बृहज्जातक · अध्याय 01
मूर्तित्वे.परिकल्पितः.शश.भृतो.वर्त्मा.अपुनर्.जन्मनाम्.आत्मा.इत्य्.आत्म.विदां.क्रतुश्.च.यजतां.भर्ता.अमर.ज्योतिषाम्।
लोकानां.प्रलय.उद्भव.स्थिति.विभुश्.च.अनेकधा.यः.श्रुतौ.वाचं.नः.स.ददात्व्.अनेक.किरणस्.त्रैलोक्य.दीपो.रविः॥(शा.वि)
भूयोभिः.पटु.बुद्धिभिः.पटु.धियां.होरा.फल.ज्ञप्तये.शब्द.न्याय.समन्वितेषु.बहुशः.शास्त्रेषु.दृष्टेष्व्.अपि।
होरा.तन्त्र.महा.अर्णव.प्रतरणे.भग्न.उद्यमानाम्.अहं.स्वल्पं.वृत्त.विचित्रम्.अर्थ.बहुलं.शास्त्र.प्लवं.प्रारभे॥(शा.वि)
होरा.इत्य्.अहो.रात्र.विकल्पम्.एके.वाञ्छन्ति.पूर्व.अपर.वर्ण.लोपात्।
कर्म.आजितं.पूर्व.भवे.सद्.आदि.यत्.तस्य.पङ्क्तिं.समभिव्यनक्ति॥(इन्द्रवज्रा)
काल.अङ्गानि.वर.अङ्गम्.आननम्.उरो.हृत्.क्रोड.वासो.भृतो.बस्तिर्.व्यञ्जनम्.ऊरु.जानु.युगुले.जङ्घे.ततो.अङ्घ्रि.द्वयम्।
मेष.अश्वि.प्रथमा.नव.ऋक्ष.चरणाश्.चक्र.स्थिता.राशयो.राशि.क्षेत्र.गृह.ऋक्ष.भानि.भवनं.च.एक.अर्थ.सम्प्रत्ययाः॥(शा.वि)
मत्स्यौ.घटी.नृ.मिथुनं.स.गदं.स.वीणं.चापी.नरो.अश्व.जघनो.मकरो.मृग.आस्यः।
तौली.स.सस्य.दहना.प्लवगा.च.कन्या.शेषाः.स्व.नाम.सदृशाः.स्व.चराश्.च.सर्वे॥(वसन्ततिलका)
क्षितिज.सित.ज्ञ.चन्द्र.रवि.सौम्य.सित.अवनिजाः।सुर.गुरु.मन्द.सौरि.गुरवश्.च.गृह.अंशकपः।
अज.मृग.तौलि.चन्द्र.भवन.आदि.नव.अंश.विधिर्.भवन.सम.अंशक.अधिपतयः.स्व.गृहात्.क्रमशः॥(त्रोटक)
कुज.रविज.गुरु.ज्ञ.शुक्र.भागाः.पवन.समीरण.कौर्पि.जूक.लेयाः।
अयुजि.युजि.तु.भे.विपर्ययस्थः.शसि.भवन.अलि.झष.अन्तम्.ऋक्ष.संधिः॥(पुष्पिताग्रा)
क्रिय.तावुरि.जितुम.कुलीर.लेय.पाथोन.जूक.कौर्प्या.आख्याः।
तौक्षिक.आकोकेरो.हृद्.रोगश्.च.अन्त्य.भं.च.इत्थम्॥(आर्या)
द्रेष्काण.होरा.नव.भाग.संज्ञास्.त्रिंश.अंशक.द्वादश.संज्ञिताश्.च।
क्षेत्रं.च.यद्य्.अस्य.स.तस्य.वर्गो.होरा.इति.लग्नं.भवनस्य.च.अर्धम्॥(इन्द्रवज्रा)
गो.अज.अश्वि.कर्कि.मिथुनाः.स.मृगा.निशा.आख्याः.पृष्ठ.उदया.विमिथुनाः.कथितास्.त.एव॥
शीर्ष.उदया.दिन.बलाश्.च.भवन्ति.शेषा.लग्नं.समेत्य्.उभयतः.पृथु.रोम.युग्मम्॥(वसन्ततिलका)
क्रूरः.सौम्यः.पुरुष.वनिते.ते.चर.अग.द्वि.देहाः.प्राग्.आदि.ईशाः.क्रिय.वृष.नृयुक्.कर्कटाः.स.त्रि.कोणाः।
मार्तण्ड.इन्द्वोर्.अयुजि.सम.भे.चन्द्र.भान्वोश्.च.होरे.द्रेष्काणाः.स्युः.स्व.भवन.सुत.त्रि.त्रि.कोण.अधिपानाम्॥(मन्दाक्रान्ता)
के.चित्.तु.होरां.प्रथमां.भपस्य.वाञ्छन्ति.लाभ.अधिपतेर्.द्वितीयाम्।
द्रेष्काण.संज्ञाम्.अपि.वर्णयन्ति.स्व.द्वादश.एकादश.राशिपानाम्॥(इन्द्रवज्रा)
अज.वृषभ.मृग.अङ्गना.कुलीरा.झष.वणिजा.च.दिवाकर.आदि.तुङ्गाः।
दश.शिखि.मनु.युक्.तिथि.इन्द्रिय.अंशैस्.त्रि.नवक.विंशतिभिश्.च.ते.अस्त.नीचाः॥(पुष्पिताग्रा)
वर्ग.उत्तमाश्.चर.गृह.आदिषु.पूर्व.मध्य.पर्यन्ततः.शुभ.फला.नव.भाग.संज्ञाः।
सिंहो.वृष.प्रथम.षष्ठ.हय.अङ्ग.तौलि.कुम्भास्.त्रि.कोण.भवनानि.भवन्ति.सूर्यात्॥(वसन्ततिलका)
होरा.आदयस्.तनु.कुटुम्ब.सहोत्थ.बन्धु.पुत्र.अरि.पत्नी.मरणानि.शुभ.आस्पद.आयाः।
रिःफा.आख्यम्.इत्य्.उपचयान्य्.अरि.कर्म.लाभ.दुश्चिक्य.संज्ञित.गृहाणि.न.नित्यम्.एके॥(वसन्ततिलका)
कल्प.स्व.विक्रम.गृह.प्रतिभा.क्षतानि.चित्तोत्थ.रन्ध्र.गुरु.मान.भव.व्ययानि।
लग्नाच्.चतुर्थ.निधने.चतुरस्र.संज्ञे.द्यूनं.च.सप्तम.गृहं.दशम.ऋक्षम्.आज्ञा॥(वसन्ततिलका)
कण्टक.केन्द्र.चतुष्टय.संज्ञाः.सप्तम.लग्न.चतुर्थ.ख.भानाम्।
तेषु.यथा.अभिहितेषु.बल.आढ्याः.कीट.नर.अंबु.चराः.पशवश्.च॥(दोधक)
केन्द्रात्.परं.पणफरं.परतस्.तु.सर्व.भ.आपोक्लिमं.हिबुकम्.अम्बु.सुखं.च.वेश्म।
जामित्रम्.अस्त.भवनं.त्रि.कोणं.मेषूरणं.दशमम्.अत्र.च.कर्म.विद्यात्॥(वसन्ततिलका)
होरा.स्वामि.गुरु.ज्ञ.वीक्षित.युता.न.अन्यैश्.च.वीर्य.उत्कटा.केन्द्रस्था.द्वि.पद.आदयो.अह्नि.निशि.च.प्राप्ते.च.संध्या.द्वये।
पूर्व.अर्धे.विषय.आदयः.कृत.गुणा.मानं.प्रतीपं.च.तद्.दुश्चिक्यं.सहजं.तपश्.च.नवमं.त्र्य्.आद्यां.त्रि.कोणं.च.तत्॥(शा.वि)
रक्तः.श्वेतः.शुक.तनु.निभः.पाटलो.धूम्र.पांडुश्.चित्रः.कृष्णः.कनक.सदृशः.पिङ्गलः.कर्बुरश्.च।
बभ्रुः.स्वच्छः.प्रथम.भवन.आद्येषु.वर्णाः.प्लवत्वं.स्वाम्य्.आशा.आख्यं.दिन.कर.युताद्.भाद्.द्वितीयं.च.वेशिः॥(मं.क्रां)ए1
मूल पाठ: Bṛhajjātaka · Edition: of Oriental Books Reprint Corporation, Second Edition, 1979 · Data entry Mizue Sugita · GRETIL (Göttingen) · CC BY-NC-SA 4.0