भाषा

ENहिગુ
ग्रंथ पाठ

चर्यासंग्रहप्रदीप · श्लोक 1-20

1

चर्यासङ्ग्रहप्रदीपः (च्स्प्)
नमो लोकेश्वराय
मदाद्यशेषमूढानां यस्य वचनरश्मिभिः ।
फुल्लतामेति हृत्पद्मं तं वन्दे पुरुषोत्तमम्

2

पारमिं गुह्यमन्त्रं च श्रित्वा बोधिः प्रसिध्यति ।
गुरुबुद्धोक्तितस्त्वेवं तदर्थो लिख्यते मया

3

गुह्यमन्त्रो ऽत्र नो वाच्यः पारमीनयचारिकाः ।
बोधिसत्त्वस्य चर्यास्तु समासेन लिखाम्यहम्

4

धीमतः संवरो ग्राह्यो बोधिचित्तपुरः सरः ।
आलोक्याशेषसूत्राणि शास्त्रं श्रव्यं समस्तकम्

5

कायेन मनसा वाचा यथोक्तान् संवरान् त्रिभिः ।
रक्षेदक्षुण्णशुद्धांश्च शीलांश्च परिशोधयेत्

6

भक्तमात्रां विजानीयाद् इन्द्रियद्वारमावरेत् ।
रात्रेः पूर्वे ऽपरे भागे न सुप्त्वा योगमाचरेत्

7

अणुमात्रेष्ववद्येषु ह्यतिमात्रं बिभेति च ।
रात्रेर्भागत्रयं कृत्वा ह्यन्त्ये भागे तु जागृयात्

8

प्रक्षालयेन्मुखादीन् वाक्षालनं वापि युज्यते ।
सुखासनं समाश्रित्य धर्माणां धर्मतां स्मरेत्

9

निमित्तैः क्षोभतो ऽशक्ये तूत्त्थायाभासवस्तुषु ।
मायावत्त्वेन सम्प्रेक्ष्य पुण्ययोगांस्तदन्तरे

10

पूरयेच्चापि सप्ताङ्गान् विपुलां प्रणिधिं चरेत् ।
भावयेद् भावनां पूर्वा काले ऽथ भोजनस्य च

11

एतन्निः सारकायेन परं सारं गवेषयन् ।
कायं नौकाधिया रक्षेद् न भुङ्क्तां स्थूलताकृते

12

रसासक्त्या न भुञ्जीत चतुर्धान्नं विभज्य च ।
देवेभ्यो विनिवेद्यादिं धर्मपालाय तत्परम्

13

बलिं सुविपुलां दद्यात् शेषं स्वभुक्तपीततः ।
दद्याच्च सर्वभूतेभ्यः कथातन्त्रं तदन्तरे

14

कुर्यादद्भुतवार्त्ता च किञ्चिदुत्थाय सञ्चरेत् ।
परिक्रामेदधिष्ठानं जपं वा ग्रन्थवाचनम्

15

सुगतप्रतिमां कुर्याद् यावत् स्वेदो न जायते ।
कुर्यात्, प्रदक्षिणां तावद् अक्षुब्धः प्रणिधिं बहुम्

16

धर्मचर्या दशप्रोक्ताः मैत्रेयेण, समासतः ।
चरेदक्षिप्तचित्तेन मायौपम्यं च संस्मरन्

17

यदि स्यात् पूजयेत् सङ्घं कुर्याद् वा बालकोत्सवम् ।
अनाथेभ्यः सुदानं तु योगिने पुण्यसञ्चयः

18

पूर्णेषु दिनकृत्येषु भागे च प्रथमे निशः ।
धर्मता निष्प्रपञ्चापि तथा चित्तं च योजयेत्

19

प्राप्तायां मध्यरात्रौ च उत्थानाभाससञ्ज्ञया ।
सिंहनिद्रा यथा तद्वत् शुभनिद्रां समाश्रयेत्

20

प्रायो ध्यानदृढे चित्ते कायवाक्पुण्यगौणता ।
असंस्पृष्टे समाधौ वा लोककल्पप्रवृत्तये

मूल पाठ: Caryāsaṃgrahapradīpa · Edition: G. Tucci: Minor Buddhist Texts. Delhi: Motilal Banarsidas 1986, pp. 201-203. · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc