भाषा

ENहिગુ
ग्रंथ पाठ

Buddhist stotras · भाग 118

अनपराद्धस्तोत्र ओf मातृचेट (मेत्रे: शार्दूलविक्रीडित, इन्चोम्प्लेते;
हर्त्मन्न् 1988: प्. 74 ff.; तेxत् रेचोन्स्त्रुच्तिओन् हेरे इन्च्लुदेस् थे
fरग्मेन्त् होएर्न्ले 149।250 (=ब्रितिस्ह् लिब्रर्य्, ओर्. 15009।149) नोत् येत् अवैलब्ले fओर् थे ओरिगिनल् एदितिओन्)
x x x x x x x x x x x x त् कर्मण्यताम् आहृताः ॥ 10
कः कस्यानुशयस्य भे x x x x x x र्यवैशेषिको
यो यस्मिं प्रविभज्य वि x x x x x x कभेदस् त्वया ।
को वा तत्र तथा तथा क्. x दधत् सिद्धिं न संप्राप्तवां
जिज्ञासापि न चेद् इहास्त्य्. य्. x x x x x x x x x ॥ 11
x x स्याशुभया दयापर्. च्. य्. x x x x x x x
x x x x x मानयोः प्रविचयाद्वैधापथाज्ञानयोः ।
दृष्टीनाम् अपि शु x x x x x x x x x x x x x
x x x विहितावध्. x x x x x x x x x x x ॥ 12
यन् नाधीः शमथो रथो ऽदितिमिरा दृष्टिः पुरास्सारिणी
x x x x x x x x x x x x x x x x x x x ।
x x x x x वग्रहो निरुपधा x x वरः साधनं
निर्वाणं दिगपज्ञ्. x x x x x x .ओपदेष्टा स्वयम् ॥ 13
यानं स x x x x x x x x x x x x x x x x
x x x x x x x .आभिविवृतो दिङ् निर्भया दर्शिता ।
दत्तं पन्थ्य्. x x x x x x x यं सन्दर्शि x x x नां
निर्यातुं यदि न्. x x x x x x x र्य. किम् अन्यत् त्वया ॥ 14
कः कांक्षां क्व च x x यस्य भवता नापाकृतः संशयः
कस् ते शासनम् आशृतो ऽतन x x x x x नान् मुक्तवान् ।
कः शक्यः पथि संनियोक्तु x x x x .य्. सि नानुग्रहं
किं तद् भूतम् अदर्शि यं न बहुशो x x x x x x x ॥ 15
को ऽर्थित्वं तव धर्मम् अभ्युपगतो य x x x x x x
को वा कस्य गु x स्य भाजनम् अभूद् यस्मिं स नापादितः ।
कस्याभित्व x x x x x x x x x x x x x ल्. कृथाः
प्राप्ते वा क उपे x x x x x x लोकान्त x x पि ते ॥ 16
x षां चित् स्वयम् [अ]भ्य्[उ]पेत्य्[अ] क्[अ]थितं के चिच् चिर्. x र्पिता
x x x x x x x x x त्. मिरास् तत्रैव के चित् कृताः ।
आय x x x x x x x x x x x x x .आत्रीकृताः
प्रभ्रष्टेष्व् अ x x x x x x x x x x x x x x x ॥ 17
x तिथ्यं कृ x x म् उत्तमधनैर् अभ्यागतेभ्य x x
x x x x x x x x x x सुखं भव्यो x x x x x ।
x x x x x x x x x x x x x x x x x x x
x x x x x x क्. तो मनसि ते धर्मध्वजा भ्. x x ॥ 18
x x x x म् उपेत्य ये ऽप्य् उप x x x x x x x x x
x x x x x x x x x x x x x x x x x x x ।
x x x x x x x x x x x x x x x x x x x
x x x शरणाः शरण्यशर x x x x x x x x ॥ 19

x x x x x x x कारम् अशठो x x x x x x x
x x x x x x x x .य्. पगमैर् धर्माय्. x x x x ।
नेत्रे वृष्टम् अभ्. x x x x ख्. व्.ः सद्धर्म x x x x
x x x x x x x x x x x .आः सद्धर्मम् उद्. x x x ॥ 20
x x x x x x त्मने विदधता किं स्त्रीजनो वर्जितो
यूनः स्थापयिता शिवे ऽध्वनि बहिः किं बालवृद्धाः कृताः ।
प्रस्वस्था[न् उ]पकर्षता परिहृताः किं क्षिप्तमत्तातुरास्
तत् किं व् अन्तरम् अस्ति यत्र न च ते सूक्ष्मः प्रविष्टो नयः ॥ 21
किं x .आस्व् अपि x x तं न x x रं मायासु मायाविनः
किं वीर्यं प्रति नान्तदोषरहितस् तन्त्रीनयो वर्णितः ।
किं काला मनसो न निश्रयशमोपेक्षाश्रया देशिता
लभ्य त्वा किम् अकुर्वता न तु जगद् युक्तं त्वया श्रेयसा ॥ 22
दोषा[न्वे]षण x x x x x x x x .ए गुणान्वेषणं
किं पापाय समुद्यतेषु सततं न त्वं हितायोद्यतः ।
सुप्ते जागरिकां किम् अ x x x x x x x x x x x
किं खिन्नो ऽसि ज[न]स्य नास्य विनयायानाथकेशग्रहात् ॥ 23
किं सेवावमते ज्[अन्]ए पि x .र्.(?) x x x x x x x x
x x प्त्[आ] न जिघांसवः स्वसुतवं न स्वीकृता व्युत्थिताः ।
किं रौद्रेषु कृपालुता न विवृत्[आ] ज्. .म्. .उ x x x x
x x x x x x x तं सद् अपि ते किं तज् जगद् वक्ष्यति ॥ 24
सर्वं ते सुविचिन्तितं सुचरितं सुव्याहृतं च प्रभो
[स]र्वं च्[ऐ]व विलो[कनं तव] x x [लो]कानुकम्पामयम् ।
दग्धास् ते कुमतान्धकारविहता ये ते तिरो ऽवस्थिता
ये त्वा न्[आथ]म् अपाश्रित्[आस्] तु x x x मारस्य ते ऽभ्युन्नताः ॥ 25
स्तुत्वा त्वा यद् उपार्जितं जितकले सत्पुण्यपण्यं मया
तेनास्तूद्धृतजन्मनिर्मम x x जन्मेदम् अन्त्यं मम ।
संसारे निवसन्ति ये ऽपि विधृतास् तैस् तैर् विबन्धैर् जना
मा रत्नत्रय[स]ं[श्]रयक्षणम् ऋते जन्मा[नि] तेषां त्व् x x ॥ 26
अनपराद्धस्तोत्रं समाप्तं कृतिर् आचार्यस्थविरमातृचेटस्य ॥
उन्क्नोwन् स्तोत्र (म्स्. fओउन्द् इन् छर्ख्लिक् अत् थे सोउथेर्न् रोउते ओf थे सिल्क् रोअद्,
स्च्रिप्त् ओf थे 4थ्।5थ् चेन्तुरिएस्; इन्चोम्प्लेते; हर्त्मन्न् 1988: 90)
x ... [अ]द्भुतगुणे त्वयि कल्याणचेतसि ।
विक्क्रियां नास्पदं लेभे यथा ध्. ... ॥
x+1 ... ष्टते कश् चित् त्वय्य् असाधुत्वम् एव तु ।
कृपायसे ऽधिकतरं मातेवात्मजम् आतुरम् ॥
x+2 [परदुः]खानपेक्षीदं स्वदुःखैकातुरं जगत् ।
त्वं स्वदुःखान्य् अनादृत्य परदुःखातुरः सदा ॥
x+3 ... दुःखानि स्वप्राणातिव्ययैर् अपि ।
या ते प्रीतिर् अभूत् साधो सा तेषाम् अपि नाभवत् ॥
x+4 ... [लो]को ऽयं न तथा पीड्यते यथा ।

कृपापेशलसंतानः पीड्यसे त्वं परार्तिभिः ॥
x+5 ... छत्रौ पुत्रे वानुग्रहान्तरम् ।
कृपाविष्टमतेर् अक्ष्णोः सव्यदक्षिणयोर् इव ॥
x+6 ... वहेत् मूर्ध्ना मुने पादरजांस्य् अपि ।
करुणानिकषोद्गारि यस्य ते सर्व्वचेष्टितं ॥
x+7 ... खेद्यमानो ऽपि च्छिद्यमानो ऽपि चासकृत् ।
नायासीद् विक्क्रियां धीर ग्रहाक्क्रान्त इवोडुराक् ॥
x+8 ... व्यसनावर्ते करुणा सत्ववत्सला ।
न तत्याज क्षणम् अपि त्वां धर्मान् इव धर्मता ॥
x+9 ... न्[इ]त्यानुबद्धं च त्वां दोषा अक्षमादयः ।
नोत्सेहिरे समावेष्टुं त ... ॥
प्रणामस्तव (गिल्गित् fइन्द्स्, मेत्रे मत्तमयूरी, इन्चोम्प्लेते; हर्त्मन्न् 1997)
x x x x x x x x x x x x x x
x x x x x x x x x x x x x ।
x x x x x (विचिकि)त्सातिमिरघ्नं
चक्रे मूर्ध्ना तं जिनसूर्यं प्रणमामि ॥
x+1 गम्भीरत्वाद् अप्य् उपति x x x x ः
x म्याग्राणां संकलितानि स्खलितानि ।
स्वाख्यातत्वाद् अप्य् उपतेरुश् च युव ः
x x x x x मितम् अत्यद्भुतबुद्धिम् ॥
x+2 कस् तं मूर्ध्ना वादिवरिष्ठं न नमस्येत्
स्वाख्यातत्वात् सा[गरग]म्भीरतरार्थम् ।
अद्याज्ञातं यस्य मतं द्व्यङ्गुलधीभिः
क्लेशावेशक्षिप्र x x x प्रमदाभिः ॥
x+3 मृत्युस्कन्धक्लेशसुराख्यान् इह मारान्
क्षान्तिज्ञानात्यन्तनिरोधास्त्र x x ः ।
जिग्ये साक्षाद् यः स तथाजीजपद् अन्यान्
नाभ्यर्चेत् तं को ऽवसितात्मार्थपरार्थम् ॥
x+4 आदीप्तानां सन्त x x x x यकृद्भिर्
यः सत्त्वानां क्लेशमहापावकवेगैः ।
शान्तिं चक्रे धर्मशिवाम्बुव्यतिसर्गैस्
तं वन्दे [ऽहं] x x जलौघं मुनिमेघम् ॥
x+5 कान्तावक्त्रोद्वीक्षणदीक्षाक्षणमग्नं
मारस्याज्ञा .इ x x x [अ]भ्युपयातम् ।
चक्रे नन्दं यः स भुजिष्यं शिरसाहं
वन्दे युक्तं तं पतिता x x x x ः ॥
x+6 देशादेशावेशवशात् क्रोधहुताश-
ज्वालामालामध्यगतो यो ऽङ्गुलिमालम् ।
क्षे x x x x x x x च्छ्लिष्टनिपातं
तं कान्तारोत्तारणधुर्यं प्रणतो ऽहम् ॥

x+7 चक्रे गत्वा शान्तवनान्ताम् उरुबिल्वां
केशक्लेशापोद्धरणं यो जतिलानाम् ।
तस्मै सिद्धायोत्तमविद्याधरराज्ञे
नानादृष्टिक्लेशविषघ्नाय नमो ऽस्तु ॥
x+8 ऋद्ध्या कांश् चित् कांश् चिद् अमोघैर् उपदेशैश्
चित्तादेशैः कांश् चिद् उपायैर् अपरैश् च ।
नानारूपैर् यः स विनिन्ये नरदम्यांस्
तं वन्दे ऽहं लोकमहासारथिम् एकम् ॥
x+9 तृष्णानद्यां दोषरयच्छिन्नतटायां
दृष्टिग्राहानेकभयायां पतितानाम् ।
प्रज्ञाहस्तं यं स कृपादीर्घम् अयच्छत्
तं त्रातारं तारयितारं प्रणतो ऽहम् ॥
x+10 मिथ्याज्ञानावेशवशानाम् अवशानां
जन्मावर्ताविद्धगतीनाम् अगतीनाम् ।
यः सत्त्वानां निःसरणोपायम् अपाय-
प्राग्भाराणाम् आह हितैषी स गतिर् मे ॥
x+11 लोकस्यैवं निष्प्रतिकारान् उपकारांश्
चक्रे गत्वा यः स बलात्कारसुहृत्त्वम् ।
मित्रं नाथं बान्धवम् आर्यं गुरुम् ईशं
भूयो भूयस् तं ह्य् अवितृप्तह् प्रणमामि ॥
x+12 भक्त्यापाराद् बुद्धगुणाम्भोनिधिमध्याद्
उद्धृत्येमं बिन्दुम् अवैकं यद् अवाप्तम् ।
अद्यास्माभिः पुण्यम् अतस् सन्तु समांशात्
सर्वे सत्त्वा धर्मसतत्त्वामृतभाजः ॥
॥ प्रणामस्तवः ॥
सत्त्वाराधनस्तव (मेत्रे: वसन्ततिलका, शार्दूलविक्रीडित,
मन्दाक्रान्ता; ल्éवि 1929)
3 [सत्त्वोप]कारम् अधिकृत्य गतो ऽस्मि सिद्धिं
सत्त्वार्थम् एव तनुम् एष समुद्वहामि ।
सत्त्वान् हिनस्ति मनसापि हि यः स कस्मान्
माम् एव संश्रयति यो मयि निर्व्यपेक्षः ॥
4 पूजा तु सा भवति सत्त्वहितेक्षणापि
पूज्यस्य या म्नसि तुष्टिम् उपाददाति ।
हिंसात्मिका परविहेठनसम्भवा वा
पूजा न पूज्यम् अनुगच्छति संस्कृतापि ॥
5 दाराः सुताश् च विभवाश् च महत्त्वराज्यं
मांसानि शोणितवशे नयने शरीरम् ।
येषां प्रियत्वम् अधिकृत्य मयोज्झितानि
यस् तान् विहेठयति तेन विहेठितो ऽहम् ॥
6. सत्त्वोपकारपरमा हि ममाग्रपूजा

सत्त्वापकारपरमश् च पराभवः स्यात् ।
x x x x x x x x x x x x x x
x x x x x x x x x x x x x x ॥
7 सत्त्वान् प्राप्य मया कृतानि कुशलान्य् आराधितास् तायिनः
प्राप्ताः पारमिताश् च सत्त्वसमितेर् एवार्थम् आतिष्ठता ।
सत्त्वार्थेन समुद्यतेन मनसा मारस्य भग्नं बलम्
सत्त्वैर् एव तथा तथा विरचितं येनास्मि बुद्धः कृतः ॥
8 कस्मिन् वस्तुनि सिध्यताम् इह कृपा मैत्री च क्वालम्ब्यतां
क्वोपेक्षामुदितादिवस्तुविषयाः कस्मिन् विमोक्षदयः ।
कस्यार्थे करुणापरेण मनसा क्षान्तिश् चिरम् भाविता
न स्युर् जन्मनि जन्मनि प्रियविधौ मित्रं यदि प्राणिनः ॥
9 सत्त्वा एव गजादिभावगतयो दत्ता मयानेकशः
सत्त्वा एव च पात्रताम् उपगता देयं मया ग्राहिताः ।
सत्त्वैर् एव विचित्रभावगमनाद् अस्मत्कृपा वर्धिता
सत्त्वान् एव न पालयामि यदि चेत् कस्यार्थम् अर्थः कृतः ॥
10 संसारे व्यसनाभिपातबहुले न स्युर् यदि प्राणिनो
जन्मावर्तविडम्बनेन यमलोकं प्राप्य सात्मीकृताः ।
संसारात् तरणं च सौगतम् इदं महात्म्यम् अत्यद्भुतं
कस्यार्थेन समीहितं यदि न मे सत्त्वा भवेयुः प्रियाः ॥
11 यावच् चेदं ज्वलति जगतः शासनं शासनं मे
तावत् स्थेयं परहितपरैर् आत्मवद्भिर् भवद्भिः ।
श्रुत्वा श्रुत्वा {च?} मम विचरितं सत्त्वहेतोर् अखिन्नैः
खेदः कार्यो न च तनुम् इमाम् उक्तसारां भवद्भिः ॥
सम्यक्सम्बुद्धभाषितं सत्त्वाराधनं नाम महायानसूत्रान्तं समाप्तम् ॥
"बेइनमेन् बुद्धस्" (स्छ्लिन्ग्लोff 1955: 82f.)
x x x x x [त्]र्[ऐवि]द्यस् त्रिकालज्ञ[स्] त्र्[इ] x x ।
[त्रिप्रा]तिहारिसंपन्नस् त्रिस्कन्धपददेशिक[ः] ॥ (8)
x x x निर्ज्वरो नेता निर्ममो निरहङ्कृ[तः] ।
x x x x x x x च निरवद्य ऽथ निर्भवः ॥ 9
... नरोत्तमः (10ब्)
विद्य्[आचरसंपन्नः] x x x x x x व्[इ]राट् ।
विनीतचित्तो x x x x x [पद]विदां वरः ॥ 11
शमिता शान्तपाप[कः] [शीतभू]तः शिवंकरः ।
शास्ता शरण्यो जगत्[अः] x x x x x x .आदः ॥ 12
श्[रम]ण्यलक्षन[ः] [श्]रीमा[न्] (13अ)
... [लो]कहिते रत[ः] (15ब्)
[सर्वभूत्]आनुकम्पकः (16ब्)
x x x x x x x x x x x x शिवः सुखी ।
तीर्ण x x x x x x x x x x [म]नोरथ[ः] 17
मुनयस्तव (स्छ्लिन्ग्लोff 1955: 85-88, इन्च्लुदिन्ग् थे अद्दितिओन्स् ओf पौल्य्

इन् ज 1957: 304 अन्द् 1959: 227 अन्द् थे उन्पुब्लिस्हेद् fरग्मेन्त्
पेल्लिओत् स्क्त्. ब्लेउ 164)
मुनये लोकनाथाय नरवीराय धीमते ।
सर्वसत्त्वाशयज्ञाय नमस् तस्मै महर्षये ॥ 1
येन दृष्ट्वा जगद् इदं प्रदीप्तं क्लेशवहिना ।
[शमि]तं ज्ञानतोयेन नमस् तस्मै हितैषिणे ॥ 2
यस्य न स्खलितं किंच्[इ]द् [वा]क्छरीरमनोमयम् ।
सर्वदोषविमुक्ताय नमो ऽस्त्व् अक्लिष्टकर्मणे ॥ 3
यस् तीर्णो ज्ञानबाहुभ्यां विपुलं ज्ञेयसागरम् ।
नमस् तस्मै नरेन्द्राय विक्रमातुलबुद्धये ॥ 4
येन कृत्स्नम् इदं ज्ञेयं दृष्ट्वा स्वमतिचक्षुषा ।
सर्वधर्मविदे तस्मै नमो ऽस्त्व् अमलचक्षुषे ॥ 5
यः श्रेष्ठः सर्वसत्त्वानां भाग्यरूपगोणोद्भवैः ।
द्विपञ्चबलिने तस्मै नमो ऽस्त्व् अप्रतिवादिने ॥ 6
वधकापत्ययोर् यस्य मनस् तुल्यं प्रवर्तते ।
स्वचित्तवशिने तस्मै विमलायार्हते नमः ॥ 7
यो भित्त्वा ज्ञानतुण्डेन मोहाण्डं निःसृतः स्वयम् ।
गुरवे मुक्तसङ्घाय नमस् तस्मै स्व्यंभुवे ॥ 8
निर्गृहीतेन्द्रिया x x [ज्ञ्]आन[ग्]ओचरचारि[णे] ।
मैत्राकारुण्यचित्ताय तस्[म्]ऐ गुण[व]ते नमः ॥ 9
ब्रह्मेन्द्रवरुण्[आदि]त्ययक्षासुरनरोरगैः ।
य्[अः] स्[तु]तः पूजितश् चापि नमस् तस्मै यशस्विन्[ए] ॥ 10
x x सत्यानि चत्वारि दृष्टा x कारचक्षुषा ।
[त]स्मै तच् च x x x x वि[शु]द्धमनसे नमः ॥ 11
विषाग्निसर्पप्रतिमं येन कामसुखं च x ।
x x x x x x x x तस्मै भगव[ते नमः] ॥ 12
[आ]शय्[आ]नुशयज्ञाय मार्गामार्गोपदर्शिन ।
निर्ममाय निःसङ्गाय तस्मै शान्तात्मने नमह् ॥ 13
यस्य रागादिभिर् दो[ष्]ऐर् मनो नैवोपलिप्यते ।
प्रशान्तरजसे तस्मै शुचिने वशिने न[मः] ॥ 14
तस्मै शान्ताय [म]हते शास्त्रतत्त्वार्थदर्शिने ।
गतये वीतपापाय नमो ऽस्त्व् असमचेत[से] ॥ 15
सं[स्]कृतं च x युक्तं च पूर्वमध्यान्तशोभनम् ।
यो वदत्य् अतुलं धर्मं तस्मै मतिमते नमः ॥ 16
क्लेशत्रयविमुक्ताय त्रिसमाधिविहारिणे ।
लोकत्रय[व्]इम्[उ]क्ताय नम[स् त]स्म्[ऐ] त्रिचक्षुषे ॥ 17
शिवाय शुभशीलाय शाक्यपुत्राय श्रीमते ।
नमः शान्तिं प्रयाताय शरणाय शमैषिणे ॥ 18
निर्वृतस्यापि यस्येह-म् आज्ञा वर्तत्य् अनाकुला ।
धर्मरज्ञे नमस् तस्मै सर्वार्थवशवर्तिने ॥ 19

येनेन्दुज्वलनादित्याः प्रभया निष्प्रभीकृताः ।
नमस् तेजस्विने तस्मै काञ्चनोज्ज्वलमूर्तये ॥ 20
सर्वार्थगुणयुक्ताय सर्वभूतानुकम्पिने ।
नमः सर्वार्थसिद्धाय सर्वसत्त्वहितैषिणे ॥ 21
नानुमानैर् न चौपम्यैर् नाश्रवैर् नानुतर्कितैः ।
गुणान्तो विद्यते यस्य नमस् तस्मै महात्मने ॥ 22
चतुर्थ्या यद् विभक्त्या मे स्तुत्वा स्तुतिशतैः स्तुतम् ।
पुण्यं तद् अस्तु सत्त्वानां चतुःसत्यार्थबुद्धाये ॥ 23
मुनयस्तवः समाप्तः
राहुलस्तव (स्छ्लिन्ग्लोff 1955: 89-92)
सत्त्वसार नमस् तुभ्यं विशुद्धातुलबुद्धये ।
यस् त्वं सर्वास्व् अवस्थासु जगद्धितपरायणः ॥ 1
यद् आदौ तव कारुण्याद् उत्तितारयिषोर् जगत् ।
व्यवसायः समुत्पन्नस् तद् धि सुमहद् अद्भुतम् ॥ 2
यथैव प्रथमं चित्तम् उत्पन्नं तव बोधये ।
त्वं तथैवास्य लोकस्य पूज्यश् चोपरि च स्थितः ॥ 3
प्रपन्नाञ् छरणं त्रातुं चेष्टन्ते किल साधवः ।
त्रातुम् अभ्युत्थितस् तु त्वम् अप्रपन्नम् इदं जगत् ॥ 4
विश्रुतं त्रिषु लोकेषु व्यवसायं तवाद्भुतम् ।
श्रोतुम् अप्य् आत्मदौर्बल्यान् नालम् अल्पगुणो जनः ॥ 5
परार्थे निरवेक्षस्य जनस्यात्मंभरेर् इह ।
व्यवसाये तवोदारे प्रसत्स्यति कथंमनः ॥ 6
जीवलोको ह्य् अयं कृत्स्नं पृथगाशयचेष्टितः ।
स्वसत्त्वसदृशं कर्म वाञ्छत्य् अनुकरोति च ॥ 7
स्वसत्त्वस्यानुरूपं तत् कारुण्यस्य च ते मुने ।
निश्चयः प्राग् यद् उत्पन्नस् त्रातुम् आर्तम् इदं जगत् ॥ 8
जानन् संसारदुःखानि गन्तुं शक्तो ऽपि निर्वृतिम् ।
चिरं क्लिष्टो ऽसि संसारे कारुण्याद् एव केवलम् ॥ 9
सुरलोके नृलोके वा जातम् अन्यत्र वा क्व चित् ।
करुणा त्वा न तत्याज माता सुतम् इवौरसम् ॥ 10
संसारसुलभैर् दुःखैर् दुर्वहैर् अपि पीडितः ।
स्वबन्धम् इव संश्लिष्य निश्चयं न मुमोचिथ ॥ 11
यत् किं चिद् अकरः पुण्यं मनोवाक्कायकर्मभिः ।
परान् एव तद् उद्दिश्य कृपालो कृतवान् असि ॥ 12
परकार्यं स्वकार्यं ते परदुःखं च बाधकम् ।
अवीचिर् अपि रम्यस् ते परानुग्रहकाम्यया ॥ 13
साधोर् उत्सहमहतस् तवातिकरुणात्मनः ।
कृत्स्नं जगद् इदं नाथ कडत्रत्वम् उपागतम् ॥ 14
सर्वलोकेन सर्वज्ञ यद् दुःखम् अनुभूयते ।
तद् आत्मनि समावेश्य त्वं चकर्थ चिरं श्रमम् ॥ 15

करुणैकरसं वीरं दीर्घकालहितैषिणम् र्̥
स्वं नाथं त्वां न जानीते मोहेन कृपणं जगत् ō 16
बहुदोषो ऽप्य् अयं लोकः सभाग्य इति मे मतिः ।
त्वं यस्यैवंविधो नाथ चिरात् प्रभृतिचिन्तकः ॥ 17
व्यायतव्यवसायस्य विख्याताद्भुतकर्मणे ।
गुणांस् ते निखिलं को ऽन्यः स्वयंभूभ्यो ऽवभोत्स्यते ॥ 18
तिष्ठन्त्व् अन्ये गुणास् तावत् तव सर्वगुणाकर ।
यद् अस्मदर्थे खिन्नो ऽसि तेन पूज्यो ऽसि नो ऽधि[कम्] ॥ 19
x x [चिर्]आत्प्रभृत्य् एव जागरूकं जगद्धिते ।
त्वाम् अवाप्य व x x x x x सि x सुनिर्वृतः ॥ 20
[रा]हुलस्[त्]अवः स[माप्तः] ॥
सङ्घस्तोत्रस्तव (स्छ्लिन्ग्लोff 1955: 92-94, इन्च्लुदिन्ग् थे अद्दितिओन्स्
ओf पौल्य् इन् ज 1957: 292 ff.)
वसन् वेणुवने शास्ता संबुद्धो [द्विपदो]त्त्[अ]म्[अ]ः ।
पुरतो भिक्षुसंघस्य [भि]क्षसंघम् अवर्णयत् ॥ 1
[अ]नन्तगुण[सं]पन्नः संघरत्नगुणाकरः ।
द्विपा[द]चारिसंक्षेत्रः सत्कृतो नृसुरासुरैः ॥ 2
पुण्यक्षेत्रम् अयं संघः क्लेशकक्षसमुद्धृतः ।
विपाकफलविस्तीर्णो दक्षिणीयो ह्य् अनुत्तरः ॥ 3
श्रद्धाबलेन शीलेन श्रुतत्यागबलेन च ।
ह्रीरवत्राप्यसंपन्ना इह संघे वसन्ति ते ॥ 4
अर्थज्ञाश् चार्थकुशलाः कथिकाश् च विशारदाः ।
मुक्ता मेधाविनश् चैव इह संघे वसन्ति ते ॥ 5
श्रद्धाधनेन शीलेन श्रुतत्य्[आग]ध्[अने]न च ।
प्रज्ञाधनेन संपन्ना इह संघे वसन्ति ते ॥ 6
आरण्यका भिक्षाकामा अल्[पे]च्[छ्]आः पांसुकू[लि]काः ।
पैण्डपातिकसंतुष्टा इह संघे वसन्ति ते ॥ 7
सप्तकृत्वभव x x [ग]त्वा त्रिर् देवमानुषे ।
प्रहीणपञ्चसंक्लेशा इह संघे वसन्ति ते ॥ 8
बहुश्रुताः शीलवन्तः अप्रमा[दवि]हारिणः ।
विमोक्षध्यानसंपन्ना इह संघे वसन्ति ते ॥ 9
चत्वारश् प्रतिपन्नाश् च चत्वारश् च फले स्थिताः ।
शैक्षाशैक्षा सुसंबुद्धाः इह संघे वसन्ति ते ॥ 10
अभिधर्मश् च सूत्रे च विनयश् च x x x x ।
x x x x प्रतिपन्ना इह संघे वसन्ति ते ॥ 11
x x x [भा]वनामार्गाः प्रज्ञाशीलसमाहिताः ।
त्रैधातुसमतिक्रान्ता इह संघे वसन्ति ते ॥ 12
कारुणा x x x मैत्री येषां सत्त्वेषु भाविता ।
हितानुकम्पी सत्त्वेषु इह संघे वसन्ति ते ॥ 13
स्मृत्युपस्थानसम्पन्ना ऋद्धिपादसमन्विताः ।

सम्यक्प्रहाणसंयुक्ता इह संघे वसन्ति ते ॥ 14
इन्द्रियबलबोध्यङ्गं सदा सम्यक्सुभाषिताः ।
आर्यं चाष्टाङ्गिकं मार्गम् इह संघे वसन्ति ते ॥ 15
षडभिज्ञम् अनुप्राप्ताः प्रतिसंविदासंयुतः ।
महानुभावा ये ऽर्हन्तः इह संघे वसन्ति ते ॥ 16
कम्पयन्ति महीं x x ससमुद्रसपर्वताम् ।
लाभिनः प्र x x x x इह संघे वसन्ति ते ॥ 17
महर्द्धिका ऋद्धिमन्तः स्वचित्तवशवर्तिनः ।
स्पृशन्तः शशिनं सूर्यम् इह संघे वसन्ति ते ॥ 17।18
दानं शीलं महाक्षान्तिं वीर्यम् ध्यानं तथैव च ।
प्रज्ञापारमिताः प्राप्ता इह संघे वसन्ति ते ॥ 18।19
बोधिपाक्षिकधर्मा ये सप्तत्रिंशद् उदाहृताः ।
ये समानय वर्तन्त इह संघे वसन्ति ते ॥ 19।20
पौल्य्: बोधिपक्षिकधर्मा ये सप्तत्रिंशद् सुभाविताः ।
ये समादाय वर्तन्त इह संघे वसन्ति ते ॥ 19।20
प्रज्ञाविमुक्तास् त्रैविद्याः षडभिज्ञा महर्द्धिकाः ।
त्रिबोधिप्रस्थिताश् चार्या इह संघे वसन्ति ते ॥ 20।21
स्तुत्व स्तुतिशतैः स्तोत्रः संघरत्नं महर्षिणा ।
अथ सर्वजगन्नाथः पुनर् अत्तमनो ऽब्रवीत् ॥ 21।22
पौल्य् इन् द्: पुनर् उत्तरम् अब्रवीत्
नास्ति बुद्धसमो शास्ता नास्ति धर्मसमो ध्वजः ।
नास्ति संघसमं क्षेत्रं तस्मात् संघे प्रसीदत ॥ 22।23
संघस्तोत्रस्तवः समाप्तः ॥
"उद्गतस्तोत्र" (स्छ्लिन्ग्लोff 1955: 94-100)
त्वम् अनायकस्य जगतो ऽस्य
पर x x x काद् विनयकः ।
नैकभयपरिवृतस्य महच्
छ्. x x x x x x x x x x x रः ॥ 5
त्वम् अनीक्षणे जगति चक्षुर्
अनुशयरुजार्दिते भिष[क्] ।
x x x न .इ .इ x .ए ध्. x दस्
अतिबहुभयेषु निर्भयः ॥ 6
प्लवनेन सागर x x x
[इ]ह तरति वा नरो न वा ।
स्तोत्रमयम् इदम् उपेत्य तु ते
प्लवनं तरन्ति नियतं भ[वार्णवम्] ॥ 8
x x x x x x x x x x
x x x x x x x x x x ।
प्रा[प]यसि किम् उ शुभैर् वचनैः
समभिष्त्[उ]वन्तम् अखिलेन चेतसा ॥ 9

प्रतिगृह्यताम् तद् अनुकम्पया मम ॥ 10
सचराचरे जगति नास्ति
तव गुणसमः कुतो ऽधि[कः] । (12अ-ब्)
x x x x x x x x x x
x x x x x x x x x x ।
पूर्णम् इव शशिनम् अभ्युदितं
न हि x x स्ति तव पश्यतां मुखम् ॥ 15
सवितृप्रभाभिर् इव म्[एरुर्]
x x म् अपि समुच्छ्रयस् तव ।
स्वाङ्शुभिर् अधिकतरो द्य्[उत्]इ[मान्]
x x x x x x x x x x x x x ॥ 16
बहुदोषवन्त्य् अपि मनांसि
x x x x [प्रा]णिदेहिनाम् ।
x x x x x x [उ]पेत्य वरं
जलवत् प्रसादम् उपयान्[ति] x x x ॥ 19
[स]मुपश्रितं त्विड् इव पङ्कजाकरम् ॥ 27
परिपिण्डितं करतल्[ए] यथा स्थितम् ॥ 28
x x x x x x x भाबद्धम्
अनुपश[म] x x x x x ।
x x x x x x x x x x x
x x x x x x x x x x x x x ॥ 32
x x x x x x x x x x x
[उ]पशमरसै[ः] स्व x x x ।
x x x x x x x x x x x
x x x x x x x x x x x x x ॥ 33
x x x x x x x x x x x
x x x x x x x [सा]गरम् ।
तर्तुम् अवशम् अव x x x दं
वचनप्लवेन जगद् अप्य् अतीतरः ॥ 34
प्रशमाभसा व्यशमयस् त्वम्
अनलवदनङ्गम् आत्मनः ।
दिप्तम् अपि मदनहव्यभुजा
जगद् अभ्रवच् छमजलैर् अशीशमः ॥ 35
x x x यमैर् अदमयस् त्वम्
x x x x x x x x x x x ।
x x x x x x x मत्तगजं
विनयाङ्कुशेन ज x x x x x x ॥ 36
x x x x x x x x यो ऽपि
पटुर् अपि च जन्मसंक्. x ।
x x x x x x x x x x x

x x x भवेष्व् अनुबभूविथ स्वयम् ॥ 37
x x x x x x x x x x x
x x x x x x x x .ऐ x .ऐ[ः] ।
x x बहुजनहित्. x x x
x x x x x x x x x x x x x x ॥ 38
x x x x माङ्[गत]न्. x x
x x x x x x x x x x x ।
x x x x x x x x x x x x
x x x x x x x x x x x x x x ॥ 39
(fओर् थे रेwओर्किन्ग् ओf वेर्सेस् 32-39 इन् अनोथेर् म्स् सेए बेलोw
अत् थे एन्द् ओf थे स्तोत्र)
प्र x x x x x चकृषे त्वम्
इह परहिताय निश्चितम् ।
सेन्द्रसुरमनुजपूज्यतमस्
त्व[म्]. x x x x x x x व साम्प्रतम् ॥ 51
इह नैकदोषकलिले ऽपि
परमविषमे कलौ युगे ।
प्राणिगणम् अनुजिघृक्षुर् इमं
त्वम् उदागतो निशि यथा दिवाकरः ॥ 52
मु[न्]इ x x x x x x x x
असति गुणदुर्बले य्[उ]गे ।
तैस् तु वशिभिर् असि कार्तयुगैर्
मुनिभास्करैर् गुणगभस्तिभिः समः ॥ 53
जगतो ऽद्य दोषगहनानि
हृदयवन x x x x x ।
x x x x x x x x x x x
x x x x x तव वाकपरश्वधैः ॥ 56
सखिलेषु साम्प्रतिमनःसु
वचनवरल्[आ]ङ्गल्[ऐः] कृषिम् ।
यच् च x x x x x x x x x
x x x x [अ]ण्व् अपि न नाशम् एति तत् ॥ 57
[तव शा]सनानि गुणवन्ति
विधिवद् अनुपालयन्ति ये ।
जन्मनि सुखम् अनुभूय परं
x x x x x क्षयम् अवाप्नुवन्ति ते ॥ 58
तव शासनानि तु विहाय
विषयतृषिताश् चरन्ति ये ।
चौरवति पथि गता इव ते
सभयाः सदेह च परत्र चाबुधाः ॥ 59
x x x x x च जगदिष्टम्

अनुभवति यत् सुखं महत् ।
शामिकम् अपि च यद् आर्यसुखं
तव शासनाद् भवति सर्वम् एति [सः] ॥ 60
x x x x x x x x x x
x x x x x x x x x x ।
सर्वम् अशर[ण] x x x म् असज्
जगद् अभ्रमिष्यद् इदम् उत्पथे ऽन्धवत् ॥ 61
तव वाक्ष्[उ] भाभिर् इ x x x (62अ)
रेwओर्किन्ग् ओf थे वेर्सेस् 32-39 इन् अनोथेर् म्स् (स्छ्लिन्ग्लोff 1955: 98 ff.)
अतृपस् स्वयं त्वम् अमृतस्य
x x x x x x x x x x ।
x x x x x x [ति]तर्पयिषुर्
निखिलेन तज् जगति सम्व्यबीभजः ॥ 31
अतरस् त्वम् आर्तिजलपूर्ण[म्]
x x x x x x x x x x ।
x x x x x x [ति]तारयिषुर्
वचनप्लवान् स्थिरबलान् अचीकरः ॥ 32
अमुचस् त्वम् आत्मविभ्[आ] x x
x x x x x x x x x x ।
x x x x x म मुमोचयिषुर्
जगद् आर्यमार्गम् अभ्यम् व्यदीदिशह् ॥ 33
अशमस् त्वम् उत्तमगुणेन
पर्. x x x x x x x x ।
x x x x x x [शि]शामयिषुर्
जगद् अभ्रवच् छमजलान्य् अवीवृषः ॥ 34
अदमस् त्व्[अम्] अष्टगुणयुक्तम्
x x x x x x x x x x ।
x x x म परिदिदामयिषुर्
अभयाङ्कुशं चलमतिष्व् अदीधरः ॥ 35
त्वम् अजन्मलुब्धहृदयो ऽपि
प x x x x x x x x x ।
x x x करुणतया तु चिरं
व्यसनानि जन्मनयुतेष्व् असीसहः ॥ 36
परिखेदितो ऽपि बहुषस् त्वम्
अ x x x x x x x x x ।
x x x x x x हिताय कृतं
कृपयोत्तमं प्रणिधिम् उत्ससर्जिथ ॥ 37
नयनोत्तमाङ्गतनया[स्] त्[व]म्
x x x x x x x x x x ।
x x x x x x x या विसृजन्

न कदाचिद् ईषद् अपि संचुकोचिथ ॥ 38
त्वम् उपथितेष्व् अपि भये[षु]
x x x x x x x x x x ।
x x x x x x x [आ]त्मगतं
न तु शीलम् अण्व् अपि भयाद् बिभेदिथ ॥ 39
[त्व]म् अलब्धतत्त्त्वनयनो ऽपि
x x x x x x x x x x ।
x x x x x x x x x पलान्
धृतिरश्मिभिर् मतिबलाज् जुगोपिथ ॥ 40
"प्रेइस् देर् बेकेह्रुन्गेन् बुद्धस्" (मेत्रे: क्रौञ्चपदा; स्छ्लिन्ग्लोff 1955: 100-104)
x x x x x x x x x x x x x x x x जलम् अनिलबलवशं
स्वप्ननिकाशं नष्टम् अमार्गैर् उपगतम् अहम् इति म x x x हृदयम् ।
लोकम् इमं हि प्रेक्ष्य सुशिचयं शिवम् अजम् अजरसम् अविच x x x x ं
प्राप्य विमोक्षं प्राप्य च सद्भ्यो भिषग् इव हितमतिर् उपशमम् अव x ॥ 6
रोषविदष्टप्रस्फुरितौष्ठं हुतवहपरिगतशिरसिजशिरसं
चञ्चि[त]जिह्वं चेष्टितदंष्ट्रं प्रतिनवदिनकरनिभचलनयनम् ।
आडवकं यो यक्षम् उदीर्णं प्रतिभयम् अनिभृतम् अवशमयं
तं मुनिवार्यं x x x x x गतरनम् अहम् इह शरणम् उपगतः ॥ 7
क्रोधविमुक्तश्वासमुखाग्निं [घ]नम् इव घनवरम् अविरडतडितं
लोलशिरस्कं निःसृतजिह्वम् तरुम् इव सतरुणकिसलयविटपम् ।
यो ह्य् अपलालं पन्नगराजं हिमवति हिमवति मगधपतिपुरं
दुर्दमम् ऋद्ध्या साधु विनिन्ये स भवतु मम गतिगतः ॥ 8
रोषविवृत्तव्याकुलदृष्टिः प्रविसृतमदकटविलुडितवदनः
शोनितदिग्धो भ्रान्तकराग्रो हतनरशिरसिजपरिगतदशनः ।
येन विनीतो राजगृहे ऽसौ मिमथिषुर् अरिर् इव गजपतिर् अशिवस्
तस्य महर्षेः शासनग्र्यात् विन x x मम मति x x मतिमनसः ॥ 9
गुर्वाभिधानात् कर्मणि हिंस्रे x x x x x x x धिर् अय x x x वशो
मातृवाधय द्रुग्धमनस्को मृगगणप x x x x x गणरभसः ।
अङ्गुलिमालो येन विनीतो गज इव दशशतनर x x म x x ः
सारथिमुख्यं तं बत वन्दे भुवि दिवि नभसि च x x x x x x x ॥ 10
"प्रेइस् देर् एर्लेउछ्तुन्ग् बुद्धस्"
(मेत्रे: वसन्ततिलका; स्छ्लिन्ग्लोff 1955: 104-108)
तृष्णाजलं x x x x x x x x x x
x x x x x x x x x x x x x x ।
x x x x x x x x x x तिप्लवेन
त्वं तेरिथ त्रिभवसागरम् आशु x x ॥ 29
x x x x x x x x x x x x x x
x x x x x x x x मदमोहधातुम् ।
मिथ्यावितर्कतरुकीर्णम् अथेभिदि x
x x x x x x x x न भव्[आ]च[ले]न्द्रम् ॥ 30

तृष्णां x x मदतमःस्थिरमूलवन्तं
कौसीद्यपर्णनिचितं गति x x x x ।
x x x x भयफलं x मशो x x x
[चि]च्छेदिथ त्वम् इह बुद्धिप्रश्वधेन ॥ 31
अज्ञानशैलवि x x x x x x x x
[मिथ्]य्[आ]वितर्कविहगां मदनाम्बुपूर्णाम् ।
तृष्णातरङ्गकलिलां भयशाठ्यवक्रां
त्वम् तीर्णवां भवनदीं व[चनप्लवेन] ॥ 32
x x x x x सुपथां मदकक्षकीर्णां
संकल्पवृक्षकलि[लां भ]यतस्कराढ्याम् ।
रागादिसिंहविरुतां x x x x x x
x x x x [ज]गमिथ त्रिभवाटवीं त्वम् ॥ 33
अज्ञानकार्मुकध[रं म]दवर्मिताङ्गं
मानध्वजं कुमतिशाठ्यर x x x x ।
x x x x x कधरं भयरोषखड्गं
त्वं क्लेशशत्रुम् अजयः स्मृतिवीर्यबाणैः ॥ 34
मात्सर्यलोभनयनं म[द] x x x x
x x x मानशिरसं मदनाग्रदं[ष्ट्रम्] ।
[व्या]पादघोरविषम् आशु भवोरगेन्द्रं
त्वं दन्दशूकम् अशि x x x x x x x ॥ 35
विद्य्[उ]त् x x क x समं x x सातिलोलं
दुर्निग्रहं पवनचञ्चलम् अप्रतिष्ठितम् ।
चेतो x x x x x x x x x x x x
x x x x x x x x x x x x x स् त्वम् ॥ 36
दृष्ट्वा जगज् जननरोगजरान्तकार्तं
ब x x x x x x x x x x x x x
x x x x x x x x x x x x x x म्
आवीवृतस् त्वम् इह नायक धर्मचक्रम् ॥ 37
"प्रेइस् देस् क्öर्पेर्स् बुद्धस् (1)" (मेत्रे: आर्यगीति; स्छ्लिन्ग्लोff 1955: 108-111)
... ... न दूषयमानम् ।
ऊरुभ्यां गजहस्ता[न्] ... म् ॥ 12
सुश्लिष्टजानुदेशं सुजातशरगर्भवृत्तपीवर[जङ्घम्] ।
x x ककूर्मशोभं विशेषयन्तं समुन्नताभ्यां पद्भ्याम् ॥ 13
स्निग्धैस् तु[ङ्गताम्रै]स् तनुभिश् च विराजितं नखैः सुकुमारैः ।
अङ्गुलिविवरनिविष्टैः सुके x x x x शोभमानं जालैः ॥ 14
अनुपूर्वसंस्[थ्]इताभिः प्रमाणपर्वोपप्. x x x वदिभिः ।
अङ्गुलिभिर् आन्तशोभं नवपङ्कजपत्त्रवर्तिसु[कुमाराग्रैः] ॥ 15
स्रग्दामशंखकलशस्वस्तिकभद्रासनाङ्कुशध्वज[चक्रैः] ।
[चि]ह्नैः खचितशरीरं सर इव सूर्यांशुजालभिन्नैः प[द्मैः] ॥ 16
x x x वासभूतैर् धृतिसत्त्वयशःप्रभावसंचयभूतम् ।

... जगतः सनरामरस्य बान्धवभ्[ऊतम्] ॥ 17
"प्रेइस् देस् क्öर्पेर्स् बुद्धस् (2)" (मेत्रे: वसन्ततिलका; स्छ्लिन्ग्लोff 1955: 112-113)
x x x x x x x x x x x x तान्तं
पृथ्वायतं ज्वलितवह्निशिखावदातम् ।
श्लक्ष्णं x x x x x लश्रुतिकर्णशंखं
वन्दे ललातं अहम् अक्षयनिष्ठ तत् ते ॥ 8
नात्युल्बणे न विकले रृजुना प्रसूते
लम्बे न नापि परुषे न घनातित[न्व्]औ ।
दर्शनेले परभृतोदरकण्ठनीले
वन्दे भ्रुवौ तव शुभाननसू x x x ॥ 9
विद्युत्सहस्रम् इव पिण्डितम् उद्गिरन्ति
या को x x x x x x x x x x तस्थौ ।
बुद्धाज्ञया वरललाटगतां वराभां
तां तोष्ठ्. x x x गतस्य शुभां वरोर्णाम् ॥ 10
हंसांसकुन्दकुमुदेन्दुहिमौषधीनां
हित्वा प्रभां प्रतपताम् इव दीप्तरश्मिः ।
ऊर्णा भ्रुवो[र्] x x x x x वनान्तदोषा
वक्त्रे रराज विमले स्ववपुर् वहन्ती ॥ 11
"ब्राह्मणकृतस्तव" (मेत्रे: वंशस्थ; स्छ्लिन्ग्लोff 1955: 33-34, 114-115)
[पृ]थग्गणैर् अप्रतिगर्जितं क्व चिन्
मृगेन्द्रवद् गर्जसि सिंहगर्जितम् ॥ 48
अलंकृता सम्यग् अवन्ध्य्. x x x
x x x x x x x x x x x x ।
x x x x x x x x x x x x
x x x x x x x x x x x x ॥ 49
x x x x x x x x x x x x
निपातिताः श्रोत्रपुटेषु ये क्व चित् ।
अवन्ध्यविस्तीर्णफल भवन्ति ते
समेत्य बीजैर् इव व x x x x ॥ 50
x x x x x x x x x x x x
x x x x x x x x x x x x ।
x x x x x x x x x x x x
x x x x x x x x x x x x ॥ 51
x [मस्]करी जातिसुतश् च काश्यपो
भृगुश् च कात्यायनसंजयी तथा ।
हतप्रभा बुद्धरवेस् तवोदये
x x x x x x x x x x x x ॥ 52
x x x x x x x x x x x x
x x x x x x x x x x x x ।
x x x x x x x x x x x x

x x x यां यान्ति वि x x वाहित्. ॥ 53
न ते प्रभाम् दूषयते हि भास्करः
समा मही ते चरणौ प्रतिच्छ्. x ।
x x x x x x x x x x x x
x x x x x x x x x x x x ॥ 54
x x x x x x x x x x x x
x x x x x x x x x x x x ।
पूर्वागतिर् अ[स्]तु x x ता न सन्ति
यस्यां मनसः परिप्लवा इति ॥ 55
ब्राह्मणक्र्तस्तव समाप्तः ॥
"वेर्स्तेइले देस् औf देन् ब्राह्मणक्र्तस्तव fओल्गेन्देन् स्तोत्र"
(मेत्रे: इन्द्रवज्रा; स्छ्लिन्ग्लोff 1955: 34, 115)
x x x x x x x x x x x
x x x x x x x x x x x ।
x x x x x x x x x x x
x x x x x स्य तथागतस्य ॥ 1
पात्राण्य् अयत्नप्रभवानि काले
चत्वारि दत्तान्य् अमरैश् चतुर्भिः ।
तत् प्रीतिहेतो x x x x x
x x x x x x x x x x x ॥ 2
x x x x x x x x x x x
x x x x x x x x x x x ।
x x x x x x x x x x x
x x x x .आप्तां बुभुजे महर्षिः ॥ 3
यच् चारुणा पङ्कजकोमलेन
जालावनद्धाङ्गुलिना करेण ।
पीनप्रति x x x x x x x
x x x x x x x x x x x ॥ 4
x x x x x x x x x x x
x x x x x x x x x x x ।
x x x x x x x x x x x
x x x दर्पाय न मण्डनाय ॥ 5
समुद्रवस्त्रां पृथिवीं विहाय
चित्त्रांश् च हरांस् तृणवत् प्रविध्य ।
x x x x x x x x x x x
x x x x x x x x x x x ॥ 6
उन्क्नोwन् स्तोत्र (मेत्रे: भुजङ्गविजृंभित; स्छ्लिन्ग्लोff 1955: 49, 115)
...
न्नाथं लोकस्यास्य प्रयत इह तम् ऋषिवृषभं नतो ऽस्मि त x x तम् ॥ 2
यः संसारे x x x x विषयसुखविमु x x x x x x भवकातरो

x x x x x x मत्वा युवति x x x त्[अ]व x x याञ् जहौ वि x x x यम् ।
यश् चारण्यं पुण्यं प्राप्य स्वयम् अजरम् अमरम् अभयं पदं समाप्तवा[न्]
...
"एइन्zएल्नेर् वेर्स्" (स्छ्लिन्ग्लोff 1955: 115)
लोकनाथ न मे शक्तिर् गुणाणाम् वक्तु विस्तरम् ।
संक्षेप्[आ]त् कथयिष्यामि दोषस् ते नास्ति किं चन ॥
उन्क्नोwन् स्तोत्र (मेत्रे: वसन्ततिलका; स्छ्लिन्ग्लोff 1955: 66, 115)
...
x x x लं जलनिधेस् तद् अद्भूतपूर्वम् ॥ 19
x x x x x x x x x x x x x x
x x x x x x चरीभिर् अमृष्यमाणम् ।
व्याधिं जुगोपिथ च कथ्. x x x x x x
x x x x x x x x x x तः समग्राः ॥ 20
तेनोन्नतं नतसप x x x x x x
x x x x x x x x x णयो नृरक्सः ।
सौदासम् अभ्युपगतो ऽसि नरे x x x
x x x x x x x x x x x x तेभ्यः ॥ 21
स्वल्पो ऽपि नो नृपति दुर्लडितावले x
x x x x x x x x x x x x x x ।
अप्य् एव मौक्यम् अपि फट्कविधिं शृणोषि
प्राप्ये x x x x x x x x x x x x ॥ 22
[शाक्या]भिधानम् ऋषिवंशसरोम्बुजत्वं
यातो नरेश्वर x x x x x x x x ।
x x x x x x x x x तरौ रुजं स्वां
विस्मृत्य यन् म x x x x x x x x x ॥ 23
x x x x x x षं कुञ्जर कुञ्जरो सि
स्मृत्वा पितृप्रियवने x x x x x ।
x x x x x x x x x रुणान्य् अनष्टंस्
त्वा विस्मितो नरपतिः सततो x x x ॥ 24
उन्क्नोwन् स्तोत्र (मेत्रे: शिखरिणी; स्छ्लिन्ग्लोff 1955: 67, 115)
विचित्रैर् व्यासङ्गैर् उरसि शतवर्श्[ऐ]र् इव x x
x x x x x x x x x x x x x x x x तः ।
जनस् त्वा संप्राप्य व्यसनशततप्तो दशप x
x x x x x x x x x x x विगाह्योष्णविहतः । 7
मदक्रोधत्रासप्र x x x x x x x x x x
[विमु]क्तो निर्द्वन्द्वश् चरसि सततं शीतलमना[ः] ।
x x x x x x x x x x x x x x x x डं
विमोक्षं क्लेशेभ्यो नयसि पर x x x x x x ॥ 8
वसन्ततिलकास्तव (स्छ्लिन्ग्लोff 1955: 116)
...

x x x x x x x x x x x रभास्[आ]न्
पुष्पान्वित्[आ]न् दशगुणान् वरबोधिसत्त्वान् ॥ 35
स्तुत्वावलोकितेश[ं] यत् [प्]उ[ण्]य्[अ]म् आर्जितं मया तेन
जननमरणार्णवगतं लोकम् इमं तारयेयम् अहम् इति ॥ 36
व[स]न्ततिलक्[आ]स्तवः समाप्तः ॥
"लेह्र्गेदिछ्ते औस् सम्मेल्हन्द्स्छ्रिfतेन् देर् ग्रुप्पे बुद्धस्तोत्रस्"
(स्छ्लिन्ग्लोff, प्. 118)
1. मेत्रे: उपजाति
प्रकाशितं धर्मवरं प्रणीतं
सुदुर्दृशं शान्तिकरं प्रजायै ।
निर्याणिकं सर्वदुःखक्षयाय
स्वयम्भुविज्ञानबलैर् उपेतम् ॥ 1
तं धर्मं श्रुत्वा व्यपनीतकांक्षाश्
चरन्ति विद्वा सतताप्रमत्ताः ।
न्यायाभियुक्ताः सुगतस्य वाक्ये
लभन्ति मोक्षं च सुखं च नाल्पम् ॥ 2
न सर्वविद्या न धनं न भैषज्या
न्यायाभियुक्ता व्यपनेन्ति दुःखम् ।
यथार्यधर्मः परमर्षिदेशितो
न्यायाभियोगो व्यपनेति निर्ज्वरः ॥ 3
रत्नाकरं धर्मं इमं विगाह्य
लभन्ति बोध्यङ्गबलेन्द्रियाणि ।
ते लब्धलाभाः सुखिता अशोकाः
सुनिःसृताः सर्वभवैर् विमुक्ताः ॥ 4
सुदुर्लभः कल्पशतैर् अनेकैर्
धर्मो यः स्वाख्यातो जिनप्रशतः ।
तं प्राप्य धर्मं ह्य् अमृतं वरिष्ठं
चरेत विद्वा सतताप्रमत्ताः ॥ 5
2. मेत्रे: श्लोक
पुत्रमांसानि भुञ्जन्त आत्ममांसं तथापरे ।
बहुप्रेतसहस्राणाम् अन्न्पानं न विद्यते ॥
3. मेत्रे: श्लोक
ये बुद्धं शरणं यान्ति न ते गच्छन्ति दुर्गतिम्
प्रहाय मानुषान् कायान् दिव्यान् कायान् उपासते ॥
ये धर्मं शरणं यान्ति न ते गच्छन्ति दुर्गतिम् ।
प्रहाय मानुषान् कायान् दिव्यान् कायान् उपासते ॥
ये संघं शरणं यान्ति न ते गच्छन्ति दुर्गतिम् ।
प्रहाय मानुषान् कायान् दिव्यान् कायान् उपासते ॥

मूल पाठ: Buddhist stotras · Edition: (1) Hartmann 1988 (Anaparāddhastotra of Mātṛceṭa and unknown Stotra, ed. Jens-Uwe Hartmann, "Neue Aśvaghośa- und Mātṛceṭa-Fragmente aus Ostturkistan", Nachrichten der Akademie der Wissenschaften in Göttingen, 55-92); (2) Hartmann 1997 (Praṇāmastava, ed. Jens-Uwe Hartmann, "Der Praṇāmastava. Ein Buddhastotra aus den Gilgit-Funden", Bauddhavidyāsudhākaraḥ. Studies in Honour of Heinz Bechert on the O · Data entry Jens-Uwe Hartmann · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc