भाषा

ENहिગુ
ग्रंथ पाठ

ब्रह्मवैवर्त पुराण · अध्याय 4.81

4.81.1

अथैकाशीतितमोऽध्यायः
श्रीकृष्ण उवाय
एतस्मिन्नन्तरे शुक्रः सुरश्रेणीं ददर्श सः ।
आकाशमार्गादायान्तीं रणशस्त्रास्त्रधारिणीम्

4.81.2

पताकानां त्रिकोटिश्च शतकोटिर्महारथाः ।
शतकोटिर्गजेन्द्राणां रथानां तच्चतुर्गुणम्

4.81.3

अश्वानां तत्छतगुणं समूहं च सुदारुणम् ।
पदातीनां समूहं च तुरङ्गेभ्यश्च षड्गुणम्

4.81.4

दुंदूभीवाद्यभाण्डानां पञ्चलक्षं तथैव च ।
पटहानां त्रिलक्षं च डिण्डिमानां द्विलक्षकम्

4.81.5

ऐरावते महेन्द्रं च श्वेताश्वे धर्ममेव च ।
कुबेरं वरुणं वह्निं रथस्थं पवनं तथा

4.81.6

महिषस्थं यमं चैव स्यन्दनस्थं दिवाकरम् ।
ईशानं च वृषेन्द्रस्थमनन्तं नागवाहम्

4.81.7

आदित्यांश्च वसून्रुद्रान्सिद्धगन्धर्वाकिन्नरान् ।
जीवन्मुक्तमुनीनां च समीहं सूर्यवर्चसम्

4.81.8

तान्दृष्ट्वा निर्भयः शुक्रः समाश्वास्य निशाकरम् ।
सुराणां द्विगुणं सैन्यमाजुहाव व्रजेश्वर

4.81.9

रत्नमालानदीतीरे हुताशनप्रियाश्रमे ।
तत्र तस्थौ दैत्यसैन्यं पुण्यक्षीरोदधेस्तटे

4.81.10

एतस्मिन्नन्तरे शुक्रः समीपे सरसस्तटे ।
पुण्याश्रमेऽक्षयवटे सुरसैन्यात्समागतम्

4.81.11

ददर्श वृषभस्थं च शंकरं सर्वंशंकरम् ।
त्रिशूलपट्टीशधरं व्याघ्रचर्माम्बरं वरम्

4.81.12

तेजःस्वरूपं परमं भक्तानुग्रहविग्रहम् ।
सर्दसंपत्प्रदातारं सर्वज्ञं सर्वकारणम्

4.81.13

सर्वेश्वरं सर्वपूज्यं सर्वहूपं सनातनम् ।
शरणागतदीनार्तं परित्राणपरायणम्

4.81.14

सस्मितं परमात्मानं ज्वलन्तं ब्रह्मतेजसा ।
संत्रस्तः सहसोत्थाय प्रणनाम पदाम्बुजे

4.81.15

ददौ शुभाशिषं तस्मै सुप्रसन्नः परात्परः ।
रत्नसिंहासने तं च वासयामास सादरम्

4.81.16

अथ तत्रान्तरे विप्रं पुरतस्तं ददर्श सः ।
शान्तं स्वयं विधातारं रत्नस्यन्दनमुन्दरम्

4.81.17

वह्निशुद्धांशुकाधानं रत्नमालाविभूषितम् ।
प्रसन्नं सुस्मितं शुद्धं जगतामीश्वरं परम्

4.81.18

कर्मणां फलदातारं तपोरूपं तपश्विनाम् ।
वेदानां जनकं वेदप्रसूं कान्तं मनोहरम्

4.81.19

पुटाञ्जलिस्तदा त्रस्तः प्रणनाम सुरेश्वरम् ।
रत्नसिंहासने रम्ये वासयामास भक्तितः

4.81.20

पूजां चकार भक्त्या च तयोश्चरणपङ्कजे ।
नोचितं कुशलप्रश्नं तयोः कल्याणमेव च

4.81.21

विधाता जगतां नन्द शकाचार्यं पुरस्थितम् ।
सुनीतिं कथयामास यत्नतः शंमुसंमतः

4.81.22

श्रृणु शुक्र प्रवक्ष्यामि तुर्नीतिं शशिनः सुत ।
लज्जाकारं त्रिजगतां कर्म वेदबहिष्कृतम्

4.81.23

स्नात्वा गृहोन्मुखीं तारां गुरुपत्नीं पतिव्रताम् ।
गृहीत्वा शरणापन्नस्त्वयि पापश्च संप्रतम्

4.81.24

प्रस्तुतं देवसैन्यं च पश्य वत्स रणोद्यतम् ।
अहं शंभुस्त्वत्समीपं तदर्थं च समागतौ

4.81.25

शंभुरुवाच
चन्द्रमानय हे विप्र यद्यात्मशिवमिच्छसि ।
संहरिष्ये सिरस्तस्य त्रिशूरेन च पापिनः

4.81.26

अन्यथा संहरिष्यामि सर्वदैत्यान्क्षणेन च ।
मयि रुष्टे रक्षिता को दैत्यानां च भवेद्द्विज

4.81.27

सद्यः पाशुपतेनैव वाय्वस्त्रेण च र्सांप्रतम् ।
सुराणां रिपुवर्गं च हरिष्यामि च लीलया

4.81.28

दुर्वाससो मदंशस्य गुरुस्तस्याङ्गिरा सुनिः ।
परस्पराच्च संबन्धाद्गुरुपुत्रो गुरुर्मम

4.81.29

बृहस्पतिश्च तेजस्वी तं भस्मीकर्तुमीश्वरः ।
न चकार कृपालुश्चेत्प्रियशिष्येण हेतुना

4.81.30

उतथ्यपत्नीं दृष्ट्वा स पुरा रेमे स्वकामतः ।
तत्पतेः शापतोऽस्यैव परग्रस्ता प्रिया सती

4.81.31

पत्नीं मद्गुरुपुत्रस्य देहि तार्रां मनोहराम् ।
मद्वैरिणं च चन्द्रं च भ्रादृभार्यापहारिणम्

4.81.32

शरणागतदीनार्तं न हि रक्षेद्यदीश्वरः ।
पच्यते निरये तावद्यावदिन्दाश्चतुदर्श

4.81.33

अत्र नास्ति विचारो मे पापिष्ठे शरणागते ।
पापी यं शरणं याति स पापी च न संशयः

4.81.34

देहि तं विप्रशार्दूल पापिनं मातृगामिनम् ।
बहिष्कृत्य स्वाश्रमाच्च तारासाध्वीसमन्वितम्

4.81.35

शुक्र उवाच
सुराणामसुराणां च सर्वेषां जगतामपि ।
त्वमेव शास्ता भगवान्को वा शास्ति सुरेऽसुरे

4.81.36

कृत्वा सुराणां साहाय्यं कथं दैत्यान्हनिष्यसि ।
संहर्तुः सर्वजगतां दैत्यौधे किं च पौरुषम्

4.81.37

त्वं जयोतिः परमं ब्रह्म सगुणो निर्गुणः स्वयम् ।
गुणभेदान्मूर्तिभेदो ब्रह्मविष्णुशिवात्मकः

4.81.38

बलिद्वारे गदापाणिः स्वयमेव भवान्प्रभो ।
स्वयं प्रदत्ता शक्राय तस्मै श्रीरपि लीलया

4.81.39

क्षमस्व भगञ्छंभो हर क्रोधं च संहर ।
किं पौरुषं च भवतो ब्रह्मणस्यापि हिंसया

4.81.40

अहं जीवञ्छरीरेण न दास्यामि निशाकरम् ।
शरणागतदीनार्तं लज्जिर्वं पापसंयुतम्

4.81.41

अहं च त्वत्पदाम्भोजे शरणं यामि शंकर ।
यथोचितं कुरु विभो जगत्सर्वं तथैव च

4.81.42

शुक्रस्य वचनं श्रुत्वा प्रसन्नो भगवाञ्छिवः ।
इत्युवाच निशानाथं समानय शुभं भवेत्

4.81.43

एतस्मिन्नन्तरे ब्रह्मा बोधयित्वा कविं विभुः ।
समानीय निशानाथं तारकासहितं व्रज

4.81.44

शंभोश्च चरणाम्भोजे चकार च समर्पणम् ।
शंभुस्तं प्रीतियुक्तश्च वासयामास वक्षसि

4.81.45

दत्तवा तस्मै पादरेणुं निष्पापं च चकार सः ।
दत्तवा तन्मस्तके हस्तं कृपालुरभयं ददौ

4.81.46

क्षीरोदे स्नापयित्वा च प्रायश्चित्तेन शंकरः ।
चकार चन्द्रं निष्पापं ब्रह्मणा सहितः शुचिम्

4.81.47

योगेन चन्द्रं योगीन्द्रो द्विखण्डं तं चकार सः ।
ररक्षार्धं ललाटे च सोऽप्यर्धं ब्रह्मणः पुरः

4.81.48

अत एव महादेवो बभूव चन्द्रशेखरः ।
मृगाङ्को लज्जितस्तत्र कलङ्कीं देवसंसदि

4.81.49

लज्जया च स्वयोगेन देहत्यागं चकार सः ।
तच्छरीरं च क्षीरोदे ब्रह्मणा च समर्पितम्

4.81.50

रुरोदात्रिश्च कृबया शुचा क्षीरोदधेस्तटे ।
अत्रेश्चक्षुर्जलं तस्य पपात च जले व्रज

4.81.51

तस्माद्बभूव चन्द्रश्च निष्पापो देवसंसदि ।
ब्रह्मा च भगवाञ्छंभुरभिषेकं चकार तम् ॥
उवाच तं महादेवो निर्भयं देवसंसदि

4.81.52

महादेव उवाच
स्वस्थानं गच्छ पुत्र त्वं कुरुष्व विषयं मुदा ।
पश्चात्तस्याश्च शापेनयक्ष्मग्रस्तोभविष्यसि

4.81.53

व्यर्थं पतिव्रताशापं कर्तुमीशश्चको भुवि ।
मदाशिषा यक्ष्मणश्च प्रतीकारो भविष्यति

4.81.54

यस्माद्भाद्रचतुर्थ्यां तु गुरुपत्नीक्षतिः कृता ।
तस्मात्तस्मिन्दिने वत्स पापदृश्यो युगे युगे

4.81.55

नाभुक्तं क्षीयते कर्म कल्पकोटिशतैरपि ।
अवश्यमेव भोक्तव्यं कृतं कर्म शुभाशुभम्

4.81.56

देहत्यागेन हे वत्स कर्मभोगो न नश्यति ।
प्रायश्चित्तान्न संदेहो ङ्यस्तमेव भविष्यति

4.81.57

ताराबहरणावत्स कलङ्कश्चन्द्रमण्डले ।
मृगाकृतिर्विलग्नश्च भविष्यति युगे युगे

4.81.58

शृणु वाक्यमिहाऽऽगच्छ तारके च पतिव्रते ।
सत्यं ब्रूहि कस्य गर्भंत्यक्त्वा शुद्धाभव प्रिये

4.81.59

अकामतो बलात्साध्वी न स्त्री जारेण दुष्यति ।
कामतो नरकं याति यावच्चन्द्रदिवाकरौ

4.81.60

उवाच तारा ब्रह्माणं गर्भं चन्द्रस्य सस्मितम् ।
जहसुर्देवताः सर्वाः शंभुश्च मुनिसंघकाः

4.81.61

ददौ तारां च गुरवे लज्जिताय व्रजेश्वर ।
बृहस्पतिर्ययौ गेहं गृहीत्वा च पतिव्रताम्

4.81.62

तया प्रसूतं पुत्रं च सुन्दरं कनकप्रभम् ।
गृहीत्वाप्रययौ चन्दौनमस्कृत्य विधिं शिवाम्

4.81.63

ययुर्देवाश्च मुनयः शंभुश्च कमलोद्भवः ।
प्रययौ स्वगृहं शुक्रौ दैत्ययुक्तौ मुदाऽन्वितः

4.81.64

एतत्ते कथितं नन्द ह्याख्यानं पुण्यदं शुभम् ।
एतच्छ्रु त्वा तु निष्पापो निष्कलङ्की नरो भवेत्

4.81.65

धन्यं यशस्यमायुष्यं सर्वसंपत्करं परम् ।
शोकापनोदनं हर्षकरं मर्वत्र मङ्गलम्

4.81.66

त्यज शोकं सदा नन्द गृहं व्रज व्रजेश्वर ।
ब्रूहि सर्वं यशोदां च मत्प्रसूं गोपिकागणम्

4.81.67

बोधयिष्यसि सर्वां तां स्त्रीजातिं शोकसंयुताम् ।
सदीयज्ञानदत्तेन हर्षयुक्तः सदा भव

4.81.81

इति श्रीब्रह्मओ महाओ श्रीकृष्णजन्मखओ उत्तओ नारदनाओ ताराहरणं
नामैकाशीतितमोऽध्यायः

मूल पाठ: brahmavaivartapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc