भाषा

ENहिગુ
ग्रंथ पाठ

ब्रह्मवैवर्त पुराण · अध्याय 4.92

4.92.1

अथ द्विनवतितमोऽध्यायः
नारायण उवाच
श्रीकृष्णप्रेरितो हृष्टः प्रणम्य च गणेश्वरम् ।
स्मरन्नारायणं शंभुं दुर्गा लक्ष्मीं सरस्वतीम्

4.92.2

गङ्गां च मनसि ध्यात्वा दिमीशं तं महेश्वरम् ।
प्रजगामोद्धवश्चैव दृष्ट्वा मङ्गलमूचकम्

4.92.3

शुश्राव दुंदुभिं घण्टानादं शङ्खध्वनिं तथा ।
हरिशब्दं च संगीतं शुश्राव मङ्गलध्वनिम्

4.92.4

पतिपुत्रवतीं साध्वीं प्रदीपं माल्यदर्पणम् ।
परिबूर्णतमं कुम्भं दधिलाजफलानि च

4.92.5

दूर्वाङ्कुरं शुक्लधान्यं रजतं काञ्चनं मधु ।
ब्राह्मणानां समूहं च कृष्णसारं वृषं घृतम्

4.92.6

सद्योमांसं गजेन्द्रं च नृपेन्द्रं श्वेतघोटकम् ।
पताकां नकुलं चाषं शुक्लं पुष्पं च चन्दनम्

4.92.7

दृष्ट्वैवं पथि कल्याणं प्राप वृन्दावनं वनम् ।
ददर्श पुरतो वृक्षं भाण्डीरे वटमक्षयम्

4.92.8

स्निग्धपर्ण रक्तवर्ण पुण्यदं तीर्थमीप्सितम् ।
सुवेषान्बालकांश्चैव रत्नभूषणभूषितान्

4.92.9

वदतो बलकृष्णेति रुदतश्च शुचाऽन्वितान् ।
तानाश्वास्य ययौ दूरं प्रविश्य नगरं मुदा

4.92.10

ददर्श नन्दशिबिरं रचितं विश्वकर्मणा ।
मणिरत्नविनिर्माणं मुक्तामाणिक्यहीरकैः

4.92.11

परिच्छन्नं मनोरम्यं सद्रत्नकलशान्वितम् ।
द्वारं चित्रं विचित्राढ्यं दृष्ट्वा च प्रविवेश सः

4.92.12

अवरुह्य रथात्तूर्ण तस्थौ तत्प्राङ्गणे मुदा ।
यशोदा रोहिणी शीघ्रं पप्रच्छ कुशलं परम्

4.92.13

आसनं च जलं गां च मधुपर्कं ददौ मुदा ।
क्व नन्दः क्व बलः कृष्णः सत्यं तत्कथयोद्धव

4.92.14

उद्धवः कथयामास सर्व भद्रं क्रमेण च ।
सार्धं च बलकृष्णाभ्यां नन्दः सानन्दपूर्वकम्

4.92.15

आयास्यति विलम्बेन कृष्णोपनयनावधि ।
युष्माकं कुशलं तत्वं विज्ञाय विधिपूर्वकम्

4.92.16

अहं यास्यामि मथुरां यशोदे शृणु सांप्रतम् ।
श्रृत्वा मङ्गलवार्ता च यशोदा रोहिणी मुदा

4.92.17

ब्राह्मणाय ददौ रत्नं सुवर्णं वस्त्रमीप्सितम् ।
उद्धवं भोजयामास मिष्टान्नं च सुधोपमम्

4.92.18

मणिश्रेष्ठं च रत्नं च ददौ तस्मै च हीरकम् ।
वाद्यं च वादयामास भद्रं नानाविधं तथा

4.92.19

ब्रह्मणान्भोजयामास कारयामास मङ्गलम् ।
वेदाश्च पाठयामास परमानन्दपूर्वकम्

4.92.20

शंकरं पूजयामास विप्रद्वारा परं विभूम् ।
नानोपहारैर्नैवेद्यैः पुष्पधूपप्रदीपकैः

4.92.21

चन्दनैर्वस्त्रताम्बूलैर्मधुगव्यघृतादिभिः ।
भवानीं पूजयामास श्रीवृन्दारण्यदेवताम्

4.92.22

षोडशोपचारैर्द्रव्यैर्बलिभिर्विविधैर्मुने ।
महिषाणां शते शुद्धं छागालानां सहस्रकम्

4.92.23

मेषाणामयुतं शुद्धं युक्तमादाय पञ्चकम् ।
ब्राह्मणेभ्यः स्वर्णशतं धेनुनां च शतं तथा

4.92.24

प्रददौ दक्षिणां तूर्ण कृष्णकल्याणहेतवे ।
उद्धवं पूजयामास सादरं च पुनः पुनः

4.92.25

समाश्वास्य यशोदां च रोहिणीं गोपबालकान् ।
वृद्धान्गोपालिकाः सर्वाः प्रययू रासमण्डलम्

4.92.26

ददर्श रासं रुचिरं चन्द्रमण्डलवर्तुलम् ।
श्रीरामकदलीस्तम्भशतकैरुपशोभितम्

4.92.27

युक्तैश्च स्निग्धवसनैश्चन्दनानां च पल्लवैः ।
पट्टसूत्रनिबद्धैश्च श्रीयुक्तमाल्यजालकैः

4.92.28

दधिलाजफलैः पट्टैः पुष्पैर्दूर्वाङ्कुरैरपि ।
चन्दनागुरुकस्तूरीकुङ्कुमैः परिसंस्कृतम्

4.92.29

वेष्टितं सक्षितं यत्नाद्गोपिकानां त्रिकोटिभिः ।
त्रिलक्षैः सुन्दरै रम्यैः संसक्तं रतिमन्दिरैः

4.92.30

लक्षगोपैः परिवृतं कृष्णागमनशङ्कितैः ।
यमुनां दक्षिणां कृत्वा प्रययौ मालतीवनम्

4.92.31

चन्दनानां चम्पकानां यूथिकानां तथैव च ।
केतकीमाधवीनां च वनं कृत्वा प्रदक्षिणम्

4.92.32

बकुलानां वञ्जुलानामशोकानां च काननम् ।
मल्लिकानां पलाशानां शिरीषाणां तथैव च

4.92.33

धात्रीणां काञ्चनानां च कर्णिकानां वनं तथा ।
नागेश्वराणां विपिनं लवङ्गानां तथैव च

4.92.34

वनं च शालतालानां हिन्तालानां वनं तथा ।
पनसानां रसालानां लाङ्गलीनां मनोहरम्

4.92.35

मन्दारकाननं रम्यं वामं कृत्वा च सत्वरम् ।
दृष्ट्वा कुन्दवनं रम्यं संप्राप्य मधुकाननम्

4.92.36

पुंस्कोकिलानां शब्देन मधुरेण समन्वितम् ।
मधुव्रतसमूहानां मधुरध्वनिबूरितम्

4.92.37

वन्यवृक्षैः परिवृतं माध्वीकाधारमीप्सितम् ।
वातेन वन्यबुष्पाणां वरितः सुरभीकृतम्

4.92.38

तद्दृष्ट्वा राजमार्गेण यशोदोक्तेन सांप्रतम् ।
ययौ शीघ्रं निरुद्विग्निं रहस्यं बदरीवनम्

4.92.39

श्रीफलानां च निम्बार्नां नारिङ्गाणां वनं तथा ।
पद्मानां करवीराणां तुलसीनां च काननम्

4.92.40

दृष्टवा रक्तिमवर्णं च सुपक्वफलमीप्सितम् ।
तदेव वामतः कृत्वा विवेश कदलीवनम्

4.92.41

अतीव निर्जने रम्ये ददर्श राधिकाश्रमम् ।
मणीन्द्राणां च प्राकारं परिखादुर्गवेष्टितम्

4.92.42

अत्यगम्यं रिपूणां च मित्राणां सुगमं सुखम् ।
गोप्यं संकेतमार्गं च रक्षकैः परिरक्षितम्

4.92.43

नानाचित्रविचित्राढ्यं निर्मितं विश्वकर्मणा ।
मणीन्द्रमुक्तामाणिक्यहीरहारोज्ज्वलं परम्

4.92.44

रत्नेन्द्रसाररचितं रत्नस्तम्भैः सुशोभितम् ।
रत्नसोपानसंसक्तमन्दिरेण मनोहरम्

4.92.45

अमूल्यरत्नखचितं कलशैः परिशोभितम् ।
वाह्निशुद्धांशुकाभिश्च पताकाभिः परिष्कृतम्

4.92.46

सद्रत्नदर्पणोत्कृष्टं चर्चितं श्वेतचामरैः ।
ददर्श सिंहद्वारं च युक्तं रत्नकपाटकैः

4.92.47

द्वारोपरि विचित्रं च रम्यं वृन्दावनं वनम् ।
कदम्बकाननं रम्यं तद्वास्त्रहरणादिकम्

4.92.48

विश्वकर्मविरचितं सुरम्यं रासमण्डलम् ।
नानारत्नकुटीरं च गोपगोपीसमन्वितम्

4.92.49

रक्षितं गोपिकालक्षैर्वेत्रहस्तैर्मनोहरैः ।
स्वच्छन्दाचरणैः शश्वदमितैर्बलिभिर्मुदा

4.92.50

तद्द्वारं पुरतो दृष्ट्वा विलङ्क्य च जगाम् सः ।
द्वितीयं द्वारमुल्लङ्घ्य तस्मादुत्तममीप्सितम्

4.92.51

द्वारं चतुर्थं संप्राप्य सर्वस्माच्च विलक्षणम् ।
तत्पश्चात्पञ्चमं द्वारं ददर्श चित्रमुत्तमम्

4.92.52

द्वारषट्कं च प्रययौ सर्वत्र रुचिरं परम् ।
रामरावणयोर्युद्धं भित्तिचित्रं मनोहरम्

4.92.53

दशावतारं विष्णोश्च कृत्रिमं रासमण्डलम् ।
यमुनाजलकेलिं च रचितां विश्वकर्मणा

4.92.54

गोपिकानां सहस्रेणा षष्ठं द्वारं च रक्षितम् ।
रत्नेन्द्रसारनिर्माणभूषणैर्भूषितेन च

4.92.55

सद्रत्नदणण़डहस्तेन हीरकैर्भूषितेन च ।
मणीन्द्रमुक्तामाणिक्यहीरहारान्वितेन च

4.92.56

माधवी तत्प्रधाना सा पप्रच्छ सांप्रतं शिवम् ।
ददौ प्रत्युत्तरं सर्वं क्रमेण च स उद्धवः

4.92.57

गत्वा विज्ञापयामास राधाप्रियसखीगणम् ।
सा माधवी महाहृष्टा तत्र संस्थाप्य तं मुदा

4.92.58

श्रुत्वा मङ्गलवार्तां च राधाप्रियसखीगणैः ।
कृत्वा शङ्खध्वनिं घण्टामृदङ्गपटहस्वनम्

4.92.59

कृत्वा निर्मञ्छनं शीघ्रमुद्धवं प्रियमागतम् ।
हृष्टा प्रवेशयामास राधाभ्यन्तरमुत्तमम्

4.92.60

अमूल्यरत्ननिर्माणं गत्वा मन्दिरमुत्तमम् ।
ददर्श पुरतो राधां कुह्वा चन्द्रकलोपमाम्

4.92.61

सुपक्वपद्मनेत्रां च शयानां शोकमूर्च्छिताम् ।
रुदतीं रक्तवदनां विल्ष्टां च त्यक्तभूषणाम्

4.92.62

निश्चेष्टां च निराहारां सुवर्णवर्णकुण्डलाम् ।
शुष्किताधरकण्ठां च किंचिन्निः श्वाससंयुताम्

4.92.63

प्रणनाम च तां दृष्ट्वा भक्तिनम्रात्मकंधरः ।
पुलकाञ्चितसर्वाङ्गो भक्त्या भक्तः स उद्धवः

4.92.64

उद्धव उवाच
वन्दे राधापदाम्भोजं ब्रह्मादिसुरविन्दतम् ।
यत्कीर्तिः कीर्तनेनैव पुनाति भुवनत्रयम्

4.92.65

नमो गोकुलवासिन्यै राधिकायै नमो नमः ।
शतशृङ्गनिवासिन्यै चन्द्रावत्यै नओ

4.92.66

तुलसीवनवासिन्य वृन्दारण्यै नओ ।
रासमण्डलवासिन्यै रासेश्वर्यै नओ

4.92.67

विरजातीरवासिन्यै वृन्दायै च नओ ।
वृन्दावनविलासिन्यै कृष्णायै च नओ

4.92.68

नमः कृष्णप्रियायै च शान्तायै च नओ ।
कृष्णवक्षःस्थितायै च तत्पियायै नओ

4.92.69

नमो वैकुण्ठवासिन्यै महालक्ष्म्यै नओ ।
विद्याधिष्ठातृदेव्यै च सरस्वत्यै नओ

4.92.70

सर्वैश्वर्याधिदेव्यै च कमलायै नओ ।
पद्मनाभप्रियायै च पद्मायै च नओ

4.92.71

महाविष्णोश्च मात्रे च पराद्यायै नओ ।
नमः सिन्धुसुतायै च मर्त्यलक्ष्मयै नओ

4.92.72

नारायणप्रियायै च नारायण्यै नओ ।
नमोऽस्तु विष्णुमायायै वैष्णव्यै च नओ

4.92.73

महामायास्वरूपायै संपदायै नओ ।
नमः कल्याणरूपिण्यै शुभायै च नओ

4.92.74

मात्रे चतुर्णा वेदानां सावित्र्यै च नओ ।
नमोऽस्तु बुद्धिरूपायै ज्ञानदायै नओ

4.92.75

नमो दुर्गविनाशिन्यै दुर्गादेव्यै नओ ।
तेजःसु सर्वदेवानां पुरा कृतयुगे मुदा

4.92.76

अधिष्टानकृतायै च प्रकृत्यै च नओ ।
नमस्त्रिपुरहारिण्यै त्रिपुरायै नओ

4.92.77

सुन्दरीषु च रम्यायै निर्गुणायै नओ ।
ममो निद्रास्वरूपायै निर्गुणायै नओ

4.92.78

नमो दक्षसुतायै च नमः सत्यै नओ ।
नमः शैलसुतायै च पार्वत्यै च नओ

4.92.79

नमो नमस्तपस्विन्यै ह्यु मायै च नओ ।
निराहारस्वरूपायै ह्यपर्णायै नओ

4.92.80

गौरीलौकविलासिन्यै नमो गौर्यै नओ ।
नमः कैलासवासिन्यै माहेश्वर्यैः नओ

4.92.81

निद्रायै च दयायै च श्रद्धायै च नओ ।
नमो धृत्यै क्षमार्यै च लज्जायै च नओ

4.92.82

तृष्णायै क्षुत्स्वरूपायै स्थितिकर्त्र्यै नओ ।
नमः संहाररूपिण्यै महामार्यै नओ

4.92.83

भयायैं चाभयायैं च मुक्तिदायै नओ ।
नमः स्वधायैं स्वाहायै शान्तयै कान्त्यै नओ

4.92.84

नमस्तुष्ट्यैं च पुष्ट्यै च दयायै च नओ ।
नमो निद्रास्वरूपायै श्रद्धायै च नओ

4.92.85

क्षुत्पिपासास्वरूपायै लज्जायैं च नओ ।
नमो धृत्यैं क्षमायैं च चेतनायैं नओ

4.92.86

सर्वशक्तिस्वरूपिण्यै सर्वमात्रे नओ ।
अग्नौ दाहस्वरूपायै भद्रायै च नओ

4.92.87

शोभायै पूर्णचन्द्रे च शरत्पद्म नओ ।
नास्ति भेदो यथा देवि दुग्धधावल्ययोःसदा

4.92.88

यथैव गन्धभूम्योश्च यथैव जलशैत्ययौः ।
यथैव शब्दन्भसोर्ज्योतिः सूर्यकयोर्यथा

4.92.89

लोके वेदे पुराणे च राधामाधवयोस्तथा ।
चेतनं कुरु कल्याणि देहि मामुत्तरं सति

4.92.90

इत्युक्त्वा चोद्धवस्तत्र प्रणनाम पुनः पुनः ।
इत्युद्ववकृतं स्तोत्रं यः पठेद्भक्तिपूर्वकम्

4.92.91

इह लोके सुखं भुक्त्वा यात्यन्ते हरिमन्दिरम् ।न भवेद्बन्धुविच्छेदो रोगः शोकः सुदारुणः

4.92.92

प्रोषिता स्त्री लभेत्कान्तं भार्याभेदी लभेत्प्रियाम् ।
अपुत्रो लभते पुत्रान्निर्धनो लभते धनम्

4.92.93

निर्भूमिर्लभते भूमिं प्रजाहीनो लभेत्प्रजाम् ।
रोगाद्विमुच्यते रोगी बद्धी मुच्यते बन्धनात्

4.92.94

भयान्मुच्येत भीतस्तु मुच्येताऽऽपन्नआपदः ।
अस्पष्टकीर्तिः सुयशा मूर्खो भवति पण्डितः

4.92.92

इति श्रीब्रह्मओ महाओ श्रीकृष्णजन्मखओ उत्तओ नारदनाओ राधास्तोत्रं
नाम द्विनवतितमोऽध्यायः

मूल पाठ: brahmavaivartapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc