चतुःशतिका · अध्याय 1
आर्यदेवस्य तन्नामनोपलब्धग्रन्थभागाः
चतुः शतिका (च्स्)
1.21. शत्रुवत् यान्ति ते काला नियमेन क्षणादयः ।
सर्व्वथा तेन ते रागः शत्रुभूतेषु तेषु मा
1.22. विप्रयोगभयाद्गेहान्न निर्गच्छमि [दुर्म्मते] ।
[विविच्य] नाम कर्तव्यं कुर्य्याद्दण्डेन को बुधः
2.7. शरीरं सुचिरेणापि सुखस्य स्वं न जायते ।
परेणाभिभवो नाम स्वभावस्य न युज्यते
2.8. अग्रयाणां मानसं दुःखमितरेषां शरीरजम् ।
दुःखद्वयेन लोकोयमहन्यहनि हन्यते
2.9. कल्पनायाः सुखं वश्यं वश्याद्दुःखस्य कल्पना ।
अतोस्ति किञ्चित् सर्व्वत्र न दुःखाद्वलमन्तरम्
2.10. कालो यथा यथा याति दुःखवृद्धिस्तथ तथा ।
तस्मात् कडेवरस्यास्य परवदृश्यते सुखम्
2.11. व्याधयोऽन्ये च दृश्यन्ते यावन्तो दुःखहेतवः ।
तावन्तो न तु दृश्यन्ते नराणां सुखहेतवः
2.12. सुखस्य वर्द्धमानस्य यथा दृष्टो विपर्ययः ।
दुःखस्य वर्द्धमानस्य तथा नास्ति विपर्ययः
3.13. प्रतिनासिकया तुष्टिः स्याद्धीनाङ्गस्य कस्यचित् ।
रागोऽशुचिप्रतीकारे पुष्पादाविष्यते तथा
3.24. शुचि नाम च तद्युक्तं वैराग्यं यत्र जायते ।
न च सोऽस्ति क्वचिद्भावो निययाद् रागकारणम्
3.25. अनित्यमशुभं दुःखमनात्मेति चतुष्टयम् ।
एकस्मिन्नेव सर्वाणि सम्भर्वान्त समासतः
4.1. अहं ममेति वा दर्पः सतः कस्य भवेद् भवे ।
यस्मात् सर्व्वेऽपि सामान्या विषयाः सर्व्व देहिनाम्
4.2. गणदासस्य ते दर्पः षड्भागेन भृतस्य कः ।
जायतेऽधिकृते कार्य्यमायत्तं यत्र तत्र वा
4.14. ऋषीणां चेष्टितं सर्व्व कुर्वीत न विचक्षणः ।
हीनमध्यविशिष्टत्वं यस्मात्तेष्वपि विद्यते
4.15. पुत्रवत् पालितो लोकः पुरतः पार्थिवैः शुभैः ।
मृगारण्यीकृतः सोऽद्य कलिधर्मसमाश्रितैः
4.16. छिद्रप्रहारिणः पापं यदि राज्ञो न विद्यते ।
अन्येषामपि चौराणां तत् प्रागेव न विद्यते
4.17. सर्व्वस्वस्य परित्यागो मद्यादिषु न पूजितः ।
आत्मनोऽपि परित्यागः किं मन्ये पूजितो रणे
4.23. विप्रोऽपि कर्म्मना शूद्रः केन मन्ये न जायते
4.24. पापस्यैश्वर्य्यवद्राजन् संविभागो न विद्यते ।
विद्वान्नाम परस्यार्थे कः कुर्य्यादायतोवधं
4.25. दृष्ट्वा समान् विशिष्टांश्च परांश्छक्तिसमन्वितान् ।
ऐश्वार्यजनितो मानः सतां हृदि न तिष्ठति
5.1. न चेष्टा किल बुद्धानामस्ति काचिदकारणा ।
निःश्वासोऽपि हितायैव प्राणिनां संप्रवर्त्तत्ते
मूल पाठ: Catuḥśatikā · Edition: Bhagchandra Jain: Catuhsataka of Arya Deva. Nagpur : Alok Prakashan 1971, pp. 159-160 · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0