बृहज्जातक · अध्याय 11
प्राहुर्.यवनाः.स्व.तुङ्गगैः.क्रूरैः.क्रूर.मतिर्.महीपतिः।
क्रूरैस्.तु.न.जीव.शर्मणः.पक्षे.क्षित्य्.अधिपः.प्रजायते॥(वैतालीय)
वक्र.अर्कज.अर्क.गुरुभिः.सकलैस्.त्रिभिश्.च.स्व.उच्चेषु.षोडश.नृपाः.कथित.एकलग्ने।
द्व्य्.एक.आश्रितेषु.च.तथा.एकतमे.विलग्ने.स्व.क्षेत्रगे.शशिनि.षोडश.भूमिपाः.स्युः॥(वसन्ततिलका)
वर्ग.उत्तम.गते.लग्ने.चन्द्रे.वा.चन्द्र.वर्जितः।
चतुर.आद्यैर्.ग्रहैर्.दृष्टे.नृपा.द्वाविंशतिः.स्मृताः॥(अनुष्टुभ्)
यमे.कुम्भे.अर्के.अजे.गवि.शशिनि.तैर्.एव.तनुगैर्.नृ.युक्तिं.सह.अलिस्थैः.शशिज.गुरु.वक्रैर्.नृ.पतयः।
यम.इन्दू.तुङ्गे.अङ्गे.सवितृ.शशिजौ.षष्ठ.भवने.तुला.अज.इन्दु.क्षेत्रैः.स.सित.कुज.जीवैश्.च.नरपौ॥(शिखरिणी)
कुजे.तुङ्गे.अर्क.इन्द्वोर्.धनुषि.यम.लग्ने.च.कुपतिः.पतिर्.भूमेश्.च.अन्यः.क्षिति.सुत.विलग्ने.स.शशिनि।
स.चन्द्रे.सौरे.अस्ते.सुर.पति.गुरौ.चाप.धरगे.स्व.तुङ्गस्थे.भानाव्.उदयम्.उपयाते.क्षिति.पतिः॥(शिखरिणी)
वृषे.स.इन्दौ.लग्ने.सवितृ.गुरु.तीक्ष्ण.अंशु.तनयैः.सुहृज्.जाया.खस्थैर्.भवति.नियमान्.मानव.पतिः।
मृगे.मन्दे.लग्ने.सहज.रिपु.धर्म.व्यय.गतैः.शश.अङ्क.आद्यैः.ख्यातः.पृथु.गुण.यशाः.पुङ्गल.पतिः॥(शिखरिणी)
हये.स.इन्दौ.जीवे.मृग.मुख.गते.भूमि.तनये.स्व.तुङ्गस्थौ.लग्ने.भृगुज.शशिजाव्.अत्र.नृ.पती।
सुतस्थौ.वक्र.अर्की.गुरु.शशि.सिताश्.च.अपि.हिबुके.बुधे.कन्या.लग्ने.भवति.हि.नृपो.अन्यो.अपि.गुणवान्॥(शिखरिणी)
झषे.स.इन्दौ.लग्ने.घट.मृग.मृग.इन्द्रेषु.सहितैर्.यम.आर.अर्कैर्.यो.अभूत्.स.खलु.मनुजः.शास्ति.वसुधाम्।
अजे.सारे.मूर्तौ.शशि.गृह.गते.च.अमर.गुरौ।सुरेज्ये.वा.लग्ने.धरणि.पतिर्.अन्यो.अपि.गुणवान्॥(शिखरिणी)
कर्किणि.लग्ने.तत्स्थे.जीवे.चन्द्र.सित.ज्ञैर्.आय.प्राप्तैः।
मेष.गते.अर्के.जातं.विद्याद्.विक्रम.युक्तं.पृथ्वी.नाथम्॥(विद्युन्.माला)
मृग.मुखे.अर्क.तनयस्.तनु.संस्थः.क्रिय.कुलीर.हरयो.अधिप.युक्ताः।
मिथुन.तौलि.सहितौ.बुध.शुक्रौ.यदि.तदा.पृथु.यशाः.पृथिवी.ईशः॥(द्रुतविलम्बिता)
स्व.उच्च.संस्थे.बुधे.लग्ने.भृगौ.मेषु.उरण.आश्रिते।
स.जीवे.अस्ते.निशा.नाथे.राजा.मन्द.आरयोः.सुते॥(अनुष्टुभ्)
अपि.खल.कुल.जाता.मानवा.राज्य.भाजः.किम्.उत.नृप.कुल.उत्थाः.प्रोक्त.भू.पाल.योगैः।
नृ.पति.कुल.समुत्थाः.पार्थिवा.वक्ष्यमाणैर्.भवति.नृ.पति.तुल्यस्.तेष्व्.अभू.पाल.पुत्रः॥(मालिनी)
उच्च.स्व.त्रि.कोणगैर्.बलस्थैस्.त्र्य्.आद्यैर्.भू.पति.वंशजा.नर.इन्द्राः।
पञ्च.आदिभिर्.अन्य.वंश.जाता.हीनैर्.वित्त.युता.न.भूमि.पालाः॥(औपच्छन्दसिक)
लेखास्थे.अर्के.अज.इन्दौ.लग्ने.भौमे.स्व.उच्चे.कुम्भे.मन्दे।
चाप.प्राप्ते.जीवे.राज्ञः.पुत्रं.विन्द्यात्.पृथ्वी.नाथम्॥(विद्युन्.माला)
स्व.ऋक्षे.शुक्रे.पातालस्थे.धर्म.स्थानं.प्राप्ते.चन्द्रे।
दुश्चिक्य.अङ्ग.प्राप्ति.प्राप्तैः.शेषैर्.जातः.स्वामी.भूमेः॥(विद्युन्मल)
सौम्ये.वीर्य.युते.तनु.युक्ते.वीर्य.आढ्ये.च.शुभे.शुभ.याते।
धर्म.अर्थ.उपचयेष्व्.अवशेषैर्.धर्म.आत्मा.नृपजः.पृथिवी.ईशः॥(नवमालिका)
वृष.उदये.मूर्ति.धन.अरि.लाभगैः.शश.अङ्क.जीव.अर्क.सुत.अपरैर्.नृपः।
सुखे.गुरौ.खे.शशि.तीक्ष्ण.दीधिती.यम.उदये.लाभ.गतैर्.नृपो.अपरैः॥(वंशस्थ)
मेषु.उरणाय.तनुगाः.शशि.मन्द.जीवा.ज्ञ.आरौ.धने.सित.रवी.हिबुके.नर.इन्द्रम्।
वक्र.असितौ.शशि.सुरेज्य.सित.अर्क.सौम्या.होरा.सुख.अस्त.शुभ.ख.आप्ति.गताः.प्रजा.ईशम्॥(वस्नततिलका)
कर्म.लग्न.युत.पाक.दशायां.राज्य.लब्धिर्.अथ.वा.प्रबलस्य।
शत्रु.नीच.गृह.यात.दशायां.च्छिद्र.संश्रय.दशा.परिकल्प्या॥(स्वगता)
गुरु.सित.बुध.लग्ने.सप्तमस्थे.अर्क.पुत्रे.वियति.दिवस.नाथे.भोगिनां.जन्म.विन्द्यात्।
शुभ.बल.युत.केन्द्रैः.क्रूर.संस्थैश्.च.पापैर्.व्रजति.शबर.दस्यु.स्वामिताम्.अर्थ.भाक्.च॥(मालिनी)ए11
मूल पाठ: Bṛhajjātaka · Edition: of Oriental Books Reprint Corporation, Second Edition, 1979 · Data entry Mizue Sugita · GRETIL (Göttingen) · CC BY-NC-SA 4.0