भाषा

ENहिગુ
ग्रंथ पाठ

दन्त्योष्ठविधि · भाग 12

अथर्वाणम् ऋषिं देवं देवहयशिरोधरम् ।
प्रणम्य सम्प्रवक्ष्यामि दन्त्योष्ठविधिविस्तरम् ॥ 1.1 ॥
छन्दस्य् अध्ययने प्राप्ते विदुषाम् अथ धीमताम् ।
बकारे संशयो नित्यम् औष्ठ्यं दन्त्यम् इति स्म ह ॥ 1.2 ॥
तस्मात् तद्विधि निर्णये संशयछेदनाय च ।
मुक्ता दन्त्या प्रयोज्याम औष्ठ्यान् वक्ष्ये क्रमाहितः ॥ 1.3 ॥
भपरं यत्र दृश्येतानिंग्ये स्पर्शनं क्व चित् ।
औष्ट्यं तत्र पदे धीरो बिभीतो बिभ्रतीर् यथा ॥ 1.4 ॥
आद्युदात्ते बले बाणे बिल शब्दे तथैव च ।
समस्ते ऽपि यत्र स्याताम् अन्तोदात्तो विशिष्यते ॥ 1.5 ॥
बलदाबलानुग्राहबलधन्वा तथैव च ।
बलासं बाहू आचार्याः सर्वास्व् एव विभक्तिषु ॥ 1.6 ॥
बली बलेन बर्हिश् चाबलेन बलीयसे ।
ब्रध्नः किल्बिषं वः केतुः कुम्बं बाधिष्ट बालिति ॥ 1.7 ॥
बाहुं बोहि तथा बंधुर् बहुबाधे बृहच् च यत् ।
पिबति ब्रुवते चैव यथार्थाः सम्प्रकीर्त्तिताः ॥ 1.8 ॥
बस्तवासिनो बाह्वंकैर् बाहुवीर्ये तथैव च ।
बहवः काबवं बाह्वोर् बोध बह्वे तथैव च ॥ 1.9 ॥
तथाअ बध्न्यं ताबुवं बह्वीर् नवमः संप्रकीर्त्तिताः ।
एते सर्वेषु शब्देषु प्रथमस्पर्श्या हि मताः ॥ 1.10 ॥
वैबाध देवबन्धुं च विबद्धस् तु विबन्धुषु ।
द्वितीय स्पर्श्यो विज्ञेयो विबबाधे तथैव च ॥ 1.11 ॥
बाहौ बाहवो बहुलं बुध्न्यं बद्ध्कम् एव च ।
एते सर्वे भवन्त्य् ओष्ठ्या ये नोक्तास् ते तु दन्तजाः ॥ 1.12 ॥
इति प्रथमो ऽध्यायः ।
अधराद् उत्तरे भागे भागात् प्रतिविभागशः ।
दशनाग्रेण संस्पृष्ट्यो न तु पीडासु योजयेत् ॥ 2.1 ॥
कम्बलं बल्बजं बीजं लिबुजा बण्म्हां असि ।
बिष्कले ब्रह्म बर्जह्ये शबले बेधिषे बयः ॥ 2.2 ॥
बहिष्ठः बुध्न्यः पड्बीशम् अर्बुदं बधिरस् तथा ।
आबयोबिन्दुः संबिंबं काहाबाम् उदुम्बलम् ॥ 2.3 ॥
कब्रु पीबसि बंधुरं कंबूकां बलिनस् तथा ।
कुबेरः स्तम्बजं बभ्रौपब्दैः परिबेधिरे ॥ 2.4 ॥
असंबाधे नैर्बाध्येन बद्धे बुद्धानि कुल्बजं ।
बतो बतासि बन्धुं च बिसं क्लीबं बुजे बुजः ॥ 2.5 ॥
बधान प्राबंधायाश् चोल्बं काबेर्कस् तथा ।
आबेधुर् ऐलबश् चैवाबेधे बल्हिकानि च ॥ 2.6 ॥
अबोधि बार्हत्सामे घोषबुद्धा तथैव च ।
बंधनं यत्र शेषं स्याद् आबधे मे निद्रशनम् ॥ 2.7 ॥
अलाबु बजः बाणं स्याद् आद्युदात्तो यदा भवेत् ।

ब्रह्म शब्दं तु सर्वार्थम् औष्ठ्यम् एव विदुर् बुधाः ॥ 2.8 ॥
छुबुकाब्दष्कये बाले केशबाले तथैव च ।
अधिबाले वयः प्रोक्तः शेषेषु परिमाणतः ॥ 2.9 ॥
बिभेद् आदिषु भेदाश् च परि पूर्वं बले तथा ।
बंधु वा सिंधुरपर एतेषां तु बलः क्व चित् ॥ 2.10 ॥
तुछुब्दश् चुबुकश् चैव बभूवुश् च बभूवुषी ।
एते सर्वे परित्यज्य बकारोन्योन्य भक्षन ॥ 2.11 ॥
॥ इति द्वितीयो ऽअध्यायः ॥
॥ दन्त्योष्ठविधिः समाप्तः ॥

मूल पाठ: Dantyoṣṭhavidhi · Edition: Pandita Ramagopala Sastri: The Dantosthavidhih or the Fourth Kahsna Treatise of the Atharvaveda edited with an introduction, translation and an index. Lahore, 1921. · Data entry Arlo Griffiths · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc