भाषा

ENहिગુ
ग्रंथ पाठ

बृहज्जातक · अध्याय 21

21.01

कुल.सम.कुल.मुख्य.बन्धु.पूज्या.धनि.सुखि.भोगि.नृपाः.स्व.भ.एक.वृद्ध्या।
पर.विभव.सुहृत्.स्व.बन्धु.पोष्या.गणप.बल.ईश.नृपाश्.च.मित्र.भेषु॥(पुष्पिताग्रा)

21.02

जनयति.नृपम्.एको.अप्य्.उच्चगो.नित्र.दृष्टः.प्रचुर.धन.समेतं.मित्र.योगाच्.च.सिद्धम्।
विधन.विसुख.मूढ.व्याधितो.बन्ध.तप्तो.वध.दुरित.समेतः.शत्रु.नीच.ऋक्षगेषु॥(मालिनी)

21.03

न.कुम्भ.लग्नं.शुभम्.आह.सत्यो.न.भाग.भेदाद्.यवना.वदन्ति।
कस्य.अंश.भेदो.न.तथा.अस्ति.राशेर्.अतिप्रसङ्गस्.त्व्.इति.विष्णु.गुप्तः॥(उपजातिका)

21.04

यातेषु.असत्.स्व.सम.भेषु.दिन.ईश.होरां.ख्यातो.महा.उद्यम.बल.अर्थ.युतो.अतितेजाः।
चान्द्रीं.शुभेषु.युजि.मार्दव.कान्ति.सौख्य.सौभाग्य.धी.मधुर.वाक्य.युतः.प्रजातः॥(व.ति)

21.05

तास्व्.एव.होरा.स्व.पर.ऋक्षगेषु.ज्ञेया.नराः.पूर्व.गणेषु.मध्याः।
व्यत्यस्त.होरा.भवन.स्थितेषु.मर्त्या.भवन्त्य्.उक्त.गुणैर्.विहीनाः॥(इन्द्रवज्रा)

21.06

कल्याण.रूप.गुणम्.आत्म.सुहृद्.दृकोणे.चन्द्रो.अन्यगस्.तद्.अधिनाथ.गुणं.करोति।
व्याल.उद्यय.आयुध.चतुश्.चरण.अण्डजेषु.तीक्ष्णो.अतिहिंस्र.गुरु.तल्प.रतो.अटनश्.च॥(व.ति)

21.07

स्तेनो.भोक्ता.पण्डित.आढ्यो.नरेन्द्रः.क्लीबः.शूरो.विष्टिकृद्.दास.वृत्तिः।
पापो.हिंस्रो.अभीश्.च.वर्ग.उत्तम.अंशेष्व्.एषाम्.ईषा.राशिवद्.द्वादश.अंशैः॥(शालिनी)

21.08

जाया.अन्वितो.बल.विभूषण.सत्व.युक्तोस् तेजो.अतिसाहस.युतश्.च.कुजे.स्व.भागे।
रोगी.मृत.स्व.युवतिर्.विषमो.अन्य.दारो.दुःखी.परिच्छद.युतो.मलिनो.अर्क.पुत्रे॥(व.ति)

21.09

स्व.अंशे.गुरौ.धन.यशः.सुख.बुद्धि.युक्तास्.तेजस्वि.पूज्य.निरुग्.उद्यम.भोगवन्तः।
मेधा.कलाक.पट.काव्य.विवाद.शिल्प.शास्त्र.अर्थ.साहस.युताः.शशिजे.अतिमान्याः॥(व.ति)

21.10

स्वे.त्रिंश.अंशे.बहु.सुत.सुख.आरोग्य.भाग्य.अर्थ.रूपः.शुक्रे.तीक्ष्णः.सुललित.वपुः.सुप्रकीर्ण.इन्द्रियश्.च।
शूर.स्तब्धौ.विषम.वधकौ.सद्.गुण.आढ्यौ.सुखिजौ.चार्व्.अङ्गे.अष्टौ.रवि.शशि.युतेष्व्.आर.पूर्व.अंशकेषु॥(मन्दाक्रान्ता)ए21

मूल पाठ: Bṛhajjātaka · Edition: of Oriental Books Reprint Corporation, Second Edition, 1979 · Data entry Mizue Sugita · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc