालयिष्यसि घण्टाम् । घण्टापुटक्वणिताहूतश् च भर्ता भवत्यै सर्वरहस्यम् आख्याय निमीलिताक्षो यदि त्वाम् आलिङ्गेत् इयम् आकृ तिर् अमुम् उपसङ्क्रामेत् । त्वं तु भविष्यसि यथा पुराकारैव । यदि भवत्यै भवत्प्रियाय चैवं रोचेत न च अस्मिन् विधौ विसम्वादः कार्यः ऽ इति । वपुश् चेद् इदं तव अभिमतं सह सुहृन्मन्त्रिभिर् अनुजैः पौरजानपदैश् च संप्रधार्य तेषाम् अप्य् अनुमते कर्मण्य् अभिमुखेन स्थेयम् ऽ इति । स नियतम् अभ्युपैष्यति । पुनर् अस्याम् एव प्रमदवनवाटीशृङ्गाटिकायाम् आथर्वणिकेन विधिना सञ्ज्ञपितपशुना अभिहुत्य मुक्ते हिरण्यरेतसि तद्धूमशमलेन सम्प्रविष्टेन मया अस्मिन्न् एव लतामण्डपे स्थातव्यम् । त्वं पुनः प्रगाढायां प्रदोषवेलायाम् आलपिष्यसि कर्णे कृतनर्मस्मिता विकटवर्माणम् - ऽ धूर्तो ऽसि त्वम् अ=कृतज्ञश् च । मदनुग्रहलब्धेन अपि रूपेण लोकलोचनोत्सवायमानेन मत्सपत्नीर् अभिरमयिष्यसि । न अहम् आत्मविनाशाय वेतालोत्थापनम् आचरेयम् ऽ इति । श्रुत्वेदं त्वद्वचः स यद् वदिष्यति तन् मह्यम् एकाकिन्य् उपागत्य निवेदयिष्यसि । ततः परम् अहम् एव ज्ञास्यामि । मत्पदचिह्नानि चोपवने पुष्करिकया प्रमार्जय ऽ इति । सा ऽ तथा ऽ इति शास्त्रोपदेशम् इव मदुक्तम् आदृत्य अ=तृप्तसुरतरागैव कथं=कथम् अप्य् अगाद् अन्तःपुरम् । अहम् अपि यथाप्रवेशं निर्गत्य स्वम् एवावासम् अयासिषम् ।

p25679

अथ सा मत्तकाशिनी तथा तम् अर्थम् अन्वतिष्ठत् । अतिष्ठच् च तन्मते स दुर्मतिः । अभ्रमच् च पौरजानपदेष्व् इयम् अद्भुतायमाना वार्ता - ऽ राजा किल विकटवर्मा देवीमन्त्रबलेन देवयोग्यं वपुर् आसादयिष्यति । नूनम् एष विप्रलम्भो न अतिकल्याणः । कैव कथा प्रमादस्य । स्वस्मिन्न् एव अन्तःपुरोपवने स्वाग्रमहिष्यैव सम्पाद्यः किल अयम् अर्थः । तथा हि बृहस्पतिप्रतिमबुद्धिभिर् मन्त्रिभिर् अप्य् अभ्यूह्य अनुमतः । यद्य् एवं भावि न अन्यद् अतः परम् अस्ति किञ्=चिद् अद्भुतम् । अ=चिन्त्यो हि मणिमन्त्रौषधीनां प्रभावः । ऽ इति प्रसृतेषु लोकप्रवादेषु प्राप्ते पर्वदिवसे प्रगाढायां प्रौढतमसि प्रदोषवेलायाम् अन्तःपुरोद्यानाद् उदैरयद् धूर्जटिकण्ठधूम्रो धूमोद्गमः । क्षीराज्यदधितिलगौरसर्षपवसामाम्सरुधिर आहुतीनां च परिमलः पवनानुसारी दिशि दिशि प्रावात्सीत् । प्रशान्ते च सहसा धूमोद्गमे तस्मिन्न् अहम् अविशम् । निशान्तोद्यानम् आगमच् च गजगामिनी । आलिङ्ग्य च मां सस्मितं समभ्यधत्त - ऽ धूर्त सिद्धं ते समीहितम् । अवसितश् च पशुर् असौ । अमुष्य प्रलोभनाय त्वदादिष्टया दिशा मयोक्तम् - ऽ कितव न साधयामि ते सौन्दर्यम् । एवं सुन्दरो हि त्वम् अप्सरसाम् अपि स्पृहणीयो भविष्यसि किम् उत मानुषीणाम् । मधुकर इव निसर्गचपलो यत्र क्व=चिद् आसज्जति भवादृशो नृशम्सः ऽ इति ।

p26966

तेन तु मे पादयोर् निपत्य अभिहितम् - ऽ रम्भोरु सहस्व मत्कृतानि दुश्चरितानि । मनसा अपि न चिन्तयेयम् इतः परम् इतरनारीम् । त्वरस्व प्रस्तुते कर्मणि ऽ इति । तद् अहम् ईदृशेन वैवाहिकेन नेपथ्येन त्वाम् अभिसृतवती । प्राग् अपि रागाग्निसाक्षिकम् अनङ्गेन गुरुणा दत्तैव तुभ्यम् एषा जाया । पुनर् अपीमं जातवेदसं साक्षीकृत्य स्वहृदयेन दत्ता ऽ इति प्रपदेन चरणपृष्ठे निष्पीड्योत्क्षिप्तपादपार्ष्णिर् इतरेतरव्यतिषक्तकोमलाङ्गुलिदलेन भुजलताद्वयेन कन्धरां ममावेष्ट्य सलीलम् आननम् आनमय्य स्वयम् उन्नमितमुखकमला-विभ्रान्तविशालदृष्टिर् असकृद् अभ्यचुम्बत् ।

p27598

अथैनाम् ऽ इहैव कुरण्टकगुल्मगर्भे तिष्ठ यावद् अहं निर्गत्य साधयेयं साध्यं सम्यक् इति विसृज्य ताम् उपसृत्य होमानलप्रदेशम् अशोकशाखावलम्बिनीं घण्टाम् अचालयम् । अकूजच् च सा तं जनं कृतान्तदूतीवाह्वयन्ती । प्रावर्तिषि च अहम् अगुरुचन्दनप्रमुखानि होतुम् । आयासीच् च राजा यथोक्तम् देशम् । शङ्कापन्नम् इव किञ्चित् सविस्मयं विचार्य तिष्ठन्तम् अब्रवम् ऽ ब्रूहि सत्यं भूयो ऽपि मे भगवन्तं चित्रभानुम् एव साक्षीकृत्य । न चेद् अनेन रूपेण मत्सपत्नीर् अभिरमयिष्यसि ततस् त्वयीदं रूपं सङ्क्रामयेयम् ऽ इति । स तदैव देव्य् एवेयम् नोपधिः इति स्फुटोपजातसम्प्रत्ययः प्रावर्तत शपथाय । स्मित्वा पुनर् मयोक्तम् ऽ किं वा शपथेन । कैव हि मानुषी मां परिभविष्यति । यद्य् अप्सरोभिः सङ्गच्छसे सङ्गच्छस्व कामम् । कथय कानि ते रहस्यानि । तत्कथनान्ते हि त्वत्स्वरूपभ्रंशः ऽ इति । सो ऽब्रवीत् ऽ अस्ति बद्धो मत्पितुः कनीयान् भ्राता प्रहारवर्मा । तं विषान्नेन व्यापाद्य अजीर्णदोषं ख्यापयेयम् इति मन्त्रिभिः सह अध्यवसितम् । अनुजाय विशालवर्मणे दण्डचक्रं पुण्ड्रदेशाभिक्रमणाय दित्सितम् । पौरवृद्धश् च पाञ्चालिकः परित्रातश् च सार्थवाहः खनतिनाम्नो यवनाद् वज्रम् एकं वसुन्धरामूल्यं लघीयसा अर्घेण लभ्यम् इति ममैकान्ते अमन्त्रयेताम् । गृहपतिश् च मम अन्तरङ्गभूतो जनपदमहत्तरः शतहलिर् अलीकवादशीलम् अवलेपवन्तं दुष्टग्रामण्यम् अनन्तसीरं जनपदकोपेन घातयेयम् इति दण्डधरान् उद्धारकर्मणि मत्प्रयोगान् नियोक्तुम् अभ्युपागमत् । इत्थम् इदम् अचिरप्रस्तुतं रहस्यम् इत्य् आकर्ण्य तम् ऽ इयत् तवायुः । उपपद्यस्व स्वकर्मोचितां गतिम् ऽ इति च्छुरिकया द्विधा कृत्य कृत्तमात्रं तस्मिन्न् एव प्रवृत्तस्फीतसर्पिषि हिरण्यरेतस्य् अजुहवम् । अभूच् च असौ भस्मसात् । अथ स्त्रीस्वभावाद् ईषद्विह्वलां हृदयवल्लभां समाश्वास्य हस्तकिसलये अवलम्ब्य गत्वा तद्गृहम् अनुज्ञया अस्याः सर्वाण्य् अन्तःपुराण्य् आहूय सद्य एव सेवां दत्तवान् । सविस्मितविलासिनीसार्थमध्ये कञ्चिद् विहृत्य कालं विसृष्टावरोधमण्डलस् ताम् एव सम्हतोरूम् ऊरूपपीडं भुजोपपीडं चोपगूह्य तल्पे ऽभिरमयन्न् अल्पाम् इव तां निशाम् अत्यनैषम् । अलभे च तन्मुखात् तद्राजकुलस्य शीलम् । उषसि स्नात्वा कृतमङ्गलो मन्त्रिभिः सह समगच्छे । ताम्श् च अब्रवम् - ऽ आर्याः रूपेणैव सह परिवृत्तो मम स्वभावः । य एष विषान्नेन हन्तुं चिन्तितः पिता मे स मुक्त्वा स्वम् एतद् राज्यं भूय एव ग्राहयितव्यः । पितृवद् अमुष्मिन् वयं शुश्रूषयैव वर्तामहे । न ह्य् अस्ति पितृवधात् परं पातकम् ऽ इति । भ्रातरं च विशालवर्माणम् आहूयोक्तवान् - ऽ वत्स न सुभिक्षाः साम्प्रतं पुण्ड्राः । ते दुःखमोहोपहतास् त्यक्तात्मानो राष्ट्रं नः समृद्धम् अभिद्रवेयुः । अतो मुष्टिवधः सस्यवधो वा यदोत्पद्यते तदा अभियास्यसि । न अद्य यात्रा युक्ता ऽ इति । नगरवृद्धाव् अप्य् अलापिषम् - ऽ अल्पीयसा मूल्येन महार्हं वज्रवस्तु मा अस्तु मे लभ्यं धर्मरक्षायै तदनुगुणेनैव मूल्येन अदः क्रीयताम् ऽ इति । शतहलिं च राष्ट्रमुख्यम् आहूय आख्यातवान् - ऽ यो ऽसाव् अनन्तसीरः प्रहारवर्मणः पक्ष इति निनाशयिषितः सो ऽपि पितरि मे प्रकृतिस्थे किम् इति नाश्येत तत् त्वया अपि तस्मिन् सम्रम्भो न कार्यः ऽ इति । तए इमे सर्वम् आभिज्ञानिकम् उपलभ्य ऽ स एव अयम् इति निश्चिन्वाना विस्मयमानाश् च तां महादेवीं च प्रशम्सन्तो मन्त्रबलानि चोद्घोषयन्तो बन्धनात् पितरौ निष्क्रामय्य स्वं राज्यं प्रत्य पादयन् । अहं च तया मे धात्र्या सर्वम् इदं मम चेष्टितं रहसि पित्रोर् अवगमय्य प्रहर्षकाष्ठाधिरूढयोस् तयोः पादमूलम् अभजे । अभज्ये च यौवराज्यलक्ष्म्या तदनुज्ञातया । प्रसाधितात्मा देवपादविरहदुःखदुर्भगान् भोगान् निर्विशन् भूयो ऽस्य पितृसखस्य सिम्हवर्मणो लेख्याच् चण्डवर्मणश् चम्पाभियोगम् अवगम्य ऽ शत्रुवधो मित्ररक्षा चोभयम् अपि करणीयम् एव ऽ इत्य् अलघुना लघुसमुत्थानेन सैन्यचक्रेण अभ्यसरम् । अभूवं च भूमिस् त्वत्पादलक्ष्मीसाक्षात्क्रियामहोत्सवानन्दराशेः ऽ इति । श्रुत्वैतद् देवो राजवाहनः सस्मितम् अवादीत् - ऽ पश्यत पारतल्पिकम् उपधियुक्तम् अपि गुरुजनबन्धव्यसनमुक्तिहेतुतया दुष्टा-मित्रप्रमापणाभ्युपायतया राज्योपलब्धिमूलतया च पुष्कलाव् अर्थधर्माव् अप्य् अरीरधत् । किं हि बुद्धिमत्प्रयुक्तं न अभ्युपैति शोभाम् ऽ इति । अर्थपालमुखे निधाय स्निग्धदीर्घां दृष्टिम् ऽ आचष्टां भवान् आत्मीयचरितम् ऽ इत्य् आदिदेश । सो ऽपि बद्धाञ्जलिर् अभिदधे -

p31990

सो ऽपि प्रणम्य विज्ञापयामास ऽ देव देवस्य अन्वेषणाय दिक्षु भ्रमन्न् अभ्रंकषस्य अपि विन्ध्यपार्श्वरूढस्य वनस्पतेर् अधः परिणतपतङ्गबालपल्लवावतम्सिते पश्चिमदिगङ्गनामुखे पल्वलाम्भस्य् उपस्पृश्योपास्य सन्ध्यां तमःसमीकृतेषु निम्नोन्नतेषु गन्तुम् अक्षमः क्षमातले किसलयैर् उपरचय्य शय्यां शिशयिषमाणः शिरसि कुर्वन्न् अञ्जलिम् ऽ या अस्मिन् वनस्पतौ वसति देवता सैव मे शरणम् अस्तु शरारुचक्रचारभीषणायां शर्वगलश्यामशार्वरान्धकारपूराध्मातगभीरगह्वरायाम् अस्यां महाटव्याम् एककस्य मे प्रसुप्तस्य ऽ इत्य् उपधाय वामभुजम् अशयिषि । ततः क्षणाद् एव अवनिदुर्लभेन स्पर्शेन असु खायिषत किम् आप गात्राणि आह्लादयिषतेन्द्रियाणि अभ्यमनायिष्ट च अन्तरात्मा विशेषतश् च हृषितास् तनूरुहाः पर्यस्फुरन् मे दक्षिणभुजः । ऽ कथं न्व् इदम् ऽ इति मन्दमन्दम् उन्मिषन्न् उपर्य् अच्छचन्द्रातपच्छेदकल्पं शुक्लाम्शुकवितानम् ऐक्षिषि । वामतो वलितदृष्टिः समया सौधभित्तिं चित्रास्तरणशायिनम् अतिविश्रब्धप्रसुप्तम् अङ्गनाजनम् अलक्षयम् । दक्षिणतो दत्तचक्षुर् आगलितस्तनाम्शुकाम् अमृतफेनपटलपाण्डुरशयनशायिनीम् आदिवराहदम्ष्ट्राम्शुजाललग्नाम् अम्सस्रस्तदुग्धसागरदुकूलोत्तरीयां भयसाध्वसमूर्छिताम् इव धरणीम् अरुणाधरकिरणबालकिसलयलास्यहेतुभिर् आननारविन्दपरिमलोद्वाहिभिर् निःश्वासमातरिश्वभिर् ईश्वरेक्षणदहनदग्धं स्फुलिङ्गशेषम् अनङ्गम् इव सन्धुक्षयन्तीम् अन्तःसुप्तषट्पदम् अम्बुजम् इव जातनिद्रं सरसम् आमीलितलोचनेन्दीवरम् आननं दधानाम् ऐरावतमदावलेपलूनापविद्धाम् इव नन्दनवनकल्पवृक्षरत्नवल्लरीम् काम् अपि तरुणीम् आलोकयम् । अतर्कयं च ऽ क्व गता सा महाटवी कुत इदम् ऊर्ध्वाण्डकपालसं पुटोदरोल्लेखि शक्तिध्वजशिखरशूलोत्सेधं सौधम् आगतम् क्व च तदरण्यस्थलीसमास्तीर्णं पल्लवशयनम् कुतस्त्यं चेदम् इन्दुगभस्तिसम्भारभासुरं हम्सतूलदुकूलशयनम् । एष च को नु शीतरश्मिकिरणरज्जुदोलापरिभ्रष्टमूर्छित इव अप्सरोगणः स्वैरसुप्तः सुन्दरीजनः का चेयं देवीव अरविन्दहस्ता शारदशशाङ्कमण्डलामलदुकूलोत्तरच्छदम् अधिशेते शयनतलम् । न तावद् एषा देवयोषा यतो मन्दमन्दम् इन्दुकिरणैः सम्वाह्यमाना कमलिनीव सङ्कुचति । भग्नवृन्तच्युतरसबिन्दुशबलितं पाकपाण्डुचूतफलम् इवोद्भिन्नस्वेदरेखम् आलक्ष्यते गण्डस्थलम् । अभिनवयौवनविदाहनिर्भरोष्मणि कुचतटे वैवर्ण्यम् उपैति वर्णकम् । वाससी च परिभोगानुरूपं धूसरिमाणम् आदर्शयतः । तद् एषा मानुष्य् एव । दिष्ट्या च अनुच्छिष्टयौवना यतः सौकुमार्यम् आगताः सम्हता इव अवयवाः प्रस्निग्धतमा अपि पाण्डुतानुविद्धेव देहच्छविः दन्तपीडानभिज्ञतया न अतिविशदरागो मुखे विद्रुमद्युतिर् अधरमणिः अनत्यापूर्णम् आरक्तमूलं चम्पककुड्मलदलम् इव कठोरं कपोलतलम् अनङ्गबाणपातमुक्ताशङ्कं च विश्रब्धमधुरं सुप्यते न चैतद्वक्षःस्थलं निर्दयविमर्दविस्तारितमुखस्तनयुगलम् अस्ति च अनति क्रान्तशिष्टमर्यादचेतसो मम अस्याम् आसक्तिः । आसक्त्यनुरूपं पुनर् आश्लिष्टा यदि स्पष्टम् आर्तरवेणैव सह निद्रां मोक्ष्यति । अथ अहं न शक्ष्यामि च अनुपश्लिष्य शयितुम् । अतो यद् भावि तद् भवतु । भाग्यम् अत्र परीक्षिष्ये । ऽ इति स्पृष्टा-स्पृष्टम् एव किम् अप्य् आविद्धरागसाध्वसं लक्ष्यसुप्तः स्थितो ऽस्मि । सा अपि किम् अप्य् उत्कम्पिना रोमोद्भेदवता वामपार्श्वेन सुखायमानेन मन्दमन्दजृम्भितकारम्भमन्थराङ्गी त्वङ्गदग्रपक्ष्मणोश् चक्षुषोर् अलसतान्ततारकेण अनतिपक्वनिद्राकषायितापाङ्गपरभागेण युगलेनेषद् उन्मिलन्ती त्रासविस्मयहर्षरागशङ्काविलासविभ्रमव्यवहितानि व्रीडान्तराणि कानि कान्य् अपि कामेन अद्भुतानुभावेन अवस्थान्तराणि कार्यमाणा परिजनप्रबोधनोद्यता गिरं कामावेगपरवशं हृदयम् अङ्गानि च साध्वसायाससम्बध्यमानस्वेदपुलकानि कथं कथम् अपि निगृह्य सस्पृहेण मधुरकूणितत्रिभागेण मन्दमन्दप्रचारितेन चक्षुषा मदङ्गानि निर्वर्ण्य दूरोत्सर्पितपूर्वकाया अपि तस्मिन्न् एव शयने सचकितम् अशयिष्ट । अजनिष्ट मे रागाविष्टचेतसो ऽपि किम् अपि निद्रा । पुनर् अननुकूलस्पर्शदुःखायत्तगात्रः प्राबुध्ये । प्रबुद्धस्य च मे सैव महाटवी तद् एव तरुतलं स एव पत्रास्तरो ऽभूत् । विभावरी च व्यभासीत् । अभूच् च मे मनसि ऽ किम् अयं स्वप्नः किं विप्रलम्भो वा किम् इयम् आसुरी दैवी वा का अपि माया । यद् भावि तद् भवतु । न अहम् इदं तत्वतो न अवबुध्य मोक्ष्यामि भूमिशय्याम् । यावदायुर् अत्रत्यायै देवतायै प्रतिशयितो भवामि ऽ इति निश्चितमतिर् अतिष्ठम् ।

p36348

अथाविर्भूय का अपि रविकराभितप्तकुवलयदामतान्ताङ्गयष्टिः क्लिष्टनिवसनोत्तरीया निरलक्तकरूक्षपाटलेन निःश्वासोष्मजर्जरितत्विषा दन्तच्छदेन वमन्तीव विरहानलम् अनवरतसलिलधाराविसर्जनाद् रुधिरावशेषम् इव लोहिततरं द्वितयम् अक्ष्णोर् उद्वहन्ती कुलचारित्रबन्धनपाशविभ्रमेणैकवेणीभूतेन केशपाशेन नीलाम्शुकचीरचूडिकापरिवृता पतिव्रतापताकेव सञ्चरन्ती क्षामक्षामा अपि देवतानुभावाद् अनतिक्षीणवर्णावकाशा सीमन्तिनी प्रणिपतन्तं मां प्रहर्षोत्कम्पितेन भुजलताद्वयेनोत्थाप्य पुत्रवत् परिष्वज्य शिरस्य् उपाघ्राय वात्सल्यम् इव स्तनयुगलेन स्तन्यच्छलात् प्रक्षरन्ती शिशिरेण अश्रुणा निरुद्धकण्ठी स्नेहगद्गदं व्याहार्षीत् - ऽ वत्स यदि वः कथितवती मगधराजमहिषी वसुमती मम हस्ते बालम् अर्थपालं निधाय कथां च काञ्चिद् आत्मभर्तृपुत्रसखीजनानुबद्धां राजराजप्रवर्तितां कृत्वा अन्तर्धानम् अगाद् आत्मजा मणिभद्रस्येति सा अहम् अस्मि वो जननी । पितुर् वो धर्मपालसूनोः सुमित्रानुजस्य कामपालस्य पादमूलान् निष्कारणकोपकलुषिताशया प्रोष्य अनुशयविधुरा स्वप्ने केन अपि रक्षोरूपेणोपेत्य शप्ता अस्मि - ऽ चण्डिकायां त्वयि वर्षमात्रं वसामि प्रवासदुःखाय ऽ इति ब्रुवतैव अहम् आविष्टा प्राबुध्ये । गतं च तद् वर्षं वर्षसहस्रदीर्घम् । अतीतायां तु यामिन्यां देवदेवस्य त्र्यम्बकस्य श्रावस्त्याम् उत्सवसमाजम् अनुभूय बन्धुजनं च स्थानस्थानेभ्यः सम्निपतितम् अभिसमीक्ष्य मुक्तशापा पत्युः पार्श्वम् अभिसरामीति प्रस्थितायाम् एव मयि त्वम् अत्र अभ्युपेत्य ऽ प्रपन्नो अस्मि शरणम् इहत्यां देवताम् ऽ इति प्रसुप्तोअसि । एवं शापदुःखाविष्टया तु मया तदा न तत्वतः परिच्छिन्नो भवान् । अपि तु शरणागतम् अविरलप्रमादायाम् अस्यां महाटव्याम् अयुक्तं परित्यज्य गन्तुम् इति मया त्वम् अपि स्वपन्न् एव असि नीतः । प्रत्यासन्ने च तस्मिन् देवगृहे पुनर् अचिन्तयम् - ऽ कथम् इह तरुणेन अनेन सह समाजं गमिष्यामि ऽ इति । अथ राज्ञः श्रावस्तीश्वरस्य यथार्थनाम्नो धर्मवर्धनस्य कन्यां नवमालिकां घर्मकालसुभगे कन्यापुरविमानहर्म्यतले विशालकोमलं शय्यातलम् अधिशयानां यदृच्छयोपलभ्य ऽ दिष्ट्येयं सुप्ता परिजनश् च गाढनिद्रः । शेताम् अयम् अत्र मुहूर्तमात्रं ब्राह्मणकुमारो यावत् कृतकृत्या निवर्तेय ऽ इति त्वां तत्र शाययित्वा तम् उद्देशम् अगमम् । दृष्ट्वा चोत्सवश्रियम् निर्विश्य च स्वजनदर्शनसुखम् अभिवाद्य च त्रिभुवनेश्वरम् आत्मालीकप्रत्याकलनोपारूढसाध्वसं च नमस्कृत्य भक्तिप्रणतहृदया भगवतीम् अम्बिकां तया गिरिदुहित्रा देव्या सस्मितम् ऽ अयि भद्रे मा भैषीः । भवेदानीं भर्तृपार्श्वगामिनी । गतस् ते शापः इत्य् अनुगृहीता सद्य एव प्रत्यापन्नमहिमा प्रतिनिवृत्य दृष्ट्वैव त्वां यथावद् अभ्यजानाम् ऽ कथं मत्सुत एव अयं वत्सस्य अर्थपालस्य प्राणभूतः सखा प्रमतिर् इति । पापया मया अस्मिन्न् अज्ञानाद् औदासीन्यम् आचरितम् अपि च अयम् अस्याम् आसक्तभावः । कन्या चैनं कामयते युवानम् । उभौ चेमौ लक्ष्यसुप्तौ त्रपया साध्वसेन वा अन्योअन्यम् आत्मानं न विवृण्वाते । गन्तव्यं च मया । कामाघ्रातया अप्य् अनया कन्यया रहस्यरक्षणाय न समाभाषितः सखीजनः परिजनो वा । नयामि तावत् कुमारम् । पुनर् अपीमम् अर्थं लब्धलक्षो यथोपपन्नैर् उपायैः साधयिष्यति ऽ इति मत्प्रभावप्रस्वापितं भवन्तम् एतद् एव पत्रशयनम् प्रत्यनैषम् । एवम् इदं वृत्तम् । एषा च अहं पितुस् ते पादमूलं प्रत्युपसर्पेयम् ऽ इति प्राञ्जलिं मां भूयो भूयः परिष्वज्य शिरस्य् उपाघ्राय कपोलयोश् चुम्बित्वा स्नेहविह्वला गतासीत् ।

p39726

अहं च पञ्चबाणवश्यः श्रावस्तीम् अभ्यवर्तिषि । मार्गे च महति निगमे नैगमानां ताम्रचूडयुद्धकोलाहलो महान् आसीत् । अहं च तत्र सम्निहितः किञ्चिद् अस्मेषि । सम्निधिनिषण्णस् तु मे वृद्धविटः को ऽपि ब्राह्मणः शनैः स्मितहेतुम् अपृच्छत् । अब्रवं च ऽ कथम् इव नारिकेलजातेः प्राच्यवाटकुक्कुटस्य प्रतीच्यवाटः पुरुषैर् असमीक्ष्य बलाकाजातिस् ताम्रचूडो बलप्रमाणाधिकस्यैव प्रतिविसृष्टः इति । सो ऽपि तज्ज्ञः ऽ किम् अज्ञैर् एभिर् व्युत्पादितैः । तूष्णीम् आस्स्व ऽ इत्य् उपहस्तिकायास् ताम्बूलं कर्पूरसहितम् उद्धृत्य मह्यं दत्वा चित्राः कथाः कथयन् क्षणम् अतिष्ठत् । प्रायुध्यत च अतिसम्रब्धम् अनुप्रहारप्रवृत्तस्वपक्षमुक्तकण्ठीरवरवं विहङ्गमद्वयम् । जितश् च असौ प्रतीच्यवाटकुक्कुटः । सो ऽपि विटब्राह्मणः स्ववाटकुक्कुटविजयहृष्टो मयि वयोविरुद्धं सख्यम् उपेत्य तदहः स्वगृहए एव स्नानभोजनादि कारयित्वोत्तरेद्युः श्रावस्तीं प्रति यान्तं माम् अनुगम्य ऽ स्मर्तव्यो ऽसि सत्य् अर्थे इति मित्रवद् विसृज्य प्रत्ययासीत् ।

p40733

अहं च गत्वा श्रावस्तीम् अध्वश्रान्तो बाह्योद्याने लतामण्डपे शयितो ऽस्मि । हम्सकरवप्रबोधितश् चोत्थाय काम् अपि क्वणितनूपुरमुखराभ्यां चरणाभ्यां मदन्तिकम् उपसरन्तीं युवतीम् अद्राक्षम् । सा त्व् आगत्य स्वहस्तवर्तिनि चित्रपटे लिखितं मत्सदृशं किम् अपि पुंरूपं मां च पर्यायेण निर्वर्णयन्ती सविस्मयं सवितर्कं सहर्षं च क्षणम् अवातिष्ठत । मया अपि तत्र चित्रपटे मत्सादृश्यं पश्यता तद्दृष्टिचेष्टितम् अनाकस्मिकं मन्यमानेन ऽ ननु सर्वसाधारणो ऽयं रमणीयः पुण्यारामभूमिभागः । किम् इति चिरस्थितिक्लेशोअनुभूयते । ननूपवेष्टव्यम् ऽ इत्य् अभिहिता सा सस्मितम् ऽ अनुगृहीता अस्मि ऽ इति न्यषीदत् । सङ्कथा च देशवार्तानुबद्धा काचनावयोर् अभूत् । कथासम्श्रिता च सा ऽ देशातिथिर् असि । दृश्यन्ते च ते ऽध्वश्रान्तानीव गात्राणि । यदि न दोषो मद्गृहे ऽद्य विश्रमितुम् अनुग्रहः क्रियताम् ऽ इत्य् अशम्सत् । अहं च ऽ अयि मुग्धे नैष दोषो गुण एव ऽ इति तदनुमार्गगामी तद्गृहगतो राजार्हेण स्नानभोजनादिनोपचरितः सुखं निषण्णो रहसि पर्यपृच्छ्ये - ऽ महाभाग दिगन्तराणि भ्रमता कच्चिद् अस्ति किञ्चिद् अद्भुतं भवतोपलब्धम् ऽ इति । मम अभवन् मनसि - ऽ महद् इदम् आशास्पदम् । एषा खलु निखिलपरिजनसम्बाधसम्लक्षितायाः सखी राजदारिकायाः चित्रपटे च अस्मिन्न् अपि तदुपरिविरचितसितवितानं हर्म्यतलम् तद्गतं च प्रकामविस्तीर्णं शरदभ्रपटलपाण्डुरं शयनम् तदधिशायिनी च निद्रालीढलोचना ममैवेयं प्रतिकृतिः । अतो नूनम् अनङ्गेन सा अपि राजकन्या तावतीं भूमिम् आरोपिता यस्याम् असह्यमदनज्वरव्यथितोन्मादिता सती सखीनिर्बन्धपृष्टविक्रियानिमित्ता चातुर्येणैतद्रूपनिर्माणेनैव समर्थम् उत्तरं दत्तवती । रूपसम्वादाच् च सम्शयानया अनया पृष्टो भिन्द्याम् अस्याः सम्शयं यथानुभवकथनेन ऽ इति जातनिश्चयो ऽब्रवम् - ऽ भद्रे देहि चित्रपटम् ऽ इति । सा त्व् अर्पितवती मद्धस्ते । पुनस् तम् आदाय ताम् अपि व्याजसुप्ताम् उल्लसन्मदनरागविह्वलां वल्लभाम् एकत्रैव अभिलिख्य ऽ काचिद् एवंभूता युवतिर् ईदृशस्य पुम्सः पार्श्वशायिन्य् अरण्यानीप्रसुप्तेन मयोपलब्धा । किलैष स्वप्नः ऽ इत्य् आलपं च । हृष्टया तु तया विस्तरतः पृष्टः सर्वम् एव वृत्तान्तम् अकथयम् । असौ च सख्या मन्निमित्तान्य् अवस्थान्तराण्य् अवर्णयत् । तद् आकर्ण्य च ऽ यदि तव सख्या मदनुग्रहोन्मुखं मानसम् गमय कानिचिद् अहानि । कम् अपि कन्यापुरे निराशङ्कनिवासकरणम् उपायम् आरचय्यागमिष्यामि ऽ इति कथञ्चिद् एनाम् अभ्युपगमय्य गत्वा तद् एव खर्वटं वृद्धविटेन समगंसि ।

p43178

सो ऽपि ससम्भ्रमं विश्रमय्य तथैव स्नानभोजनादि कारयित्वा रहस्य् अपृच्छत् - ऽ आर्य कस्य हेतोर् अचिरेणैव प्रत्यागतो ऽसि । ऽ प्रत्यवादिषम् एनम् ऽ स्थानए एव अहम् आर्येण अस्मि पृष्टः । श्रूयताम् । अस्ति हि श्रावस्ती नाम नगरी । तस्याः पतिर् अपर इव धर्मपुत्रो धर्मवर्धनो नाम राजा । तस्य दुहिता प्रत्यादेश इव श्रियः प्राणा इव कुसुमधन्वनः सौकुमार्यविडम्बितनवमालिका वनमालिका नाम कन्या । सा मया समापत्तिदृष्टा कामनाराचपङ्क्तिम् इव कटाक्षमालां मम मर्मणि व्यकिरत् । तच्छल्योद्धरणक्षमश् च धन्वन्तरिसदृशस् त्वद् ऋते नेतरो ऽस्ति वैद्य इति प्रत्यागतो ऽस्मि । तत् प्रसीद कञ्चिद् उपायम् आचरितुम् । अयम् अहं परिवर्तितस्त्रीवेषस् ते कन्या नाम भवेयम् । अनुगतश् च मया त्वम् उपगम्य धर्मासनगतं धर्मवर्धनं वक्ष्यसि - ऽ ममेयम् एकैव दुहिता । जातमात्रायां त्व् अस्यां जनन्य् अस्याः संस्थिता । माता च पिता च भूत्वा अहम् एव व्यवर्धयम् । एतदर्थम् एव विद्यामयं शुल्कम् अर्जितुं गतो अभूद् अवन्तिनगरीम् उज्जयिनीम् अस्मद्वैवाह्यकुलजः को ऽपि विप्रदारकः । तस्मै चेयम् अनुमता दातुम् इतरस्मै न योग्या । तरुणी भूता चेयम् । स च विलम्बितः । तेन तम् आनीय पाणिम् अस्या ग्राहयित्वा तस्मिन् न्यस्तभारः सम्न्यसिष्ये । दुरभिरक्षतया तु दुहित्र्णां मुक्तशैशवानां विशेषतश् च अमातृकाणाम् इह देवं मातृपितृस्थानीयं प्रजानाम् आपन्नशरणम् आगतो ऽस्मि । यदि वृद्धं ब्राह्मणम् अधीतिनम् अगतिम् अतिथिं च माम् अनुग्राह्यपक्षे गणयत्य् आदिराजचरितधुर्यो देवः सैषा भवद्भुजच्छायाम् अखण्डितचारित्रा तावद् अध्यास्तां यावद् अस्याः पाणिग्राहकम् आनयेयम् ऽ इति । स एवम् उक्तो नियतम् अभिमनायमानः स्वदुहितृसम्निधौ मां वासयिष्यति । गतस् तु भवान् आगामिनि मासि फाल्गुने फल्गुनीषूत्तरासु भाविनि राजान्तःपुरजनस्य तीर्थयात्रोत्सवे तीर्थस्नानात् प्राच्यां दिशि गोरुतान्तरम् अतिक्रम्य वानीरवलयमध्यवर्तिनि कार्त्तिकेयगृहे करतलगतेन शुक्लाम्बरयुगलेन स्थास्यसि । स खल्व् अहम् अनभिशङ्क एवैतावन्तं कालं सह अभिविहृत्य राजकन्यया भूयस् तस्मिन्न् उत्सवे गङ्गाम्भसि विहरन् विहारव्याकुले कन्यकासमाजे मग्नोपसृतस् त्वदभ्यासए एवोन्मङ्क्ष्यामि । पुनस् त्वदुपहृते वाससी परिधाय अपनीतदारिकावेषो जामाता नाम भूत्वा त्वाम् एव अनुगच्छेयम् । नृपात्मजा तु माम् इतस्ततो ऽन्विष्य अनासादयन्ती ऽ तया विना न भोक्ष्ये ऽ इति रुदत्य् एव अवरोधने स्थास्यति । तन्मूले च महति कोलाहले क्रन्दत्सु परिजनेषु रुदत्सु सखीजनेषु शोचत्सु पौरजनेषु किङ्कर्तव्यतामूढे सामात्ये पार्थिवे त्वम् आस्थानीम् एत्य मां स्थापयित्वा वक्ष्यसि ऽ देव स एष मे जामाता तव अर्हति श्रीभुजाराधनम् । अधीती चतुर्ष्व् आम्नायेषु गृहीती षट्स्व् अङ्गेषु आन्वीक्षिकीविचक्षणः चतुःषष्टिकलागमप्रयोगचतुरः विशेषेण गजरथतुरङ्गतन्त्रवित् इष्वसनास्त्रकर्मणि गदायुद्धे च निरुपमः पुराणेतिहासकुशलः कर्ता काव्यनाटकाख्यायिकानाम् वेत्ता सोपनिषदो ऽर्थशास्त्रस्य निर्मत्सरो गुणेषु विश्रम्भी सुहृत्सु शक्यः सम्विभागशीलः श्रुतधरो गतस्मयश् च । न अस्य दोषम् अणीयांसम् अप्य् उपलभे । न च गुणेष्व् अविद्यमानम् । तन् मादृशस्य ब्राह्मणमात्रस्य न लभ्य एष सम्बन्धी । दुहितरम् अस्मै समर्प्य वार्द्धकोचितम् अन्त्यम् आश्रमं सङ्क्रमेयम् यदि देवः साधु मन्यते ऽ इति । स इदम् आकर्ण्य वैवर्ण्याक्रान्तवक्त्रः परम् उपेतो वैलक्ष्यम् आरप्स्यते ऽनुनेतुम् अनित्यतादिसङ्कीर्तनेन अत्रभवन्तं मन्त्रिभिः सह । त्वं तु तेषाम् अदत्तश्रोत्रो मुक्तकण्ठं रुदित्वा चिरस्य बाष्पकुण्ठकण्ठः काष्ठान्य् आहृत्य अग्निं सन्धुक्ष्य राजमन्दिरद्वारे चिताधिरोहणायोपक्रमिष्यसे । स तावद् एव त्वत्पादयोर् निपत्य सामात्यो नरपतिर् अनूनैर् अर्थैस् त्वाम् उपच्छन्द्य दुहितरं मह्यं दत्वा मद्योग्यतासमाराधितः समस्तम् एव राज्यभारं मयि समर्पयिष्यति । सो ऽयम् अभ्युपायो ऽनुष्ठेयः यदि तुभ्यं रोचते ऽ इति । सो ऽपि पटुविटानाम् अग्रणीर् असकृदभ्यस्तकपटप्रपञ्चः पाञ्चालशर्मा यथोक्तम् अभ्यधिकं च निपुणम् उपक्रान्तवान् । आसीच् च मम समीहितानाम् अहीनकालसिद्धिः । अन्वभवं च मधुकर इव नवमालिकाम् आर्द्रसुमनसम् । अस्य राज्ञः सिम्हवर्मणः साहाय्यदानं सुहृत्सङ्केतभूमिगमनम् इत्य् उभयम् अपेक्ष्य सर्वबलसन्दोहेन चम्पाम् इमाम् उपगतो दैवाद् देवदर्शनसुखम् अनुभवामि ऽ इति । श्रुत्वैतत्प्रमतिचरितं स्मितमुकुलितमुखनलिनः ऽ विलासप्रायम् ऊर्जितम् मृदुप्रायं चेष्टितम् इष्ट एष मार्गः प्रज्ञावताम् । अथेदानीम् अत्र भवान् प्रविशतु इति मित्रगुप्तम् ऐक्षत क्षितीशपुत्रः ।

p47669

सो ऽप्य् आचचक्षे - ऽ देव सो ऽहम् अपि सुहृत्साधारणभ्रमणकारणः सुह्मेषु दामलिप्ताह्वयस्य नगरस्य बाह्योद्याने महान्तम् उत्सवसमाजम् आलोकयम् । तत्र क्वचिद् अतिमुक्तलतामण्डपे कम्=अपि वीणावादेनात्मानं विनोदयन्तम् उत्कण्ठितं युवानम् अद्राक्षम् । अप्रा क्षं च - ऽ भद्र को नाम अयम् उत्सवः किम् अर्थं वा समारब्धः केन वा निमित्तेनोत्सवम् अनादृत्यैकान्ते भवान् उत्कण्ठित इव परिवादिनीद्वितीयस् तिष्ठति ऽ इति । सो ऽभ्यधत्त ऽ सौम्य सुह्मपतिस् तुङ्गधन्वा नाम अनपत्यः प्रार्थितवान् अमुष्मिन्न् आयतने विस्मृतविन्ध्यवासरागं वसन्त्या विन्ध्यवासिन्याः पादमूलाद् अपत्यद्वयम् । अनया च किल अस्मै प्रतिशयिताय स्वप्ने समादिष्टम् - ऽ समुत्पत्स्यते तवैकः पुत्रः जनिष्यते चैका दुहिता । स तु तस्याः पाणिग्राहकम् अनुजीविष्यति । सा तु सप्तमाद् वर्षाद् आरभ्यापरिणयनात् प्रतिमासं कृत्तिकासु कन्दुकनृत्येन गुणवद्भर्तृलाभाय मां समाराधयतु । यं च अभिलषेत् सा अमुष्मै देया । स चोत्सवः कन्दुकोत्सवनामा अस्तु ऽ इति । ततो ऽल्पीयसा कालेन राज्ञः प्रियमहिषी मेदिनी नामैकं पुत्रम् असूत । समुत्पन्ना चैका दुहिता । सा अद्य कन्या कन्दुकावती नाम सोमापीडां देवीं कन्दुकविहारेणाराधयितुम् आगमिष्यति । तस्यास् तु सखी चन्द्रसेना नाम धात्रेयिका मम प्रियासीत् । सा चैषु दिवसेषु राजपुत्रेण भीमधन्वना बलवद् अनुरुद्धा । तद् अहम् उत्कण्ठितो मन्मथशरशल्यदुःखोद्विग्नचेताः कलेन वीणारवेणात्मानं किञ्=चिद् आश्वासयन् विविक्तम् अध्यासे इति । अस्मिन्न् एव क्षणे किम् अपि नूपुरक्वणितम् उपातिष्ठत् । आगता च काचिद् अङ्गना । दृष्ट्वैव स एनाम् उत्फुल्लदृष्टिर् उत्थायोपगूह्य गाढम् उपगूढकण्ठश् च तया तत्रैवोपाविशत् । अशम्सच् च - ऽ सैषा मे प्राणसमा यद्विरहो दहन इव दहति माम् । इदं च मे जीवितम् अपहरता राजपुत्रेण मृत्युनेव निरुष्मतां नीतः । न च शक्ष्यामि राजसूनुर् इत्य् अमुष्मिन् पापम् आचरितुम् । अतो ऽनयात्मानं सुदृष्टं कारयित्वा त्यक्ष्यामि निष्प्रतिक्रियान् प्राणान् ऽ इति । सा तु पर्यश्रुमुखी समभ्यधात् - ऽ मा स्म नाथ मत्कृते ऽध्यवस्यः साहसम् । यस् त्वम् उत्तमात् सार्थवाहाद् अर्थदासाद् उत्पद्य कोशदास इति गुरुभिर् अभिहितनामधेयः पुनर् मदत्यासङ्गाद् वेशदास इति द्विषद्भिः प्रख्यापितो ऽसि तस्मिम्स् त्वय्य् उपरते यद्य् अहं जीवेयं नृशम्सो वेश इति समर्थयेयं लोकवादम् । अतो ऽद्यैव नय माम् ईप्सितं देशम् ऽ इति । स तु माम् अभ्यधत्त - ऽ भद्र भवद्दृष्टेषु राष्ट्रेषु कतमत् समृद्धं सम्पन्नसस्यं सत्पुरुषभूयिष्ठं च ऽ इति । तम् अहम् ईषद्विहस्य अब्रवम् - ऽ भद्र विस्तीर्णेयम् अर्णवाम्बरा । न पर्यन्तो ऽस्ति स्थानस्थानेषु रम्याणाम् जनपदानाम् । अपि तु न चेद् इह युवयोः सुखनिवासकारणं कम्=अप्य् उपायम् उत्पादयितुं शक्नुयां ततो ऽहम् एव भवेयम् अध्वदर्शी इति । तावतोदैरत रणितानि मणिनूपुराणाम् । अथ असौ जातसम्भ्रमा ऽ प्राप्तैवेयं भर्तृदारिका कन्दुकावती कन्दुकक्रीडितेन देवीं विन्ध्यवासिनीम् आराधयितुम् । अनिषिद्धदर्शना चेयम् अस्मिन् कन्दुकोत्सवे । सफलम् अस्तु युष्मच्चक्षुः । आगच्छतं द्रष्टुम् । अहम् अस्याः सकाशवर्तिनी भवेयम् ऽ इत्य् अयासीत् । ताम् अन्वयाव चावाम् । महति रत्नरङ्गपीठे स्थितां प्रथमं ताम्रौष्ठीम् अपश्यम् । अतिष्ठच् च सा सद्य एव मम हृदये । न मया अन्येन वा अन्तराले दृष्टा । चित्रीयाविष्टचित् तश् च अचिन्तयम् - ऽ किम् इयं लक्ष्मीः । न हि न हि । तस्याः किल हस्ते विन्यस्तं कमलम् अस्यास् तु हस्त एव कमलम् । भुक्तपूर्वा तु सा पुरातनेन पुम्सा पूर्वराजैश् च अस्याः पुनर् अनवद्यम् अयातयामं च यौवनम् ऽ इति चिन्तयत्य् एव मयि सा अनघसर्वगात्री व्यत्यस्तहस्तपल्लवाग्रस्पृष्टभूमिर् आलोलनीलकुटिलालका सविभ्रमं भगवतीम् अभिवन्द्य कन्दुकम् अमन्दरागरूषिताक्षम् अनङ्गम् इवालम्बत । लीलाशिथिलं च भूमौ मुक्तवती । मन्दोत्थितं च किञ्=चित्कुञ्चिताङ्गुष्ठेन प्रसृतकोमलाङ्गुलिना पाणिपल्लवेन समाहत्य हस्तपृष्ठेन चोन्नीय चटुलदृष्टिलाञ्छितं स्तबकम् इव भ्रमरमालानुविद्धम् अवपतन्तम् आकाशए एव अग्रहीत् । अमुञ्चच् च । मध्यविलम्बितलये द्रुतलये मृदुमृदु च प्रहरन्ती तत्क्षणं चूर्णपदम् अदर्शयत् । प्रशान्तं च तं निर्दयप्रहारैर् उदपादयत् । विपर्ययेण च प्राशमयत् । पक्षम् ऋज्वागतं च वामदक्षिणाभ्यां कराभ्यां पर्यायेण अभिघ्नती शकुन्तम् इवोदस्थापयत् । दूरोत्थितं च प्रपतन्तम् आहत्य गीतमार्गम् आरचयत् । प्रतिदिशं च गमयित्वा प्रत्यागमयत् । एवम् अनेककरणमधुरं विहरन्ती रङ्गगतस्य रक्तचेतसो जनस्य प्रतिक्षणम् उच्चावचाः प्रशम्सावाचः प्रतिगृह्णती तत्क्षणारूढविश्रम्भं कोशदासम् अम्से अवलम्ब्य कण्टकितगण्डम् उत्फुल्लेक्षणं च मय्य् अभिमुखीभूय तिष्ठति तत्प्रथमावतीर्णकन्दर्पकारितकटाक्षदृष्टिस् तदनुमार्गविलसितलीलाञ्चितभ्रूलता श्वासानिलवेगान्दोलितैर् दन्तच्छदरश्मिजालैर् लीलापल्लवैर् इव मुखकमलपरिमलग्रहणलोलान् आलिनस् ताडयन्ती मण्डलभ्रमणेषु कन्दुकस्य अतिशीघ्रप्रचारितया विशन्तीव मद्दर्शनलज्जया पुष्पमयं पञ्जरम् पञ्चबिन्दुप्रसृतेषु पञ्च अपि पञ्चबाणबाणान् युगपद् इव अभिपततस् त्रासेन अवघट्टयन्ती गोमूत्रिकाप्रचारेषु घनदर्शितरागविभ्रमा विद्युल्लताम् इव विडम्बयन्ती भूषणमणिरणितदत्तलयसम्वादिपादचारम् अपदेशस्मितप्रभानिषिक्तबिम्बाधरम् अपस्रम्सितप्रतिसमाहितशिखण्डभारम् समाघट्टितक्वणितरत्नमेखलागुणम् अञ्चितोत्थितपृथुनितम्बलम्बिविचलदम्शुकोज्ज्वलम् आकुञ्चितप्रसृतवेल्लितभुजलताभिहतललितकन्दुकम् आवर्जितबाहुपाशम् परिवर्तितत्रिकविलग्नलोलकुन्तलम् अवगलितकर्णपूरकनकपत्रप्रति समाधानशीघ्रतानतिक्रमितप्रकृतक्रीडम् असकृदुत्क्षिप्यमाणहस्तपादबाह्याभ्यन्तरभ्रान्तकन्दुकम् अवनमनोन्नमननैरन्तर्यनष्टदृष्टमध्ययष्टिकम् अवपतनोत्पतनविपर्यस्तमुक्ताहारम् अङ्कुरितघर्मसलिलदूषितकपोलपत्रभङ्गशोषणाधिकृतश्रवणपल्लवानि लम् आगलितस्तनतटाम्शुकनियमनव्यापृतैकपाणिपल्लवं च निषद्योत्थाय निमील्योन्मील्य स्थित्वा गत्वा चैव अतिचित्रं पर्यक्रीडत राजकन्या । अभिहत्य भूतलाकाशयोर् अपि क्रीडान्तराणि दर्शनीयान्य् एकेनैव अनेकेनेव कन्दुकेन अदर्शयत् । चन्द्रसेनादिभिश् च प्रियसखीभिः सह विहृत्य विहृतान्ते च अभिवन्द्य देवीं मनसा मे सानुरागेणेव परिजनेन च अनुगम्यमाना कुवलयशरम् इव कुसुमशरस्य मय्य् अपाङ्गं समर्पयन्ती सापदेशम् असकृदावर्त्यमानवदनचन्द्रमण्डलतया स्वहृदयम् इव मत्समीपे प्रेरितं प्रतिनिवृत्तं न वेत्य् आलोकयन्ती सह सखीभिः कुमारीपुरम् अगमत् ।

p53897

अहं च अनङ्गविह्वलः स्ववेश्म गत्वा कोशदासेन यत्नवद् अत्युदारं स्नानभोजनादिकम् अनुभावितो ऽस्मि । सायं चोपसृत्य चन्द्रसेना रहसि मां प्रणिपत्य पत्युर् अम्सम् अम्सेन प्रणयपेशलम् आघट्टयन्त्य् उपादिशत् । आचष्ट च हृष्टः कोशदासः - ऽ भूयासम् एवम् यावदायुर् आयताक्षि त्वत्प्रसादस्य पात्रम् इति । मया तु सस्मितम् अभिहितम् - ऽ सखे किम् एतद् आशास्यम् । अस्ति किञ्=चिद् अञ्जनम् । अनया तदक्तनेत्रया राजसूनुर् उपस्थितो वानरीम् इवैनां द्रक्ष्यति विरक्तश् चैनां पुनस् त्यक्ष्यति ऽ इति । तया तु स्मेरया अस्मि कथितः - ऽ सो ऽयम् आर्येणाज्ञाकरो जनो ऽत्यर्थम् अनुगृहीतः यद् अस्मिन्न् एव जन्मनि मानुषं वपुर् अपनीय वानरीकरिष्यते । तद् आस्ताम् इदम् । अन्यथा अपि सिद्धं नः समीहितम् । अद्य खलु कन्दुकोत्सवे भवन्तम् अवहसितमनोभवाकारम् अभिलषन्ती रोषाद् इव शम्बरद्विषा अतिमात्रम् आयास्यते राजपुत्री । सो ऽयम् अर्थो विदितभावया मया स्वमात्रे तया च तन्मात्रे महिष्या च मनुजेन्द्राय निवेदयिष्यते । विदितार्थस् तु पार्थिवस् त्वया दुहितुः पाणिं ग्राहयिष्यति । ततश् च त्वदनुजीविना राजपुत्रेण भवितव्यम् । एष हि देवतासमादिष्टो विधिः । त्वदायत्ते च राज्ये न अलम् एव त्वाम् अतिक्रम्य माम् अवरोद्धुम् भीमधन्वा । तत् सहताम् अयं त्रिचतुराणि दिनानि । ऽ इति माम् आमन्त्र्य प्रियं चोपगूह्य प्रत्ययासीत् । मम कोशदासस्य च तदुक्तानुसारेण बहु विकल्पयतोः कथञ्=चिद् अक्षीयत क्षपा । क्षपान्ते च कृतयथोचितनियमस् तम् एव प्रियादर्शनसुभगम् उद्यानोद्देशम् उपगतो ऽस्मि । तत्रैव चोपसृत्य राजपुत्रो निरभिमानम् अनुकूलाभिः कथाभिर् माम् अनुवर्तमानो मुहूर्तम् आस्त । नीत्वा चोपकार्याम् आत्मसमेन स्नानभोजनशयनादिव्यतिकरेणोपाचरत् । तल्पगतं च स्वप्नेन अनुभूयमानप्रियादर्शनालिङ्गनसुखम् आयसेन निगडेन अतिबलवद्बहुपुरुषैः पीवरभुजदण्डोपरुद्धम् अबन्धयन् माम् । प्रतिबुद्धं च सहसा समभ्यधात् - ऽ अयि दुर्मते श्रुतम् आलपितं हतायाश् चन्द्रसेनाया जालरन्ध्रनिःसृतं तदेकावबोधप्रयुक्तया अनया कुब्जया । त्वं किल अभिलषितो वराक्या कन्दुकवत्या तव किल अनुजीविना मया स्थेयम् त्वद्वचः किल अनतिक्रमता मया चन्द्रसेना कोशदासाय दास्यते इत्य् उक्त्वा पार्श्वचरं पुरुषम् एकम् आलोक्य अकथयत् - ऽ प्रक्षिपैनं सागरे ऽ इति । स तु लब्धराज्य इव अतिहृष्टः ऽ देव यद् आज्ञापयसि ऽ इति यथादिष्टम् अकरोत् । अहं तु निरालम्बनो भुजाभ्याम् इतस्ततः स्पन्दमानः किम्=अपि काष्ठं दैवदत्तम् उरसोपश्लिष्य तावद् अप्लोषि यावद् अपासरद् वासरः शर्वरी च सर्वा । प्रत्युषस्य् अदृश्यत किम्=अपि वहित्रम् । अमुत्रासन् यवनाः । ते माम् उद्धृत्य रामेषुनाम्ने नाविकनायकाय कथितवन्तः - ऽ को ऽप्य् अयम् आयसनिगडबद्ध एव जले लब्धः पुरुषः । सो ऽयम् अपि सिञ्चेत् सहस्रं द्राक्षाणां क्षणेनैकेन इति । अस्मिन्न् एव क्षणे नैकनौकापरिवृतः को ऽपि मद्गुर् अभ्यधावत् । अबिभयुर् यवनाः । तावद् अतिजवा नौकाः श्वान इव वराहम् अस्मत्पोतं पर्यरुत्सत । प्रावर्तत च सम्प्रहारः । पराजायिषत यवनाः । तान् अहम् अगतीन् अवसीदतः समाश्वास्य अलपिषम् - ऽ अपनयत मे निगडबन्धनम् । अयम् अहम् अवसादयामि वः सपत्नान् ऽ इति । अमी तथा अकुर्वन् । सर्वाम्श् च तान् प्रतिभटान् भल्लवर्षिणा भीमटङ्कृतेन शार्ङ्गेण लवलवीकृताङ्गान् अकार्षम् । अवप्लुत्य हतविध्वस्तयोधम् अस्मत्पोतसम्सक्तपोतम् अमुत्र नाविकनायकम् अनभिसरम् अभिपत्य जीवग्राहम् अग्रहीषम् । असौ चासीत् स एव भीमधन्वा । तं च अहम् अवबुध्य जातव्रीडम् अब्रवम् - ऽ तात किं दृष्टानि कृतान्तविलसितानि ऽ इति । ते तु साम्यात्रिका मदीयेनैव शृङ्खलेन तम् अतिगाढं बद्ध्वा हर्षकिलकिलारवम् अकुर्वन् मां च अप्य् अपूजयन् । दुर्वारा तु सा नौर् अननुकालवातनुन्ना दूरम् अभिपत्य कम् अपि द्वीपं निबिडम् आश्लिष्टवती । तत्र च स्वादु पानीयम् एधाम्सि कन्दमूलफलानि च सञ्जिघृक्षवो गाढपातितशिलावलयम् अवातराम । तत्र चासीन् महाशैलः । सो ऽहम् - ऽ अहो रमणीयो ऽयं पर्वतनितम्बभागः कान्ततरेयं गन्धपाषाणवत्य् उपत्यका शिशिरम् इदम् इन्दीवरारविन्दमकरन्दबिन्दुचन्द्रकोत्तरं गोत्रवारि रम्यो ऽयम् अनेकवर्णकुसुममञ्जरीमञ्जुलतरस् तरुवनाभोगः इत्य् अतृप्ततरया दृशा बहु बहु पश्यन्न् अलक्षिताध्यारूढक्षोणीधरशिखरः शोणीभूतम् उत्प्रभाभिः पद्मरागसोपानशिलाभिः किम् अपि नालीकपरागधूसरं सरः समध्यगमम् । तत्र स्नातश् च काम्श्=चिद् अमृतस्वादून् बिसभङ्गान् आस्वाद्य अम्सलग्नकल्हारस् तारवर्तिना केन अपि भीमरूपेण ब्रह्मराक्षसेन अभिपत्य ऽ को ऽसि कुतस्त्यो ऽसि ऽ इति निर्भर्त्सयता अभ्यधीये । निर्भयेन च मया सो ऽभ्यधीयत - ऽ सौम्य सो अहम् अस्मि द्विजन्मा । शत्रुहस्ताद् अर्णवम् अर्णवाद् यवननावम् यवननावश् चित्रग्रावाणम् एनं पर्वतप्रवरं गतो यदृच्छया अस्मिन् सरसि विश्रान्तः । भद्रं तव ऽ इति । सो ऽब्रूत - ऽ न चेद् ब्रवीषि प्रश्नान् अश्नामि त्वाम् ऽ इति । मयोक्तम् - ऽ पृच्छा तावद् भवतु ऽ इति । अथावयोर् एकयार्ययासीत् सम्लापः - किं क्रूरं स्त्रीहृदयं किं गृहिणः प्रियहिताय दारगुणाः । कः कामः सङ्कल्पः किं दुष्करसाधनं प्रज्ञा ॥ ऽ तत्र धूमिनीगोमिनीनिम्बवतीनितम्बवत्यः प्रमाणम् । ऽ इत्य् उपदिष्टो मया सो ऽब्रूत - ऽ कथय कीदृश्यस् ताः ऽ इति । अत्रोदाहरम् -

p58849

ऽ अस्ति त्रिगर्तो नाम जनपदः । तत्रासन् गृहिणस् त्रयः स्फीतसारधनाः सोदर्या धनकधान्यकधन्यकाख्याः । तेषु जीवत्सु न ववर्ष वर्षाणि द्वादश दशशताक्षः । क्षीणसारं सस्यम् ओषध्यो वन्ध्याः न फलवन्तो वनस्पतयः क्लीबा मेघाः क्षीणस्रोतसः स्रवन्त्यः पङ्कशेषाणि पल्वलानि निर्निस्यन्दान्य् उत्समण्डलानि विरलीभूतं कन्दमूलफलम् अवहीनाः कथाः गलिताः कल्याणोत्सवक्रियाः बहुलीभूतानि तस्करकुलानि अन्योअन्यम् अभक्षयन् प्रजाः पर्यलुठन्न् इतस्ततो बलाकापाण्डुराणि नरशिरःकपालानि पर्यहिण्डन्त शुष्काः काकमण्डल्यः शून्यीभूतानि नगरग्रामखर्वटपुटभेदनादीनि । तए एते गृहपतयः सर्वधान्यनिचयम् उपयुज्य अजाविकं गवलगणं गवां यूथं दासीदासजनम् अपत्यानि ज्येष्ठमध्यमभार्ये च क्रमेण भक्षयित्वा ऽ कनिष्ठभार्या धूमिनी श्वो भक्षणीया ऽ इति समकल्पयन् । अयं कनिष्ठो धन्यकः प्रियां स्वाम् अत्तुम् अक्षमस् तया सह तस्याम् एव निश्य् अपासरत् । मार्गक्लान्तां चोद्वहन् वनं जगाहे । स्वमाम्सासृगप नीतक्षुत्पिपासां तां नयन्न् अन्तरे कम् अपि निकृत्तपाणिपादकर्णनासिकम् अवनिपृष्ठे विचेष्टमानं पुरुषम् अद्राक्षीत् । तम् अप्य् आर्द्राशयः स्कन्धेनोद्वहन् कन्दमूलमृगबहुले गहनोद्देशे यत्नरचितपर्णशालश् चिरम् अवसत् । अमुं च रोपितव्रणम् इङ्गुदीतैलादिभिर् आमिषेण शाकेनात्मनिर्विशेषं पुपोष । पुष्टं च तम् उद्रिक्तधातुम् एकदा मृगान्वेषणाय च प्रयाते धन्यके सा धूमिनी रिरम्सयोपातिष्ठत् । भर्त्सिता अपि तेन बलात्कारम् अरीरमत् । निवृत्तं च पतिम् उदकाभ्यर्थिनम् ऽ उद्धृत्य कूपात् पिब रुजति मे शिरः शिरोरोगः ऽ इत्य् उदञ्चनं सरज्जुं पुरश् चिक्षेप । उदञ्चन्तं च तं कूपाद् अपः क्षणात् पृष्ठतो गत्वा प्रणुनोद । तं च विकलं स्कन्धेनोदुह्य देशाद् देशान्तरं परिभ्रमन्ती पतिव्रताप्रतीतिं लेभे बहुविधाश् च पूजाः । पुनर् अवन्तिराजानुग्रहाद् अतिमहत्या भूत्या न्यवसत् । अथ पानीयार्थिसार्थजनसमापत्तिदृष्टोद्धृतम् अवन्तिषु भ्रमन्तम् आहारार्थिनं भर्तारम् उपलभ्य सा धूमिनी ऽ येन मे पतिर् विकलीकृतः स दुरात्मा अयम् ऽ इति तस्य साधोश् चित्रवधम् अज्ञेन राज्ञा समादेशयां चकार । धन्यकस् तु दत्तपश्चाद्बन्धः वध्यभूमिं नीयमानः सशेषत्वाद् आयुषः ऽ यो मया विकली कृतो ऽभिमतो भिक्षुः स चेन् मे पापम् आचक्षीत युक्तो मे दण्डः ऽ इत्य् अदीनम् अधिकृतं जगाद । ऽ को दोषः ऽ इत्य् उपनीय दर्शिते ऽमुष्मिन् स विकलः पर्यश्रुः पादपतितस् तस्य साधोस् तत्सुकृतम् असत्याश् च तस्यास् तथाभूतं दुश्चरितम् आर्यबुद्धिर् आचचक्षे । कुपितेन राज्ञा विरूपितमुखी सा दुष्कृतकारिणी कृता श्वभ्यः पाचिका । कृतश् च धन्यकः प्रसादभूमिः । तद् ब्रवीमि - ऽ स्त्री हृदयं क्रूरम् ऽ इति ।

p61419

पुनर् अनुयुक्तो गोमिनीवृत्तान्तम् आख्यातवान् ऽ अस्ति द्रविडेषु काञ्ची नाम नगरी । तस्याम् अनेककोटिसारः श्रेष्ठिपुत्रः शक्तिकुमारो नामासीत् । सो ऽष्टादशवर्षदेशी यश् चिन्ताम् आपेदे - ऽ न अस्त्य् अदाराणाम् अननुगुणदाराणां वा सुखं नाम । तत् कथं नु गुणवद् विन्देयं कलत्रम् ऽ इति । अथ परप्रत्ययाहृतेषु दारेषु यादृच्छिकीं सम्पत्तिम् अनभिसमीक्ष्य कार्तान्तिको नाम भूत्वा वस्त्रान्तपिनद्धशालिप्रस्थो भुवं बभ्राम । ऽ लक्षणज्ञो ऽयम् ऽ इत्य् अमुष्मै कन्याः कन्यावन्तः प्रदर्शयां बभूवुः । यां काञ्=चिल् लक्षणवतीं सवर्णां कन्यां दृष्ट्वा स किल स्म ब्रवीति - ऽ भद्रे शक्नोषि किम् अनेन शालिप्रस्थेन गुणवद् अन्नम् अस्मान् अभ्यवहारयितुम् ऽ इति । स हसितावधूतो गृहाद् गृहं प्रविश्य अभ्रमत् । एकदा तु शिबिषु कावेरीतीरपत्तने सह पितृभ्याम् अवसितमहर्2द्धिम् अवशीर्णभवनसारां धात्र्या प्रदर्श्यमानां काञ्=चन विरलभूषणां कुमारीं ददर्श । अस्यां सम्सक्तचक्षुश् च अतर्कयत् - ऽ अस्याः खलु कन्यकायाः सर्वए एव अवयवा न अतिस्थूला न अतिकृशा न अतिह्रस्वा न अतिदीर्घा न विकटा मृजावन्तश् च । रक्ततलाङ्गुली यवमत्स्यकमलकलशाद्यनेकपुण्यलेखालाञ्छ् इतौ करौ समगुल्फसन्धी माम्सलाव् अशिरालौ च अङ्घ्री जङ्घे च अनु पूर्ववृत्ते पीवरोरुग्रस्ते इव दुरुपलक्ष्ये जानुनी सकृद्विभक्तश् चतुरस्रः ककुन्दरविभागशोभी रथाङ्गाकारसम्स्थितश् च नितम्बभागः तनुतरम् ईषन्निम्नं गम्भीरं नाभिमण्डलं वलित्रयेण च अलंकृतम् उदरम् उरोभागव्यापिनाव् उन्मग्नचूचुकौ विशालारम्भशोभिनौ पयोधरौ धनधान्यपुत्रभूयस्त्वचिह्नलेखालाञ्छिततले स्निग्धोदग्रकोमलनखमणी ऋज्वनुपूर्ववृत्तताम्राङ्गुलीसम्नताम्सदेशे सौकुमार्यवत्यौ निमग्नपर्वसन्धी च बाहुलते तन्वी कम्बुवृत्तबन्धुरा च कन्धरा वृत्तमध्यविभक्तरागाधरम् असङ्क्षिप्तचारुचिबुकम् आपूर्णकठिनगण्डमण्डलम् असङ्गतानुवक्रनीलस्निग्धभ्रूलतम् अनतिप्रौढतिलकुसुमसदृशनासिकम् असितधवलरक्तत्रिभागभासुरमधुराधीर सञ्चारमन्थरायतेक्षणम् इन्दुशकलसुन्दरललाटम् इन्द्रनीलशिलाकाररम्यालकपङ्क्तिद्विगुणकुण्डलित म्लाननालीकनालललितलम्बश्रवणपाशयुगलम् आननकमलम् अनतिभङ्गुरो बहुलः पर्यन्ते ऽप्य् अकपिलरुचिर् आयामवान् एकैकनिसर्गसमस्निग्धनीलो गन्धग्राही च मूर्धजकलापः । सेयम् आकृतिर् न व्यभिचरति शीलम् । आसज्जति च मे हृदयम् अस्याम् एव । तत् परीक्ष्यैनाम् उद्वहेयम् । अविमृश्यकारिणा हि नियतम् अनेकाः पतन्त्य् अनुशयपरम्पराः ऽ इति स्निग्धदृष्टिर् आचष्ट - ऽ भद्रे कच्=चिद् अस्ति कौशलं शालिप्रस्थेन अनेन सम्पन्नम् आहारम् अस्मान् अभ्यवहारयितुम् ऽ इति । ततस् तया वृद्धदासी साकूतम् आलोकिता । तस्य हस्तात् प्रस्थमात्रं धान्यम् आदाय क्व=चिद् अलिन्दोद्देशे सुसिक्तसम्मृष्टे दत्तपादशौचम् उपावेशयत् । सा कन्या तान् गन्धशालीन् सङ्क्षुद्य मात्रया विशोष्यातपे मुहुर् मुहुः परिवर्त्य स्थिरसमायां भूमौ नालीपृष्ठेन मृदुमृदु घट्टयन्ती तुषैर् अखण्डैस् तण्डुलान् पृथक् चकार । जगाद च धात्रीम् - ऽ मातः एभिस् तुषैर् अर्थिनो भूषणमृजाक्रियाक्षमैः स्वर्णकाराः । तेभ्य इमान् दत्वा लब्धाभिः काकिणीभिः स्थिरतराण्य् अनत्यार्द्राणि न अतिशुष्काणि काष्ठानि मितंपचां स्थालीम् उभे शरावे चाहर ऽ इति । तथाकृते तया ताम्स् तण्डुलान् अनतिनिम्नोत्तानविस्तीर्णकुक्षौ ककुभोलूखले लोहपत्रवेष्टितमुखेन समशरीरेण विभाव्यमानमध्यतानवेन व्यायतेन गुरुणा खादिरेण मुसलेन चतुरललितोत्क्षेपणावक्षेपणायासितभुजम् असकृदङ्गुलीभिर् उद्धृत्योद्धृत्य अवहत्य शूर्पशोधितकणकिं शारुकाम्स् तण्डुलान् असकृद् अद्भिः प्रक्षाल्य क्वथितपञ्चगुणे जले दत्तचुल्लीपूजा प्राक्षिपत् । प्रश्लथावयवेषु प्रस्फुरत्सु तण्डुलेषु मुकुलावस्थाम् अतिवर्तमानेषु सङ्क्षिप्य अनलम् उपहितमुखपिधानया स्थाल्या अन्नमण्डम् अगालयत् । दर्व्या च अवघट्ट्य मात्रया परिवर्त्य समपक्वेषु सिक्थेषु तां स्थालीम् अधोमुखीम् अवातिष्ठिपत् । इन्धनान्य् अन्तःसाराण्य् अम्भसा समभ्युक्ष्य प्रशमिताग्नीनि कृष्णाङ्गारीकृत्य तदर्थिभ्यः प्राहिणोत् - ऽ एभिर् लब्धाः काकिणीर् दत्वा शाकं घृतं दधि तैलम् आमलकं चिञ्चाफलं च यथालाभम् आनय ऽ इति । तथा अनुष्ठिते च तया द्वित्रान् उपदम्शान् उपपाद्य तदन्नमण्डम् आर्द्रवालुकोपहितनवशरावगतम् अतिमृदुना तालवृन्तानिलेन शीतलीकृत्य सलवणसम्भारं दत्ताङ्गारधूपवासं च सम्पाद्य तद् अप्य् आमलकं श्लक्ष्णपिष्टम् उत्पलगन्धि कृत्वा धात्रीमुखेन स्ना नाय तम् अचोदयत् । तया च स्नानशुद्धया दत्ततैलामलकः क्रमेण सस्नौ । स्नातः सिक्तमृष्टे कुट्टिमे फलकम् आरुह्य पाण्डुहरितस्य त्रिभागशेषलूनस्य अङ्गणकदलीपलाशस्योपरि शरावद्वयं दत्तम् आर्द्रम् अभिमृशन्न् अतिष्ठत् । सा तु तां पेयाम् एव अग्रे समुपाहरत् । पीत्वा च अपनताध्वक्लमः प्रहृष्टः प्रक्लिन्नसकलगात्रः स्थितो ऽभूत् । ततस् तस्य शाल्योदनस्य दर्वीद्वयं दत्वा सर्पिर्मा त्रां सूपम् उपदम्शं चोपजहार । इमं च दध्ना च त्रिजातकावचूर्णितेन सुरभिशीतलाभ्यां च कालशेयकाञ्जिकाभ्यां शेषम् अन्नम् अभोजयत् । सशेषए एव अन्धस्य् असाव् अतृप्यत् । अयाचत च पानीयम् । अथ नवभृङ्गारसम्भृतम् अगुरुधूपधूपितम् अभिनवपाटलीकुसुमवासितम् उत्फुल्लोत्पलग्रथितसौरभं वारि नालीधारात्मना पातयां बभूव । सो ऽपि मुखोपहितशरावेण हिमशिशिरकणकरालितारुणायमानाक्षिपक्ष्मा धारारवाभिनन्दितश्रवणः स्पर्शसुखोद्भिन्नरोमाञ्चकर्कशकपोलः परिमलप्रवालोत्पीडफुल्लघ्राणरन्ध्रो माधुर्यप्रकर्षावर्जितरसनेन्द्रियस् तद् अच्छं पानीयम् आकण्ठं पपौ । शिरःकम्पसंज्ञावारिता च पुनर् अपरकरकेणाचमनम् अदत्त कन्या । वृद्धया तु तदुच्छिष्टम् अपोह्य हरितगोमयोपलिप्ते कुट्टिमे स्वम् एवोत्तरीयकर्पटं व्यवधाय क्षणम् अशेत । परितुष्टश् च विधिवद् उपयम्य कन्यां निन्ये । नीत्वैतदनपेक्षः काम्=अपि गणिकाम् अवरोधम् अकरोत् । ताम् अप्य् असौ प्रियसखीम् इवोपाचरत् । पतिं च दैवतम् इव मुक्ततन्द्रा पर्यचरत् । गृहकार्याणि च अहीनम् अन्वतिष्ठत् । परिजनं च दाक्षिण्यनिधिर् आत्माधीनम् अकरोत् । तद्गुणवशीकृतश् च भर्ता सर्वम् एव कुटुम्बं तदायत्तम् एव कृत्वा तदेकाधीनजीवितशरीरस् त्रिवर्गं निर्विवेश । तद् ब्रवीमि -ऽ गृहिणः प्रियहिताय दारगुणाः ऽ इति ।

p67392

ततस् तेन अनुयुक्तो निम्बवतीवृत्तम् आख्यातवान् - ऽ अस्ति सौराष्ट्रेषु वलभी नाम नगरी । तस्यां गृहगुप्तनाम्नो गुह्यकेन्द्रतुल्यविभवस्य नाविकपतेर् दुहिता रत्नवती नाम । तां किल मधुमत्याः समुपागम्य बलभद्रो नाम सार्थवाहपुत्रः पर्यणैषीत् । तया अपि नववध्वा रहसि रभसविघ्नितसुरतसुखो झटिति द्वेषम् अल्पेतरं बबन्ध । न तां पुनर् द्रष्टुम् इष्टवान् । तद्गृहागमनम् अपि सुहृद्वाक्यशतातिवर्ती लज्जया परिजहार । तां च दुर्भगां तदाप्रभृत्य् एव ऽ नेयं रत्नवती निम्बवती चेयम् इति स्वजनः परजनश् च परिबभूव । गते च कस्मिम्श्=चित् काले सा त्व् अनुतप्यमाना ऽ का मे गतिः इति विमृशन्ती काम् अपि वृद्धप्रव्राजिकां मातृस्थानीयां देवशेषकुसुमैर् उपस्थिताम् अपश्यत् । तस्याः पुरो रहसि सकरुणं रुरोद । तया अप्य् उदश्रुमुख्या बहुप्रकारम् अनुनीय रुदितकारणं पृष्टा त्रपमाणा अपि कार्यगौरवात् कथञ्=चिद् अब्रवीत् - ऽ अम्ब किं ब्रवीमि । दौर्भाग्यं नाम जीवन्मरणम् एव अङ्गनानाम् विशेषतश् च कुलवधूनाम् । तस्य अहम् अस्म्य् उदाहरणभूता । मातृप्रमुखो ऽपि ज्ञातिवर्गो माम् अवज्ञयैव पश्यति । तेन सुदृष्टां मां कुरु । न चेत् त्यजेयम् अद्यैव निष्प्रयोजनान् प्राणान् । आ विरामाच् च मे रहस्यं नाश्राव्यम् ऽ इति पादयोः पपात । सैनाम् उत्थाप्योद्बाष्पोवाच - ऽ वत्से मा अध्यवस्यः साहसम् । इयम् अस्मि त्वन्निदेशवर्तिनी । यावति ममोपयोगस् तव तावति भवाम्य् अनन्याधीना । यद्य् एव असि निर्विण्णा तपश् चर त्वं मदधिष्ठिता पारलौकिकाय कल्याणाय । नन्व् अयम् उदर्कः प्राक्तनस्य दुष्कृतस्य यदनेनाकारेणेदृशेन शीलेन जात्या चैवंभूतया समनुगता सत्य् अकस्माद् एव भर्तृद्वेष्यतां गता असि । यदि कश्=चिद् अस्त्य् उपायः पतिद्रोहप्रतिक्रियायै दर्शय अमुम् । मतिर् हि ते पटीयसी ऽ इति । अथ असौ कथञ्=चित् क्षणम् अधोमुखी ध्यात्वा दीर्घोष्णश्वासपूर्वम् अवोचत् - ऽ भगवति पतिर् एव दैवतं वनितानाम् विशेषतश् च कुलजानाम् । अतस् तच्छुश्रूषणाभ्युपायहेतुभूतं किञ्=चिद् आचरणीयम् । अस्त्य् अस्मत्प्रातिवेश्यो वणिक् । अभिजनेन विभवेन राजान्तरङ्गभावेन च सर्वपौरान् अतीत्य वर्तते । तस्य कन्या कनकवती नाम मत्समानरूपावयवा मम अतिस्निग्धा सखी । तया सह तद्विमानहर्म्यतले ततो ऽपि द्विगुणमण्डिता विहरिष्यामि । त्वया तु तन्मातृप्रार्थनं सकरुणम् अभिधाय मत्पतिर् एतद्गृहं कथञ्=चनानेयः । समीपगतेषु च युष्मासु क्रीडामत्ता नाम कन्दुकं भ्रम्शयेयम् । अथ तम् आदाय तस्य हस्ते दत्वा वक्ष्यसि - ऽ पुत्र तवेयं भार्यासखी निधिपतिदत्तस्य सर्वश्रेष्ठिमुख्यस्य कन्या कनकवती नाम । त्वाम् इयम् अनवस्थो निष्करुणश् चेति रत्नवतीनिमित्तम् अत्यर्थं निन्दति । तद् एष कन्दुको विपक्षधनं प्रत्यर्पणीयम् ऽ इति । स तथोक्तो नियतम् उन्मुखीभूय ताम् एव प्रियसखीं मन्यमानो माम् बद्धाञ्जलि याचमानायै मह्यं भूयस् त्वत्प्रार्थितः साभिलाषम् अर्पयिष्यति । तेन रन्ध्रेणोपश्लिष्य रागम् उज्ज्वलीकृत्य यथा असौ कृतसङ्केतो देशान्तरम् आदाय मां गमिष्यति तथोपपादनीयम् ऽ इति । हर्षाभ्युपेतया च अनया तथैव सम्पादितम् । अथैताम् कनकवतीति वृद्धतापसीप्रलब्धो बलभद्रः सरत्नसाराभरणाम् आदाय निशि नीरन्ध्रे तमसि प्रावसत् । सा तु तापसी वार्ताम् आपादयत् - ऽ मन्देन मया निर्निमित्तम् उपेक्षिता रत्नवती श्वशुरौ च परिभूतौ सुहृदश् च अतिवर्तिताः । तद् अत्रैव सम्सृष्टो जीवितुं जिह्रेमीति बलभद्रः पूर्वेद्युर् माम् अकथयत् । नूनम् असौ तेन नीता व्यक्तिश् च अचिराद् भविष्यति इति । तच् छ्रुत्वा तद्बान्धवास् तदन्वेषणं प्रति शिथिलयत्नास् तस्थुः । रत्नवती तु मार्गे काञ्=चित् पण्यदासीं सङ्गृह्य तयोह्यमानपाथेयाद्युपस्करा खेटकपुरम् अगमत् । अमुत्र च व्यवहारकुशलो बलभद्रः स्वल्पेनैव मूलेन महद्धनम् उपार्जयत् । पौराग्रगण्यश् चासीत् । परिजनश् च भूयान् अर्थवशात् समाजगाम । ततस् तां प्रथमदासीं ऽ न कर्म करोषि दृष्टं मुष्णासि अप्रियं ब्रवीषि ऽ इति परुषम् उक्त्वा बह्व् अताडयत् । चेटी तु प्रसादकालोपख्यातरहस्यस्य वृत्तान्तैकदेशम् आत्तरोषा निर्बिभेद । तच् छ्रुत्वा तु लुब्धेन दण्डवाहिना पौरवृद्धसम्निधौ ऽ निधिपतिदत्तस्य कन्यां कनकवतीं मोषेण अपहृत्य अस्मत्पुरे निवसत्य् एष दुर्मतिर् बलभद्रः । तस्य सर्वस्वहरणं भवद्भिर् न प्रतिबन्धनीयम् ऽ इति नितराम् अभर्त्सयत । भीतं च बलभद्रम् अधिजगाद रत्नवती - ऽ न भेतव्यम् । ब्रूहि - नेयं निधिपतिदत्तकन्या कनकवती । वलभ्याम् एव गृहगुप्तदुहिता रत्नवती नामेयं दत्ता पितृभ्यां मया च न्यायोढा । न चेत् प्रतीथ प्रणिधिं प्रहिणुत अस्या बन्धुपार्श्वम् ऽ इति । बलभद्रस् तु तथोक्त्वा श्रेणीप्रातिभाव्येन तावद् एव अतिष्ठद् यावत् तत्पुरलेख्यलब्धवृत्तान्तो गृहगुप्तः खेटकपुरम् आगत्य सह जामात्रा दुहितरम् अतिप्रीतः प्रत्यनैषीत् । तथा दृष्ट्वा रत्नवती कनकवतीति भावयतस् तस्यैव भलभद्रस्य अतिवल्लभा जाता । तद् ब्रवीमि - ऽ कामो नाम सङ्कल्पः ऽ इति ।

p72078

तदनन्तरम् असौ नितम्बवतीवृत्तान्तम् अप्राक्षीत् । सो ऽहम् अब्रवम् - ऽ अस्ति शूरसेनेषु मथुरा नाम नगरी । तत्र कश्=चित् कुलपुत्रः कलासु गणिकासु च अतिरक्तः मित्रार्थं स्वभुजमात्रनिर्व्यूढानेककलहः कलहकण्टक इति कर्कशैर् अभिख्यापिताख्यः प्रत्यवात्सीत् । स चैकदा कस्य=चिद् आगन्तोश् चित्रकरस्य हस्ते चित्रपटं ददर्श । तत्र का=चिद् आलेख्यगता युवतिर् आलोकमात्रेणैव कलहकण्टकस्य कामातुरं चेतश् चकार । स च तम् अब्रवीत् - ऽ भद्र विरुद्धम् इवैतत् प्रतिभाति । यतः कुलजादुर्लभं वपुः आभिजात्यशम्सिनी च नम्रता पाण्डुरा च मुखच्छविः अनतिपरिभुक्तसुभगा च तनुः प्रौढतानुविद्धा च दृष्टिः । न चैषा प्रोषितभर्तृका प्रवासचिह्नस्यैकवेणीआदेर् अदर्शनात् । लक्ष्म चैतद्दक्षिणपार्श्ववर्ति । तद् इयं वृद्धस्य कस्य=चिद् वणिजो न अतिपुम्स्त्वस्य यथार्हसम्भोगा-लाभपीडिता गृहिणी त्वया अतिकौशलाद् यथादृष्टम् आलिखिता भवितुम् अर्हति ऽ इति । स तम् अभिप्रशस्य अशम्सत् - ऽ सत्यम् इदम् । अवन्तिपुर्याम् उज्जयिन्याम् अनन्तकीर्तिनाम्नः सार्थवाहस्य भार्या यथार्थनामा नितम्बवती नामैषा सौन्दर्यविस्मितेन मयैवम् आलिखिता ऽ इति । स तदैवोन्मनायमानस् तद्दर्शनाय परिवव्राजोज्जयिनीम् । भार्गवो नाम भूत्वा भिक्षानिभेन तद्गृहं प्रविश्य तां ददर्श । दृष्ट्वा च अत्यारूढमन्मथो निर्गत्य पौरमुख्येभ्यः श्मशानरक्षाम् अयाचत । अलभत च । तत्र लब्धैश् च शवावगुण्ठनपटादिभिः काम् अप्य् अर्हन्तिकां नाम श्रमणिकाम् उपासाञ् चक्रे । तन्मुखेन च निम्बवतीम् उपाम्शु मन्त्रयाम् आस । सा चैनां निर्भर्त्सयन्ती प्रत्याचचक्षे । श्रमणिकामुखाच् च दुष्करशीलभ्रम्शां कुलस्त्रियम् उपलभ्य रहसि दूतिकाम् अशिक्षयत् - ऽ भूयो ऽप्य् उपतिष्ठ सार्थवाहभार्याम् । ब्रूहि चोपह्वरे सम्सारदोषदर्शनात् समाधिम् आस्थाय मुमुक्षमाणो मादृशो जनः कुलवधूनां शीलपातने घटतए इति क्व घटते । एतद् अपि त्वम् अत्युदारया समृद्ध्या रूपेण अतिमानुषेण प्रथमेन वयसोपपन्नां किम् इतरनारीसुलभं चापलं स्पृष्टं न वेति परीक्षा कृता । तुष्टा अस्मि तवैवम् अदुष्टभावतया । त्वाम् इदानीम् उत्पन्नापत्यां द्रष्टुम् इच्छामि । भर्ता तु भवत्याः केन=चिद् ग्रहेण अधिष्ठितः पाण्डुरोगदुर्बलो भोगे च असमर्थः स्थितो अभूत् । न च शक्यं तस्य विघ्नम् अप्रतिकृत्य अपत्यम् अस्माल् लब्धुम् । अतः प्रसीद । वृक्षवाटिकाम् एकाकिनी प्रविश्य मदुपनीतस्य कस्य=चिन् मन्त्रवादिनश् छन्नम् एव हस्ते चरणम् अर्पयित्वा तदभिमन्त्रितेन प्रणयकुपिता नाम भूत्वा भर्तारम् उरसि प्रहर्तुम् अर्हसि । उपर्य् असाव् उत्तमधातुपुष्टिम् ऊर्जितापत्योत्पादनक्षमाम् आसादयिष्यति । अनुवर्तिष्यते देवीम् इव अत्र भवतीम् । न अत्र शङ्का कार्या इति । सा तथोक्ता व्यक्तम् अभ्युपैष्यति । नक्तं मां वृक्षवाटिकां प्रवेश्य ताम् अपि प्रवेशयिष्यसि । तावतैव त्वया अहम् अनुगृहीतो भवे यम् ऽ इति । सा तथैवोपपादितवती । सो ऽतिप्रीतस् तस्याम् एव क्षपायां वृक्षवाटिकां गतो नितम्बवतीं निर्ग्रन्थिकाप्रयत्नेनोपनीतां पादे परामृशन्न् इव हेमनूपुरम् एकम् आक्षिप्य च्छुरिकयोरुमूले किञ्=चिद् आलिख्य द्रुततरम् अपासरत् । सा तु सान्द्रत्रासा स्वम् एव दुर्नयं गर्हमाणा जिघाम्सन्तीव श्रमणिकां तद्व्रणं भवनदीर्घिकायां प्रक्षाल्य दत्वा पटबन्धनं सामयापदेशाद् अपरं च अपनीय नूपुरं शयनपरा त्रिचतुराणि दिनान्य् एकान्ते निन्ये । स धूर्तः ऽ विक्रेष्ये ऽ इति तेन नूपुरेण तम् अनन्तकीर्तिम् उपाससाद । स दृष्ट्वा मम गृहिण्या एवैष नूपुरः कथम् अयम् उपलब्धस् त्वया ऽ इति तम् अब्रुवाणं निर्बन्धेन पप्रच्छ । स तु ऽ वणिग्ग्रामस्य अग्रे वक्ष्यामि ऽ इति स्थितो अभूत् । पुनर् असौ गृहिण्यै ऽ स्वनूपुरयुगलं प्रेषय ऽ इति सन्दिदेश । सा च सलज्जं ससाध्वसं च ऽ अद्य रात्रौ विश्रामप्रविष्टायां वृक्षवाटिकायां प्रभ्रष्टो ममैकः प्रशिथिलबन्धो नूपुरः । सो ऽद्य अप्य् अन्विष्टो न दृष्टः । स पुनर् अयं द्वितीयः ऽ इत्य् अपरं प्रा हिणोत् । अनया च वार्तया अमुं पुरस्कृत्य स वणिग् वणिग्जनसमाजम् आजगाम । स च अनुयुक्तो धूर्तः सविनयम् आवेदयत् - ऽ विदितम् एव खलु वो यथा अहं युष्मदाज्ञया पितृवनम् अभि रक्ष्य तदुपजीवी प्रतिवसामि । लुब्धाश् च कदा=चिन् मद्दर्शनभीरवो निशि दहेयुर् अपि शवानीति निशास्व् अपि श्मशानम् अधिशये । अपरेद्युर् दग्धा-दग्धं मृतकं चितायाः प्रसभम् आकर्षन्तीं श्यामाकारां नारीम् अपश्यम् । अर्थलोभात् तु निगृह्य भयं सा सङ्गृहीता । शस्त्रिकयोरुमूले यदृच्छया किञ्=चिद् उल्लिखितम् । एष च नूपुरश् चरणाद् आक्षिप्तः । तावत्य् एव द्रुतगतिः सा पलायिष्ट । सो ऽयम् अस्यागमः । परं भवन्तः प्रमाणम् ऽ इति । विमर्शे च तस्याः शाकिनी त्वम् ऐकमत्येन पौराणाम् अभिमतम् आसीत् । भर्त्रा च परित्यक्ता तस्मिन्न् एव श्मशाने बहु विलप्य पाशेनोद्बध्य मर्तुकामा तेन धूर्तेन नक्तम् अगृह्यत । अनुनीता च - ऽ सुन्दरि त्वदाकारोन्मादितेन मया त्वदावर्जने बहून् उपायान् भिक्षुकीमुखेनोपन्यस्य तेष्व् असिद्धेषु पुनर् अयम् उपायो यावज्जीवम् असाधारणीकृत्य रन्तुम् आचरितः । तत् प्रसीद अनन्यशरणाय अस्मै दासजनाय ऽ इति मुहुर् मुहुश् चरणयोर् निपत्य प्रयुज्य सान्त्वशतानि ताम् अगत्यन्तराम् आत्मवश्याम् अकरोत् । तद् इदम् उक्तम् - ऽ दुष्करसाधनं प्रज्ञा ऽ इति ।

p76983

स चेदम् आकर्ण्य ब्रह्मराक्षसो माम् अपूपुजत् । अस्मिन्न् एव क्षणे न अतिप्रौढपुम्नागमुकुलस्थूलानि मुक्ताफलानि सह सलिलबिन्दुभिर् अम्बरतलाद् अपतन् । अहं तु ऽ किं न्व् इदम् ऽ इत्य् उच्चक्षुर् आलोकयन् कम्=अपि राक्षसं काञ्=चिद् अङ्गनां विचेष्टमानगात्राम् आकर्षन्तम् अपश्यम् । कथम् अपहरत्य् अकामाम् अपि स्त्रियम् अनाचारो नैरृत इति गगनगमनमन्दशक्तिर् अशस्त्रश् च अतप्ये । स तु मत्सम्बन्धी ब्रह्मराक्षसः ऽ तिष्ठ तिष्ठ पाप क्व अपहरसि ऽ इति भर्त्सयन्न् उत्थाय राक्षसेन सम सृज्यत । तां तु रोषाद् अनपेक्षापविद्धाम् अमरवृक्षमञ्जरीम् इव अन्तरिक्षाद् आपतन्तीम् उन्मुखप्रसारितोभयकरः कराभ्याम् अग्रहीषम् । उपगृह्य च वेपमानां सम्मीलिताक्षीं मदङ्गस्पर्शसुखेनोद्भिन्नरोमाञ्चां तादृशीम् एव ताम् अनवतारयन्न् अतिष्ठम् । तावत् ताव् उभाव् अपि शैलशृङ्गभङ्गैः पादपैश् च रभसोन्मूलितैर् मुष्टिपादप्रहारैश् च परस्परम् अक्षपयेताम् । पुनर् अहम् अतिमृदुनि पुलिनवति कुसुमलवलाञ्छिते सरस्तीरे ऽवरोप्य सस्पृहं निर्वर्णयम्स् तां मत्प्राणैकवल्लभां राजकन्यां कन्दुकवतीम् अलक्ष्यम् । सा हि मया समाश्वास्यमाना तिर्यङ् माम् अभिनिरूप्य जातप्रत्यभिज्ञा सकरुणम् अरोदीत् । अवादीच् च - ऽ नाथ त्वद्दर्शनाद् उपोढरागा तस्मिन् कन्दुकोत्सवे पुनः सख्या चन्द्रसेनया त्वत्कथाभिर् एव समाश्वासिता अस्मि । त्वं किल समुद्रमध्ये मज्जितः पापेन मद्भ्रात्रा भीमधन्वना इति श्रुत्वा सखीजनं परिजनं च वञ्चयित्वा जीवितं जिहासुर् एकाकिनी क्रीडावनम् उपागमम् । तत्र च माम् अचकमत कामरूप एष राक्षसाधमः । सो ऽयं मया भीतया अवधूतप्रार्थनः स्फुरन्तीं मां निगृह्य अभ्यधावत् । अत्रैवम् अवसितो ऽभूत् । अहं च दैवात् तवैव जीवित ईशस्य हस्ते पतिता । भद्रं तव ऽ इति । श्रुत्वा च तया सह अवरुह्य नावम् अध्यारोहम् । मुक्ता च नौः प्रतिवातप्रेरिता ताम् एव दामलिप्तां प्रत्युपा तिष्ठत् । अवरूढाश् च वयम् अश्रमेण । ऽ तनयस्य च तनयायाश् च नाशाद् अनन्यापत्यस् तुङ्गधन्वा सुह्मपतिर् निष्कलः स्वयं सकलत्र एव निष्कलङ्कगङ्गारोधस्य् अनशनेनोपरन्तुं प्रतिष्ठते । सह तेन मर्तुम् इच्छत्य् अनन्यनाथो ऽनुरक्तः पौरवृद्धलोकः । ऽ इत्य् अश्रुमुखीनां प्रजानाम् आक्रन्दम् अशृणुम । अथ अहम् अस्मै राज्ञे यथावृत्तम् आख्याय तदपत्यद्वयं प्रत्यर्पितवान् । प्रीतेन तेन जामाता कृतो ऽस्मि दामलिप्तेश्वरेण । तत्पुत्रो मदनुजीवी जातः । मदाज्ञप्तेन च अमुना प्राणवद् उज्झिता चन्द्रसेना कोशदासम् अभजत् । ततश् च सिम्हवर्मसाहाय्यार्थम् अत्रागत्य भर्तुस् तव दर्शनोत्सवसुखम् अनुभवामि ऽ इति । श्रुत्वा ऽ चित्रेयं दैवगतिः । अवसरेषु पुष्कलः पुरुषकारः । ऽ इत्य् अभिधाय भूयः स्मिताभिषिक्तदन्तच्छदो मन्त्रगुप्ते हर्षोत्फुल्लं चक्षुः पातयामास देवो राजवाहनः । स किल करकमलेन किञ्=चित्सम्वृताननो ललितवल्लभारभसदत्तदन्तक्षतव्यसनविह्वलाधरमणिर् निरोष्ठ्यवर्णम् आत्मचरितम् आचचक्षे -

मूल पाठ: Daśakumāracarita, 3, 5-6 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc