चतुःस्तवसमासार्थ · भाग 11
निरौपम्यस्तव
... कं भूतभौतिकसदृशं सर्वरूपचित्राङ्गंसमुदितं कायं प्रतिलभते ॥ स सर्वबुद्धक्षेत्रपर्षन्ंअण्डलानुगतः कायो धर्मस्वभावगतिंगतत्वान् मनोमय इत्य् उच्यते ।
यदा चित्तं मनश् चापि विज्ञानं न प्रवर्तते ।
तदा मनोमयं कायं लभते बुद्धभूमिं च ॥
इति वचनात् । निरौपम्यो भगवांस् । तथा स सर्वशश् चित्तमनोविज्ञानविकल्पसंज्ञापगतो ऽनवगृहीत आकाशसमो ऽभ्यवकाशप्रकृतितो ऽवतीर्णश् चानुत्पत्तिकधर्मक्षान्तिप्राप्त इत्य् उच्यते । तत्र भवन्तो जिनपुत्राः एवं क्षान्तिसमन्वागतो बोधिसत्त्वः सहप्रतिलम्भाद् अचलाया बोधिसत्त्वभूमेर् ग ं भीरं बोधिसत्त्वविहारम् अनुप्राप्तो भवति दुराज्ञानम् असंभिन्नं सर्वनिमित्तापगतम् इत्यादिवचनान् निःस्वभवार्थवेदी । स एवं क्षान्तिप्रतिलब्धो बोधिसत्त्वो यत्र यत्रोपसंक्रामति क्षत्रियब्राह्मणवैश्यशूद्रदेवब्रह्मपरिषदं भिक्षुभिक्षुणीतीर्थिकमारपर्षदं ( च्स्स् 239 ) सर्वत्रातीतो निःशङ्कम् उपसंक्रामति विशारद एव प्रव्याहरति । तत् कस्माद् धेतोः । स ह्य् अनुत्पत्तिकधर्मक्षान्तिलाभात् सर्वधर्मानुत्पादाकारेण सर्वथा सर्वं प्रतिविद्धवास्त् उ .. माद् अस्य अपरज्ञानकृतं क्लेशकृतं च पर्षच्छारद्यं नास्तीति वैशारद्यप्राप्तः अनभिलाप्यानभिलाप्यकल्पायुःप्रमाणाधिष्ठानतया स आयुर्वशितां लभते । चेतोवशिताम् अप्रमेयासंख्यसमाधिनिध्यप्तिज्ञानप्रवेशनतया । परिष्कारवशितां सर्वलोकधात्वनेकव्यूहालंकारप्रतिमण्डिताधिष्ठानसंदर्शनतया । कर्मवशितां यथाकालं कर्मविपाकाधिष्ठानसंदर्शनतया । उपपत्तिवशितां सर्वलोकधातूपपत्तिसंदर्शनतया । अधिमुक्तिवशितां च प्रतिलभते सर्वलोकधातुबुद्धप्रतिपूर्णसंदर्शनतया । प्रणिधानवशितां च प्रतिलभते यथेष्टबुद्धक्षेत्रलोकाभिसंबोधिसंदर्शनतया । ऋद्धिवशितां सर्वबुद्धक्षेत्रविकुर्वणसंदर्शनतया । धर्मवशिताम् अनन्तमध्यधर्ममुखालोकसंदर्शनतया । ज्ञानवशितां च प्रतिलभते तथागतबलवैशारद्यावेणिकबुद्धधर्मलक्षणानुव्यञ्जनाभिसंबोधिसंदर्शनतया । इत्य् एवं दशवशिताप्राप्तो यस् त्वं दृष्टिविपन्नस्य लोकस्यास्य हितोद्यत इत्य् अनेन च प्रशस्तप्रतिपत्तिर् अमेयत्वम् अचित्तता चोक्ता । वक्ष्यमानेष्व् अपि सर्वेषु प्रत्येकम् अर्थत्रयं योज्यम् । अत एवोक्तं भगवता । गम्भीरधर्मक्षान्तिपारंगतैर् वैशारद्यप्राप्तैर् । धर्मप्रविचयविभक्तिनिर्देशकुशलैर् ( च्स्स् 240 ) इत्य् उक्तम् । तत्र धर्माश् चतुर्विधा विपश्यनाधर्माः स्कन्धधात्वायतनादयः बोधिपक्ष्या धर्माः स्मृत्युपस्थानादयः बुद्धधर्मा दशबलवैशारद्यादयः अधिगमधर्माः श्रोतआपत्तिमार्गफलादयो यथाक्रमम् । एतद्भेदेन चत्वारः श्लोका उक्ताः । तत्र बौद्धं चक्षुर् ध्यानाभिसंस्कारनिर्वृत्तम् अभिज्ञासंगृहीतम् अष्टाविधपरिकर्मलभ्यत्वात् कुमारभुवः ।
ज्ञेयं च परिकर्मैषां स्वभावानुपलम्भत
इति । तेनापि चक्षुषा त्वया न किंचिद् दृष्टं संभाव्यते प्राग् एवेतरैः । पञ्चानाम् अपि चक्षुषाम् अनवभासगमनत्वात् तत्त्वार्थस्य दृष्टिज्ञानम् । अदर्शनम् एव सर्वधर्माणां तत्त्वार्थदर्शनम् । ननु प्रतिलब्धप्रथमादिभुवो ऽपि आर्या न कंचिद् धर्मम् उपलभन्ते तत् को ऽस्यातिशय इत्य् आह । अनुत्तरा चेति । यस्मान् नात्र तत्त्वार्थदर्शनाद् व्युत्थितो भवति । पूर्वकास् तु सप्त विहारा व्यामिश्रा अयम् एकान्तशुद्धः । यथोक्तं । यदा पुनः सर्वप्रायोगिकचर्यां विहाय सप्तम्या भूमेर् अष्टमीं भूमिम् अवक्रान्तो भवति तदा परिशुद्धं बोधिसत्त्वयानम् अभिरूह्य इत्यादि । तस्माद् एव गम्भीराणां बोधिसत्त्वविहाराणां नान्यो ऽस्माद् अधिको गंभीरो इत्य् अत्रानुत्तरेत्य् उच्यते ॥ प्रविचयो लक्षणतः कृत्यतो हेतुतः फलतः संख्यात आस्वादत आदीनवतो निःसरणतश् च क्लेशतो व्यवदानतः परिज्ञातः प्रहाणतः साक्षात्करणतो भावनातश् च । तत्र यथाक्रमं ( च्स्स् 241 ) षड् । अर्थविशेषेण । अर्थद्वयसंग्रहेनैकः तथैवान्यः एकेनैको द्वाभ्याम् अपरः
विकुर्वसि महाऋद्ध्या मायोपमसमाधिना
इत्यादिवचनात् । भावनार्थेन पुनर् एकः । तत्रारूपवद् इत्य् आकाशवत् । तथा चोक्तं यावत् तथागतवैनेयिकानां सत्त्वानां तथागतकायवर्णरूपम् आदर्शयति । इति हि भो जिनपुत्र यावन्तो ऽनभिलाप्येषु बुद्धक्षेत्रप्रसरेषु सत्त्वानाम् उपपत्त्यायतनाधिमुक्तिप्रसरास् तेषु तेषु तथागतः स्वकायविभक्तिम् आदर्शयति । स सर्वकायविकल्पसंज्ञापगत आकाशमताप्राप्तः । तच् चास्य कायसंदर्शनम् अक्षूणम् अवन्ध्यं च सर्वसत्त्वपरिपाकविनयायेत्यादि । विभक्तितश् चत्वारः कायत्रयविभागे श्लोकत्रयं । तथा हि सप्तम्यां भूमौ बुद्धकायव्यूहं जानाति न तु तदा निष्पादयितुं शक्नोति । बुद्धकायव्यूहज्ञानात् तु तस्यां भूमौ निष्पादनेच्छां जानाति । अस्याः प्रभृति निष्पादयतीत्य् आर्यदशभूमकादाव् अवगन्तव्यम् । कर्मावरणप्रतिप्रश्रब्धिर् इत्य् उक्तम् । एतस्या एव क्षान्तेः सहप्रतिलम्भाद् यान्य् अस्य सुगतिदुर्गतिविपाक्यानि कर्मावरणानि तान्य् अस्य समुच्छिन्नानि भवन्ति । अन्यत्र ( च्स्स् 242 ) तथागतानाम् अनागतजनतानुकम्पदर्शनाद् अत एतद्विभागे श्लोकः । कर्मप्लुतिः कर्मणो निष्यन्दफलम् । धर्मधातोर् अचलितमानसत्त्वाद् । वाक्कायनिर्देशतस् त्रयः ॥ तत्रोत्पादविगमान् नित्यो निरोधविगमाद् ध्रुवः शिवो द्वयाभावात् । शिवत्वं च द्वयाकल्पाद् इति वचनात् । कौशल एकः । तत्र मन्यनाभावः क्लिष्टमनःपरावृत्त्या । विकल्पाभावः प्रवृत्तिविज्ञानपरावृत्त्या । इञ्जनाभाव आलयपरावृत्त्या । सर्वेष्व् अप्य् अवस्थितार्थत्रयोपसंहारद्वारेणा भगवतो गुणानां कीर्तनेन प्रसूतपुण्यस्यास्यां भुवि सत्त्वानां प्रतिष्ठापनाय परिणामनार्थेनैक उक्तः । तत्र प्रशस्तगमनाद् पुनरावृत्त्या च सुगतः अतर्क्यत्वाद् अलाप्यत्वाद् आर्यज्ञानाद् अचिन्त्यतेत्य् अचिन्त्यः अप्रमेयं अप्रमेयाश्रयपरावृत्त्या विभुत्वलाभात् । तथा ह्य् अस्यां भूमौ निरन्तमहाबोधिसमुदागमप्रयोगसमाधिषु व्यवस्थितो बोधिसत्त्वो
नित्योज्ज्वलितबुद्धिश् च कृत्यसंपादने ऽग्निवत् ।
शान्तध्यानसमापत्तिसमापन्नश् च सर्वदा ।
इत्य् उक्तम् ॥ इति द्वितीयस्य समासार्थः ॥
अचिन्त्यस्तव
इदानीं तृतीयां विहारावस्थाम् अधिकृत्याह । स्वाभाविकी स्याद् यदि वस्तुसिद्धिर् उदीर्णदीपेतरशान्तिसिद्धिवत् तदा सर्वक्लेशमहेश्वरस्य चरतो मोहस्य शान्तिः कथम् । अतः सर्वथा सर्वदृष्टीणां प्रहाणाय
प्रतीत्यजानां भावानां नैःस्वाभाव्यं जगादय इत्याद्य् आह । तत्र नवम्यां बोधिसत्त्व भूमौ प्रतिसंविद्विहारः । ( च्स्स् 243 ) इह बोधिसत्त्वस् तेनापि विहारेण ग ं भीरेणासंतुष्ट उत्तरिज्ञानविसेषताम् अनुगच्छन् यैश् च धर्मज्ञानाभिसंस्कारैः परेषां धर्मः सर्वाकारो बोधिसत्त्वेन देशयितव्यो यच् च धर्माख्यानकृत्यं तत् सर्वं यथाभूतं प्रजानाति । तत्रेदं धर्मसमाख्यानकृत्यम् । गहनोपविचारेषु ये च संक्लिश्यन्ते विशुद्ध्यन्ते येन च संक्लिश्यन्ते विशुद्ध्यन्ते यच् च संक्लेषव्यवदानं या च तस्यानैकान्तिकता या च तस्यैकान्तिकानैकान्तिकता तस्य यथाभूतज्ञानम् । एवं च देशनाकुशलस्य देशनाकृत्यकुशलस्य च यत् सर्वाकारमहाधर्मभाणकत्वम् इत्यादि यथासूत्रम् एव विस्तरतो वेदितव्यम् । असमज्ञानम् इति दशम्यां तथागतकृत्येनावस्थितत्वाद् यथोक्तम् आर्यदशभूमके । यावद् दशानां समाध्यसंख्येयशतसहस्राणां पर्यन्ते सर्वज्ञज्ञानविशेषाभिषेकवान् नाम बोधिसत्त्वसमाधिर् आमुखीभवतीत्यादि । यद् अधिकृत्योक्तम् ।
पूर्वावेधवशात् सर्वविकल्पापगमाच् च सः ।
न पुनः कुरुते यत्नं परिपाकाय देहिनाम् ॥ 1
यो यथा येन वैनेयो मन्यते ऽसौ तथैव च ।
देशनारूपकायाभ्यां चर्ययेर्यापथेन वा ॥ 2
अनाभोगेन तस्यैवम् अव्याहतधियः सदा ।
जगत्य् आकाशपर्यन्ते सत्त्वार्थः संप्रवर्तते ॥ 3
एतां गतिम् औउप्राप्तो बोधिसत्त्वस् तथागतैः ।
समताम् एति लोकेषु सत्त्वसंतारणं प्रति ॥ 4
अथा चाणोः पृथिव्याश् च गोष्पदस्योदाधेश् च यत् ।
अन्तरं बोधिसत्त्वानां बुद्धस्य च तद् अन्तरम् ॥ 5
इति
अचिन्त्यम् इति यथोक्तं स खलु भो जिनपुत्र बोधिसत्त्व एवम् इमां भूमिम् अनुगतो ऽचिन्त्यं च नाम बोधिसत्त्वविमोक्षं प्रतिलभते ऽनावरणं चेत्यादि । वाग्गोचरातीततरेषु वाचाम् अगोचरैर् एव च । पिण्डितेषु रजांसि यावन्ति गुणा दशम्यां भवन्ति तावन्त इहास्य तावद् इत्य् अनिदर्शनम् उक्तं भगवत्यां निष्ठागमनभूमिव्यवस्थितबोधिसत्त्वगुणनिर्देशे । मायामरीचिगन्धर्वदकचन्द्रस्वप्नप्रतिभासप्रतिश्रुत्काप्रतिबिम्बनिर्माणोपमधर्माधिमुक्तेर् इति दृष्टान्ताष्टकेनाष्टानि लक्षणानि सूचितानि । तद् यथा शून्यतालक्षणम् अनिमित्तलक्षणम् अप्रणिहितलक्षणं निःस्वभावलक्षणं प्रतीत्यसमुत्पादलक्षणं परिकल्पितलक्षणं परतन्त्रलक्षणं च । तत्र षद्भिः षद्भिस् त्रिभिर् देशनाकृत्यार्थभेदेन यथाक्रमं त्रीणि लक्षणान्य् उक्तानि । एकेनैषाम् एव त्रयाणाम् उपसंहारः षद्भिः सप्तभिः षड्भिः सप्तभिश् च शेषानिबोद्धव्यानि । इति मायादिदृष्टान्तैर् इत्यादि सप्तभिः श्लोकैर् यथाक्रमं गुणकथनमुखेन सर्वेषाम् उपसंहारः काम् अप्य् अचिन्त्यां परमगम्भिरावस्थां प्राप्तत्वाद् अस्य विहारस्येति भवद्दृशा एव भवन्तं जनयन्तीति प्रतिपादनायैकः ॥ अस्याम् एव भुवि सत्त्वानां प्रतिष्ठापनाय पुण्यपरिणामनम् इत्य् अन्यः ॥ ॥
तृतीयस्य समासार्थः ॥ ॥
परमार्थस्तव
फलावस्थाम् आरभ्य सर्व एवानाश्रवा धर्माः सर्वप्रकाराम् अनुत्तरां विशुद्धिम् उपगतवन्तः संबुद्धाख्यां प्रतिलभन्ते । तेषां हेत्ववस्थायाम् एव तावद् अशून्यता प्राग् एव फलावस्थायाम् इत्य् आह ॥ कथं स्तोष्यामि ते नाथेत्यादि । अनुत्पन्नम् अनालयम् इति अनुत्पन्नस्वभावेनेत्यादेर् यावद् गम्भीराय नमो ऽस्तु त इत्य् एतदन्तस्य सूचनम् ॥ वाक् वाचां पन्थाश् च संकल्पः । तयोर् अतीतो गोचरो येन । तथा चोक्तम् अचिन्त्यम् अनिदर्शनम् इति । तथापीत्यादिना संवृत्या परिहारः । अभिमुख्याः प्रभृति विशेषतः प्रतिलब्धानाम् अनुत्पादादीनां निरतिशयार्थेन पञ्च तस्याः प्रभृति निरोधलाभाद् आवरणद्वयवासनाशेषस्याप्य् अभावात् परमगाम्भीर्यार्थेनैकः । एवं स्तुते स्तुतो भूयाः संवृत्येति शेषः अथवा किं बत स्तुतः परमार्थेन । किंशब्द आक्षेपे बतशब्दो ऽवधारणेनेव चेत्य् अर्थः । तम् एव प्रतिपादयति स्तुत्येत्यादि । इदानीं संवृत्यापि स्तुतेर् असंभवं प्रतिपादयन्न् आह । कस् त्वां शक्नोति संस्तोतुम् इत्यादि । उत्पादव्ययवर्जितो भगवान् स्तोता चोत्पादव्यययुक्तः । अनाद्यन्तमध्यो भगवान् । स च त्रिकाण्डप्रतीत्यसमुत्पादसंगृहीतः । ग्राहकग्राह्यनिर्मुक्तो भगवान् स च ग्राहके ग्राह्ये च चरतीति । संवृत्यापि भूतगुणाख्यानरूपायाः स्तुतेर् असंभवः । अचिन्त्यप्रतीत्यसमुत्पादधर्मतया सत्य् अद्वये ऽपि प्रकृतेर् अभावाद् इति ॥ स्वभावपरिशुद्ध्यधिमुक्त्यापि वस्तुनो ( च्स्स् 246 ) ऽनुपलम्ब्लिएन प्रवृत्तस् तु महाफल इति । महान् असंभवो भवतीति प्रत्येतव्यम् ॥ सुगतपदप्रापणाय पुण्यपरिणामनार्थेनैकः ॥ एतावन्तम् एवार्थम् अधिकृत्याभिसमयक्रमः प्रज्ञापारमितादिषु विस्तरेणोक्तो बोद्धव्यः ॥ ॥ इति चतुर्थस्य समासार्थः ॥
चतुःस्तवसमासार्थः पण्डितामृताकरस्येति ॥ ॥
मूल पाठ: Catuḥstavasamāsārtha · Edition: G. Tucci. Minor Buddhist Texts, part I. · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0