बृहज्जातक · अध्याय 12
नव.दिग्.वसवस्.त्रिक.अग्नि.वेदैर्.गुणिता.द्वि.त्रि.चतुर्.विकल्पजाः.स्युः।
यवनैस्.त्रि.गुणा.हि.षट्.शती.सा.कथिता.विस्तरतो.अग्र.तत्.समाः.स्युः॥(औपच्छन्दसिक)
रज्जुर्.मुशलं.नलश्.चर.आद्यैः.सत्यश्.च.आश्रयज.आञ्ज.गाद.योगान्।
केन्द्रैः.सद्.असद्.युतैर्.दल.आख्यौ.स्रक्.सर्पौ.कथितौ.पराशरेण॥(औपच्छन्दसिक)
योगा.व्रजन्त्य्.आश्रयजाः.समत्वं.यव.अब्ज.वज्र.अण्डज.गोलक.आद्यैः।
केन्द्र.उपगैः.प्रोक्त.फलौ.दल.आख्याव्.इत्य्.आहुर्.अन्ये.न.पृथक्.फलौ.तौ॥(उपजातिका)
आसन्न.केन्द्र.भवन.द्वयगैर्.गदा.आख्यस्.तनु.अस्तगेषु.शकटं.विहगः.ख.बन्ध्वोः।
शृङ्गाटकं.नवम.पञ्चम.लग्न.संस्थैर्.लग्न.अन्यगैर्.हलम्.इति.प्रवदन्ति.तज्.ज्ञाः॥(वसन्ततिलका)
शकट.अण्डज.वच्.छुभ.अशुबैर्.वज्रं.तद्.विपरीतगैर्.यवः॥
कमलं.तु.विमिश्र.संस्थितैर्.वा.अपि.तद्.यदि.केन्द्र.बाह्यतः॥(वैतालीया)
पूर्व.शास्त्र.अनुसारेण.मया.वज्र.आदयः.कृताः।
चौतुर्थे.भवने.सूर्याज्.ज्ञ.सितौ.भवतः.कथम्॥(अनुष्टुभ्)
कण्टक.आदि.प्रवृत्तैस्.तु.चतुर्.गृह.गतैर्.ग्रहैः।
यूपेषु.शक्ति.दण्ड.आख्या.होरा.आद्यैः.कण्टकैः.क्रमात्॥(अनुष्टुभ्)
नौ.कूट.च्छत्र.चापानि.तद्वत्.सप्त.ऋक्ष.संस्थितैः।
अर्ध.चन्द्रस्.तु.नाव्.आद्यैः.प्रोक्तस्.त्व्.अन्य.ऋक्ष.संस्थितैः॥(अनुष्टुभ्)
एक.अन्तर.गतैर्.अर्थात्.समुद्रः.षड्.गृह.आश्रितैः।
विलग्न.आदि.स्थितैश्.चक्रम्.इत्य्.आकृतिज.संग्रहः॥(अनुष्टुभ्)
संख्या.योगाः.स्युः.सप्त.सप्त.ऋक्ष.संस्थिर्.एक.अपायाद्.वल्लकी.दामिनी.च.
पाशः.केदारः.शूल.योगो.युगं.च.गोलश्.च.अन्यान्.पूर्वम्.उक्तान्.विहाय॥(शालिनी)
ईर्ष्युर्.विदेश.निरतो.अध्व.रुचिश्.च.रज्ज्वां.मानी.धनी.च.मुशले.बहु.कृत्य.सक्तः।
व्यङ्गः.स्थिर.आढ्य.निपुणो.नलजः.स्रग्.उत्थो.भोगा.अन्वितो.भुज.गजो.बहु.दुःख.भाक्.स्यात्॥(वं.ति)
आश्रय.उक्तास्.तु.विफला.भवन्त्य्.अन्यैर्.विमिश्रिताः।
मिश्रा.यैस्.ते.फलं.दद्युर्.अमिश्राः.स्व.फल.प्रदाः॥(अनुष्टुभ्)
यज्व्.अर्थ.भाक्.सततम्.अर्थ.रुचिर्.गदायां.तद्.वृत्ति.भुक्.शकटजः.सरुजः.कुदारः।
दूतो.अटनः.कलह.कृद्.विहगे.प्रदिष्टः.शृङ्गाटके.चिर.सुखी.कृषिकृद्.धलाक्ष्ये॥(व.ति.)
वज्रे.अन्त्य.पूर्व.सुखिनः.सुभगो.अतिशूरो.वीर्य.अन्वितो.अप्य्.अथ.यवे.सुखितो.वयो.अन्तः।
विख्यात.कीर्त्य्.अमित.सौख्य.गुणश्.च.पद्मे.वाप्यां.तनु.स्थिर.सुखो.निधि.कृन्.न.दाता॥(व.ति)
त्याग.आत्मवान्.क्रतु.वरैर्.यजते.च.यूपे.हिंस्रो.अथ.गुप्त्य्.अधिकृतः.शरकृच्.छर.आख्ये।
नीचो.अलसः.सुख.धनैर्.वियुतश्.च.शक्तौ.दण्डे.प्रियैर्.विरहितः.पुरुष.अन्त्य.वृत्तिः॥(व.ति)
कीर्त्या.युतश्.चल.सुखः.कृपणश्.च.नौजः.कूटे.अनृत.प्लवन.बन्धनपश्.च.जातः।
छत्र.उद्भवः.स्व.जन.सौख्य.करो.अन्त्य.सौख्यः.शूरश्.च.कार्मुक.भवः.प्रथम.अन्त्य.सौख्यः॥(व.ति)
अर्ध.इन्दुजः.सुभग.कान्त.वपुः.प्रधानस्.तोय.आलये.नर.पति.प्रतिमस्.तु.भोगी।
चक्रे.नर.इन्द्र.मुकुट.द्युति.रञ्जित.अङ्घ्रिर्.वीणा.उद्भवश्.च.निपुणः.प्रिय.गीत.नृत्यः॥(व.ति)
दाता.अन्य.कार्य.निरतः.पशुपश्.च.दाम्नि.पाशे.धन.अर्जन.विशील.स.भृत्य.बन्धुः।
केदारजः.कृषि.करः.सुबहु.उपयोष्यः.शूरः.क्षतो.धन.रुचिर्.विधनश्.च.शूले॥(व.ति)
धन.विरहितः.पाखण्डी.वा.युगे.त्व्.अथ.गोलके.विधन.मलिनो.ज्ञान.उपेतः.कुशिल्प्यलसो.अटनः।
इति.निगदिता.योगाः.सार्द्धं.फलैर्.इह.नाभसा.नियत.फलदाश्.चिन्त्या.ह्य्.एते.समस्त.दशास्व्.अपि॥(हरिणी)ए12
मूल पाठ: Bṛhajjātaka · Edition: of Oriental Books Reprint Corporation, Second Edition, 1979 · Data entry Mizue Sugita · GRETIL (Göttingen) · CC BY-NC-SA 4.0