भाषा

ENहिગુ
ग्रंथ पाठ

ब्रह्मवैवर्त पुराण · अध्याय 4.76

4.76.1

अथ षट्सप्ततितमोऽध्यायः
नन्द उवाच
येषां च दर्शने पुण्यं पापं यस्य च दर्शने ।
तत्सर्व वद सर्वेश श्रोतुं कौतूहरं मम

4.76.2

श्रीभगवानुवाच
सुब्राह्मणानां तीर्थानां वैष्णवानां च दर्शने ।
देवताप्रतिमादर्शी तीर्थस्नायी भवेन्नरः

4.76.3

सूर्यस्य दर्शने भक्त्या मतीनां दर्शने तथाः ।
संन्यासिनां यतीनां च तथैव ब्रह्मचारिणाम्

4.76.4

भक्त्या गवां च वह्नीनां गुरूणां च विशेषतः ।
गजेन्द्राणां च सिंहानां श्वेताश्वानां तथैव च

4.76.5

शुकानां च पिकानां च खञ्जनानां तथैव च ।
हंसानां च मयूराणां चाषाणां शङ्खपक्षिणाम्

4.76.6

वत्सप्रयुक्तधेनूनासश्वत्थानां तथैव च ।
पतिपुत्रवतीनां च नराणां तीन्थयायिनाम्

4.76.7

प्रदीपानां सुवर्णानां मणीनां च विशेषतः ।
णुक्तानां हीरकाणां च माणिक्यानां महाशय

4.76.8

तुलसीशुक्लपुष्पाणां दर्शनं पापनाशम् ।
फलानि शुक्लधान्यानि घृतं दधि मधूनि च

4.76.9

पूर्णकुम्भं च लाजांश्च राजेन्द्रं दर्पणं जलम् ।
मालां च शुक्लपुष्पाणां दृष्ट्वा पुण्यं लभेन्नरः

4.76.10

गोरोचनं च कर्पूरं रजतं च सरोवरम् ।
पुष्पोद्यानं पुष्पितां च दृष्ट्वा पुण्यं लभेन्नरः

4.76.11

शुक्लपक्षस्य चन्द्रं च पीयूषं चन्दनं तथा ।
कस्तूरीं कुङ्कुमं दृष्ट्वा नन्द पुण्यं

4.76.12

पताकामक्षयवटं तरुं देवोत्थितं शुभम् ।
देवालयं देवखातं दृष्ट्वा पुण्यं लभेन्नरः

4.76.13

देवाक्षितां देवद्यटं सुगन्धिपवनं तथा ।
शङ्खं च दुंदुभिं दृष्ट्वा सद्यः पुण्यं लभेन्नरः

4.76.14

शुकिंत प्रवालं रजतं स्फटिकं कुशमूलकम् ।
गङ्गामृदं कुशं ताम्रं दृष्ट्वा पुण्यं लभेन्नरः

4.76.15

पुराणपुस्तकं शुद्धं सबीजं विष्णुयन्त्रकम् ।
स्निग्धदूर्वाक्षते रत्नं दृष्ट्वा पुण्यं लभेन्नरः

4.76.16

तपस्विनां सिद्धमन्त्रं मसुद्रं कृष्णसारकम् ।
यज्ञं महोत्सवं दृष्ट्वा स पुण्यं लभते नरः

4.76.17

गोमूत्रं गोमयं दुग्धं गोधूलिं गोष्ठगोष्पदम् ।
पक्वसस्यान्वितं क्षेत्रं दृष्ट्वा पुण्यं लभेद्ध्रुवम्

4.76.18

रुचिरां पद्मिनीं श्यामां न्यग्रोधपरिमण्डलाम् ।
सुवेषकां सुवसनां दिव्यभूषणभूषिताम्

4.76.19

वेश्यां क्षेमकरीं गन्धं सुदूर्वाक्षततण्डुलम् ।
सिद्धान्नं परमान्नं च दृष्ट्वा पुण्यं लभेन्नरः

4.76.20

कान्तिक्यां पूर्णिमायां च राधिकाप्रतिमां शुभाम् ।
संपूज्य दृष्ट्वा नत्वा च करोति जन्मखण्डनम्

4.76.21

हिङ्गुलायां तथाऽष्टम्यामिषे मासि सिते शुभे ।
श्रीदुर्गाप्रतिमां दृष्ट्वा करोति जन्मखण्डनम्

4.76.22

शिवरात्रौ च काश्यां च विश्वनाथस्य दर्शनम् ।
कृत्वोपवासं पूजां च करोति जन्मखण्डनम्

4.76.23

जन्माष्टमीदिने भक्तो दृष्ट्वा मां बिन्दुमाधवम् ।
प्रणम्य पूजां कृत्वा च करोति जन्मखण्डनम्

4.76.24

पौषे मासि शुक्लरात्रौ यत्र यत्र स्थले नरः ।
पद्मायाः प्रतिमां दृष्ट्वा करोति जन्मखण्डनम्

4.76.25

सप्तजन्म भवेत्तस्य पुत्रः पौत्रो धनेश्वरः ।
उपोष्यैकादशीं स्नात्वा प्रभाते द्वादशीदिने

4.76.26

दृष्ट्वा काश्यामन्नपूर्णां करोति जन्मखण्डनम् ।
चैत्रै मासि चतुर्दश्यां कामरूपेषु पुण्यदे

4.76.27

दृष्ट्वा नत्वा भद्रकालीं करोति जन्मखण्डनम् ।
अयोध्यायां च रामं च श्रीरामनवमीदिने

4.76.28

संपूज्य नत्वा दृष्ट्वा च करोति जन्मखण्डनम् ।
उपोष्य पुष्करे स्नात्वा किंवा बदरिकाश्रमे

4.76.29

मंपूज्य दृष्ट्वा मामेकं करोति जन्मखण्डनम् ।
दत्तवा तिष्णुपदे पिण्डं विष्णुं यश्च प्रपूज्येत्

4.76.30

पितणां स्वात्मनश्चैव करोति जन्मखण्डनम् ।
प्रयागे मुण्डनं कृत्वा दानं च कुरुते यदि

4.76.31

उपोष्य नैमिषारण्ये करोति जन्मखण्डनम् ।
सिद्धिं कृत्वा च वदरींभुङ्क्ते बदरिकाश्रमे

4.76.32

दृष्टवा मत्प्रतिमां नन्द करोति जन्मखण्डनम् ।
देलायमानं गोविन्दं पुण्ये वृन्दावने च माम्

4.76.33

दृष्टवा संपूज्य नत्वा च करोति जन्मखण्डनम् ।
भाद्रे दृष्ट्वा च मञ्चस्थं मामेव मधुसूदनम्

4.76.34

संपूज्य नत्वा भक्तश्च करोति जन्मखण्डनम् ।
रथस्थं च जगन्नाथं यो द्रक्ष्यति कलौ नरः ॥
संपूज्य नत्वा भक्त्या च करोति जन्मखण्डनम्

4.76.35

उत्तरायणसंक्रान्त्यां प्रयागे स्नानमाचरेत् ।
संपूज्य नत्वा मामेव करोति जन्मखण्डनम्

4.76.36

कार्तिक्यां पूर्णिमायां च दृष्ट्वा मत्प्रतिमां शुभाम् ।
उपोष्य पूजरं कृत्वा करोति जन्मखण्डनम्

4.76.37

चन्द्रभागासमीपे च माध्यां च मां नमेत्सुधीः ।
राधया सह मां दृष्ट्वा करोति जन्मनः क्षयम्

4.76.38

रामेश्वरं सेतुबन्ध अषाणीपूर्णिमादिने ।
उपेष्य दृष्ट्वा संपूज्य करोति जन्मखण्डनम्

4.76.39

स्वर्गे विद्याधरा रात्रौ नृत्यन्ति च सुहुर्मुहुः।
प्रणामं कर्तुमीशं तं समायाति विभीषणः

4.76.40

गायन्ति किंनरा रात्रौ गन्धर्वाश्च मनोहरम् ।
प्रणामं कर्तुमीशं त समायाति य माधवः

4.76.41

दृष्ट्वा साक्षाद्वसन्तं च सर्वेशं चन्द्रशेखरम् ।
जीवन्मुक्तो भवेदन्ते प्रयाति हरिमन्दिरम्

4.76.42

दीननाथं दिनकरं कोणार्के चोत्तरायणे ।
उपोष्य दृष्ट्वा संपूज्य करोति जन्मखण्डनम्

4.76.43

कृषिकोष्ठे सुवसने कलर्विके वसुंधरे ।
विस्पन्दके राजकोष्ठे नन्दके पुष्पभद्रके

4.76.44

पार्वतीप्रतिमां दृष्ट्वा कार्तिकेयं गणेश्वरम् ।
नन्दिनं शंकरं दृष्ट्वा करोति जन्मनः क्षयम्

4.76.45

उपोष्य प्रातः संपूज्य दृष्ट्वा स्तुत्वा स्तुतौ नतः ।
पारणं च दधि प्राश्य करोति जन्मखण्डनम्

4.76.46

त्रिकूटे मणिभद्रे च पश्चिमोदधिसंनिधौ ।
समुपोष्य दधि प्रश्य मां दृष्ट्वा मुक्तिमाप्नुयात्

4.76.47

प्रतिमासु मदीयासु पार्वतीप्रतिमासु च ।
जीवं संन्यस्य संपूज्य करोति जन्मखण्डनम्

4.76.48

शिवदुर्गालयं कृत्वा मदीयं च विशेषतः ।
शिवसंस्थापनं कृत्वा करोति जन्मखण्डनम्

4.76.49

पुष्पोद्यानं च शंकुं च सेतुं खातं सरोवरम् ।
विप्रसंस्थापनं कृत्वा करोति जन्मखण्डनम्

4.76.50

न च वेदाः पुराणानि ब्रह्मसंस्थापनं फलम् ।
जानन्ति सन्तो मुनयः सुरा विप्रादयः पितः

4.76.51

गण्यन्ते पांसवो भूमेर्गण्यन्ते वृष्टिबिन्दवः ।
न गण्यते विधात्राऽपि विप्रसंस्थापने फलम्

4.76.52

कृत्वोपजींयं विप्रस्य जीवन्मुक्तो भवेन्नरः ।
अचलां श्रीयमाप्नोति परे सुक्तिचतुष्टयम्

4.76.53

मद्दास्यभक्तिं स लभेद्वैकुण्ठे मोदके चिरम् ।
न हि पातो भवेत्तस्य यथा मे परमात्मनः

4.76.54

कुमारीमष्टवर्षोयां सुविप्रय ददाति यः ।
संपूज्य सर्वाभरणां दुर्गादानफलं लभेत्

4.76.55

सर्व स्वर्ग्य समालोक्य ब्रह्मलोकेषु पूजितः ।
लभते मम दास्यं च वैसुण्ठे मोदते चिरम्

4.76.56

विवाहदर्शने कोटिस्वर्णदानफलं लभेत् ।
अन्ते स्वर्गे प्रयात्येवमिहैव निश्चलां श्रियम्

4.76.57

यः सुविप्रमनाथं च दरिद्रं च सुपणण़डितम् ।
दृष्ट्वा कुर्यात्तद्विवाहं स मोक्षं लभते ध्रुवम्

4.76.58

यच्छत्रपादुकादानं शालग्रामस्य योषितः ।
करोति भक्त्या पुण्याहे पृथ्वीदानफलं लभेत्

4.76.59

गजचदाने च तल्लोममानवर्ष श्रुतौ श्रुतम् ।
चतुर्गुणं गजेन्द्रं च मोदते मम मन्दिरे

4.76.60

गजर्ध श्वेततुरगे तदर्ध चेतने पितः ।
गजतुल्यं कृष्णगवां दाने च तत्फलं लभेत्

4.76.61

तत्तुल्यं धेनुदाने च ह्यर्धं सामान्यगोस्तथा ।
लभेद्वत्सप्रसूतानां दाने दाने फलं भुवः

4.76.62

भूमिदाने रेणुमानवर्ष स्थानं च मत्पदे ।
ज्ञानदाने महत्पुण्यं वैकुण्ठे मोदते चिरम्

4.76.63

श्रियं लभेत्स्वर्णदाने राजत्वं रजतेन च ।
अन्नदाने फलं गहं कथं जानामि पै शुतम्

4.76.64

लभते सर्वदानस्य फलं ब्रह्मणभोजने ।
अन्नदानात्परं दानं न भूतं न भविष्यति

4.76.65

नात्र पात्रपरीक्षाऽस्ति न कालनियमः क्वचित् ।
अन्नदाने शुभं पुण्यं दातुः पात्रं त्वपातकी

4.76.66

अन्नदानं च धन्यं स्याद्भूमौ वैकुण्ठहेतुकम् ।
वस्त्रं ददाति विप्रय दरिद्राय कुटुम्बिने

4.76.67

वस्त्रंसूत्रमानवर्ष वैकुण्ठे मोदते चिरम् ।
सुरम्ये चन्द्रलोके च वारुणे च तथैव च

4.76.68

कृत्वा लोहप्रदीपं च स्वर्णवर्तिसमन्वितम् ।
दत्तवा घृतप्रदीपं च हरये परमात्मने

4.76.69

अन्धकारं च न गृहं यमदूतं यमं तथा ।
न हि पश्यति दाता च प्रयाति मम मन्दिरम्

4.76.70

ब्रह्मणाय च दत्तवैव न याति यमयातनाम् ।
दिव्यवर्षसहश्रं च मोदते शक्रमन्दिरे

4.76.71

आसनं लभते स्वर्गे वस्तुमात्रानुरूपतः ।
उत्तमे लक्षवर्षे च तदर्ध चेतरे व्रजेत्

4.76.72

ताम्पूलेन लभेद्भोगं स्वर्गे वर्षशतं व्रजेत् ।
माल्यदाने प्रियं स्वर्ग वस्तुमात्रानुरूपतः

4.76.73

फलदानफलं स्वर्ग लभते नात्र संशयः ।
सामान्यशय्यादानेन स्वर्ग वर्षशतं व्रजेत्

4.76.74

चतुर्गुणं प्रकृष्टायां गुणलक्षं दिलक्षणे ।
अनाथाय सुविप्राय यदि गेहं प्रदीयते

4.76.75

अत्रैव मानवर्ष च शक्रलोके महीयते ।
दृष्ट्वा बुभुक्षितं विप्रमन्नं तस्मै प्रदीयते

4.76.76

अयलां श्रियमाप्नोति पुत्रपौत्रविवर्धिनीम् ।
व्रजनाथ व्रजं गत्वा व्रजभूमौ व्रजाधुना

4.76.77

व्रज भोजय विपांश्च व्रज सर्व व्रजे व्रजे ।
गोकुले गोकुले वत्स वत्स वत्स निराकुले

4.76.78

व्याकुलानां गोकुलानां संकुले च व्रजे व्रजे ।
एतत्ते कथितं नन्द सानन्दं पुण्यवर्धनम् ॥
सुस्वप्नदर्शनं पुण्यं यदि नीचं न वक्ति च

4.76.79

काश्यपं दुर्भगं नीचं शत्रुमज्ञानिनं स्त्रेयम् ।
त्यक्त्वा रात्रिं च दिवसे वक्ति विप्रं मुपण्डितम्

4.76.80

देवालये च देवं वाऽप्यश्वत्थतुलशीवटम् ।
उक्त्वा तद्द्विगुणं पुण्यमप्रकाश्य चतुर्गुणम्

4.76.81

सुस्वप्नदर्शने प्राज्ञो गंगास्नानफलं लभेत् ।
अर्थं वित्तं च भार्या च भूमिं पुत्रं लभेत्प्रजाम्

4.76.82

मोक्षं च परमैश्वर्यं लभते सर्ववाञ्छितम् ।
इत्येवं कथितं तात किं भूयः श्रोतुमिच्छसि

4.76.76

इति श्रीब्रह्मओ महाओ श्रीकृष्णजन्मखओ उत्तओ नारदनाओ भगवन्नन्दसंओ
षट्सप्ततितमोऽध्यायः

मूल पाठ: brahmavaivartapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc