भाषा

ENहिગુ
ग्रंथ पाठ

बृहज्जातक · अध्याय 22

22.01

स्व.ऋक्ष.तुङ्ग.मूल.त्रि.कोणगाः.कण्टकेषु.यावन्त.आश्रिताः।
सर्व.एव.ते.अन्योन्य.कारकाः.कर्मगस्.तु.तेषां.विशेषतः॥(वैतालीय)

22.02

कर्कट.उदय.गते.यथा.उडुपे.स्व.उच्चगाः.कुज.यम.अर्क.सूरयः।
कारका.निगदिताः.परस्परं.लग्नगस्य.सकलो.अम्बर.अम्बुगः॥(रथोद्धता)

22.03

स्व.त्रि.कोण.उच्चगो.हेतुर्.अन्योन्यं.यदि.चर्मगः।
सुहृत्.तद्.गुण.सम्पन्नः.कारकश्.च.अपि.स.स्मृतः॥(अनुष्टुभ्)

22.04

शुभं.वर्ग.उत्तमे.जन्म.वेशि.स्थाने.च.सद्.गृहे।
अशून्येषु.च.केन्द्रेषु.कारका.आख्य.ग्रहेषु.च॥(अनुष्टुभ्)

22.05

मध्ये.वयसः.सुख.प्रदाः.केन्द्रस्था.गुरु.जन्म.लग्नपाः।
पृष्ठ.उभयक.उदय.ऋक्षगास्.त्व्.अन्ते.अन्तः.प्रथमेषु.पाकदाः॥(वैतालीय)

22.06

दिन.कर.रुधिरौ.प्रवेष.काले.गुरु.भृगुजौ.भवनस्य.मध्य.यातौ।
रवि.सुत.शशिनौ.विनिर्गमस्थौ.शशि.तनयः.फलदस्.तु.सर्व.कालम्॥(पुष्पिताग्रा)ए22

मूल पाठ: Bṛhajjātaka · Edition: of Oriental Books Reprint Corporation, Second Edition, 1979 · Data entry Mizue Sugita · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc