छिन्नमस्तासहस्रनामस्तोत्रम् · अध्याय 1
श्रीगणेशाय नमः ।
श्रीदेव्युवाच ।
देवदेव महादेव सर्वशास्त्रविदांवर ।
कृपां कुरु जगन्नाथ कथयस्व मम प्रभो
प्रचण्डचण्डिका देवी सर्वलोकहितैषिणी ।
तस्याश्च कथितं सर्वं स्तवं च कवचादिकम्
इदानीं छिन्नमस्ताया नाम्नां साहस्रकं शुभम् ।
त्वं प्रकाशय मे देव कृपया भक्तवत्सल
श्रीशिव उवाच ।
श्रृणु देवि प्रवक्ष्यामि च्छिन्नायाः सुमनोहरम् ।
गोपनीयं प्रयत्नेन यदीच्छेदात्मनो हितम्
न वक्तव्यं च कुत्रापि प्राणैः कण्ठगतैरपि ।
तच्छृणुष्व महेशानि सर्वं तत्कथयामि ते
विना पूजां विना ध्यानं विना जाप्येन सिद्ध्यति ।
विना ध्यानं तथा देवि विना भूतादिशोधनम्
पठनादेव सिद्धिः स्यात्सत्यं सत्यं वरानने ।
पुरा कैलासशिखरे सर्वदेवसभालये
परिपप्रच्छ कथितं तथा श्रृणु वरानने ।
ॐ अस्य श्रीप्रचण्डचण्डिकासहस्रनामस्तोत्रस्य भैरव ऋषिः ,
सम्राट् छन्दः , प्रचण्डचण्डिका देवता ,
धर्मार्थकाममोक्षार्थे पाठे विनियोगः
ॐ प्रचण्डचण्डिका चण्डा चण्डदैत्यविनाशिनी ।
चामुण्डा च सचण्डा च चपला चारुदेहिनी
ललजिह्वा चलद्रक्ता चारुचन्द्रनिभानना ।
चकोराक्षी चण्डनादा चञ्चला च मनोन्मदा
चेतना चितिसंस्था च चित्कला ज्ञानरूपिणी ।
महाभयङ्करी देवी वरदाभयधारिणी
भवाढ्या भवरूपा च भवबन्धविमोचिनी ।
भवानी भुवनेशी च भवसंसारतारिणी
भवाब्धिर्भवमोक्षा च भवबन्धविघातिनी ।
भागीरथी भगस्था च भाग्यभोगप्रदायिनी
कमला कामदा दुर्गा दुर्गबन्धविमोचिनी ।
दुर्द्दर्शना दुर्गरूपा दुर्ज्ञेया दुर्गनाशिनी
दीनदुःखहरा नित्या नित्यशोकविनाशिनी ।
नित्यानन्दमया देवी नित्यं कल्याणकारिणी
सर्वार्थसाधनकरी सर्वसिद्धिस्वरूपिणी ।
सर्वक्षोभणशक्तिश्च सर्वविद्राविणी परा
सर्वरञ्जनशक्तिश्च सर्वोन्मादस्वरूपिणी ।
सर्वदा सिद्धिदात्री च सिद्धविद्यास्वरूपिणी
सकला निष्कला सिद्धा कलातीता कलामयी ।
कुलज्ञा कुलरूपा च चक्षुरानन्ददायिनी
कुलीना सामरूपा च कामरूपा मनोहरा ।
कमलस्था कञ्जमुखी कुञ्जरेश्वरगामिनी
कुलरूपा कोटराक्षी कमलैश्वर्यदायिनी ।
कुन्ती ककुद्मिनी कुल्ला कुरुकुल्ला करालिका
कामेश्वरी काममाता कामतापविमोचिनी ।
कामरूपा कामसत्वा कामकौतुककारिणी
कारुण्यहृदया क्रीङ्क्रींमन्त्ररूपा च कोटरा ।
कौमोदकी कुमुदिनी कैवल्या कुलवासिनी
केशवी केशवाराध्या केशिदैत्यनिषूदिनी ।
क्लेशहा क्लेशरहिता क्लेशसङ्घविनाशिनी
कराली च करालास्या करालासुरनाशिनी ।
करालचर्मासिधरा करालकलनाशिनी
कङ्किनी कङ्कनिरता कपालवरधारिणी ।
खड्गहस्ता त्रिनेत्रा च खण्डमुण्डासिधारिणी
खलहा खलहन्त्री च क्षरन्ती खगता सदा ।
गङ्गागौतमपूज्या च गौरी गन्धर्ववासिनी
गन्धर्वा गगणाराध्या गणा गन्धर्वसेविता ।
गणत्कारगणा देवी निर्गुणा च गुणात्मिका
गुणता गुणदात्री च गुणगौरवदायिनी ।
गणेशमाता गम्भीरा गगणा ज्योतिकारिणी
गौराङ्गी च गया गम्या गौतमस्थानवासिनी ।
गदाधरप्रिया ज्ञेया ज्ञानगम्या गुहेश्वरी
गायत्री च गुणवती गुणातीता गुणेश्वरी ।
गणेशजननी देवी गणेशवरदायिनी
गणाध्यक्षनुता नित्या गणाध्यक्षप्रपूजिता ।
गिरीशरमणी देवी गिरीशपरिवन्दिता
गतिदा गतिहा गीता गौतमी गुरुसेविता ।
गुरुपूज्या गुरुयुता गुरुसेवनतत्परा
गन्धद्वारा च गन्धाढ्या गन्धात्मा गन्धकारिणी ।
गीर्वाणपतिसम्पूज्या गीर्वाणपतितुष्टिदा
गीर्वाणाधिशरमणी गीर्वाणाधिशवन्दिता ।
गीर्वाणाधिशसंसेव्या गीर्वाणाधिशहर्षदा
गानशक्तिर्गानगम्या गानशक्तिप्रदायिनी ।
गानविद्या गानसिद्धा गानसन्तुष्टमानसा
गानातीता गानगीता गानहर्षप्रपूरिता ।
गन्धर्वपतिसंहृष्टा गन्धर्वगुणमण्डिता
गन्धर्वगणसंसेव्या गन्धर्वगणमध्यगा ।
गन्धर्वगणकुशला गन्धर्वगणपूजिता
गन्धर्वगणनिरता गन्धर्वगणभूषिता ।
घर्घरा घोररूपा च घोरघुर्घुरनादिनी
घर्मबिन्दुसमुद्भूता घर्मबिन्दुस्वरूपिणी ।
घण्टारवा घनरवा घनरूपा घनोदरी
घोरसत्वा च घनदा घण्टानादविनोदनी ।
घोरचाण्डालिनी घोरा घोरचण्डविनाशिनी
घोरदानवदमनी घोरदानवनाशिनी ।
घोरकर्मादिरहिता घोरकर्मनिषेविता
घोरतत्वमयी देवी घोरतत्वविमोचनी ।
घोरकर्मादिरहिता घोरकर्मादिपूरिता
घोरकर्मादिनिरता घोरकर्मप्रवर्द्धिनी ।
घोरभूतप्रमथिनी घोरवेतालनाशिनी
घोरदावाग्निदमनी घोरशत्रुनिषूदिनी ।
घोरमन्त्रयुता चैव घोरमन्त्रप्रपूजिता
घोरमन्त्रमनोभिज्ञा घोरमन्त्रफलप्रदा ।
घोरमन्त्रनिधिश्चैव घोरमन्त्रकृतास्पदा
घोरमन्त्रेश्वरी देवी घोरमन्त्रार्थमानसा ।
घोरमन्त्रार्थतत्वज्ञा घोरमन्त्रार्थपारगा
घोरमन्त्रार्थविभवा घोरमन्त्रार्थबोधिनी ।
घोरमन्त्रार्थनिचया घोरमन्त्रार्थजन्मभूः
घोरमन्त्रजपरता घोरमन्त्रजपोद्यता ।
ङकारवर्णानिलया ङकाराक्षरमण्डिता
ङकारापररूपा ङकाराक्षररूपिणी ।
चित्ररूपा चित्रनाडी चारुकेशी चयप्रभा
चञ्चला चञ्चलाकारा चारुरूपा च चण्डिका ।
चतुर्वेदमयी चण्डा चण्डालगणमण्डिता
चाण्डालच्छेदिनी चण्डतपोनिर्मूलकारिणी ।
चतुर्भूजा चण्डरूपा चण्डमुण्डविनाशिनी
चन्द्रिका चन्द्रकीर्तिश्च चन्द्रकान्तिस्तथैव च ।
चन्द्रास्या चन्द्ररूपा च चन्द्रमौलिस्वरूपिणी
चन्द्रमौलिप्रिया चन्द्रमौलिसन्तुष्टमानसा ।
चकोरबन्धुरमणी चकोरबन्धुपूजिता
चक्ररूपा चक्रमयी चक्राकारस्वरूपिणी ।
चक्रपाणिप्रिया चक्रपाणिप्रीतिदायिनी
चक्रपाणिरसाभिज्ञा चक्रपाणिवरप्रदा ।
चक्रपाणिवरोन्मत्ता चक्रपाणिस्वरूपिणी
चक्रपाणिश्वरी नित्यं चक्रपाणिनमस्कृता ।
चक्रपाणिसमुद्भूता चक्रपाणिगुणास्पदा
चन्द्रावली चन्द्रवती चन्द्रकोटिसमप्रभा ।
चन्दनार्चितपादाब्जा चन्दनान्वितमस्तका
चारुकीर्तिश्चारुनेत्रा चारुचन्द्रविभूषणा ।
चारुभूषा चारुवेषा चारुवेषप्रदायिनी
चारुभूषाभूषिताङ्गी चतुर्वक्त्रवरप्रदा ।
चतुर्वक्त्रसमाराध्या चतुर्वक्त्रसमाश्रिता
चतुर्वक्त्रचतुर्वाहा चतुर्थी च चतुर्दशी ।
चित्रा चर्मण्वती चैत्री चन्द्रभागा च चम्पका
चतुर्द्दशयमाकारा चतुर्दशयमानुगा ।
चतुर्दशयमप्रीता चतुर्दशयमप्रिया
छलस्था च्छिद्ररूपा च च्छद्मदा च्छद्मराजिका ।
छिन्नमस्ता तथा च्छिन्ना च्छिन्नमुण्डविधारिणी
जयदा जयरूपा च जयन्ती जयमोहिनी ।
जया जीवनसंस्था च जालन्धरनिवासिनी
ज्वालामुखी ज्वालदात्री जाज्वल्यदहनोपमा ।
जगद्वन्द्या जगत्पूज्या जगत्त्राणपरायणा
जगती जगताधारा जन्ममृत्युजरापहा ।
जननी जन्मभूमिश्चजन्मदा जयशालिनी
ज्वररोगहरा ज्वाला ज्वालामालाप्रपूरिता ।
जम्भारातीश्वरी जम्भारातिवैभवकारिणी
जम्भारातिस्तुता जम्भारातिशत्रुनिषूदिनी ।
जयदुर्गा जयाराध्या जयकाली जयेश्वरी
जयतारा जयातीता जयशङ्करवल्लभा ।
जयदा जह्नुतनया जलधित्रासकारिणी
जलधिव्याधिदमनी जलधिज्वरनाशिनी ।
जङ्गमेशी जाड्यहरा जाड्यसङ्घनिवारिणी
जाड्यग्रस्तजनातीता जाड्यरोगनिवारिणी ।
जन्मदात्री जन्महर्त्री जयघोषसमन्विता
जपयोगसमायुक्ता जपयोगविनोदिनी ।
जपयोगप्रिया जाप्या जपातीता जयस्वना
जायाभावस्थिता जाया जायाभावप्रपूरणी ।
जपाकुसुमसङ्काशा जपाकुसुमपूजिता
जपाकुसुमसम्प्रीता जपाकुसुममण्डिता ।
जपाकुसुमवद्भासा जपाकुसुमरूपिणी
जमदग्निस्वरूपा च जानकी जनकात्मजा ।
झञ्झावातप्रमुक्ताङ्गी झोरझङ्कारवासिनी
झङ्कारकारिणी झञ्झावातरूपा च झङ्करी ।
ञकाराणुस्वरूपा च टनटङ्कारनादिनी
टङ्कारी टकुवाणी च ठकाराक्षररूपिणी ।
डिण्डिमा च तथा डिम्भा डिण्डुडिण्डिमनादिनी
ढक्कामयी ढिलमयी नृत्यशब्दा विलासिनी ।
ढक्का ढक्केश्वरी ढक्काशब्दरूपा तथैव च
ढक्कानादप्रिया ढक्कानादसन्तुष्टमानसा ।
णङ्कारा णाक्षरमयी णाक्षरादिस्वरूपिणी
त्रिपुरा त्रिपुरमयी चैव त्रिशक्तिस्त्रिगुणात्मिका ।
तामसी च त्रिलोकेशी त्रिपुरा च त्रयीश्वरी
त्रिविद्या च त्रिरूपा च त्रिनेत्रा च त्रिरूपिणी ।
तारिणी तरला तारा तारकारिप्रपूजिता
तारकारिसमाराध्या तारकारिवरप्रदा ।
तारकारिप्रसूस्तन्वी तरुणी तरलप्रभा
त्रिरूपा च त्रिपुरगा त्रिशूलवरधारिणी ।
त्रिशूलिनी तन्त्रमयी तन्त्रशास्त्रविशारदा
तन्त्ररूपा तपोमूर्तिस्तन्त्रमन्त्रस्वरूपिणी ।
तडित्तडिल्लताकारा तत्वज्ञानप्रदायिनी
तत्वज्ञानेश्वरी देवी तत्वज्ञानप्रबोधिनी ।
त्रयीमयी त्रयीसेव्या त्र्यक्षरी त्र्यक्षरेश्वरी
तापविध्वंसिनी तापसङ्घनिर्मूलकारिणी ।
त्रासकर्त्री त्रासहर्त्री त्रासदात्री च त्रासहा
तिथीशा तिथिरूपा च तिथिस्था तिथिपूजिता ।
तिलोत्तमा च तिलदा तिलप्रिता तिलेश्वरी
त्रिगुणा त्रिगुणाकारा त्रिपुरी त्रिपुरात्मिका ।
त्रिकुटा त्रिकुटाकारा त्रिकुटाचलमध्यगा
त्रिजटा च त्रिनेत्रा च त्रिनेत्रवरसुन्दरी ।
तृतीया च त्रिवर्षा च त्रिविधा त्रिमतेश्वरी
त्रिकोणस्था त्रिकोणेशी त्रिकोणयन्त्रमध्यगा ।
त्रिसन्ध्या च त्रिसन्ध्यार्च्या त्रिपदा त्रिपदास्पदा
स्थानस्थिता स्थलस्था च धन्यस्थलनिवासिनी ।
थकाराक्षररूपा च स्थलरूपा तथैव च
स्थूलहस्ता तथा स्थूला स्थैर्यरूपप्रकाशिनी ।
दुर्गा दुर्गार्तिहन्त्री च दुर्गबन्धविमोचिनी
देवी दानवसंहन्त्री दनुज्येष्ठनिषूदिनी ।
दारापत्यप्रदा नित्या शङ्करार्द्धाङ्गधारिणी
दिव्याङ्गी देवमाता च देवदुष्टविनाशिनी ।
दीनदुःखहरा दीनतापनिर्मूलकारिणी
दीनमाता दीनसेव्या दीनदम्भविनाशिनी ।
दनुजध्वंसिनी देवी देवकी देववल्लभा
दानवारिप्रिया दीर्घा दानवारिप्रपूजिता ।
दीर्घस्वरा दीर्घतनुर्द्दीर्घदुर्गतिनाशिनी
दीर्घनेत्रा दीर्घचक्षुर्द्दीर्घकेशी दिगम्बरा ।
दिगम्बरप्रिया दान्ता दिगम्बरस्वरूपिणी
दुःखहीना दुःखहरा दुःखसागरतारिणी ।
दुःखदारिद्र्यशमनी दुःखदारिद्र्यकारिणी
दुःखदा दुस्सहा दुष्टखण्डनैकस्वरूपिणी ।
देववामा देवसेव्या देवशक्तिप्रदायिनी
दामिनी दामिनीप्रीता दामिनीशतसुन्दरी ।
दामिनीशतसंसेव्या दामिनीदामभूषिता
देवताभावसन्तुष्टा देवताशतमध्यगा ।
दयार्द्दरा च दयारूपा दयादानपरायणा
दयाशीला दयासारा दयासागरसंस्थिता ।
दशविद्यात्मिका देवी दशविद्यास्वरूपिणी
धरणी धनदा धात्री धन्या धन्यपरा शिवा ।
धर्म्मरूपा धनिष्ठा च धेया च धीरगोचरा
धर्म्मराजेश्वरी धर्म्मकर्म्मरूपा धनेश्वरी ।
धनुर्विद्या धनुर्गम्या धनुर्द्धरवरप्रदा
धर्म्मशीला धर्म्मलीला धर्म्मकर्म्मविवर्जिता ।
धर्म्मदा धर्म्मनिरता धर्म्मपाखण्डखण्डिनी
धर्म्मेशी धर्म्मरूपा च धर्म्मराजवरप्रदा ।
धर्म्मिणी धर्म्मगेहस्था धर्म्माधर्म्मस्वरूपिणी
धनदा धनदप्रीता धनधान्यसमृद्धिदा ।
धनधान्यसमृद्धिस्था धनधान्यविनाशिनी
धर्म्मनिष्ठा धर्म्मधीरा धर्म्ममार्गरता सदा ।
धर्म्मबीजकृतस्थाना धर्म्मबीजसुरक्षिणी
धर्म्मबीजेश्वरी धर्म्मबीजरूपा च धर्म्मगा ।
धर्म्मबीजसमुद्भूता धर्म्मबीजसमाश्रिता
धराधरपतिप्राणा धराधरपतिस्तुता ।
धराधरेन्द्रतनुजा धराधरेन्द्रवन्दिता
धराधरेन्द्रगेहस्था धराधरेन्द्रपालिनी ।
धराधरेन्द्रसर्वार्तिनाशिनी धर्म्मपालिनी
नवीना निर्म्मला नित्या नागराजप्रपूजिता ।
नागेश्वरी नागमाता नागकन्या च नग्निका
निर्लेपा निर्विकल्पा च निर्लोमा निरुपद्रवा ।
निराहारा निराकारा निरञ्जनस्वरूपिणी
नागिनी नागविभवा नागराजपरिस्तुता ।
नागराजगुणज्ञा च नागराजसुखप्रदा
नागलोकगता नित्यं नागलोकनिवासिनी ।
नागलोकेश्वरी नागभागिनी नागपूजिता
नागमध्यस्थिता नागमोहसङ्क्षोभदायिनी ।
नृत्यप्रिया नृत्यवती नृत्यगीतपरायणा
नृत्येश्वरी नर्तकी च नृत्यरूपा निराश्रया ।
नारायणी नरेन्द्रस्था नरमुण्डास्थिमालिनी
नरमांसप्रिया नित्या नररक्तप्रिया सदा ।
नरराजेश्वरी नारीरूपा नारीस्वरूपिणी
नारीगणार्चिता नारीमध्यगा नूतनाम्बरा ।
नर्मदा च नदीरूपा नदीसङ्गमसंस्थिता
नर्मदेश्वरसम्प्रीता नर्मदेश्वररूपिणी ।
पद्मावती पद्ममुखी पद्मकिञ्जल्कवासिनी
पट्टवस्त्रपरीधाना पद्मरागविभूषिता ।
परमा प्रीतिदा नित्यं प्रेतासननिवासिनी
परिपूर्णरसोन्मत्ता प्रेमविह्वलवल्लभा ।
पवित्रासवनिष्पूता प्रेयसी परमात्मिका
प्रियव्रतपरा नित्यं परमप्रेमदायिनी ।
पुष्पप्रिया पद्मकोशा पद्मधर्म्मनिवासिनी
फेत्कारिणी तन्त्ररूपा फेरुफेरवनादिनी ।
वंशिनी वंशरूपा च बगला वामरूपिणी
वाङ्मयी वसुधा धृष्या वाग्भवाख्या वरा नरा ।
बुद्धिदा बुद्धिरूपा च विद्या वादस्वरूपिणी
बाला वृद्धमयीरूपा वाणी वाक्यनिवासिनी ।
वरुणा वाग्वती वीरा वीरभूषणभूषिता
वीरभद्रार्चितपदा वीरभद्रप्रसूरपि ।
वेदमार्गरता वेदमन्त्ररूपा वषट् प्रिया
वीणावाद्यसमायुक्ता वीणावाद्यपरायणा ।
वीणारवा तथा वीणाशब्दरूपा च वैष्णवी
वैष्णवाचारनिरता वैष्णवाचारतत्परा ।
विष्णुसेव्या विष्णुपत्नी विष्णुरूपा वरानना
विश्वेश्वरी विश्वमाता विश्वनिर्माणकारिणी ।
विश्वरूपा च विश्वेशी विश्वसंहारकारिणी
भैरवी भैरवाराध्या भूतभैरवसेविता ।
भैरवेशी तथा भीमा भैरवेश्वरतुष्टिदा
भैरवाधिशरमणी भैरवाधिशपालिनी ।
भीमेश्वरी भीममाता भीमशब्दपरायणा
भीमरूपा च भीमेशी भीमा भीमवरप्रदा ।
भीमपूजितपादाब्जा भीमभैरवपालिनी
भीमासुरध्वंसकरी भीमदुष्टविनाशिनी ।
भुवना भुवनाराध्या भवानी भूतिदा सदा
भयदा भयहन्त्री च अभया भयरूपिणी ।
भीमनादा विह्वला च भयभीतिविनाशिनी
मत्ता प्रमत्तरूपा च मदोन्मत्तस्वरूपिणी ।
मान्या मनोज्ञा माना च मङ्गला च मनोहरा
माननीया महापूज्या महामहिषमर्द्दिनी ।
महिषासुरहन्त्री च मातङ्गी मयवासिनी
माध्वी मधुमयी मुद्रा मुद्रिका मन्त्ररूपिणी ।
महाविश्वेश्वरी दूती मौलिचन्द्रप्रकाशिनी
यशःस्वरूपिणी देवी योगमार्गप्रदायिनी ।
योगिनी योगगम्या च याम्येशी योगरूपिणी
यज्ञाङ्गी च योगमयी जपरूपा जपात्मिका ।
युगाख्या च युगान्ता च योनिमण्डलवासिनी
अयोनिजा योगनिद्रा योगानन्दप्रदायिनी ।
रमा रतिप्रिया नित्यं रतिरागविवर्द्धिनी
रमणी राससम्भूता रम्या रासप्रिया रसा ।
रणोत्कण्ठा रणस्था च वरा रङ्गप्रदायिनी
रेवती रणजैत्री च रसोद्भूता रणोत्सवा ।
लता लावण्यरूपा च लवणाब्धिस्वरूपिणी
लवङ्गकुसुमाराध्या लोलजिह्वा च लेलिहा ।
वशिनी वनसंस्था च वनपुष्पप्रिया वरा
प्राणेश्वरी बुद्धिरूपा बुद्धिदात्री बुधात्मिका ।
शमनी श्वेतवर्णा च शाङ्करी शिवभाषिणी
श्याम्यरूपा शक्तिरूपा शक्तिबिन्दुनिवासिनी ।
सर्वेश्वरी सर्वदात्री सर्वमाता च शर्वरी
शाम्भवी सिद्धिदा सिद्धा सुषुम्ना सुरभासिनी ।
सहस्रदलमध्यस्था सहस्रदलवर्त्तिनी
हरप्रिया हरध्येया हूँकारबीजरूपिणी ।
लङ्केश्वरी च तरला लोममांसप्रपूजिता
क्षेम्या क्षेमकरी क्षामा क्षीरबिन्दुस्वरूपिणी ।
क्षिप्तचित्तप्रदा नित्यं क्षौमवस्त्रविलासिनी
छिन्ना च च्छिन्नरूपा च क्षुधा क्षौत्काररूपिणी ।
सर्ववर्णमयी देवी सर्वसम्पत्प्रदायिनी
सर्वसम्पत्प्रदात्री च सम्पदापद्विभूषिता ।
सत्त्वरूपा च सर्वार्था सर्वदेवप्रपूजिता
सर्वेश्वरी सर्वमाता सर्वज्ञा सुरसृत्मिका ।
सिन्धुर्मन्दाकिनी गङ्गा नदीसागररूपिणी
सुकेशी मुक्तकेशी च डाकिनी वरवर्णिनी ।
ज्ञानदा ज्ञानगगना सोममण्डलवासिनी
आकाशनिलया नित्या परमाकाशरूपिणी ।
अन्नपूर्णा महानित्या महादेवरसोद्भवा
मङ्गला कालिका चण्डा चण्डनादातिभीषणा ।
चण्डासुरस्य मथिनी चामुण्डा चपलात्मिका
चण्डी चामरकेशी च चलत्कुण्डलधारिणी ।
मुण्डमालाधरा नित्या खण्डमुण्डविलासिनी
खड्गहस्ता मुण्डहस्ता वरहस्ता वरप्रदा ।
असिचर्मधरा नित्या पाशाङ्कुशधरा परा
शूलहस्ता शिवहस्ता घण्टानादविलासिनी ।
धनुर्बाणधराऽऽदित्या नागहस्ता नगात्मजा
महिषासुरहन्त्री च रक्तबीजविनाशिनी ।
रक्तरूपा रक्तगा च रक्तहस्ता भयप्रदा
असिता च धर्म्मधरा पाशाङ्कुशधरा परा ।
धनुर्बाणधरा नित्या धूम्रलोचननाशिनी
परस्था देवतामूर्तिः शर्वाणी शारदा परा ।
नानावर्णविभूषाङ्गी नानारागसमापिनी
पशुवस्त्रपरीधाना पुष्पायुधधरा परा ।
मुक्तरञ्जितमालाढ्या मुक्ताहारविलासिनी
स्वर्णकुण्डलभूषा च स्वर्णसिंहासनस्थिता ।
सुन्दराङ्गी सुवर्णाभा शाम्भवी शकटात्मिका
सर्वलोकेशविद्या च मोहसम्मोहकारिणी ।
श्रेयसी सृष्टिरूपा च च्छिन्नच्छद्ममयी च्छला
छिन्नमुण्डधरा नित्या नित्यानन्दविधायिनी ।
नन्दा पूर्णा च रिक्ता च तिथयः पूर्णषोडशी
कुहूः सङ्क्रान्तिरूपा च पञ्चपर्वविलासिनी ।
पञ्चबाणधरा नित्या पञ्चमप्रीतिदा परा
पञ्चपत्राभिलाषा च पञ्चामृतविलासिनी ।
पञ्चाली पञ्चमी देवी पञ्चरक्तप्रसारिणी
पञ्चबाणधरा नित्या नित्यदात्री दयापरा ।
पललादिप्रिया नित्याऽपशुगम्या परेशिता
परा पररहस्या च परमप्रेमविह्वला ।
कुलिना केशिमार्गस्था कुलमार्गप्रकाशिनी
कुलाकुलस्वरूपा च कुलार्णवमयी कुला ।
रुक्मा च कालरूपा च कालकम्पनकारिणी
विलासरूपिणी भद्रा कुलाकुलनमस्कृता ।
कुबेरवित्तधात्री च कुमारजननी परा
कुमारीरूपसंस्था च कुमारीपूजनाम्बिका ।
कुरङ्गनयना देवी दिनेशास्याऽपराजिता
कुण्डलीकदली सेना कुमार्गरहिता वरा ।
अनतरूपाऽनन्तस्था आनन्दसिन्धुवासिनी
इलास्वरूपिणी देवी इईभेदभयङ्करी ।
इडा च पिङ्गला नाडी इकाराक्षररूपिणी
उमा चोत्पत्तिरूपा च उच्चभावविनाशिनी ।
ऋग्वेदा च निराराध्या यजुर्वेदप्रपूजिता
सामवेदेन सङ्गीता अथर्ववेदभाषिणी ।
ऋकाररूपिणी ऋक्षा निरक्षरस्वरूपिणी
अहिदुर्गासमाचारा इकारार्णस्वरूपिणी ।
ॐकारा प्रणवस्था च ॐकारादिस्वरूपिणी
अनुलोमविलोमस्था थकारवर्णसम्भवा ।
पञ्चाशद्वर्णबीजाढ्या पञ्चाशन्मुण्डमालिका
प्रत्येका दशसङ्ख्या च षोडशी च्छिन्नमस्तका ।
षडङ्गयुवतीपूज्या षडङ्गरूपवर्जिता
षड्वक्त्रसंश्रिता नित्या विश्वेशी खड्गदालया ।
मालामन्त्रमयी मन्त्रजपमाता मदालसा
सर्वविश्वेश्वरी शक्तिः सर्वानन्दप्रदायिनी ।
इति श्रीच्छिन्नमस्ताया नामसहस्रमुत्तमम्
पूजाक्रमेण कथितं साधकानां सुखावहम् ।
गोपनीयं गोपनीयं गोपनीयं न संशयः
अर्द्धरात्रे मुक्तकेशो भक्तियुक्तो भवेन्नरः ।
जपित्वा पूजयित्वा च पठेन्नामसहस्रकम्
विद्यासिद्धिर्भवेत्तस्य षण्मासाभ्यासयोगतः ।
येन केन प्रकारेण देवीभक्तिपरो भवेत्
अखिलान्स्तम्भयेल्लोकांराज्ञोऽपि मोहयेत्सदा ।
आकर्षयेद्देवशक्तिं मारयेद्देवि विद्विषम्
शत्रवो दासतां यान्ति यान्ति पापानि सङ्क्षयम् ।
मृत्युश्च क्षयतां याति पठनाद्भाषणात्प्रिये
प्रशस्तायाः प्रसादेन किं न सिद्ध्यति भूतले ।
इदं रहस्यं परमं परं स्वस्त्ययनं महत्
धृत्वा बाहौ महासिद्धिः प्राप्यते नात्र संशयः ।
अनया सदृशी विद्या विद्यते न महेश्वरि
वारमेकं तु योऽधीते सर्वसिद्धीश्वरो भवेत् ।
कुलवारे कुलाष्टम्यां कुहूसङ्क्रान्तिपर्वसु
यश्चेमं पठते विद्यां तस्य सम्यक्फलं श्रृणु ।
अष्टोत्तरशतं जप्त्वा पठेन्नामसहस्रकम्
भक्त्या स्तुत्वा महादेवि सर्वपापात्प्रमुच्यते ।
सर्वपापैर्विनिर्मुक्तः सर्वसिद्धीश्वरो भवेत्
अष्टम्यां वा निशीथे च चतुष्पथगतो नरः ।
माषभक्तबलिं दत्वा पठेन्नामसहस्रकम्
सुदर्शवामवेद्यां तु मासत्रयविधानतः ।
दुर्जयः कामरूपश्च महाबलपराक्रमः
कुमारीपूजनं नाम मन्त्रमात्रं पठेन्नरः ।
एतन्मन्त्रस्य पठनात्सर्वसिद्धीश्वरो भवेत्
इति ते कथितं देवि सर्वसिद्धिपरं नरः ।
जप्त्वा स्तुत्वा महादेवीं सर्वपापैः प्रमुच्यते
न प्रकाश्यमिदं देवि सर्वदेवनमस्कृतम् ।
इदं रहस्यं परमं गोप्तव्यं पशुसङ्कटे
इति सकलविभूतेर्हेतुभूतं प्रशस्तं पठति
य इह मर्त्त्यश्छिन्नमस्तास्तवं च ।
धनद इव धनाढ्यो माननीयो नृपाणां स भवति
च जनानामाश्रयः सिद्धिवेत्ता
॥ इति श्रीविश्वसारतन्त्रे शिवपार्वतीसंवादे
श्रीच्छिन्नमस्तासहस्रनामस्तोत्रं सम्पूर्णम् ॥
मूल पाठ: chinnamastāsahasranāmastotram · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0