भाषा

ENहिગુ
ग्रंथ पाठ

ब्रह्मवैवर्त पुराण · अध्याय 4.70

4.70.1

अथ सप्ततितमोऽध्यायः
नारायण उवाच
अथाक्रूरः स्वशरणं गत्वा कंसेन प्रेषितः ।
चकार शयनं तल्पे भुक्त्वा मीष्टान्नमुत्तमम्

4.70.2

सकर्पूरं च ताम्बूलं चखाद वासितं जलम् ।
जगाम निद्रां सुखतः सुखसंभोगमात्रतः

4.70.3

ततो ददर्श सुस्वप्नं पुराणश्रुतिसंमतम् ।
निशावशेषसमये बाधादिपरिवर्जितः

4.70.4

अरोगी बद्धकेशश्च वस्त्रयुग्मसमन्वितः ।
सुतल्पशायी सुस्निग्धश्चिन्ताशोकविवर्जितः

4.70.5

किशोरवयसं श्यामं द्विभुजं मुरलीधरम् ।
पीतवस्त्रपरीधानं वनमालाविभूषितम्

4.70.6

चन्दनोक्षितसर्वाङ्गं मालतीमाल्यशोभितम् ।
भूषितं भूषणार्हं च सद्रत्नमणिभूषणैः

4.70.7

मयूरपिच्छचूडं च सस्मितं पद्मलोचनम् ।
एवंभूतं द्विचशिशुं ददर्श प्रथमं मुने

4.70.8

ततो ददर्श रुचिरां पतिपुत्रवतीं सतीम् ।
पीतवस्त्रपरीधानां रत्नभूषणभूषिताम्

4.70.9

ज्वलत्प्रदीपहस्तां च शुक्लधान्यकरां वराम् ।
शरच्चन्द्रनिभास्यां च सस्मितां वरदां शुभाम

4.70.10

ततो ददर्श विप्रं च प्रकुर्वन्तं शुभाशिषम् ।
श्वेतपद्मगतं हंसं तुरगं च सरोवरम्

4.70.11

ददर्श चित्रितं चारु फलितं पुष्पितं शुभम् ।
आम्रनिम्बनारिकेलगुर्वर्ककदलीतरुम्

4.70.12

दशन्तं श्वेतसर्पं च स्वात्मानं पर्वतस्थितम् ।
वृक्षस्थं च गजस्थं च तरिस्थं तुरगस्थितम्

4.70.13

वीणां वादितवन्तं च भुक्तवन्तं च पायसम् ।
दधिक्षीरयुतान्नं च पद्मपत्रस्थमीप्सितम्

4.70.14

कृमिविट्सहिताङ्गं च रुदन्तं मोहितं तदा ।
शुक्लधान्यपुष्पकरं क्षणं चन्दनचर्चितम्

4.70.15

प्रासादस्थं समुद्रस्थमात्मानं च सलोहितम् ।
छिन्नभिन्नं क्षताङ्गं च मेदपूयसमन्वितम्

4.70.16

ततो ददर्श रजतं मणिं शुभ्रं च काञ्चनम् ।
सुक्तामाणिक्यरत्नं च पूर्णकुम्भजलं शुभम्

4.70.17

सुरभिं च सवत्सां च वृषभेन्द्रं मयूरकम् ।
शुकं च सारसं हंसं चिल्लं खञ्जनमेव च

4.70.18

ताम्बूलं पुष्पमाल्यं च ज्वलदग्निं सुरार्चनम् ।
पार्वतीप्रतिमां कृष्णप्रतिमां शिवलिङ्गकम्

4.70.19

विप्रबालां च बालं च सुपक्वफलितां कृषिम् ।
देवस्थलीं च राजेन्द्रं सिंहं व्याघ्रं गुरुं सुरम्

4.70.20

दृष्ट्वा स्वप्नं समुत्तस्थौ चकाराऽऽह्निकमीप्सितम् ।
उद्धवं कथयामास सर्वं वृत्तान्तमेव च

4.70.21

उद्धवाज्ञां समादाय कृत्वा गुरुसुरार्चनम् ।
यात्रां चकार श्रीकृष्णं ध्यात्वा मनसि नारद

4.70.22

ददर्श वर्त्मन्येवं च मङ्गलार्हं शुभप्रदम् ।
वाञ्छाफलप्रदं रम्यं पुरो मङ्गलसूचकम्

4.70.23

वामे शैवं शिवां पूर्णकुम्भं नकुलचाषकम् ।
पतिपुत्रवतीं साध्वीं दिव्याभरणभूषिताम्

4.70.24

शुक्लपुष्पं च माल्यं च धान्यं च खञ्जनं शुभम् ।
दक्षिणे ज्वलदग्रिं च विप्रं च वृषभं गजम्

4.70.25

वत्सप्रयुक्तां धेरुं च श्वेताश्वं राजहंसकम् ।
वेश्यां च पुष्पमालां च पताकां दधि पायसम्

4.70.26

मणिं सुवर्ण रचतं मुक्तामाणिक्यमीप्सितम् ।
मद्यं मांकं चन्दनं च माध्वीकं घृतमुत्तमम्

4.70.27

कृष्णशारं फलं लाजाः सिद्धान्नं दर्पणं तथा ।
विचित्रितं विमानं च सुदीप्तां प्रतिमां तथा

4.70.28

शुक्लोत्पलं पद्मवनं शङ्खचिल्लं च कीरकम् ।
मार्जारं पर्वतं मेघं मयूरं शुकसारसम्

4.70.29

शङ्खकोकिलवाद्यानां ध्वनिं शुश्राव मङ्गलम् ।
विचित्रकृष्णसंगीतं हरिशब्दं जयध्वनिम्

4.70.30

एवंभूतं शुभं दृष्टवा श्रुत्वा प्रहृष्टमानसः ।
प्रविवेश हरिं स्मृत्वा पुण्यं वृन्दावनं वनम्

4.70.31

ददर्श पुरतो रम्यं रासमण्डलमीप्सितम् ।
चन्दनागुरुकस्तूरीपुष्पचन्दनवायुना

4.70.32

वासितं मङ्गलघटै रम्भास्तमभैर्विराजितम् ।
आम्रपल्लवसंघैश्च पट्टसूत्रविचित्रितैः

4.70.33

शोभितैः परितः शश्वत्पद्मरागविनिर्मितम् ।
शोभितं शोभनार्हं च त्रिकोटिरत्नमन्दिरैः

4.70.34

रम्यैः कुञ्जकुटीरैश्च राजितं शतकोटिभिः ।
रासं वृन्दावनं दृष्ट्वा कियद्दूरं ययौ च सः

4.70.35

ददर्श पुरतो रम्यं नन्दव्रजमनुत्तमम् ।
परं वेकुण्ठसंकाशं वैकुण्ठ निलयं शुभम्

4.70.36

रत्नसोपानसंयुक्तं रत्नस्तम्भैर्विराजितम् ।
नानाचित्रविचित्राढ्यं सद्रत्नवलयान्वितम्

4.70.37

खचितं मणिसारेण रचितं विश्वकर्मणा ।
द्वारि दृष्टेन मार्गेण राजद्वारं विवेश सः

4.70.38

पताकारत्नजालाढ्यं सुक्तामाणिक्यभूषितम् ।
रत्नदर्पणशोभाढ्यं रत्नचित्रविचित्रितम्

4.70.39

रत्नविथीविरचितं मङ्गलं मङ्गरैर्घटैः ।
अक्रूरागमनं श्रुत्वा साङ्लादो नन्द एव च

4.70.40

सहितो रामकृष्णाभ्यां जगामानुव्रजाय वै ।
वृषभान्वादिभिर्युक्तः कृत्वा वेश्यां पुरःसरम्

4.70.41

पूर्णकुम्भं गजेन्द्रं च कृत्वाऽग्रे शुक्लधान्यकम् ।
कृष्णां गां मधुपर्कं च पाद्यं रत्नासनादिकम्

4.70.42

गृहीत्वा सादरः शान्तः सस्मितो विनतस्था ।
आनन्दयुक्तो नन्दश्च सगणः सहबालकः

4.70.43

दृष्ट्वाऽक्रूरं महाभागं तूर्णमालिङ्गनं ददौ ।
प्रणेमुः शिरमा सर्वै गोपा जगृहुराशिषम्

4.70.44

परस्परं च संयोगो बभूव गुणत्रान्मुने ।
क्रोडे चकाराक्रूरश्च कृष्णं रामं क्रमेण च

4.70.45

चुचुम्ब गण्डयुगुले पुलकाञ्यितविग्रहः ।
साश्रुनेत्रोऽतिसाह्लादः कृतार्थः सिद्धवाञ्छितः

4.70.46

ददर्श कृष्णं द्विभुजं क्षणं श्यामलसुन्दरम् ।
पीतवस्त्रपरीधानं मालतीमाल्यभूषितम्

4.70.47

चन्दनोक्षितसर्वाङ्गं परं वंशीधरं वरम् ।
स्तुतं ब्रह्मेशशेषाद्यैर्मुनीन्द्रैः सनकादिभिः

4.70.48

वीक्षितं गोपकन्याभिः परिबूर्णतमं विभुम् ।
क्षणं ददर्श क्रोडस्थं सस्मितं च चतुर्भुजम्

4.70.49

लक्ष्मींसरस्वतीयुक्तं वनमालाविभूषितम् ।
सुनन्दनन्दकुमुदैः पार्षदैः परिसेवितम्

4.70.50

सेवितं सिद्धसंघैश्च भक्तिनम्रैः परात्परम् ।
क्षणं ददर्श देवं तं पञ्चवक्त्रं त्रिलोचनम्

4.70.51

शुद्धस्फटिकसंकाशं नागराजैर्विराजितम् ।
दिगम्बरं परं ब्रह्म भस्माङ्गं च जटायुतम्

4.70.52

जपमालाकरं ध्याननिष्ठं श्रेष्ठं च योगिनम् ।
क्षणं चतुर्मुखं ध्याननिष्ठं श्रेष्ठं मनीषिणाम्

4.70.53

क्षणं धर्मस्वरूपं च शेषरुपं क्षणं क्षणम् ।
क्षणं भास्कररूपं च ज्योतीरूपं सनातनम्

4.70.54

क्षणं परमशोभाढ्यं कोटिकन्दर्पनिन्दितम् ।
कामिनीकमनीयं च कामुकं कामसंयुतम्

4.70.55

एवंभूतं शिशुं दृष्ट्वा स्थापयामास वक्षसि ।
रत्नमिंहासने रम्ये नन्ददत्ते च नारद

4.70.56

कृत्वा प्रदक्षिणं भक्त्या पुलकाञ्चितविग्रहः ।
प्रणम्य शिरसा भूमौ तुष्टाव पुरुषोत्तमम्

4.70.57

अक्रूर उवाच
नमः कारणरूपाय परमात्मस्वरूपिणे
सर्वेषामपि विश्वानामीश्वराय नमो नमः ।
पराय प्रकृतेरीश परात्परतराय च

4.70.58

निर्गुणाय निरीहाय नीरूपाय स्वरूपिणे ।
सर्वदेवस्वरूपाय सर्वदेवेश्वराय च

4.70.59

सर्वदेवाधिदेवाय विश्वादिभूतरूपिणे ।
असंश्येषु च विश्वेषु ब्रह्मविष्णुशिवात्मक

4.70.60

स्वरूपायाऽऽदिबीजाय तदीशविश्वरूपिणे ।
नमो गोपाङ्गनेशाय गणेशेश्वररूपिणे

4.70.61

नमः सुरगणेशाय राधेशाय नमो नमः ।
राधारमणरूपाय राधारूपधराय च

4.70.62

राधाराध्याय राधायाः प्राणाधिकतराय च ।
राधासाध्याय राधाधिदेवप्रियतमाय च

4.70.63

राधाप्राणाधिदेवाय विश्वरूपाय ते नमः ।
वेदस्तुतात्मवेदज्ञरूपिणे सर्ववेदिने

4.70.64

वैदाधिष्ठातृदेवाय वेदबीजाय ते नमः ।
यस्य लोमसु विश्वानि चासंख्यानि च नित्यशः

4.70.65

महद्विष्णोरीश्वराय विश्वेशाय नमो नमः ।
स्वयं प्रकृतिरूपाय प्राकृताय नमोओ

4.70.66

प्रकृतीश्वररूपाय प्रधानपुरूषाय च ।
इत्येवं स्तवनं कृत्वा मूर्च्छामाप सभातले

4.70.67

पपात सहसा भूमौ पुनरीशं ददर्श सः ।
बहिःस्थं हृदयस्थं च परमात्मानमीश्वरम्

4.70.68

परितः श्यामरूपं च विश्वस्थं विश्वमेव च ।
अक्रूरं मूर्च्छितं दृष्ट्वा नन्दः सादरपूर्वकम्

4.70.69

रत्नसिंहासने रम्ये वासयामास नारद ।
पप्रच्छ सर्ववृत्तान्तं किंस्विद्दृष्टमिति त्वया

4.70.70

मिष्टान्नं भोजयामाय कुशलं च पुनः पुनः ।
अक्रूरेः कथयामस कंसवृत्तान्तमीप्सितम्

4.70.71

स्वपित्रोर्मोक्षणार्थं च गमनं रामकृष्णयोः ।
इत्यक्रूरकृतं स्तोत्रं यः पठेत्सुसमाहितः

4.70.72

अपुत्रो लभते पुत्रमभार्यों लभते प्रियम् ।
अधनो धनमाप्नोति निर्भूमिरुर्वरां महीम्

4.70.73

हतप्रजः प्रजालाभं प्रतिष्ठां चाप्रतिष्ठितः ।
यशः प्राप्नोति विपुलमयशस्वी च लीलया

4.70.74

अथ सुष्वाप समये परं संहृष्टमानसः ।
रम्ये चम्पकतल्पे च कृष्णं कृत्वा स्ववक्षसि

4.70.75

प्रातरुथाय सहसा कृत्वाऽऽङ्निकमनुत्तमम् ।
स्वरथे स्थापयामास रामं कृष्णं जगत्पतिम्

4.70.76

गव्यं पञ्चप्रकारं च नानाद्रव्यं सुदुल्रभम् ।
वृषभानं च नन्दं च सुनन्दं चन्दभानकम्

4.70.77

नानाप्रकारं वाद्यं च मृदङ्गमुरजादिकम् ।
पटहं पणवं चैव ढक्कां दुंदुभिमानकम्

4.70.78

सज्जां संनहनीं कास्यपट्टमर्दलमण्डवीम् ।
वादयामास सानन्दं नन्दगोपो व्रजेश्वरः

4.70.79

श्रुत्वा वाद्यं च गोप्यश्च गमनं रामकृष्णयोः ।
दृष्ट्वा कृष्णं रथस्थं तमाययुः कोपपीडिताः

4.70.80

कृष्णेन वारिताः सर्वाः प्रेरिता राधाया द्विजः ।
बभञ्जुरीश्वररथं पादाघातेन लीलया

4.70.81

तत्र सर्वेषु गोपेश हाहाकारं कृतेषु च ।
प्रययुर्बलवत्यश्च कृष्णं कृत्वा स्ववक्षसि

4.70.82

काचित्क्रूरं तमक्रूरं भर्त्सयामास कोपतः ।
काश्चिद्वद्ध्वा च वस्त्रेण चाकूरं प्रययुस्ततः

4.70.83

काचित्तं ताडयामास कङ्कणेन करेण च ।
तद्वस्त्रं हारयामास कृत्वा विवसनं मुने

4.70.84

क्षतविक्षतसर्वाङ्गं दृष्ट्वाऽक्रूरं च माधवः ।
जगाम राधानिकटं बोधयामास तां पुनः

4.70.85

आध्यात्मिकेन योगेन विनयेन च सादरम् ।
अक्रूरं बोधयामास वोधयामास तां पुनः

4.70.86

आकाशात्पतितं दिव्यं सन्त्रप्रस्थापितं रथम् ।
विचित्रवस्त्रसंयुक्तं ददर्श पुरतो हरिः

4.70.87

खचितं मणिराजेन रचितं विश्वकर्मणा ।
तं दृष्ट्वा मातृभवनमाजगाम जगत्पतिः

4.70.88

भुक्त्वा पीत्वा सुखं सुप्त्वा भगवान्सहबान्धवः ।
तस्थौ मुनीन्द्रदेवेन्द्रब्रह्मेशशेषवन्दितः

4.70.89

मुषुपुर्गोंपिकाः सर्वाः परं संहृष्टमानसाः ।
पुष्पतल्पे च रम्ये च राधया सह नारद

4.70.90

सर्वे चाऽऽनन्दयुक्ताश्च जना गोकुलवासिनः ।
केचिद्गोपाश्च ननृतुः केचित्संगीततत्पराः

4.70.70

इति शीब्रह्मओ श्रिकृष्णजन्मखओ उत्तओ नारदनाओ गोपीविषयो
नाम सप्ततितमोऽध्यायः

मूल पाठ: brahmavaivartapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc