भाषा

ENहिગુ
ग्रंथ पाठ

ब्रह्मवैवर्त पुराण · अध्याय 4.89

4.89.1

अथ नवाशीतितमोऽध्यायः
श्रीकृष्ण उवाच
गच्छ गच्छ गृहं गच्छ व्रजराज व्रजं व्रज ।
सर्वं तत्त्वं त्वया ज्ञातं दृष्टाश्च मुनयः सुराः

4.89.2

श्रुतं मे धन्यमाख्यानं नानाख्यानं सुदुर्लभम् ।
दुर्गायाः स्तोत्रराजं च जन्मपाशनिकृन्तनम्

4.89.3

स्थितं तते निगदितं हर्षेण च सुखेन च ।
मत्कृतं बालभावेन चापराद्धं च तत्क्षणम्

4.89.4

यत्सुखं न कृतं तात पित्रोश्च नृपमन्दिरे ।
कृतं सुखं तत्परं च स्वर्गादपि सुदुर्लभम्

4.89.5

मदीयं प्रियवाक्यं च प्रह्वत्वं विनयं नयम् ।
परिहासं बहतरं यशोदां गोपिकागणम्

4.89.6

बालकानां समूहं च राधां चापि विशेषतः ।
एकत्र च स्थितं तेषु बन्धुवर्गेषु कर्मणा

4.89.7

इहैवापि सुखं भुक्त्वा गच्छ गोलोकमुत्तमम् ।
सार्ध यशोदया तात रोहिण्या गोपिकागणैः

4.89.8

गोपानां बालकैः सार्धं वृषभानेन गोपकैः ।
राधामात्रा कलावत्या राधया सह यास्यसि

4.89.9

रथानां शतलक्षं च गोलोकादागतं पितः ।
अमूल्यरत्ननिर्माणं हीरहारपरिष्कृतम्

4.89.10

मणिमाणिक्यमुक्तानां मालाजालविभूषितम् ।
वह्निशुद्धांशुकै रम्यैराच्छन्नं पीतवर्णकैः

4.89.11

पार्षदप्रवरै रम्यैर्वेष्टितं श्वेतचामरैः ।
सद्रत्नदर्पणै रम्यैर्गोपिकाभिश्च गोपकैः

4.89.12

वेष्टितं च तदारुह्य कौतुकाद्यास्यसि ध्रुवम् ।
त्यक्त्वा च पार्थिवं देहं दिव्यदेहं विधाय च

4.89.13

अयोनिसंभवा राधा राधामाता कलावती ।
यास्यत्येव हि तेनैव नित्यदेहेन निश्चितम्

4.89.14

पितृणां मानसी कन्या धन्या मान्या कलावती ।
धन्या च सीतामाता च दुर्गामाता च मेनका

4.89.15

अयोनिसंभवा दुर्गा तारा सीता च सुन्दरी ।
अयोनिसंभवास्ताश्च धन्या मेना कलावती

4.89.16

इत्येव कथितं तात गोपनीयं सुदुर्लभम् ।
वरोऽयं तत्तस्तुभ्यं च मया च दुर्गया तथा

4.89.17

श्रीकृष्णस्य वचः श्रुत्वा प्रत्युवाच व्रजेश्वरः ।
पुनरेव जगन्नाथं त द्भक्तो भक्तवात्सलम्

4.89.18

नन्द उवाच
युगानां च चतुर्णां च यं यं धर्म सनातनम् ।
क्रमेण कृष्ण विस्तीर्णं कृत्वा मां कथय प्रभो

4.89.19

कलिशेषे भवेद्यद्यद्गुणदोषं कलेस्तथा ।
का गतिर्वा पृथिव्याश्च धर्मस्य प्रणिनां तथा

4.89.20

नन्दस्य वचनं श्रुत्वा हृष्टः कमललोचनः ।
कथां कथितुमारेभे विचित्रां मधुरान्विताम्

4.89.89

इति श्रीब्रह्मओ महाओ श्रीकृष्ण जन्मखओ उत्तओ नारदनाओ भगवन्न-
न्दसंओ एकोननवतितमोऽध्यायः

मूल पाठ: brahmavaivartapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc