भाषा

ENहिગુ
ग्रंथ पाठ

Carmavastu · भाग 12

चर्मवस्तु
( 80व्6 = ग्ब्म् 6.742; म्स्व् इव् 159 ) उद्दानम् ।
पञ्चभिर् उपसंप दा शयनासन + + + ।
+ + + + + + + + + ॥
बुद्धो {च्f. दिव्य् 1-24} भगवाञ् छ्रावस्त्यां विहरति स्म जेतवने ऽनाथपिण्डदस्यारामे । तस्मिन् समये ऽश्मकनगरान्तके वासव ग्रामके बलसेनो नाम गृहपतिः प्रतिवसत्य् आढ्यो महाधनो महाभोगे विस्तीर्णविशालपरिग्रहो वैश्रवणधनप्रतिस्पर्धी । तेन सदृशात् कुलात् कलत्रम् आनीतम्* । स तया सार्धं क्रीडति रमते परिचारय ति । तस्य क्रीडतो रममाणस्य परिचारयतो न पुत्रो न दुहिता । सो ऽपुत्रः पुत्राभिनन्दी शिववरुणकुबेरशक्रब्रह्मादीन् आयाचते । आरामदेवतां वनदेवतां शृङ्गाटकदेवतां बलि प्रतिग्राहिकां देवतां सहजां सहधर्मिकां नित्यानुबद्धाम् अपि देवताम् आयाचते । अस्ति चैष लोकप्रवा दो यदायाचनहेतोः पुत्रा जायन्ते दुहितरश् चेति । तच् च नैवम्* । यद्य् एवम् अभविष्यद् एकैकस्य पुत्रसहस्रम् अभविष्यत् तद्यथा राज्ञश् चक्रवर्तिनः । अपि तु त्रयाणां स्थाना नां संमुखीभावात् पुत्रा जायन्ते दुहितरश् च । कतमेषां त्रयाणाम्* । मातापितरौ रक्तौ भवतः संनिपतितौ ( 81र् = ग्ब्म् 6.744 ) माता कल्या भवति ऋतुमती गन्धर्वश् च प्रत्युपस्थितो भवति । एषां त्रयाणां स्थानानां संमुखीभावात् पुत्रा जायन्ते दुहितरश् च । स चैवम् आयाचनपरस् तिष्ठति । अन्यतमश् ( म्स्व् इव् 160 ) च सत्वश् चरमभविकश् चरितैषी गृहीतमोक्षमार्गो ऽन्तर्मुखो निर्वाणे बहिर्मुखः संसाराद् अनर्थिकः सर्वभवगतिच्युत्युपपत्तिषु अन्तिमदेहधारी अन्यतमस्माद् देवनिकायाच् च्युत्वा तस्याः प्रजापत्याः कुक्षिम् अवक्रान्तः । पंचावेणिका धर्मा एकत्ये पण्डितजातीये मातृग्रामे । कतमे पंच । रक्तं पुरुषं जानाति । विरक्तं जानाति । कालं जानाति ऋतुं जानाति । गर्भम् अवक्रान्तं जानाति । यस्य सकाशाद् गर्भम् अवक्रामति तं जानाति । दारकं जानाति । दारिकां जानाति । सचेद् दारको भवति दक्षिणं कुक्षिं निश्रित्य तिष्ठति । सचेद् दारिका भवति वामं कुक्षिं निश्रित्य तिष्ठति । सात्तमनात्तमनाः स्वामिन आरोचयति । दिष्ट्यार्यपुत्र वर्धस्वापन्नसत्वास्मि संवृत्ता । यथा च मे दक्षिणं कुक्षिं निश्रित्य तिष्ठति नियतं दारको भविष्यति । सो ऽप्य् आत्तमनात्तमना उदानम् उदानयति । अप्य् एवाहं चिरकालाभिलषितं पुत्रमुखं पश्येयं समजातो मे स्यान् नावजातः । कृत्यानि मे कुर्वीत भृतः प्रतिबिभृयाद् दायाद्यं प्रतिपद्येत कुलवंशो मे चिरस्थितिकः स्यात्* । अस्माकं चाप्य् अतीतकालगतानाम् अल्पं वा प्रभूतं वा दानानि दत्वा पुण्यानि कृत्वा अस्माकं ( म्स्व् इव् 161 ) नाम्ना दक्षिणाम् आदेक्ष्यति । इदं तयोर् यत्र यत्रोपपन्नयोर् गच्छतोर् अनुगच्छत्व् इति । आपन्नसत्वां चैनां विदित्वा उपरि प्रासादतलगताम् अयन्त्रितां धारयति शीते शीतोपकरणैर् उष्णे उष्णोपकरणैर् वैद्यप्रज्ञप्तैर् आहारैर् नातितिक्तैर् नात्यम्लैर् नातिलवणैर् नातिमधुरैर् नातिकटुकैर् नातिकषायैस् तिक्ताम्ललवणमधुरकटुककषायविवर्जितैर् आहारैर् हारार्धहारविभूषितगात्रीम् अप्सरसम् इव नन्दनवनविचारिणीं मञ्चान् मञ्चं पीठात् पीठम् अनवतरन्तीम् अधरिमां भूमिम्* । न चास्याः किंचिद् अमनोज्ञशब्दश्रवणं यावद् एव गर्भस्य परिपाकाय । साष्टानां वा नवानां वा मासानाम् अत्ययात् प्रसूता । दारको जातः । अभिरूपो दर्शनीयः प्रासादिको गौरः कनकवर्णश् छत्राकारशिराः प्रलम्बबाहुर् विस्तीर्णविशालललाटः सङ्गतभ्रूर् उत्तुङ्गनासो रत्नप्रत्युप्तिकया कर्णिकया आमुक्तयालङ्कृतः । बलसेनेन गृहपतिना रत्नपरीक्षका आहूयोक्ताः । भवन्तो रत्नानां मूल्यं कुरुत इति । न शक्यते रत्नानां मूल्यं कर्तुम् इति । धर्मता खलु यस्य रत्नस्य न शक्यते मूल्यं कर्तुं तस्य कोटिर् मूल्यं क्रियते । ते कथयन्ति । गृहपते एषां रत्नानां कोतिर् मूल्यम् इति । तस्य ज्ञातयः संगम्य समागम्य त्रीणि सप्तकान्य् एकविंशतिदिवसानि विस्तरेण जातस्य जातिमहं कृत्वा नामधेयं ( म्स्व् इव् 162 ) व्यवस्थापयन्ति । किं भवतु दारकस्य नामेति । ज्ञातयः ऊचुः । अयं दारकः कोटिमूल्यया रत्नप्रत्युप्तिकया आमुक्तया {म्स् कर्णिकया} जातः श्रवणेषु च नक्षत्रेषु । भवतु दारकस्य श्रोणः कोटीकर्ण इति नाम । यस्मिन्न् एव दिवसे श्रोणः कोटीकर्णो जातस् तस्मिन्न् एव दिवसे बलसेनस्य गृहपतेर् द्वौ प्रेष्यदारकौ ( 81व् = ग्ब्म् 6.745 ) जातौ । तेनैकस्य दासक इति नामधेयं व्यवस्थापितम् अपरस्य पालक इति । श्रोणः कोटीकर्णो ऽष्टाभ्यो धात्रीभ्यो ऽनुप्रदत्तो द्वाभ्याम् अंसधात्रीभ्यां द्वाभ्यां क्रीडनिकाभ्यां द्वाभ्यां मलधात्रीभ्यां द्वाभ्यां क्षीरधात्रीभ्यां । सो ऽष्टाभिर् धात्रीभिर् उन्नीयते वर्ध्यते क्षीरेण दध्ना नवनीतेन सर्पिषा सर्पिर्मण्डेनान्यैश् चोत्तप्तोत्तप्तैर् उपकरणविशेषैर् आशु वर्धते ह्रदस्थम् इव पङ्कजम्* । स यदा महान् संवृत्तस् तदा लिप्याम् उपन्यस्तः संख्यायां गणनायां मुद्रायाम् उद्धारे न्यासे निक्षेपे वास्तुपरीक्षायां रत्नपरीक्षायाम्* । सो ऽष्टासु परीक्षासूद्घाटको वाचकः पण्डितः पटुप्रचारः संवृत्तः । तस्य पित्रा त्रीणि वासगृहाणि मापितानि । हैमन्तिकं ग्रैष्मिकं वार्षिकम्* । त्रीण्य् उद्यानानि मापितानि हैमन्तिकं ग्रैष्मिकं वार्षिकम्* । त्रीण्य् अन्तःपुराणि प्रत्युपस्थापितानि ज्येष्ठकं मध्यमं कनीयसम्* । स उपरि प्रासादतलगतो निष्पुरुषेण तूर्येण क्रीडति रमते परिचारयति । बलसेनो गृहपतिर् नित्यम् एव कृषिकर्मान्ते उद्युक्तः । स कोटीकर्णस् तं पितरम् पश्यति( म्स्व् इव् 163 ) नित्यं कृषिकर्मान्ते उद्युक्तम्* । स कथयति । तात कस्यार्थे त्वं नित्यम् एव कृषिकर्मान्ते उद्युक्तः । स कथयति । पुत्र यथा त्वम् उपरि प्रासादतलगतो निष्पुरुषेण तूर्येण क्रीडसि रमसे परिचारयसि यद्य् अहम् अप्य् एवम् एव क्रीडेयं रमेयं परिचारयेयं न चिराद् एवास्माकं भोगास् तनुत्वं परिक्षयं पर्यादानं गच्छेयुः । स संलक्षयति । ममैवार्थं चोदना क्रियते । स कथयति । तात यद्य् एवं पण्यम् आदाय देशान्तरं गच्छामि । पिता कथयति । पुत्र तावन्तं मे रत्नजातम् अस्ति यदि त्वं तिलतण्डुलकोलकुलत्थन्यायेन रत्नानि परिभोक्ष्यसे

तथापि मे रत्नानां परिक्षयो न स्यात्* । स कथयति । तातानुजानीहि मां गच्छामि पण्यम् आदाय देशान्तरम् इति । बलसेन तस्यावश्यं निर्बन्धं ज्ञात्वा अनुज्ञातः । बलसेन गृहपतिना वासवग्रामके घण्टावघोषणं कारितं यो युष्माकम् उत्सहते श्रोणेन कोटीकर्णेन सार्थवाहेन सार्धम् अशुल्केनातर्पण्येन महासमुद्रम् अवतर्तुं स महासमुद्रगमनीयं पण्यं समुदानयतु । पञ्चभिर् वणिक्शतैर् महासमुद्रगमनीयं पण्यं समुदानीतम्* । बलसेनो नाम गृहपतिः संलक्षयति । कीदृशेन ( म्स्व् इव् 164 ) यानेन श्रोणः कोटीकर्णो यास्यति । स संलक्षयति । सचेद् धस्तिभिर् हस्तिनः सुकुमारा दुर्भराश् च । अश्वा अपि सुकुमारा दुर्भराश् च । गर्दभाः स्मृतिमन्तः सुकुमाराश् च । गर्दभयानेन गच्छत्व् इति । स पित्राहूयोक्तः । पुत्र न त्वया सार्थस्य पुरस्ताद् गन्तव्यं नापि पृष्ठतः । यदि बलवांश् च चौरो भवति सार्थस्य पुरस्तान् निपतति दुर्बलो भवति पृष्ठतो निपतति । त्वया सार्थस्य मध्ये गन्तव्यं न चेत् हते सार्थवाहे हतः सार्थो भवेत्* । दासकपालकाव् अपि अभिहितौ । पुत्रौ युवाभ्यां न केनचित् प्रकारेण श्रोणः कोटीकर्णो मोक्तव्य इति । अथापरेण समयेन श्रोणः कोटीकर्णः कृतकौतुकमङ्गलस्वस्त्ययनो मातुः सकाशम् उपसंक्रम्य पादयोर् निपत्य कथयति । अम्ब गच्छामि अवलोकिता भव महासमुद्रम् अवतरामि । सा रुदितुम् आरब्धा । स कथयति । अम्ब कस्माद् रोदिषि । माता साश्रुदुर्दिनवदना कथयति । पुत्र कदाचिद् अहं पुत्रकं पुनर् अपि जीवन्तं द्रक्ष्यामि इति । स संलक्षयति । अहं मङ्गलैः संप्रस्थितः । ( 82र् = ग्ब्म् 6.746 ) इयम् ईदृशम् अमङ्गलम् अभिधत्ते । स रुषितः कथयति । अम्ब अहं कृतकौतुकमङ्गलस्वस्त्ययनो महासमुद्रं संप्रस्थितः । त्वं चेदृशान्य् अमङ्गलानि करोषि । अपायान् किं न पश्यसीति । सा कथयति । पुत्र खरं ते वाक्कर्म निश्चारितम्* ।( म्स्व् इव् 165 ) अत्ययम् अत्ययतो देशय । अप्य् एवैतत् कर्म तनुत्वं परिक्षयं पर्यादानं गच्छेत्* । सा तेनात्ययम् अत्ययतः क्षमापिता । अथ श्रोणः कोटीकर्णः कृतकौतुकमङ्गलस्वस्त्ययनः शकटैर् भारैर् मोटैः पिटकैर् उष्ट्रैर् गोभिर् गर्दभैः प्रभूतं समुद्रगमनीयं पण्यम् आरोप्य महासमुद्रं संप्रस्थितः ।
सो ऽनुपूर्वेण ग्रामनगरनिगमपल्लीपत्तनेषु चञ्चूर्यमाणो महासमुद्रतटम् अनुप्राप्तः {म्स्: समुद्रतीरसमनुप्राप्तः} । निपुणतः सामुद्रं यानपात्रं प्रतिपद्य महासमुद्रम् अवतीर्णो धनहारकः सो ऽनुगुणेन वायुना रत्नद्वीपम् अनुप्राप्तः । तेन तत्रोपपरीक्ष्योपपरीक्ष्य रत्नानां तद् वहनं पूरितं तद्यथा तिलतण्डुलकोलकुलत्थानाम्* । सो ऽनुगुणेन वायुना संसिद्धयानपात्रो जम्बुद्वीपम् अनुप्राप्तः । स सार्थस् तस्मिन्न् एव समुद्रतीरे आवासितः । असौ श्रोणः कोटीकर्णो ऽपि सार्थवाहो दासकपालकाव् आदाय सार्थमध्याद् एकान्ते ऽपक्रम्य आयं व्ययं च तुलयितुम् आरब्धः । पश्चात् तेनासौ दासको ऽभिहितः । दासक पश्य सार्थः किं करोतीति । स गतः । यावत् पश्यति सार्धं सुप्तम्* । सो ऽपि तत्रैव सुप्तः । दासकश् चिरायतीति कृत्वा पालको ऽभिहितः । पालक पश्य सार्थः किं करोतीति । स गतः । यावत् पश्यति स्थोरां लर्दयन्तं सार्थम्* । सो ऽपि स्थोरां लर्दयितुम् आरब्धः । दासक संलक्षयति । पालकः सार्थवाहं शब्दापयिष्यति । पालको ऽपि ( म्स्व् इव् 166 ) संलक्षयति । दासकः सार्थवाहं शब्दापयिष्यतीति । स सार्थः सरात्रिम् एव स्थोरां लर्दयित्वा संप्रस्थितः । सो ऽपि गाढनिद्रावष्टब्धः शयितः । स सार्थस् तावद् गतो यावत् प्रभातम्* । ते कथयन्ति । भवन्तः क्व सार्थवाहः । पुरस्ताद् गच्छति । पुरस्ताद् गत्वा पृच्छन्ति क्व सार्थवाहः । पृष्ठत आगच्छति । पृष्ठतो गत्वा पृच्छन्ति क्व सार्थवाहः । मध्ये गच्छति । मध्ये गत्वा पृच्छन्ति । यावत् तत्रापि नास्ति । दासकः कथयति । मम बुद्धिर् उत्पन्ना पालकः सार्थवाहं शब्दापयिष्यति । पालको ऽपि कथयति । मम बुद्धिर् उत्पन्ना दासकः सार्थवाहं शब्दापयिष्यतीति । भवन्तो न शोभनं कृतं यद् अस्माभिः सार्थवाहश् छोरितः । आगच्छत निवर्तामः । ते कथयन्ति । भवन्तो यदि वयं निवर्तिष्यामः सर्व एवानयेन व्यसनम् आपत्स्यामः । आगच्छत क्रियाकारं तावत् कुर्मः । तावन् न केनचिच् छ्रोणस्य कोटीकर्णस्य मातापितृभ्याम् आरोचयितव्यं यावद् भाण्डं न प्रतिशामितं भवतीति । ते क्रियाकारं कृत्वा गताः । श्रोणस्य कोटीकर्णस्य मातापितृभ्यां श्रुतं श्रोणः कोटीकर्णो ऽभ्यागत इति । तौ प्रत्युद्गतौ । क्व सार्थवाहः । मध्ये आगच्छति । मध्ये गत्वा पृच्छतः क्व सार्थवाह इति । ते कथयन्ति । पृष्ठत आगच्छति । पृष्ठतो गत्वा पृच्छतः । क्व सार्थवाहः । पुरस्ताद् गच्छतीति । तैस् तावद् आकुलीकृतौ यावद् भाण्डं प्रतिशामितम्* । गतः पश्चात् ते कथयन्ति । अम्ब विस्मृतो ऽस्माभिः सार्थवाह इति । ताभ्याम् ( म्स्व् इव् 167 ) एक आगत्य कथयति । अयं श्रोणः कोटीकर्णो ऽभ्यागत इति । तस्य ताव् अभिसारं दत्वा प्रत्युद्गतौ न पश्यतः । अपर आगत्य कथयति । अयं श्रोणः कोटीकर्णो ऽभ्यागत इति । तस्य ताव् अभिसारं दत्वा प्रत्युद्गतौ न पश्यतः । तौ यावन् ( 82व् = ग्ब्म् 6.747 ) न कस्यचित् पुनर् अपि श्रद्दधातुम् आरब्धौ । ताभ्याम् उद्यानेषु देवकुलेषु छत्राणि घण्टाव्यजनानि अक्षराणि लिखितानि यदि तावच् छ्रोणः कोटीकर्णो जीवति लघ्व् आगमनाय । अथ च्युतः कालगतो गत्युपपत्तिस्थानात् स्थानान्तरविशेषतायै । तौ शोकेन रुदन्ताव् अन्धीभूतौ । सो ऽपि सूर्यस्याभ्युद्गमनकालसमये सूर्यांशुभिर् आभान्वितः प्रतिबुद्धो यावत् सार्थं न पश्यति । नान्यत्र ताव् एव गर्दभावतिष्ठतः । स तौ योजयित्वा संप्रस्थितः । वालुकास्थले वायुना मार्गः पिहितः । स्मृतिमन्तो गर्दभा जिघ्रित्वा संप्रस्थितः शनैर् गच्छन्तीति प्रतोदयष्ट्या स्पृष्ठाः शालाटवीं प्रविष्टाः । ते तृषार्ता ( म्स्व् इव् 168 ) विह्वलवदना जिह्वां निर्नामय्य गच्छन्ति । तान् दृष्ट्वा तस्य कारुण्यम् उत्पन्नम्* । स संलक्षयति । यद्य् एतान् नोत्स्रक्ष्यामि एभिर् एव सार्धम् अनयेन व्यसनम् आपत्स्ये ।

स तान् उत्सृज्य पद्भ्यां संप्रस्थितः । यावत् पश्यति आयसं नगरम् उच्चं च प्रगृहीतं च । तत्र द्वारे पुरुषस् तिष्ठति कालो रौद्रश् चण्डो लोहिताक्ष उद्बद्धपिण्डो लोहलगुडव्यग्रहस्तः {म्स्: तत्र कालो चण्डो लोहिताक्षः उद्बन्धपिण्डकायष्टि विग्रहो पुरुषो द्वारे तिष्ठति} । स तस्य सकाशम् उपसंक्रान्तः । भोः पुरुष । अस्त्य् अत्र पानीयम्* । स तूष्णीम् अवस्थितः । भूयस् तेन पृष्टो ऽसौ पुरुषो ऽस्त्य् अत्र पानीयम् इति । भूयो ऽपि स तूष्णीम् अवस्थितः । तेन सार्थवाहेन तत्र प्रविश्य पानीयं पानीयम् इति शब्दो निश्चारितः । यावत् पञ्चमात्रैः प्रेतसहस्रैर् दग्धस्थूणासदृशैर् अस्थियन्त्रवद् उच्छ्रितैः स्वकेशरोमप्रच्छन्नैः पर्वतसन्निभोदरैः सूचीच्छिद्रोपममुखैर् अनुपरिवारितः श्रोणः कोटीकर्णः । ते कथयन्ति । सार्थवाह कारुणिकस् त्वम् अस्माकं तृषार्तानां पानीयम् अनुप्रयच्छ । स कथयति । भवन्तो ऽहम् अपि पानीयम् एव मृगयामि कुतो ऽहं युष्माकं पानीयम् अनुप्रयच्छामीति । ते कथयन्ति । सार्थवाह प्रेतनगरम् इदं कुतः खल्व् अत्र पानीयम्* । अद्यास्माभिर् ( म्स्व् इव् 169 ) द्वादशभिर् वर्षैस् त्वत्सकाशात् पानीयं पानीयम् इति शब्दः श्रुतः । स कथयति । के यूयं भवन्तः केन वा कर्मणा इहोपपन्नाः । त ऊचुः । श्रोण दुष्कुहका जम्बुद्वीपका मनुष्या नाभिश्रद्दधास्यन्ति । स चाह । अहं भवन्तः प्रत्यक्षदर्शी कस्मान् नाभिश्रद्दधास्ये {म्स्: कथं न श्रद्धास्ये} । ते गाथां भाषन्ते ।
आक्रोशका रोषका वयं मत्सरिणः कुटुकुञ्चका वयम्* ।
दानञ् च दत्तम् अण्व् अपि तेन वयं प्रेतलोकम् आगताः ॥
श्रोण गच्छ पुण्यमहेशाख्यस् त्वम्* {म्स्: पुण्यकामां त्वम्} । अस्ति कश्चित् त्वया दृष्टः प्रेतनगरं प्रविष्टः स्वस्तिक्षेमाभ्यां जीवन् निर्गच्छन्* {म्स्: नगरं प्रविश्य जीवन् गच्छति} । स संप्रस्थितः । यावत् तेनासौ पुरुषो दृष्टः । स तेनोक्तः । भद्रमुख अहो बत त्वया ममारोचितं स्याद् यथेदं प्रेतनगरम् इति नाहम् अत्र प्रविष्टः स्याम्* । स तेनोक्तः । श्रोण गच्छ पुण्यमहेशाख्यस् त्वम्* । येन त्वं प्रेतनगरं प्रविश्य स्वस्तिक्षेमाभ्यां निर्गतः ।
स संप्रस्थितो यावद् अपरं पश्यत्य् आयसं नगरम् उच्चं च प्रगृहीतं च । तत्रापि द्वारे पुरुषस् तिष्ठति कालश् चण्डो लोहिताक्ष उद्बद्धपिण्डो लोहलगुडव्यग्रहस्तः । स तस्य सकाशम् उपसंक्रान्तः । उपसंक्रम्यैवम् आह । भोः पुरुष अस्त्य् अत्र नगरे पानीयम्* । स तूष्णीम् अवस्थितः । भूयस् तेन पृष्टः । भोः पुरुष अस्त्य् अत्र नगरे पानीयम्* । स तूष्णीम् अवस्थितः । तेन तत्र प्रविश्य पानीयं पानीयम् इति शब्दः कृतः । अनेकैः प्रेतसहस्रैर् दग्धस्थूणाकृतिभिर् ( म्स्व् इव् 170 ) अस्थियन्त्रवद् उच्छ्रितैः स्वकेशरोमप्रतिच्छन्नैः पर्वतसन्निभोदरैः सूचीच्छिद्रोपममुखैर् अनुपरिवारितः । ते कथयन्ति । ( 83र् = ग्ब्म् 6.748 ) श्रोण कारुणिकस् त्वम् अस्माकं तृषार्तानां पानीयम् अनुप्रयच्छ । स कथयति । अहम् अपि भवन्तः पानीयम् एव मृगयामि कुतो ऽहं युष्माकं पानीयं ददामीति । ते कथयन्ति । श्रोण प्रेतनगरम् इदं कुतो ऽत्र पानीयम्* । अद्यास्माभिर् द्वादशभिर् वर्षैस् त्वत्सकाशात् पानीयं पानीयम् इति शब्दः श्रुतः । स चाह । के यूयं भवन्तः केन वा कर्मणा इहोपपन्नाः । त ऊचुः । श्रोण दुष्कुहका जम्बुद्वीपका मनुष्या नाभिश्रद्दधास्यन्ति । स चाह । अहं भवन्तः प्रत्यक्षदर्शी कस्मान् नाभिश्रद्दधास्ये । ते गाथां भाषन्ते ।
आरोग्यमदेन मत्तका यौवनभोगमदेन मत्तकाः ।
दानं च न दत्तम् अण्व् अपि येन वयं प्रेतलोकम् आगताः ॥
श्रोण गच्छ पुण्यकर्मा त्वम्* । अस्ति कश्चित् त्वया दृष्टः श्रुतः प्रेतनगरं प्रविश्य स्वस्तिक्षेमाभ्यां जीवन् निर्गच्छन्* । स संप्रस्थितः । यावत् तेनासौ पुरुषो दृष्टः । स तेनोक्तः । भद्रमुख अहो बत यदि त्वया ममारोचितं स्याद् यथेदं प्रेतनगरम् इति नैवाहम् अत्र प्रविष्टः स्याम्* । स कथयति । श्रोण गच्छ पुण्यमहेशाख्यस् त्वम्* । अस्ति कश्चित् त्वया दृष्टः श्रुतो वा प्रेतनगरं प्रविश्य स्वस्तिक्षेमाभ्यां जीवन् निर्गच्छन्* ।
स संप्रस्थितः । यावत् पश्यति सूर्यस्यास्तंगमनकाले विमानं चतस्रो ऽप्सरसः अभिरूपाः प्रासादिका दर्शनीयाः । एकश् च पुरुषो ऽभिरूपो दर्शनीयः प्रासादिकः अङ्गदकुण्डलविचित्रमाल्याभरणानुलेपनस् ताभिः सार्धं क्रीडति रमते परिचारयति । स तैर् दूरत एव दृष्टः । ते तं प्रत्यवभाषितुम् आरब्धाः । स्वागतं श्रोण मासि तृषितो बुभुक्षितो वा । स संलक्षयति । नूनं देवो ऽयं वा नागो वा यक्षो वा भविष्यति । आह च । आर्य तृषितो ऽस्मि बुभुक्षितो ऽस्मि । स तैः स्नापितो भोजितः । स तस्मिन् विमाने तावत् स्थितो यावत् सूर्यस्याभ्युद्गमनकालसमयः । स तैर् उक्तः । श्रोण अवतर आदीनवो ऽत्र भविष्यति । सो ऽवतीर्य एकान्ते प्रक्रम्यावस्थितः । ततः पश्चात् सूर्यस्याभ्युद्गमनकालसमये तद् विमानम् अन्तर्हितम्* । ता अप्य् अप्सरसो ऽन्तर्हिताश् चत्वारः श्यामशवलाः कुक्कुराः प्रादुर्भूताः । तैस् तं पुरुषम् अवमूर्धकं पातयित्वा तावत् पृष्ठवंशान्य् उत्पाट्योत्पाट्य भक्षितानि यावत् सूर्यस्यास्तंगमनकालसमयः । ततः पश्चात् पुनर् अपि तद् विमानं प्रादुर्भूतं ता आप्सरसः प्रादुर्भूताः । स च पुरुषो ऽभिरूपो दर्शनीयप्रासादिको ऽङ्गदकुण्डलविचित्रमाल्याभरणानुलेपनस् ताभिः सार्धं क्रीडति रमते परिचारयति । स तेषां सकाशम् उपसंक्रम्य कथयति । के यूयं केन च कर्मणा इहोपपन्नाः । ते प्रोचुः । श्रोण दुष्कुहका जम्बुद्वीपका मनुष्या नाभिश्रद्दधास्यन्ति । स चाह । अहं प्रत्यक्षदर्शी कथं नाभिश्रद्दधास्ये । श्रोण अहं वासवग्रामके औरभ्रिकः ( म्स्व् इव् 172 ) आसीत्* । उरभ्रान् प्रघात्य प्रघात्य मांसं विक्रीय विक्रीय जीविकां कल्पयामि । आर्यश् च महाकात्यायनो ममानुकम्पया आगत्य कथयति । भद्रमुख अनिष्टो ऽस्य कर्मणः फलविपाकः । विरम त्वम् अस्मात् पापकाद् असद्धर्मात्* । नाहं तस्य वचनेन विरमामि । भूयो भूयः स मां विच्छन्दयति । भद्रमुकानिष्टो ऽस्य कर्मणः फलविपाकः । विरम त्वम् अस्मात् पापकाद् असद्धर्मात्* । तत्राप्य् अहं न प्रतिविरमामि । ( 83व् = ग्ब्म् 6.749 ) स मां पृच्छति । भद्रमुख किं त्वम् एतान् उरभ्रान् दिवा प्रघातयस्याहोस्विद् रात्रौ । मयोक्तः । आर्य दिवा प्रघातयामीति । स कथयति । भद्रमुख रात्रौ शीलसमादानं किं न गृह्णासि । मया तस्यान्तिकाद् रात्रौ शीलसमादानं गृहीतम्* । यत् तद् रात्रौ शीलसमादानं गृहीतं तस्य कर्मणो विपाकेन रात्राव् एवंविधं दिव्यं सुखं प्रत्यनुभवामि । यन् मय दिवा उरभ्राः प्रघातितास् तस्य कर्मणो विपाकेन दिवा एवंविधं दुःखं प्रत्यनुभवामि । गाथां च भाषते ।
दिवसं परप्राणपीडको रात्रौ शीलगुणैः समन्वितः ।
तस्यैतत् कर्मणः फलं ह्य् अनुभवामि कल्याणपापकम्* ॥

श्रोण गमिष्यसि त्वं वासवग्रामकम्* । गमिष्यामि । तत्र मम पुत्रः प्रतिवसति । स उरभ्रान् प्रघात्य प्रघात्य जीविकं कल्पयति । स त्वया वक्तव्यः दृष्टस् ते मया पिता । स कथयति । अनिष्टो ऽस्य कर्मणः फलविपाको विरमास्मात् ( म्स्व् इव् 173 ) पापकाद् असद्धर्मात्* । भोः पुरुष यत् त्वम् एवं कथयसि दुष्कुहका जम्बुद्वीपका मनुष्या इति । नाभिश्रद्दधास्यति । श्रोण यदि न श्रद्दधास्यति वक्तव्यस् तव पिता कथयति असिस्थानाधस्तात् {म्स्: पित्रो ऽस्य सूनायाम् अधस्तात्} सुवर्णस्य कलशः पूरयित्वा स्थापितः । तम् उद्धृत्यात्मानं सम्यक्सुखेन प्रीणय आर्यं च महाकात्यायनं कालेन कालं पिण्डकेन प्रतिपादयास्माकं च नाम्ना दक्षिणाम् आदेशय । अप्य् एवैतत् कर्म तनुत्वं परिक्षयं पर्यादानं गच्छेत् ।
स संप्रस्थितः । यावत् सूर्यस्याभ्युद्गमनकालसमये पश्यत्य् अपरं विमानं* । तत्र एका अप्सरा अभिरूपा दर्शनीया प्रासादिका । एकश् च पुरुषो ऽभिरूपो दर्शनीयः प्रासादिकः अङ्गदकुण्डलविचित्रमाल्याभरणानुलेपनस् तया सार्धं क्रीडति रमते परिचारयति । स तं दूरत एव दृष्ट्वा प्रत्यवभाषितुम् आरब्धः । स्वागतं श्रोण मा तृषितो ऽसि मा बुभुक्षितो ऽसि वा । स संलक्षयति । नूनम् अयं देवो वा नागो वा यक्षो वा भविष्यति । स कथयति । तृषितो ऽस्मि बुभुक्षितश् च । स ताभ्यां स्नापितो भोजितः । स तस्मिन् विमाने तावत् स्थितः यावत् सुर्यस्यास्तंगमनकालसमयः । स ताभ्याम् उक्तः । श्रोण अवतरस्वादीनवो ऽत्र भविष्यति । स दृष्टादीनवो ऽवतीर्य एकान्ते ऽवस्थितः । ततः पश्चात् सूर्यस्यास्तंगमनकालसमये{म्स्: सूर्यस्यावतरणकालसमये} तद् विमानम् अन्तर्हितम्* । साप्य् अप्सरा ( म्स्व् इव् 174 ) अन्तर्हिता । महती शतपदी प्रादुर्भूता । तया तस्य पुरुषस्य कायेन कायं सप्तकृत्वो वेष्टयित्वा तावद् उपरिमस्तकं भक्षितं यावत् स एव सूर्यस्याभ्युद्गमनकालसमयः । ततः पश्चात् पुनर् अपि तद् विमानं प्रादुर्भूतम्* । साप्य् अप्सरा प्रादुर्भूता । स च पुरुषो ऽभिरूपो दर्शनीयः प्रासादिकः अङ्गदकुण्डलविचित्रमाल्याभरणानुलेपनस् तया सार्धं क्रीडति रमते परिचारयति । स तम् उपसंक्रम्य पृच्छति । को भवान् केन कर्मणा इहोपपन्नाः । स एवम् आह । श्रोण दुष्कुहका जम्बुद्वीपका मनुष्या नाभिश्रद्दधास्यन्ति । स कथयति । अहं प्रत्यक्षदर्शी कस्मान् नाभिश्रद्दधास्ये । स कथयति । अहं वासवग्रामके ब्राह्मण आसीत्* पारदारिकः । आर्यश् च महाकात्यायनो ममानुकम्पयागत्य कथयति । भद्रमुखानिष्टो ऽस्य कर्मणः फलविपाको विरम त्वम् अस्मात् पापकाद् असद्धर्मात्* । तस्य वचनेनाहं न प्रतिविरमामि । भूयो भूयः स मां विच्छन्दयति । भद्रमुक अनिष्टो ऽस्य कर्मणः फलविपाकः ( 84र् = ग्ब्म् 6.750 ) । विरमास्मात् पापकाद् असद्धर्मात्* । तथाप्य् अहं तस्मात् पापकाद् असद्धर्मान् न प्रतिविरमामि । स मां पृच्छति । भद्रमुख परदारान् किं त्वं दिवा गच्छस्याहोस्विद् रात्रौ । स मया अभिहितः । आर्य रात्रौ । स कथयति । भद्रमुख दिवा किं न शीलसमादानं गृह्णासि । मया तस्यान्तिकाद् दिवा शीलसमादानं ( म्स्व् इव् 175 ) गृहीतम्* । यत् तन् मयार्यस्य महाकात्यायनस्यान्तिकाद् दिवा शीलसमादानं गृहीतं तस्य कर्मणो विपाकेन दिवा एवंविधं दिव्यं सुखं प्रत्यनुभवामि । यत् तद् रात्रौ परदाराभिगमनं कृतं तस्य कर्मणो विपाकेन रात्राव् एवंविधं दुःखं प्रत्यनुभवामि । गाथां च भाषते ।
रात्रौ परदारमूर्च्छितो दिवसं शीलगुणैः समन्वितः ।
तस्यैतत् कर्मणः फलं ह्य् अनुभवामि कल्याणपापकम्* ॥
श्रोण गमिष्यसि त्वं वासवग्रामकम्* । तत्र मम पुत्रो ब्राह्मणः पारदारिकः । स वक्तव्यः । दृष्टस् ते मया पिता । स कथयति अनिष्टो ऽस्य कर्मणः फलविपाको विरमास्मात् पापकाद् असद्धर्मात्* । स चाह । भोः पुरुष त्वम् एवं कथयसि । दुष्कुहका जम्बुद्वीपका मनुष्या इति । नाभिश्रद्दधास्यति । श्रोण यदि न श्रद्दधास्यति वक्तव्यः तव पित्राग्निष्टोमस्याधस्तात् सुवर्णकलशः पूरयित्वा स्थापितः । तम् उद्धृत्यात्मानं सम्यक्सुखेन प्रीणय आर्यं च महाकात्यायनं कालेन कालं पिण्डकेन प्रतिपादय अस्माकं च नाम्ना दक्षिणाम् आदेशय । अप्य् एवैतत् कर्म तनुत्वं परिक्षयं पर्यादानं गच्छेत् ।

स संप्रस्थितः । यावत् पश्यति अपरं विमानम्* । तत्रैका स्त्री अभिरूपा दर्शनीया प्रासादिका अङ्गदकुण्डलविचित्रमाल्याभरणानुलेपना । तस्याश् चतुर्षु पर्यङ्कपादकेषु चत्वारः प्रेता बद्धास् तिष्ठन्ति । सा तं दूरत एव दृष्ट्वा प्रत्यनुभाषितुम् आरब्धा । श्रोण स्वागतं मा ( म्स्व् इव् 176 ) तृषितो ऽसि मा बुभुक्षितो ऽसि वा । स संलक्षयति । नूनं देवीयं वा नागी वा यक्षी वा भविष्यति । स कथयति । आर्ये तृषितो ऽस्मि बुभुक्षितो ऽस्मि । तयासौ स्नापितः भोजितः उक्तश् च । श्रोण यद्य् एते किञ्चिन् मृगयन्ति मा दास्यसीत्य् उक्त्वा तेषां सत्वानां कर्म स्वकृतं प्रत्यक्षीकर्तुकामा विमानं प्रविश्यावस्थिता । ते मृगयितुम् आरब्धाः । श्रोण कारुणिकस् त्वं बुभुक्षिता वयम् अस्माकम् अनुप्रयच्छ । तेनैकस्य क्षिप्तं बुसप्लावी प्रादुर्भूता । अपरस्य क्षिप्तम् अयोगुडं भक्षयितुम् आरब्धः । अपरस्य क्षिप्तं स्वमांसं भक्षयितुम् आरब्धः । अपरस्य क्षिप्तं पूयशोणितं प्रादुर्भूतम्* । स पश्यति विस्रगन्धेन निर्गतम्* । श्रोण निवारितस् त्वं मया कस्मात् त्वयैषां दत्तम्* । किं मम करुणया त्वम् एव कारुणिकतरः । स कथयति । भगिनि तवैते के भवन्ति । सा कथयति । अयं मे स्वामी । अयं मे पुत्रः । इयं मे स्नुषा । इयं मे दासी । स आह । के यूयं केन वा कर्मणा इहोपपन्नाः । तयोक्तम्* । श्रोण दुष्कुहका जम्बुद्वीपका मनुष्या नाभिश्रद्दधास्यन्ति । अहं भगिनि प्रत्यक्षदर्शी ( म्स्व् इव् 177 ) कस्मान् नाभिश्रद्दधास्ये । सा कथयति । अहं वासवग्रामके ब्राह्मण्य् आसीत्* । मया नक्षत्ररात्रौ प्रत्युपस्थितायां प्रणीतम् आहारं सज्जीकृतम्* । आर्यश् च ( 84व् = ग्ब्म् 6.751 ) महाकात्यायनो ममानुकम्पया वासवग्रामकं पिण्डाय प्राविक्षत्* । स मया दृष्टः कायप्रासादिकश् चित्तप्रासादिकः । चित्तम् अभिप्रसन्नं दृष्ट्वा स मया प्रासादजातया पिण्डकेन प्रतिपादितः । तस्या मम बुद्धिर् उत्पन्ना स्वामिनम् अनुमोदयामि प्रामोद्यम् उत्पादयिष्यतीति । स स्नात्वा आगतो मयोक्तः । आर्यपुत्रानुमोदस्व मयार्यो महाकात्यायनः पिण्डकेन प्रतिपादितः । स रुषितो यावद् ब्राह्मणानां न दीयते ज्ञातीनां वा ज्ञातिपूजा न क्रियते तावत् त्वया तस्मै मुण्डकाय श्रमणकायाग्रपिण्डकं दत्तम्* । सो ऽमर्षजातः कथयति । कस्मात् स मुण्डकः श्रमणको बुसप्लावीं न भक्षयतीति । तस्य कर्मणो विपाकेनायं बुसप्लावीं भक्षयति । मम बुद्धिर् उत्पन्ना पुत्रं तावद् अनुमोदयामि । प्रामोद्यम् उत्पादयिष्यतीति । सो ऽपि मयोक्तः । पुत्रानुमोदस्व मयार्यो महाकात्यायनः पिण्डकेन प्रतिपादितः । सो ऽपि रुषितो यावद् ब्राह्मणानां न दीयते ज्ञातीनां वा ज्ञातिपूजा न क्रियते तावत् त्वया तस्मै मुण्डकाय श्रमणकायाग्रपिण्डकं दत्तम्* । सो ऽप्य् अमर्षजातः कथयति । कस्मात् स मुण्डकः श्रमणको ऽयोगुडं न भक्षयतीति । तस्य ( म्स्व् इव् 178 ) कर्मणो विपाकेनायम् अयोगुडं भक्षयति । नक्षत्ररात्र्यां प्रत्युपस्थितायां ज्ञातयः प्रहेणकानि मम प्रेषयन्ति । तान्य् अहं स्नुषायाः समर्पयामि । सा प्रणीतानि प्रहेणकानि भक्षयित्वा मम लूहानि उपनामयति । अहं तेषां ज्ञातीनां सन्दिशामि । किं नु यूयं दुर्भिक्षे यथा लूहानि प्रहेणकानि प्रेषयथेति । ते मम सन्दिशन्ति । न वयं लूहानि प्रेषयामः अपि तु प्रणीतान्य् एव प्रहेणकानि प्रेषयामः । मया स्नुषाभिहिता । वधूके मा त्वं प्रणीतानि प्रहेणकानि भक्षयित्वास्माकं लूहान्य् उपनामयसि । सा कथयति । किं न स्वमांसानि भक्षयति याहं त्वदीयानि प्रहेणकानि भक्षयामीति । इयं तस्य कर्मणो विपाकेन स्वमांसानि भक्षयति । नक्षत्ररात्र्यां प्रत्युपस्थितायाम् अहं दारिकाया हस्ते प्रणीतानि प्रहेणकानि दत्वा ज्ञातीनां प्रेषयामि । सा दारिका तानि प्रणीतानि प्रहेणकानि मार्गे ऽन्तर्भक्षयित्वा तेषां लूहान्य् उपनामयति । ते मम सन्दिशन्ति । किं नु त्वं दुर्भिक्षे यथा लूहान्य् अस्माकं प्रहेणकानि प्रेषयसीति । अहं तेषां सन्दिशामि । नाहं लूहानि प्रहेणकानि प्रेषयामि अपि तु प्रणीतान्य् एवाहं प्रेषयामीति । मया दारिकाभिहिता । दारिके मा त्वं प्रणीतानि प्रहेणकानि भक्षयित्वा तेषां लूहान्य् उपनामयसि । सा कथयति । किं नु पूयशोणितं न भक्षयति या त्वदीयानि प्रहेणकानि भक्षयतीति । तस्य कर्मणो विपाकेनेयं पूयशोणितं भक्षयति । मम बुद्धिर् उत्पन्ना । तत्र ( म्स्व् इव् 179 ) प्रतिसन्धिं गृह्णामि यत्रैतान् सत्वान् स्वकं स्वकं कर्मफलं परिभुञ्जानान् पश्यामीति । यन् मयार्यमहाकात्यायनं पिण्डकेन प्रतिपाद्य प्रणीते ( 85र् = ग्ब्म् 6.752 ) त्रयस्त्रिंशे देवनिकाये उपपत्तव्यं साहं मिथ्याप्रणिधानं कृत्वा प्रेतमहर्द्धिका संवृत्ता ।
श्रोण गमिष्यसि त्वं वासवग्रामकं तत्र मम दुहिता वेश्यां वाहयति । सा त्वया वक्तव्या । दृष्टास् ते मया पिता माता भ्राता भ्रातुर् जाया दासी । ते कथयन्ति । अनिष्टो ऽस्य कर्मणः फलविपाको विरमास्मात् पापकाद् असद्धर्मात्* । भगिनि त्वम् एवं कथयसि । दुष्कुहका जम्बुद्वीपका मनुष्या नाभिश्रद्दधास्यन्ति । श्रोण यदि न श्रद्दधास्यति वक्तव्या तव पौराणे पैत्रिके वासगृहे चत्वारो लोहसंघाटाः सुवर्णस्य पूर्णास् तिष्ठन्ति मध्ये च सौवर्णदण्डकमण्डलुः । ते कथयन्ति तम् उद्धृत्यात्मानं सम्यक्सुखेन प्रीणय आर्यं च महाकात्यायनं कालेन कालं पिण्डकेन प्रतिपादय अस्माकं च नाम्ना दक्षिणाम् आदेशय । अप्य् एवैतत् कर्म तनुत्वं परिक्षयं पर्यादानं गच्छेत् । तेन तस्याः प्रतिज्ञातम्* ।
एवं तस्य परिभ्रमतो द्वादश वर्षा अतिक्रान्ताः । तयोक्तः । श्रोण गमिष्यसि त्वं वासवग्रामकम्* । भगिनि गमिष्यामि । स तस्मिन्न् एव विमाने अधिरूढः । तया तेषाम् एव प्रेतानाम् आज्ञा ( म्स्व् इव् 180 ) दत्ता भवन्तो गच्छत श्रोणं कोटीकर्णं सुप्तम् एव वासवग्रामके पैत्रिके उद्याने स्थापयित्वा आगच्छत । स तैर् वासवग्रामके पैत्रिके उद्याने स्थापितः । स प्रतिविबुद्धो यावत् पश्यति घण्टाच्छत्राणि व्यजनान्य् अक्षराणि लिखितानि । यदि तावच् छ्रोणः कोटीकर्णो जीवति लघ्व् आगमनाय क्षिप्रम् आगमनाय च्युतः कालगतो गत्युपपत्तिस्थानात् स्थानान्तरविशेषतायै । स संलक्षयति । यद्य् अहं मातापितृभ्यां मृत एव गृहीतः कस्माद् भूयो ऽहं गृहं प्रविशामि गच्छाम्य् आर्यमहाकात्यायनस्यान्तिके प्रव्रजामीति । अथ श्रोणः कोटीकर्णो येनायुष्मान् महाकात्यायनस् तेनोपसंक्रान्तः । अद्राक्षीद् आयुष्मान् महाकात्यायनः श्रोणं कोटीकर्णम्* । दूराद् एव दृष्ट्वा च पुनः श्रोणं कोटीकर्णम् इदम् अवोचत्* । एहि श्रोण स्वागतं ते दृष्टस् ते श्रोण अयं लोकः परश् च लोकः । स कथयति । दृष्टो भदन्त महाकात्यायन लभेयाहं भदन्त महाकात्यायन स्वाख्याते धर्मविनये प्रव्रज्याम् उपसंपदं भिक्षुभावं चरेयम् अहं भगवतो ऽन्तिके ब्रह्मचर्यम्* । स आर्येणोक्तः । श्रोण तां तावत् पूर्विकां प्रतिज्ञां परिपूरय यथागृहीतान् सन्देशान् समर्पयेति ।

स तस्यौरभ्रिकस्य सकाशम् उपसंक्रान्तः । भद्रमुख दृष्टस् ते पिता मया । स कथयति । अनिष्टो ऽस्य कर्मणः फलविपाको विरमास्मात् पापकाद् असद्धर्मात्* । भोः पुरुष अद्य मम पितुर् द्वादश वर्षाणि कालगतस्य । अस्ति कश्चिद् दृष्टः परलोकात् ( म्स्व् इव् 181 ) पुनर् आगच्छन्* । भद्रमुख एषो ऽहम् आगतः । नासौ श्रद्दधाति । भद्रमुख यदि न श्रद्दधासि स तव पिता कथयति असिस्थानाधस्तात् सुवर्णस्य कलशः पूर्णस् तिष्ठति । तम् उद्धृत्यात्मानं सम्यक्सुखेन प्रीणय आर्यं च महाकात्यायनं कालेन कालं पिण्डकेन प्रतिपादयास्माकं च नाम्ना दक्षिणाम् आदेशय । अप्य् एवैतत् कर्म तनुत्वं परिक्षयं पर्यादानं गच्छेत् । स संलक्षयति । न कदाचिद् ( 85व् = ग्ब्म् 6.753 ) एवं मया श्रुतपूर्वं पश्यामि सचेद् भूतं भविष्यति सर्वम् एतत् सत्यम्* । तेन गत्वा खनितं यावत् तत् सर्वं तत् तथैव तेनाभिश्रद्दधीतम्* ।
ततः पश्चात् स पारदारिकस्य सकाशम् उपसंक्रान्तः । उपसंक्रम्य कथयति । भद्रमुख दृष्टस् ते मया पिता । स कथयति । अनिष्टो ऽस्य कर्मणः फलविपाको विरमास्मात् पापकाद् असद्धर्मात्* । स कथयति । भोः पुरुष अद्य मम पितुर् द्वादश वर्षाणि कालं गतस्य । अस्ति कश्चित् त्वया दृष्टः परलोकं गत्वा पुनर् आगच्छन्* । भद्रमुख एषो ऽहम् आगतः । नासौ श्रद्दधाति । स कथयति । भद्रमुख सचेन् नाभिश्रद्दधासि तव पित्राग्निष्टोमस्याधस्तात् सुवर्णस्य कलशः पूरयित्वा स्थापितः । स कथयति । तम् उद्धृत्यात्मानं सम्यक्सुखेन प्रीणयार्यं च महाकात्यायनं कालेन कालं पिण्डकेन प्रतिपादयास्माकं च नाम्ना दक्षिणाम् आदेशय । अप्य् एवैतत् कर्म तनुत्वं परिक्षयं पर्यादानं गच्छेत्* । स संलक्षयति न कदाचिद् एतन् मया श्रुतपूर्वं पश्यामि सचेद् भूतं भविष्यति सर्वम् एतत् सत्यम्* । तेन ( म्स्व् इव् 182 ) गत्वा खनितं यावत् पश्यति तत् सर्वं तत् तथैव तेनाभिश्रद्दधीतम्* ।
स गणिकायाः सकाशम् उपसंक्रान्तः । उपसंक्रम्य कथयति । भगिनि दृष्टस् ते मया माता पिता भ्रातुर् जाया दासी । ते कथयन्ति । अनिष्टो ऽस्य कर्मणः फलविपाको विरमास्मात् पापकाद् असद्धर्मात्* । सा कथयति । भोः पुरुष अद्य मम मातापित्रोर् द्वादश वर्षाणि कालगतयोः । अस्ति कश्चित् त्वया दृष्टः परलोकं गत्वा पुनर् आगच्छन्* । स कथयति । एषो ऽहम् आगतः । सा न श्रद्दधाति । स कथयति । भगिनि सचेन् नाभिश्रद्दधासि तव पौराणे पैत्रिके वासगृहे चत्वारो लोहसंघाटाः सुवर्णपूर्णास् तिष्ठन्ति । मध्ये च सौवर्णदण्डकमण्डलुः । ते कथयन्ति । तम् उद्धृत्यात्मानं सम्यक्सुखेन प्रीणयार्यं च महाकात्यायनं कालेन कालं पिण्डकेन प्रतिपादयास्माकं च नाम्ना दक्षिणाम् आदेशय । अप्य् एवैतत् कर्म तनुत्वं परिक्षयं पर्यादानं गच्छेत्* । सा संलक्षयति । न कदाचिन् मया श्रुतपूर्वं पश्यामि सचेद् भूतं भविष्यति सर्वम् एतत् सत्यम्* । तया गत्वा खनितं यावत् तत् सर्वं तत् तथैव तथाभिश्रद्दधीतम्* ।
श्रोणः कोटीकर्णः संलक्षयति । सर्वो ऽयं लोकः सुवर्णस्य श्रद्दधाति न तु कश्चिन् मम श्रद्धया गच्छतीति । तेन वैपुष्पितम्* । तस्य शिशुत्वे सुवर्णेन दशना बद्धाः । तयासौ प्रत्यभिज्ञातः । स्याद् आर्यः श्रोणः कोटीकर्णः एव मे ( म्स्व् इव् 183 ) भगिनि संजानीते । तया गत्वा तस्य मातापितृभ्याम् आरोचितम्* । अम्ब तात कोटीकर्णो ऽभ्यागत इति । अनेकैस् तेषाम् आरोचितम्* । ते न कस्यचित्* श्रद्धया गच्छन्ति । ते कथयन्ति । पुत्रि त्वम् अप्य् अस्माकम् उत्प्रासयसि । यावद् असौ स्वयम् एव गतः । तेन द्वारकोष्ठके स्थित्वोत्काशनशब्दः कृतः । हिरण्यस्वरो ऽसौ । स तैः स्वरेण प्रत्यभिज्ञातः । तौ कण्ठे परिष्वज्य रुदितुम् आरब्धौ । तेषां वाष्पेण पटहानि स्फुटितानि । द्रष्टुम् आरब्धौ । स कथयति । अम्ब तातानुजानीध्वं प्रव्रजिष्यामि समग् एव श्रद्धया अगाराद् अनागारिकम्* । तौ कथयतः । पुत्रावां त्वदीयेन शोकेन रुदन्ताव् अन्धीभूतौ । इदानीं त्वम् एवागम्य चक्षुः प्रतिलब्धम्* । यावद् आवां जीवावस् तावन् न प्रव्रजितव्यम्* । यदा कालं करिष्यावस् तदा प्रव्रजिष्यसि । तेनायुष्मन्तो महाकात्यायनस्यान्तिकाद् धर्मं श्रुत्वा स्रोतआपत्तिफलं साक्षात्कृतं मातापितरौ च शरणागमनशिक्षापदेषु प्रतिष्ठापितौ । आगमचतुष्टयम् अधीतम्* । ( 86र् = ग्ब्म् 6.754 ) सकृदागामिफलं साक्षात्कृतम्* । मातापितरौ सत्येषु प्रतिष्ठापितौ । अपरेण समयेन तस्य मातापितरौ कालगतौ । स तं धनजातं दीनानाथकृपणवनीपकेभ्यो दत्वा दरिद्रान् अदरिद्रान् कृत्वा येनायुष्मान् महाकात्यायनस् तेनोपसंक्रान्तः । उपसंक्रम्यायुष्मतो महाकात्ययनस्य पादौ शिरसा वन्दित्वा एकान्ते ऽस्थात्* । एकान्ते स्थितः श्रोणः ( म्स्व् इव् 184 ) कोटीकर्णः आयुष्मन्तं महाकात्यायनम् इदम् अवोचत्* । लबेयाहम् आर्य महाकात्यायन स्वाख्याते धर्मविनये प्रव्रज्याम् उपसंपदं भिक्षुभावम्* । यावच् चरेयम् अहं भगवतो ऽन्तिके ब्रह्मचर्यम्* । स आयुष्मता महाकात्यायनेन प्रव्राजितः । तेन प्रव्रज्य मातृकाधीता । अनागामिफलं साक्षात्कृतम्* ।
अश्मापरान्तकेषु जनपदेषु अल्पभिक्षुकं कृच्छ्रेण दशवर्गो गणः परिपूरयते । स त्रैमासीं श्रामणेरो विधारितः । धर्मता खलु यथा बुद्धानां भगवतां श्रावकाणां द्वौ संनिपातौ भवतः । यश् चाषाढ्यां वर्षोपनायिकायां यश् च कार्तिक्यां पौर्णमास्याम्* । तत्र ये आषाढ्यां वर्षोपनायिकायां संनिपतन्ति ते तांस् तान् उद्देशयोगमनसिकारान् उद्गृह्य पर्यवाप्य तासु तासु ग्रामनगरनिगमराष्ट्रराजधानीषु वर्षाम् उपगच्छन्ति । ये कार्तिक्यां पौर्णमास्यां संनिपतन्ति ते यथाधिगतम् आरोचयन्ति । उत्तरे च परिपृच्छन्ति । एवम् एव महाश्रावकाणाम् अपि । अथ ये आयुष्मतो महाकात्यायनस्य सार्धंविहार्यन्तेवासिका भिक्षवस् तांस् तान् उद्देशयोगमनसिकारविशेषान् उद्गृह्य पर्यवाप्य तासु तासु ग्रामनगरनिगमराष्ट्रराजधानीषु वर्षाम् उपगतास् ते त्रयाणां वार्षिकाणां मासानाम् अत्ययात् कृतचीवरा निष्ठितचीवराः समादाय पात्रचीवरं येनायुष्मान् महाकात्यायनस् तेनोपसंक्रान्ताः । उपसंक्रम्यायुष्मतो महाकात्यायनस्य पादौ शिरसा वन्दित्वैकान्ते ( म्स्व् इव् 185 ) निषण्णाः । एकान्ते निषद्य यथाधिगतम् आरोचयन्ति उत्तरे च परिपृच्छन्ति । दशवर्गो गणः परिपूर्णः । स तेनोपसंपादितः । तेन पिटकत्रयम् अधीतम्* । सर्वक्लेशप्रहाणाद् अर्हत्वं साक्षात्कृतम्* । अर्हन् संवृत्तस् त्रैधातुकवीतरागो समलोष्ट्रकांचनः आकाशपाणितलसमचित्तो वासीचन्दनकल्पो ऽविद्याविदारिताण्डकोशो विद्याभिज्ञाप्रतिसंवित्प्राप्तो भवलाभलोभसत्कारपराङ्मुखः सेन्द्रोपेन्द्राणां देवानां पूज्यो मान्यो ऽभिवाद्यश् च संवृत्तः ।

अथायुष्मतो महाकात्यायनस्य सार्धंविहार्यन्तेवासिका आयुष्मन्तं महाकात्यायनं यावत् तावत् पर्युपास्यायुष्मन्तं महाकात्यायनम् इदम् अवोचन्* । दृष्टो ऽस्माभिर् उपाध्याय पर्युपासितश् च । गच्छामो वयं भगवन्तं पर्युपासिष्यामहे । वत्स एवं कुरुध्वम्* । पर्युपासितव्या एव हि तथागता अर्हन्तः सम्यक्संबुद्धाः ।
तेन खलु पुनः समयेन श्रोणः कोटीकर्णस् तस्याम् एव पर्षदि संनिषण्णो ऽभूत् संनिपतितः । अथायुष्मान् श्रोणः कोटीकर्ण उत्थायासनाद् एकांसम् उत्तरासंगां कृत्वा दक्षिणं जानुमण्डलं पृथिव्यां प्रतिष्ठाप्य येनायुष्मान् महाकात्यायनस् तेनाञ्जलिं कृत्वा प्रणम्यायुष्मन्तं महाकात्यायनम् इदम् अवोचत्* । दृष्टो मयोपाध्यायानुभावेन ( 86व् = ग्ब्म् 6.755 ) स भगवान् धर्मकायेन नो तु रूपकायेन । गच्छाम्य् उपाध्याय रूपकायेनापि तं भगवन्तं द्रक्ष्यामि । स आह । एवं वत्स ( म्स्व् इव् 186 ) कुरुष्व । दुर्लभदर्शना हि वत्स तथागता अर्हन्तः सम्यक्संबुद्धाः तद्यथा औदुम्बरपुष्पम्* । अस्माकं च वचनेन भगवतः पादौ शिरसा वन्दस्वाल्पाबाधतां च यावत् सुखस्पर्शविहारतां च पञ्च प्रश्नानि च पृच्छ ।
अश्मापरान्तकेषु भदन्त जनपदेषु अल्पभिक्षुकं कृच्छ्रेण दशवर्गगणः परिपूर्यते । तत्रास्माभिः कथं प्रतिपत्तव्यम्* । खरा भूमिर् गोकण्टकाधाना । अश्मापरान्तकेषु जनपदेषु इदम् एवंरूपम् आस्तरणं प्रत्यास्तरणं तद्यथा अजचर्म गोचर्म मृगचर्म च्छागचर्म । तद् अन्येषु जनपदेष्व् इदम् एवंरूपम् आस्तरणं प्रत्यास्तरणं तद्यथा एरको मेरको जन्दुरको मन्दुरकः । एवम् एवाश्मापरान्तकेषु जनपदेष्व् इदम् एवंरूपम् आस्तरणं प्रत्यास्तरणं ( म्स्व् इव् 187 ) तद्यथा अजचर्म पूर्ववत्* । उदकशुद्धिका मनुष्या स्नानसमुदाचाराः । भिक्षुर् भिक्षोश् चीवरकाणि प्रेषयति । इतश् च्युतानि तत्रासंप्राप्तानि । कस्यैतानि नैसर्गिकाणि । अधिवासयत्य् आयुष्मान् श्रोणः कोटीकर्ण आयुष्मतो महाकात्यायनस्य तूष्णींभावेन ।
अथायुष्मान् श्रोणः कोटीकर्णस् तस्या एव रात्रेर् अत्यायात् पूर्वाह्णे निवास्य पात्रचीवरम् आदाय वासवग्रामकं पिण्डाय प्राविक्षत्* । यावद् अनुपूर्वेण श्रावस्तीम् अनुपृअप्तः । अथायुष्मान् श्रोणः कोटीकर्णः पात्रचीवरं प्रतिशामय्य पादौ प्रक्षाल्य येन भगवांस् तेनोपसंक्रान्तः । उपसंक्रम्य वन्दित्वैकान्ते निषण्णः । तत्र भगवान् आयुष्मन्तम् आनन्दम् आमन्त्रयते स्म । गच्छानन्द तथागतस्य श्रोणस्य च कोटीकर्णस्यैकविहारे मञ्चं प्रज्ञपय । एवं भदन्तेत्य् आयुष्मान् आनन्दस् तथागतस्य श्रोणस्य च कोटीकर्णस्य यावत् प्रज्ञप्य येन भगवांस् तेनोपसंक्रान्तः । उपसंक्रम्य भगवन्तम् इदम् अवोचत्* । प्रज्ञप्तो भदन्त तथागतस्य श्रोणस्य च कोटीकर्णस्यैकविहारे मञ्चो यस्येदानीं भगवान् कालं मन्यते । अथ भगवान् येन श्रोणस्य कोटीकर्णस्य विहारस् तेनोपसंक्रान्तो यावद् विहारं प्रविश्य निषण्णः । यावत् ( म्स्व् इव् 188 ) प्रतिमुखं स्मृतिम् उपस्थाप्य । अथायुष्मान् अपि श्रोणः कोटीकर्णो बहिर् विहारस्य पादौ प्रक्षाल्य विहारं प्रविश्य निषण्णः पर्यङ्कम् आभुज्य यावद् ऋजुकायं प्रणिधाय प्रतिमुखं स्मृतिम् उपस्थाप्य । तां खलु रात्रिं भगवान् आयुष्मांश् च श्रोणः कोटीकर्ण आर्यस्य तूष्णींभावेनातिनामितवान्* । अथ भगवान् रात्र्याः प्रत्यूषसमये आयुष्मन्तं श्रोणं कोटीकर्णम् आमन्त्रयते स्म । प्रतिभातु ते श्रोण धर्मो यो मया स्वयम् अभिज्ञायाभिसंबुध्याख्यातः । अथायुष्मान् श्रोणो भगवता कृतावकाशः अश्मापरान्तिकया स्वरगुप्तिकया उदानात् पारायणात् सत्यदृष्टः शैलगाथामुनिगाथास्थविरगाथास्थविरीगाथार्थवर्गीयाणी च सूत्राणि विस्तरेण स्वरेण स्वाध्यायं करोति । अथ भगवान् श्रोणस्य कोटीकर्णस्य कथापर्यवसानं विदित्वा आयुष्मन्तं श्रोणं कोटीकर्णम् इदम् अवोचत्* । ( 87र् = ग्ब्म् 6.756 ) साधु साधु श्रोण मधुरस् ते धर्मो भाषितः प्रणीतश् च यो मया स्वयम् अभिज्ञायाभिसंबुध्याख्यातः ।
अथायुष्मतः श्रोणस्य कोटीकर्णस्यैतद् अभवत्* । अयं मे कालो भगवत उपाध्यायस्य वचसाराधयितुम् इति विदित्वोत्थायासनाद् यावद् भगवन्तं प्रणम्येदम् अवोचत्* । अश्मापरान्तकेषु जनपदेषु वासवग्रामके भदन्त महाकात्यायनः प्रतिवसति ( म्स्व् इव् 189 ) यो मे उपाध्यायः । स भगवतः पादौ शिरसा वन्दते ऽल्पाबाधतां लघूत्थानतां च पृच्छति यावत् स्पर्शविहारतां च पञ्च च प्रश्नानि पृच्छति । विस्तरेणोच्चारयितव्यानि ।
अथ भगवान् श्रोणं कोटीकर्णम् इदम् अवोचत्* । अकालस् ते श्रोण प्रश्नव्याकरणाय । संघमध्ये प्रश्नः पृच्छ्येत । तत्र कालो भविष्यति प्रश्नस्य व्याकरणाय । अथ भगवान् काल्यम् एवोत्थाय पुरस्ताद् भिक्षुसंघस्य प्रज्ञप्त एवासने निषण्णः । अथायुष्मान् श्रोणः कोटीकर्णो येन बहग्वांस् तेनोपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वैकान्ते ऽस्थात्* । एकान्तस्थितो भगवन्तम् इदम् अवोचत्* । अश्मापरान्तकेषु जनपदेषु वासवग्रामके भदन्त महाकात्यायनः प्रतिवसति यो मे उपाध्यायः । स भगवतः पादौ शिरसा वन्दते ऽल्पाबाधतां पृच्छति यावत् स्पर्शविहारतां च पञ्च च प्रश्नानि विस्तरेणारोचयति यथा पूर्वम् उक्तानि यावत् कस्य नैसर्गिकाणि । भगवान् आह । तस्माद् अनुजानामि । प्रत्यन्तिमेषु जनपदेषु विनयधरपञ्चमेन गणेनोपसंपदा । सदा स्नानम्* । एकपलाशिके उपानहे धारयितव्ये न द्विपुटे न त्रिपुटे । सा चेत् क्षयधर्मिणी भवति अर्गलकं दत्वा धारयितव्ये {म्स्: सचेत् क्षियधर्मिण्यौ भवतः । अर्घटकं वारयितव्ये चर्मा धारयितव्याम्} । भिक्षुर् भिक्षोश् चीवरकाणि प्रेषयति इतश् च्युतानि तत्रासंप्राप्तानि न कस्यचिन् नैसर्गिकाणि । ( म्स्व् इव् 190 )
आयुष्मान् उपाली बुद्धं भगवन्तं पृच्छति । यद् उक्तं भदन्त भगवता प्रत्यन्तिमेषु जनपदेषु विनयधरपञ्चमेन गणेनोपसंपदा । तत्र कतमो ऽन्तः कतमः प्रत्यन्तः । पूर्वेणोपालिन् पुण्ड्रवर्धनं नाम नगरं तस्य पूर्वेण पुण्ड्रकक्षो नाम दावः । सो ऽन्तः । ततः परेण प्रत्यन्तः । दक्षिणेन शरावती नाम नगरी {म्स्: प्रत्यन्त नगरावती नाम नगरी तस्य परेण शरावती} । तस्याः परेण शरावती नाम नदी । सो ऽन्तः । ततः परेण प्रत्यन्तः । पश्चिमेन स्थूणोपस्थूणकौ ब्राह्मणग्रामकौ । सो ऽन्तः । ततः परेण प्रत्यन्तः । उत्तरेण उशीरगिरिः । सो ऽन्तः । ततः परेण प्रत्यन्तः ।
भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पृच्छन्ति । किं भदन्त आयुष्मता श्रोणेन कोटीकर्णेन कर्म कृतं तस्य कर्मणो विपाकेनाढ्ये महाधने महाभोगे कुले जातो रत्नप्रत्युप्तिकया कर्णे आमुक्तिकया भगवतः शासने प्रव्रज्य सर्वक्लेशप्रहाणाद् अर्हत्वं साक्षात्कृतम्* ।

भगवान् आह । भूतपूर्वं भिक्षवो वाराणस्यां नगर्यां काश्यपो नाम तथागतो ऽर्हन् सम्यक्संबुद्धो भगवाञ् छास्ता लोक उत्पन्नः । तेन खलु समयेन वाराणस्यां द्वौ जायापतिकौ । ताभ्यां ( म्स्व् इव् 191 ) काश्यपस्य सम्यक्संबुद्धस्यान्तिके शरणगमनशिक्षापदान्य् ( 87व् = ग्ब्म् 6.757 ) उद्गृहीतानि । यदा काश्यपः सम्यक्संबुद्धः सकलं बुद्धकार्यं कृत्वा निरुपधिशेषे निर्वाणधातौ परिनिर्वृतस् तस्य राज्ञा कृकिणा चतूरत्नमयं चैत्यं कारितं समन्ताद् योजनम् अर्धयोजनम् उच्चत्वेन । तेन तत्र खण्डस्फुटप्रतिसंस्करणाय ये पूर्वनगरद्वारे करप्रत्याया उत्तिष्ठन्ते ते तस्मिन् स्तूपे ऽनुप्रदत्ताः । यदा कृकी राजा कालगतस् तस्य पुत्रः सुजातो नाम्ना स्वराज्ये प्रतिष्ठापितः । तस्यामात्यैः स्तोकाः करप्रत्याया उपनामिताः । राजा पृच्छति । किं कारणम् अस्माकं भवद्भिः स्तोकाः करप्रत्याया उपनामिताः । किम् अस्माकं विजिते करप्रत्याया उत्तिष्ठन्ते । ते कथयन्ति । देव कुतः करप्रत्याया उत्तिष्ठन्ते । ये देव पूर्वद्वारे करप्रत्यायास् ते वृद्धराज्ञा स्तूपे खण्डस्फुटप्रतिसंस्करणाय प्रज्ञप्ताः । यदि देवो ऽनुजानीते वयं तान् करप्रत्यायान् समुच्छिन्दामः । स कथयति । भवन्तो यन् मम पित्रा कृतं तद् एव ब्रह्मकृतम्* । ते संलक्षयन्ति । यदि देवो ऽनुजानीते वयं तथा करिष्यामो यथा स्वयम् एव ते करप्रत्याया नोत्थास्यन्ति । तैः स द्वारो बद्ध्वा स्थापितः । न भूयः करप्रत्याया उत्तिष्ठन्ते । तस्मिन् स्तूपे च स्फुटितकानि प्रादुर्भूतानि । तौ जायापती वृद्धीभूतौ तत्रैव स्तूपे परिकर्म कुर्वाणौ तिष्ठतः । उत्तरापथाच् च सार्थवाहः ( म्स्व् इव् 192 ) पण्यम् आदाय वाराणसीम् अनुप्राप्तः । तेनासौ दृष्टः स्तूपश् चटितस्फुटितकैः प्रादुर्भूतैः । स दृष्ट्वा पृच्छति । अम्ब तात कस्यैष स्तूप इति । तौ कथयतः । काश्यपस्य सम्यक्संबुद्धस्य । केन कारितः । कृकिणा राज्ञा । न तेन राज्ञा अस्मिन् स्तूपे खण्डस्फुटप्रतिसंस्करणाय किञ्चित् प्रज्ञप्तम्* । तौ कथयतः । प्रज्ञप्तं ये पूर्वनगरद्वारे करप्रत्यायास् ते ऽस्मिन् स्तूपे खण्डस्फुटप्रतिसंस्करणाय निर्यातिताः । कृकी राजा कालगतः । तस्य पुत्रः सुजातो नाम्ना स्वराज्ये प्रतिष्ठितः । तेन ते करप्रत्यायाः समुच्छिन्नाः । तेनास्मिन् स्तूपे चटितस्फुटितकानि प्रादुर्भूतानि । तस्य रत्नकर्णिका कर्णे आमुक्तिका । तेन सावतार्य तयोर् दत्ता । अम्ब तातानया रत्नकर्णिकया अस्मिन् स्तूपे खण्डस्फुटप्रतिसंस्कारं कुरुतम् इति यावद् अहं पण्यं विसर्जयित्वागच्छामि । ततः पश्चाद् भूयो ऽपि दास्यामि । तैस् तां विक्रीय तस्मिन् स्तूपे खण्डस्फुटप्रतिसंस्कारः कृतः । अपरम् उत्सर्पितम्* । अथापरेण समयेन स सार्थवाहः पण्यं विसर्जयित्वागतः । तेन स दृष्टः स्तूपे ऽसेचनकदर्शनः । दृष्ट्वा स च भूयस्यापि मात्रयाभिप्रसन्नः । स प्रसादजातः पृच्छति । अम्ब तात मा युष्माभिः किञ्चिद् उद्धारीकृतम्* । ( म्स्व् इव् 193 ) तौ कथयतः । पुत्र नास्माभिः किञ्चिद् उद्धारीकृतं किन् त्व् अपरम् उत्सर्पितं तिष्ठति । तेन प्रसादजातेन यत् तत्रावशिष्टम् अपरं च दत्वा महतीं पूजां कृत्वा प्रणिधानं च कृतम्* । अनेनाहं कुशलमूलेनाढ्ये महाधने महाभोगे कुले जायेयम्* । एवंविधानां च धर्माणां लाभी स्याम्* । एवंविधम् एव शास्तारम् आरागयेयं मा विरागयेयम् इति । किं मन्यध्वे भिक्षवः । यो ऽसौ सार्थवाह एष एवासौ श्रोणः कोटीकर्णः । ( 88र् = ग्ब्म् 6.758 ) यद् अनेन काश्यपस्य सम्यक्संबुद्धस्य स्तूपे कारां कृत्वा प्रणिधानं कृतं तस्य कर्मणो विपाकेनाढ्ये महाधने महाभोगे कुले जातः । मम शासने प्रव्रज्य सर्वक्लेशप्रहाणाद् अर्हत्वं साक्षात्कृतम्* । अहम् अनेन काश्यपेन सम्यक्संबुद्धेन समबलः समजवः समधूरः समसामान्यप्राप्तः शास्ता आरागितो न विरागित इति हि भिक्षव एकान्तकृष्णानां कर्मणाम् एकान्तकृष्णो विपाकः एकान्तशुक्लानां कर्मणाम् एकान्तशुक्लो विपाकः व्यतिमिश्राणां व्यतिमिश्रः । तस्मात् तर्हि भिक्षव एकान्तकृष्णानि कर्माण्य् अपास्य व्यतिमिश्राणि चैकान्तशुक्लेष्व् एव कर्मस्व् आभोगः करणीयः । इत्य् एवं वो भिक्षवः शिक्षितव्यम्* । भिक्षव ऊचूः । किं भदन्तायुष्मता श्रोणकोटीकर्णेन कर्म कृतं यस्य कर्मणो विपाकेन दृष्ट एव धर्मे अपाया दृष्टाः । भगवान् आह । यद् अनेन मातुर् अन्तिके खरवाक् कर्म निश्चारितं तस्य कर्मणो विपाकेन दृष्ट एव धर्म अपाया दृष्टाः ।

बुद्धो भगवान् श्रावस्त्यां विहरति जेतवने ऽनाथपिण्डदस्यारामे । आयुष्मान् उपनन्दः संघनवकः । तस्य पंक्त्या कटकटायमंचकः प्राप्तः । स भयेन परिवर्तते । मा भेत्स्यतीति संलक्षयति । अहम् उपनन्दो मंचकस्यापि स्पृहयामि । नोपनन्द इति नामधेयं धारयामि यदि शय्यां मंचकं वा नोपावर्तयामि । स काल्यम् एवोत्थाय राज्ञः प्रसेनजितः कोसलस्य सकाशम् उपसंक्रान्तः । स तेनोक्तः । स्वागतं भदन्तोपनन्दस्य । कश्चिद् भदन्तोपनन्दः सुखं शयितः । स कथयति । गिल्लपेठ किं त्वं न जानीषे यथाहम् अष्टपुटीं शय्यां कल्पयाम्य् उपनन्दो ऽपि तथैवेति । अहं संघनवको मम पंक्त्या कटकटायमंचकः प्राप्तः । सो ऽहं भयेन परिवर्तामि । मा भेत्स्यतीति कल्पते । भदन्तोपनन्दस्येदृशी अष्टपुटी शय्या साधु कल्पते सुष्ठु कल्पते । कुत्र प्रतिक्षिप्तं केन वा प्रतिक्षिप्तम्* । यदि ते कल्पते गृहीतो भवतु । उपनन्दः कथयति । किं मम कोसलो जनपदो वर्तते । विहारं नामयित्वानुप्रयच्छ । तेन तस्याष्टौ मनुष्या अनुप्रदत्ताः । तत्र चतुर्भिः शयनासनं गृहीतं चतुर्भिः खट्टा । ते गृहीत्वा वीथ्या मध्येन संप्रस्थिताः । ते ब्राह्मणगृहपतिभिर् ( म्स्व् इव् 195 ) दृष्टाः । दृष्ट्वा च पृच्छन्ति । कुत्र भवन्तो ऽस्य देवशय्यां कल्पयिष्यन्ति । उपनन्दः कथयति । स्वगृहे । कस्यैषा शय्या नीयते । उपनन्दः कथयति । मयैषा लब्धा । ते ऽवध्यायन्ति क्षिपन्ति विवाचयन्ति । किं भदन्तोपनन्दस्य श्रामणकस्य कामगुणा बाधन्ते । तेन विहारं गत्वा विहारं सिक्तं संमृष्टं सुकुमारी गोमयकार्ष्य् अनुप्रदत्ता । शय्यां प्रज्ञप्य निषेत्स्यामीति । भगवान् च तं प्रदेशम् अनुप्राप्तः । सौद्विल्यजातो भगवन्तम् इदम् अवोचत्* । पश्य मम भदन्त कीदृशी शय्या । तत्र भगवान् भिक्षून् आमन्त्रयते स्म । आदित एव भिक्षवः उपनन्दो मोहपुरुषः प्रतिगोपको वेदितव्यः । भगवान् संलक्षयति । यः कश्चिद् आदीनवो भिक्षवो उच्चशयनमहाशयने शय्या कल्पयन्ति । तस्मान् न भिक्षुणोच्चशयनमहाशयने निषेत्तव्यम्* । निषीदति सातिसारो भवति ।
उक्तं भगवता न भिक्षुणोच्चशयनमहाशयने ( 88व् = ग्ब्म् 6.759 ) निषेत्तव्यम् इति । अन्यतमेन गृहपतिना बुद्धप्रमुखा भिक्षुसंघा अन्तर्गृहे निमंत्रिताः । स उच्चान्य् आसनानि प्रज्ञपयितुम् आरब्धः । आयुष्मान् आनन्दः अनुकालं प्रविष्टः । तेन दृष्टः य उच्चान्य् आसनानि प्रज्ञपयन्* । स तेनोक्तः । नैतानि गृहपते भिक्षुप्रतिरूपाण्य् आसनानि । अपनय । स तान्य् अपनयितुम् आरब्धः । भगवांश् च तत्रागतः । जानकाः पृच्छका बुद्धा भगवन्तः । पृच्छति बुद्धो भगवान् आयुष्मन्तम् आनन्दम्* । किम् इदम् आनन्द करिष्यसि । बहगवन्न् अयं गृहपतिर् महार्हाणि शयनासनानि प्रज्ञपयति ( म्स्व् इव् 196 ) नैतानि गृहपते भिक्षुप्रतिरूपाणि शयनासनानि । अपनयैतानि । सैषो ऽपनयति । मानन्द गृहपतिं वारय । प्रज्ञपयन्तु न सर्वत्रानन्द रिद्धिष्यति । तस्माद् अनुजानाम्य् अन्तर्गृहे उच्चासने निषेत्तव्यम्* । नाभिनिपतितव्यम्* । विहारे नैव निषेत्तव्यम्* । निषद्याभिनिपतति सातिसारो भवति ।
अन्यतमो भिक्षुस् त्रिचीवरको दक्षिणापथात् श्रावस्तीम् अनुप्राप्तो भगवतः पादाभिवन्दकः । तस्य चर्मकास्तरिका शोभना । स तत्रोपनन्देन दृष्टः । स तेनोक्तः । पिण्डपातिक प्रयच्छ ममैतत् चर्म चैत्याभिवन्दको {fओल्लोwइन्ग् तेxत् रेस्तोरेद् अच्चोर्दिन्ग् तिब्: अहं भगवतः पादाभिवन्दकः गच्छामि । स कथयति । भदन्तोपनन्द युक्तम् एतन् न युक्तम्* । अहम् अपि भगवतः पादाभिवन्दको ऽत्रागतः । पिण्डपातिकस् त्वम् इति मन्ये । भदन्तोपनन्द एवंरूपचर्मग्रहणे त्वं समर्थो वासमर्थः । पश्य भदन्तोपनन्द येन त्वम् असमर्थस् तेनाहं तव नानुप्रयच्छामि । } गच्छामि । स कथयति । भदन्तोपनन्द गछ त्वम् आवासम्* । अहं चैत्याभिवन्दक एवागतः पादाभिवन्दकः । किं त्वं जानीषे असमर्थोपनन्द ईदृशं चर्म समुदानेतुम्* । पश्य भदन्तोपनन्द येन त्वम् असमर्थस् तेनाहं तव नानुप्रयच्छामि ।
राज्ञः प्रसेनजितः कोसलस्य बड्रो नाम गवाध्यक्षः आयुष्मत उपनन्दस्य सप्रेमकः । स तस्य सकाशम् उपसंक्रान्तः । यावद् वसन्तकाले चित्रोपचित्रको वत्सो जातः । सैकस्य वत्सस्य पृष्ठं परामृशति । बड्रेणोक्तः । किं भदन्तोपनन्द ( म्स्व् इव् 197 ) काङ्क्षसे त्वम् अस्य मातुः क्षीरम्* । नेदम्* । स कथयति । एतच् च भवतु । अपि तु यस्य भिक्षोर् ईदृशं चर्मसु अल्पोत्सुकः कुशलपक्षं कुर्यात्* । स कथयति । भदन्तोपनन्द गच्छ । विज्ञातम्* । स प्रक्रान्तः । तेन गोपालस्याज्ञा दत्ता एतद् वत्सकं प्रघात्य चर्म गृहीत्वा भदन्तोपनन्दस्य नीत्वानुप्रयच्छस्व । स तं वत्सकं प्रघात्य चर्म गृहीत्वा संप्रस्थितः । सा गौः पुत्रस्नेहेन हंभारवं कुर्वती पृष्ठतः पृष्ठतः समनुससार । जेतवने प्रविष्टा सा गौः जेतवनद्वारे हंभारवं रवमाना तिष्ठति । जानकाः पृच्छका बुद्धा भगवन्तः । पृच्छति बुद्धो भगवान् आयुष्मन्तम् आनन्दम्* । कस्माद् आनन्द इयं गौः जेतवनद्वारे तिष्ठति । आयुष्मान् आनन्दः कथयति । भगवन् तस्या वत्सकः चर्मकार्थाय भदन्तोपनन्देन प्रघातापितः । तेनेयं गौः जेतवनद्वारे हंभारवं रवमाना तिष्ठति । भगवान् आह । यः कश्चिद् आदीनवो भिक्षवश् चर्म धारयन्ति । तस्मान् न भिक्षुणा चर्म धारयितव्यम्* । धारयन्ति सातिसारा भवन्ति ।
उक्तं भगवता । न चर्म धारयितव्यम्* । अन्यतमेन गृहपतिना बुद्धप्रमुखो भिक्षुसंघो निमन्त्रितः । स चर्मकान्य् आसनानि प्रज्ञपयितुम् आरब्धः । पूर्ववत् तु न सर्वत्र संपत्स्यते । तस्माद् अन्तर्गृहे चर्मासने निषेत्तव्यं न निपतितव्यम्* । विहारे न निषेत्तव्यं ( 89र् = ग्ब्म् 6.760 ) ( म्स्व् इव् 198 ) न निपतितव्यम्* । निषीदति निपतति सातिसारो भवति ।
राजगृहनिदानम्* । पिलिन्दवत्सस्य सदा ग्लानकस्य यानम् अनुज्ञातम्+ । षड्वर्गिका यानेन गन्तुम् आरब्धाः । तस्मान् न गन्तव्यं यानेन । स एवादीनवः । तस्माद् द्वाभ्यां गन्तव्यं जीर्णेन वा जरादुर्बलेना ग्लानेन वा अप्रयोगक्षमेण ।

भिक्षवो जनपदचारिकां चरन्ति । नद्या गच्छन्ति । ते तर्तुं न शक्नुवन्ति पात्रचीवरम् उत्तोलयित्वा । एतत् प्रकरणं भिक्षवो भगवत आरोचयन्ति । भगवान् आह । भिक्षुणा सन्तरणं शिक्षितव्यम्* । षड्वर्गिका अजिरवतीम् उत्तरन्त्य् अपि स्रोत उत्तरन्त्य् अपि । यावद् आतीर्य आगताः । भगिनि उत्तारयाम युष्माकम् एवं कुरुध्वम्* । तैस् तासाम् अङ्गप्रत्यङ्गानि परामृष्टानि । भूयः आगच्छत । ताः कथयन्ति । ये ऽस्माकं स्वामिनापि न प्रदेशा परामृष्टास् ते युष्माभिः परामृष्टाः । ता अवध्यायन्ति क्षिपन्ति विवाचयन्ति । भगवान् आह । यः कश्चिद् आदीनवो भिक्षवो मातृग्रामं स्पृशति । तस्मान् न भिक्षुणा मातृग्रामं स्प्रष्टव्यम् इति ।
उक्तं भगवता । मातृग्रामो स स्प्रष्टव्यः । नगरमनुष्याः ( म्स्व् इव् 199 ) उद्यानप्रियाः । तेषाम् उद्यानगतानाम् अन्यतमा स्त्री पानीयस्यार्थाय नदीम् अवतीर्णा । सा तृष्यते । तां मनुष्यो ऽवलोकयन् गच्छति । तेन भिक्षुर् दृष्टः । आर्येण काचित् स्त्री प्लवमाना दृष्टा । दृष्टा एषा प्लवते । दिवसे पानीयं प्रतिवीक्षमाणा तिष्ठति एवं प्राणो ऽस्यायते । एतत् प्रकरणं भिक्षवो भगवत आरोचयन्ति । भगवान् आह । उत्तारयितव्या । अपराः कथयन्ति मुंचतु । अतिबला {ग्ब्म्: प्रतिबला} भवन्ति । प्रतिमोक्तव्या । अपरा निश्चेष्टा भवन्ति । ता बालिकास्थलं कृत्वावमूर्धिकाः स्थापयित्वा छोरयित्वा गच्छन्ति । ताः शृगालैर् भक्ष्यन्ते । न छोरयित्वा गन्तव्यम्* । रज्यन्ति । एकान्ते स्थातव्यम्* । ये स्वाध्यायकारका भिक्षवस् तैः स्वाध्यायनिका कर्तव्या । ये ध्यायिनस् तैर् मनसिकारः कर्तव्यः । भक्तच्छेदो भवति । ये तत्र गोपालकाः पशुपालका भवन्ति तेषाम् अनुपरितस् तु गन्तव्यम्* ।
षड्वर्गिका गोपुच्छेन तरन्ति । अन्यतमो गृहपतिः । तस्य गावः । तासां तावद् उत्तारोत्तारं कृत्वा यावत् क्षीरम् अन्तर्हितम्* । ( म्स्व् इव् 200 ) तेन गोपालकः पृष्टः । कस्माद् अद्य क्षीरं नास्ति । ते कथयन्ति । आर्यकैः षड्वर्गीयैः पूर्ववत्* । सो ऽवध्यायति क्षिपति विवाचयति । तस्मान् न भिक्षुणा गोपुच्छेन तर्तव्यम्* । उक्तं भगवता । न गोपुच्छेन तर्तव्यम् इति । भिक्षूणां नदीसन्तरेण विघातो जातः । हस्तिपुच्छेन नेच्छन्ति तर्तुम्* । भगवान् आह । पंचानां बालधीयानां पुच्छेन तर्तव्यम्* । हस्त्याजानेयस्य अश्वाजानेयस्य वृषभस्य महिषस्य चमरस्य । अपि तु भृषिणा तर्तव्यम्* ।
उक्तं भगवता भृषिणा तर्तव्यम् इति । षड्वर्गीयैश् चित्रोपचित्राणि कमलमात्राणि स्त्रीपुरुषविप्रतिपन्नानि कृतानि । ते ब्राह्मणगृहपतिभिर् दृष्टाः कथयन्ति । भवन्तः किम् इदम्* । ते कथयन्ति । भगवता भृषिणा अनुज्ञाताः । ते ऽवध्यायन्ति । आर्य युष्माकं श्रामणकः कामगुणो भवति । एतत् प्रकरणं भिक्षवो भगवत आरोचयन्ति । भगवान् आह । न भिक्षुभिश् चित्रोपचित्राणि कमलमात्राणि स्त्रीपुरुषैर् विप्रतिपन्नैर् भृषयो धारयितव्याः । अपि तु द्वौ भृषी । काषायः तारणिकश् च ।
अनाथपिण्डदेन गृहपतिना मण्डलवाटं कारितम्* । धर्मश्रवणाय ( म्स्व् इव् 201 ) काष्ठपादुकाभिर् ( 89व् = ग्ब्म् 6.761 ) भिक्षव आगताः । तैः स कुट्टिमः काष्ठपादुकाभिः क्षतविक्षतः कृतः । अनाथपिण्डदो गृहपतिः काल्यम् एवोत्थाय भगवतः पादाभिवन्दक आगतः । तेन दृष्टम्* । दृष्ट्वा कथयति । आर्याः किम् अत्र राजा प्रसेनजित्* चतुरो गोणबलकायेन रात्रिं वासम् उपगतः । ते कथयन्ति । न राजा अपि तु भिक्षवः काष्ठपादुकाभिर् आगताः । तैर् एतद् विनाशितम्* । सो ऽवध्यायते । एतत् प्रकरणं भिक्षवो भगवत आरोचयन्ति । भगवान् संलक्षयति । यः कश्चिद् आदीनवो भिक्षवः काष्ठपादुकां धारयन्ति । तस्मान् न हि भिक्षुणा काष्ठपादुका धारयितव्या ।
उक्तं भगवता न भिक्षुणा काष्ठपादुका धारयितव्या । भिक्षवो ऽन्तर्गृहे उपगच्छन्ति । तेषां पादुकाः कर्दमेन क्लिद्यन्ते । एतत् प्रकरणं भिक्षवो भगवत आरोचयन्ति । भगवान् आह । अन्तर्गृहे भिक्षुणा काष्ठपादुका धारयितव्या । शुद्धा ब्राह्मणगृहपतयः संघे भिक्षूणां काष्ठपादुकाम् अनुप्रयच्छन्ति । भिक्षवो न प्रतिगृह्णन्ति । ते कथयन्ति । आर्य यदा बहगवांल् लोके नोत्पन्नस् तदा तीर्थ्या दक्षिणीया आसन्* । यावद् भगवान् आह । प्रतिग्रहीतव्या । प्रतिगृह्य सांघिकायां वर्चस्कुट्यां वा प्रस्रावकुट्यां प्रक्षेपयितव्या ।
उद्दानम्* ।
वंशपत्रा च श्रोणश् च अनुज्ञाता हि गुप्तये ।
तिर्यग्बद्धिका च पुरा पार्ष्णी पुटी च ।
उक्तं भगवता । न काष्ठपादुका धारयितव्या इति । ते वंशपत्रपादुकां धारयन्ति । स एवादीनवः । भगवान् आह । न वंशपत्रपादुका धारयितव्या । ते मुंजपादुकां धारयन्ति । स एवादीनवः । भगवान् आह । न मुंजपादुका धारयितव्या । ते रज्जुपादुकां धारयन्ति । स एवादीनवः । भगवान् आह । न रज्जुपादुका धारयितव्या । उक्तं भगवता । न रज्जुपादुका धारयितव्या इति भिक्षूणां वातशोणितं भवति । तेषां परिषेकेण चर्मपादुकाः क्लिद्यन्ते । एतत् प्रकरणं भिक्षवो भगवत आरोचयन्ति । भगवान् आह । यस्य वातशोणितं भवति तेन रज्जुपादुका धारयितव्या ।

यदा श्रोणः कोटीविंशः प्रव्रजितस् तदा पादतलेषु सुवर्णवर्णानि रोमाणि चतुरंगुलमात्राणि षड्वर्गिकैर् दृष्टानि । ते दृष्ट्वा कथयन्ति । एष तावन् नवनीतपिण्डः एकान्तघटने शासने किं प्रव्रज्य करिष्यति । तेन श्रुतम्* । तस्य श्रुत्वाभिमानो जातः । स आयुष्मत आनन्दस्य सकाशम् उपसंक्रान्तः । उपसंक्रम्यायुष्मन्तम् आनन्दं पृच्छति । कतमो भदन्तानन्द एकान्तघटनः समाधिर् उक्तो भगवता । चंक्रम्याधिगमः आयुष्मन् श्रोण । तेन शीतवनं श्मशानं गत्वा चंक्रमे ऽधिष्ठितः । तस्य चंक्रमतः स्वर्णवर्णानि रोमाणि चतुरंगुलमात्राणि शीर्णानि । ततः पश्चाच् चर्म पश्चाच् छोणितम्* । स यावद् एकस्माच् चंक्रमशिरसो ऽपरं गच्छति तावत् तस्यैकस्मिन् ( म्स्व् इव् 203 ) चंक्रमशिरसि काकाः शोणितं पिबन्ति द्वितीये ऽपि । धर्मता खलु बुद्धा भगवन्तो जीवन्तस् तिष्ठन्तो ध्रियमाणा यापयन्तः कालेन कालं नदीचारिकां चरन्ति विस्तरेण यावद् एवास्मिंस् त्व् अर्थे बुद्धो भगवान् विहारचारिकां चरन् ( 90र् = ग्ब्म् 6.762 ) येनायुष्मतः श्रोणस्य कोटीविंशस्य विहारस् तेनोपसंक्रान्तः । अद्राक्षीद् भगवान् श्रोणस्य कोटीविंशस्य चंक्रमम्* । दृष्ट्वा च पुनर् जानकाः पृच्छका बुद्धा भगवन्तो जानन्तः पृच्छन्ति । पृच्छति बुद्धो भगवान् आयुष्मन्तम् आनन्दम् एकान्तघटकस्य भिक्षोश् चंक्रमम्* । श्रोणस्य भदन्त कोटीविंशस्य । तस्माद् आनन्द अनुजानामि श्रोणेन कोटीविंशेन एकपलाशिका उपानहा धारयितव्या न द्विपुटी न त्रिपुटी । सा चेत् क्षयधर्मिणी भवति अर्गलकं दत्वा धारयितव्या । अथायुष्मान् आनन्दो येनायुष्मान् श्रोणकोटीविंशस् तेनोपसंक्रान्तः । उपसंक्रम्य श्रोणं कोटीविंशम् इदम् अवोचत्* । यत् खल्व् आयुष्मन् श्रोण जानीथाः शास्त्रा ते एकपलाशिकोपानहा अनुज्ञाता न द्विपुटीति विस्तरः । किं भदन्तानन्द सर्वसंघस्य आहोस्विन् ममैवैकस्य । तवैवैकस्य । अकोप्या भदन्तानन्द शास्तुर् आज्ञा । सचेद् अहं धारयिष्यामि स्यान् मे अतोनिदानं सब्रह्मचारिणो वक्तारः । प्रभूतं तत्र श्रोणकोटीविंशेन प्रव्रज्यावाप्तं यश् चम्पाम् असाधारणां सप्तहस्तिकां चानीकम् अपहाय प्रव्रजितः स इदानीम् उपानहकल्पमात्रे सक्तः । अपि तु यदि भगवान् ( म्स्व् इव् 204 ) समागम्य सर्वसंघस्यानुजानीयाद् एवम् अहं धारयेयम्* । एतत् प्रकरणम् आयुष्मान् आनन्दो भगवतो विस्तरेणारोचयति । भगवान् आह । तस्माद् अनुजानामि श्रोणं कोटीविंशम् आगम्य सर्वसंघेनैकपलाशिकोपानहा धारयितव्या न द्विपुटीति विस्तरः ।
अन्यतमो महल्लो भगवतः पुरस्तात् सोपानत्कश् चंक्रमति । अथ भगवांस् तं भिक्षुम् इदम् अवोचत्* । अपेहि भिक्षो मा मे पुरतस् तिष्ठ । तत्र भगवान् भिक्षून् आमन्त्रयते स्म । यस् तावद् असौ भिक्षवः शास्ता सर्वलोकामिषसंमृष्टो भवति तस्य तावच् छास्तुः श्रावका नैव लघु लघ्व् एव पातकव्रतम् आपद्यन्ते । कुतः पुनः सर्वलोकामिषविसंयुक्तो विहरामि । भगवान् संलक्षयति । यः कश्चिद् आदीनवो भिक्षवः उपानहौ धारयन्ति तस्मान् न भिक्षुणा उपानहा धारयितव्या इति ।
अन्यतमश् शोभितः प्रव्रजित इति । तस्योदकस्थानकं भग्नम्* । स पादधावनिकायां पादौ प्रक्षाल्य पानीयेनास्यं {म्स्: पानीयस्या[प्]यं} पूरयित्वा मयूरगत्या संप्रस्थितः । स षड्वर्गिकैर् दृष्टः । ते कथयन्ति । आयुष्मन्तो विना वादित्रेण भिक्षुर् नृत्यति । वादित्रं वादयतेति । ते मुखवादित्रं वादयितुम् आरब्धाः । ते भिक्षुभिर् भर्त्स्यन्ते । किम् औद्धत्यं कुरुत । ते कथयन्ति । किम् अत्रौद्धत्यम्* । न पश्यत यूयं भिक्षुं विना वादित्रेण नृत्यन्तम्* । एतत् प्रकरणं भिक्षवो भगवत आरोचयन्ति । जानका पृच्छका बुद्धा भगवन्तो जानन्तः पृच्छन्ति । पृच्छति बुद्धो भगवांस् तं भिक्षुं किम् अभिप्रायेण भिक्षो एवं कृतम्* । शयनासनगुप्त्यर्थं भदन्त । अनापत्तिर् अस्य भिक्षोः ( म्स्व् इव् 205 ) शयनासनगुप्त्यर्थम् एव कुर्वतः । तस्माद् अनुजानामि शयनासगुप्त्यर्थम् एकपलाशिकोपानहा धारयितव्या । न द्विपुटी न त्रिपुटी । सा चेत् क्षयधर्मिणी भवत्य् अर्गलकं दत्वा धारयितव्या ।
उक्तं भगवता । एकपलाशिकोपानहा धारयितव्या इति । अन्यतमस्य पिण्डपातिकस्य ( 90व् = ग्ब्म् 6.763 ) गृहपतिर् अभिप्रसन्नः । सो ऽनुपानहकः श्रावस्तीं पिण्डाय प्रविष्टः । स तेन गृहपतिना अनुपानहको दृष्टः । दृष्ट्वा च कथयति । आर्यस्य नास्त्य् उपानहः । आगच्छ चर्मकारसकाशं गच्छामः । उपानहौ दापयिष्यामि । स चर्मकारसकाशं गतः । तेन चर्मकार उक्तः । आर्यस्योपानहाव् अनुप्रयच्छेत्य् उक्त्वा प्रक्रान्तः । तेन खलु समयेन द्वयोर् एकपलाशिका उपानहाः क्रियन्ते भिक्षूणाम् उपरतकानां च । स भिक्षुर् भूयो भूयश् चर्मकारसकाशम् उपसंक्रामति । स नानुप्रयच्छति । अपरेण समयेन भूयस् तेन गृहपतिना स भिक्षुर् दृष्टो ऽनुपानत्कः । दृष्ट्वा कथयति । आर्य न तेन शिल्पिना उपानहा दत्ता । गृहपते न श्रुतं त्वया दुर्लभः शिल्पी सत्यजल्पक इति । भूयो भूय उपसंक्रमामि नानुप्रयच्छति । स कथयति । आर्यागच्छ गृहं गच्छामः । स तेन गृहं नीत्वा प्रणीतेनाहारेण सन्तर्प्य बहुपुटी उपानहा दत्ता । भिक्षुः कथयति । गृहपते भगवता नानुज्ञातम्* । स कथयति । आर्य गच्छ एकपुटीं कृत्वा धारयिष्यसि । स तां गृहीत्वा विहारं गतः । स ताम् आदाय शस्त्रकं च वृक्षमूलं गत्वा उत्पाटयितुम् आरब्धः । ( म्स्व् इव् 206 ) भगवांश् च तं प्रदेशम् अनुप्राप्तः । भिक्षो किं क्रियते । भगवता बहुपुटी उपानहा प्रतिक्षिप्ता । मम च बहुपुटी एव संपन्ना एकपुटीं कृत्वा धारयिष्यामि । अथ भगवत एतद् अभवत्* । दास्यन्ति बतामी श्राद्धा गृहपतयः श्रावकाणां बहुपुटी उपानहा तस्माद् अनुजानामि बहुपुटी उपानहा आगारिकविनिर्मुक्तेन कृत्वा धारयितव्या । आयुष्मान् उपाली यावत् पृच्छति । यद् उक्तं भदन्त भगवता बहुपुटी उपानहा आगारिकविनिर्मुक्तेभिः कृत्वा धारयितव्या । कियता भदन्त आगारिकविनिर्मुक्ता वक्तव्या । अन्तत उपालिन् सप्त वाष्ट वा पदानि परिमुक्तानि भवन्ति ।

वैशाल्यां निदानम्* । तेन खलु समयेन वैशाल्यां एवंरूपा उपानहाः क्रियन्ते । तद्यथा हिनिहिनायमानाः किणिकिणायमाना मेण्डविषाणिका बोधिपटपत्रकाः चित्रोपचित्राः पंचकार्षापणमूल्याः । षड्वर्गिकैर् हि दृष्टो भवति उपानहा यावत् पिधाय ते पार्ष्णिपादाङ्गुष्ठेन पाटयित्वा ग्रीवायां मेल्लयित्वा गृह्णन्तीदं ते दानं चित्तालङ्काराय । सामन्तकेन शब्दो विसृतः । आर्यका उपानहान्य् एवंरूपाणि हरन्ति । एकायुवत्या जामाता आगतः । तस्य तयोपानहा ( म्स्व् इव् 207 ) दत्ता । उक्तश् चार्या उपानहां हरन्ति । अप्रमत्तो भविष्यसि यथा न हरापयसीति । पिण्डपातिकः पिण्डपातं प्रविशति । तेन दृष्टः स एकस्मिन् गृहे प्रविष्टः । असाव् अपि तत्रैव प्रविष्टः । स तस्माद् गृहान् निर्गत्यापरं गृहं प्रविष्टः । पिण्डपातिको ऽपि तत्रैव प्रविष्टः । स कथयति । आर्य कस्यार्थे त्वं मां पृष्ठतः पृष्ठतः समनुबद्धः । किम् इच्छस्य् उपानहाम् अपहर्तुम्* । भद्रमुख नाहं तवोपानहाम् अपहरामि त्व् अहं पिण्डपातं प्रविशामि । स कथयति । आर्य हर वा मा वापि तु युष्माकं सामन्तकेन शब्दो विसृतः - आर्यका उपनाहा हरन्तीति । एतत् प्रकरणं भिक्षवो भगवत आरोचयन्ति । अथ भगवत एतद् अभवत्* । यः कश्चिद् आदीनव इह भिक्षव एवंरूपाम् उपानहां धारयन्ति हिनिहिनिका इति विस्तरः ।
( 91र् = ग्ब्म् 6.764 ) तस्मान् न भिक्षुणा एवंरूपा उपानहा धारयितव्या हिनिहिनिका इति विस्तरः । भिक्षुर् इमाम् एवंरूपाम् उपानहां धारयति सातिसारो भवति ।
श्रावस्त्यां निदानम्* । तेन खलु समयेन भिक्षूणाम् उपानहाभिः पादपृष्ठे व्रणानि कृतानि । ब्राह्मणगृहपतिभिर् दृष्टानि । केन युष्माकं व्रणानि कृतानि । उपानहाभिः । किं न यूयं तिर्यग्बद्धा धारयत । भगवता नानुज्ञातम्* । एतत् प्रकरणं भिक्षवो भगवत आरोचयन्ति । भगवान् आह । तिर्यग्बद्धिका धारयितव्या । गृध्रकूट एव पर्वतो राजगृहे । पर्वतम् अभिरुहतां पादाङ्गुष्ठेषु क्षतानि ( म्स्व् इव् 208 ) भवन्ति । ते ब्राह्मणगृहपतिभिर् दृष्टाः । केन युष्माकं पादाङ्गुष्ठेषु क्षतानि । गृध्रकूटपर्वतम् अभिरुहताम्* । न यूयं पुटापुटीं धारयत । नानुज्ञातं भगवता । एतत् प्रकरणं भिक्षवो भगवत आरोचयन्ति । भगवान् आह । धारयितव्या । तत्रैवावतरतां पार्ष्ण्या क्षता भवन्ति । पूर्ववद् यावद् धारयितव्या ।
उद्दानम्* ।
नालाम्बुजा मुण्डपूला पूला हैमवतेषु च ।
ऋक्षचर्मम् अनुज्ञातम् आरा शस्त्री च बद्धिका ॥
श्रवस्त्यां निदानम्* । भिक्षूणां नवेन तृणेन पादाः शूलिताः । ब्राह्मणगृहपतयः कथयन्ति । केन युष्माकं पादाः शूलिताः । नवेन तृणेन । यूयं नालाम्बुजं किं न धारयत । नानुज्ञातं भगवता । एतत् प्रकरणं भिक्षवो भगवत आरोचयन्ति । भगवान् आह । नालाम्बुजा ( म्स्व् इव् 209 ) धारयितव्याः । एवं वृद्धे तृणे मुण्डपूला धारयितव्याः । पूला हैमवतेषु च इति ।
यदा विरूढकेन मोहपुरुषेण कापिलवास्तवः शाक्याः प्रघातिताः तत्र केचिद् उत्तरापथं गताः केचिद् यावन् नैवालं प्रविष्टाः । श्रावस्तीया वणिजो नैवालं गताः । तैर् वणिजः पृष्टाः । आर्यानन्दो ज्ञातिवत्सलो नास्माकम् अवलोकयतीति । यावत् तैस् तस्यारोचितम्* । स नैवालं प्रविष्टः । तस्य हिमेन पादौ स्फुटितौ । स भिक्षुभिर् उच्यते । तव पादौ किमर्थम् इदानीम् ईदृशौ । हिमेन । ते तव ज्ञातयः किं कुर्वन्ति । पूलां धारयन्ति । त्वं किमर्थं न धारयसि । भगवता नानुज्ञातम्* । एतत् प्रकरणं भिक्षवो भगवत आरोचयन्ति । भगवान् आह । हैमवतेषु जनपदेषु पूला धारयितव्याः ।
आयुष्मान् उपाली बुद्धं भगवन्तं पृच्छति । यद् उक्तं भदन्त भगवता हैमवतेषु जनपदेषु पूला धारयितव्या इति । कतमे हैमवता जनपदाः । यत्रोदकस्थालकं श्यायति ।
भिक्षोर् लुब्धको ऽभिप्रसन्नः । तस्य ऋक्षचर्म संपन्नम्* । स भिक्षोर् अनुप्रयच्छति । स न गृह्णाति । भगवांश् च तं प्रदेशम् अनुप्राप्तः । जानका पृच्छका बुद्धा भगवन्तः । पृच्छति बुद्धो भगवान् आयुष्मन्तम् आनन्दम्* । किम् एष आनन्द भिक्षोर् लुब्धकः पृष्ठतः ( म्स्व् इव् 210 ) पृष्ठतः समनुबद्धः । एतत् प्रकरणं भिक्षवो भगवत आरोचयन्ति । भगवान् आह । दुर्लभा आनन्द लुब्धकस्य श्रद्धा । यदि शतसहस्रम् अपि लभति सर्वं प्रघातयति । तस्माद् यदि लुब्धको रिक्षचर्मानुप्रयच्छति ( 91व् = ग्ब्म् 6.765 ) ग्रहीतव्यम्* । गृहीत्वा गन्धकुटिद्वारे प्रज्ञपयितव्यं पादान्ते वा । सर्वं रिक्षचर्म चाक्षुष्यं स्वस्ति ।
भिक्षोर् उपानहाश् छिन्नाः । स चर्मकारसकाशं गच्छति । यावद् दीर्घकालं गत्वा स्वबुद्धेर् वारयिष्यतीति । सो ऽन्यतमेन भिक्षुणा दृष्टः । यावद् अस्ति मम कौशलं यदि भगवान् अनुजानीयाद् ग्रन्थयेयम्* । एतत् प्रकरणं भिक्षवो भगवत आरोचयन्ति । भगवान् आह । यस्य कौशलं विद्यते तेन प्रतिगुप्ते प्रदेशे स्थित्वा ग्रन्थयितव्यम्* । स कथयति । भगवतानुज्ञातः । ग्रन्थये । तत्रारया शस्त्रकेण बद्धिकया च प्रयोजनम्* । एतत् प्रकरणं भिक्षवो भगवत आरोचयन्ति । भगवान् आह । तस्माद् अनुजानामि भिक्षुणा आरा शस्त्रकं बद्धिका च धारयितव्याः ।
चर्मवस्तु समाप्तम्* ।

मूल पाठ: Carmavastu · Edition: N. Dutt, Gilgit Manuscript, vol. III: Mūlasarvāstivādavinayavastu, part IV (Calcutta 1950), pp. 159-210: Carmavastu (second edition: Delhi 1984). GBM = Gilgit Buddhist Manuscripts (Facsimile Edition), ed. by Raghu Vira and Lokesh Chandra, 10 pts., New Delhi 1959Ō1974 (Śata-Piṭaka Series 10). (Some parts of the folios of the Anavaptagāthās of the Bhaiṣajyavastu and some Prajñāpāramitā texts are not · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc