बृहस्पतिस्मृति · अध्याय 1.29
एष वादिकृतः प्रोक्तो व्यवहारः समासतः ।
नृपाश्रयं प्रवक्ष्यामि व्यवहारं प्रकीर्णकम् ॥
वाग्धिग्दण्डं वधं चैव चतुर्धा कल्पितं दमम् ।
पुरुषं दोषविभवं ज्ञात्वा संपरिकल्पयेत् ॥
सुवर्णशतम् एकं तु वधार्हो दण्डम् अर्हति ।
अङ्गच्छेदे तदर्धं तु विवासे पञ्चविंशतिम् ॥
हस्ताङ्घ्रिलिङ्गनयनं जिह्वाकर्णौ च नासिका ।
जिह्वा पादार्धसंदंश ललाटौष्ठगुदं कटिः ॥
स्थानान्य् एतानि दण्डस्य निर्दिष्टानि चतुर्दश ।
ललाटाङ्को ब्राह्मणस्य नान्यो दण्डो विधीयते ॥
अधार्मिकांस् त्रिभिर् न्यायैर् निगृह्णीयात् प्रयत्नतः ।
निरोधनेन बन्धेन विविधेन भयेन च ॥
वेधेनापि यदा त्व् एतान् निगृहीतुं न शक्नुयात् ।
तदैषु सर्वम् अप्य् एतत् प्रयुञ्जीत चतुष्टयम् ॥
वाग्दण्डं प्रथमं कुर्याद् धिग्दण्डं तदनन्तरम् ।
तृतीयं धनदण्डं तु वधदण्डम् अतः परम् ॥
बन्धनानि च सर्वाणि राजमार्गे निवेशयेत् ।
दुःखिता यत्र दृश्यन्ते विकृताः पापकारिणः ॥
दशमांशं हरेद् अर्थं पञ्चमं सर्वम् एव वा ।
मृतस्य वित्ताद् आदद्याद् अज्ञातिः शवदहकः ॥
बहुरक्षस्य दशमम् अल्परक्षस्य पञ्चमम् ।
अपुत्रपितृभार्यस्य सर्वम् एवेति शौनकः ॥
षड्भागस् तरशुल्कं च गते देयस् तथैव च ।
संग्रामचौरभेदी च सस्यघातनकृत् तथा ॥
निष्कृतीनाम् अकरणं आज्ञासेधव्यतिक्रमः ।
वर्णाश्रमाणां लोपश् च वर्णसंकरलोपनम् ॥
निधिर् निष्कुलवित्तं च दरिद्रस्य धनागमः ।
अनाम्नातानि कार्याणि क्रियावादाश् च वादिनाम् ॥
प्रकृतीनां प्रकोपश् च संकेतश् च परस्परम् ।
अशास्त्रविहितं यच् च प्रजायां संप्रकीर्त्यते ॥
साक्षिसभ्यार्थसन्नानां दूषणे दर्शनं पुनः ।
स्ववाचैव जितानां तु नोक्तः पौनर्भावो विधिः ॥
मूल पाठ: Bṛhaspatismṛti (vyavahārakaṇḍa) · Edition: K. V. Rangaswami Aiyangar Bṛhaspatismṛti (Reconstructed) Baroda Oriental Institute Gaekwad Oriental Series 85 · Data entry Yasuke Ikari Akihiko Akamatsu · GRETIL (Göttingen) · CC BY-NC-SA 4.0