भाषा

ENहिગુ
ग्रंथ पाठ

ब्रह्मवैवर्त पुराण · अध्याय 4.65

4.65.1

अथ पञ्चषष्टितमोऽध्यायः
नारायम उवाच
कंसस्य वचनं श्रुत्वा सोऽक्रूरो धर्मिणां वरः ।
उवाच चौद्धवं शान्तं शान्तः प्रहृष्टमानसः

4.65.2

अक्रूर उवाच
सुप्रभाताऽद्य रजनी बभूव मे शुभं दिनम् ।
तुष्टाश्च गुरवो विब्रा देवा मामिति निश्चितम्

4.65.3

कोटिजन्मार्जितं पुण्यं मम स्वयमुपस्थितम् ।
बभूव मे समुत्पन्नं यद्यत्कर्म शुभाशुभम्

4.65.4

चिच्छेद बन्धनिगडं मम बद्धस्य कर्मणा ।
कारागाराश्च संसारान्मुक्तो यामि हरेःपदम्

4.65.5

सुहृदर्थो कृतोऽहं च कंसेन विदुषा रुषा ।
वरेण तुल्यो देवस्य क्रोधो मम बभूव ह

4.65.6

व्रजराज समाहर्तुं व्रजं यास्यामि सांप्रतम् ।
द्रक्ष्यामि परमं पूज्यं भुक्तिमुक्तिप्रदायिनम्

4.65.7

नवीनजलदश्यामं नीलेन्दीवरनोचनम् ।
पीतवस्त्रसमायुक्तकटिदेशविराजितम्

4.65.8

धूलिधूसरिताङ्गं च किंवा चन्दनचर्चितम् ।
अथाव नवनीताक्तमङ्गं द्रक्ष्यामि सस्मितम्

4.65.9

किंवा विनोदमुरलीं वादयन्तं मनोहरम् ।
किंवा गवां समूहं च चारजन्तमितस्ततः

4.65.10

किंवा वसन्तं गच्छन्तं शयानं वा सुनिश्चितम् ।
निद्रेशं कीदृशं चाद्य सुदृष्ट्वा च शुभे क्षणो

4.65.11

यत्पादपद्मं ध्यायन्ते ब्रह्मविष्णुशिवादयः ।
न हि जानाति यस्यान्तमनन्तोऽनन्तविग्रहः

4.65.12

यत्प्रभावं न जानन्ति देवाः सन्तश्च संततम् ।
स्य स्तोत्रे जडीभूता भीता देवी सरस्वती

4.65.13

दासीनियुक्ता यद्दास्यो महालक्षमीश्च लक्षीता ।
गङ्मा यस्य पदाम्भोजान्निःसृता सत्तव रूमिणी

4.65.14

जन्ममृत्युजराव्याधिहरा त्रिभुवनात्परा ।
दर्शनस्पर्शनाभ्यां च नृणां पातकनाशिनी

4.65.15

ध्यायते यत्पदाम्भोजं दुर्गा दुर्गविनाशिनी ।
त्रेलोक्यजननी देवी मुलप्रकृतिरीश्वरी

4.65.16

लोम्नां कूपेषु विश्वानि महाविष्णोश्च यस्य च ।
असंख्यानि विचित्राणि स्थूलात्स्थूलतरस्य च

4.65.17

स च यत्षोडशांशश्च यस्य सर्वेश्वरस्य च ।
तं द्रष्टुं यामि हे बन्धो मायामानुषरूपिणम्

4.65.18

सर्व सर्वान्तरात्मानं सर्वज्ञं प्रकृतेः परम् ।
ब्रह्मज्योतिःस्वरूपं च भक्तानुग्रहविग्रहम्

4.65.19

निर्गुणं च निरीहं च निरानन्दं निराश्रयम् ।
परमं परमानन्दं सानन्दं नन्दनन्दनम्

4.65.20

स्वेच्छामयं सर्वपरं सर्वबीजं सनातनम् ।
वदन्ति योगिनः शश्वद्ध्यायन्तेऽहर्निशं शिशुम्

4.65.21

मन्वन्तरसहस्रं च निराहारः कृशोदरः ।
पद्मे पाद्मस्तपस्तेपे पुरा पाद्मं तु यत्कृते

4.65.22

पुनः कुरु तपस्यां च तदा द्रक्ष्यसि मामिति ।
सकृच्छब्दं च शुश्राव न ददर्श तथाऽपि तम्

4.65.23

तावत्कालं पुनस्तप्त्वा वरं प्राप ददर्श तम् ।
ईदृशं परमेशं च द्रक्ष्याम्यद्य तमुद्धव

4.65.24

पुरा शंभुस्तपस्तेपे यावद्वै ब्रह्मणो वयः ।
ज्योतिर्मण्डलमध्ये च गोलोके तं ददर्श सः

4.65.25

सर्वतत्तवं सर्वसिद्धं ममतत्वं परं वरम् ।
संप्राप तत्पदाम्भोजे भक्तिं च निर्मलां पराम्

4.65.26

चकाराऽत्मसमं तं च यो भक्तो(क्तं)भक्तवत्सलः ।
ईदृशं परमेशं च द्रक्ष्याम्यद्य तमुद्धव

4.65.27

सहस्रशक्रपातान्तं निराहारः कृशोदरः ।
यस्यानन्तस्तपस्तेपे भक्त्या च परमात्मनः

4.65.28

तदा चाऽऽत्मसमं ज्ञानंददौ तस्मै य ईश्वाः ।
ईदृशं परमेशं च द्रक्ष्याओ

4.65.29

सहस्रशक्रपातान्तं धर्मस्तेपे च यत्तपः ।
तदा बभूव साक्षी स धर्मिणां सर्वकर्मिणाम्

4.65.30

शास्ता च फलदाता च यत्प्रसादान्नृणामिह ।
सर्वेशमीदृशमहो द्रक्ष्याओ

4.65.31

अष्टाविंशतिरिन्द्राणां पतने यद्दिवानिशम् ।
एवं क्रमेण मासाब्दैः शताब्दं ब्रह्मणो वयः

4.65.32

अहो यस्य निमेषेण ब्रह्मणः पतनं भवेत् ।
ईदृशं परमात्मानं द्रक्ष्याओ

4.65.33

नास्ति भूरजसा संख्या यथैव ब्रह्मणां तथा ।
तथैव बन्धो विश्वानां तदाधारो महाविराट्

4.65.34

विशवे विश्वे च प्रत्येकं ब्रह्म विष्णुशिवादयः ।
मुनयो मनवः मिद्धा मानवाद्याश्चराचराः

4.65.35

यत्षोडशांशः स विराट् सृष्टो नष्टश्च लीलया ।
ईदृशं सर्वशास्तारं द्रक्ष्याओ

4.65.36

इत्योवमुक्त्वाऽक्रूरश्च पुलकाञ्चितविग्रहः ।
मूर्च्छां प्राप साश्रुनेत्रोदध्यो तच्चरणाम्बुजम्

4.65.37

बभूव भक्तिपूर्णश्च स्मारं स्मारं पदाम्बुजम् ।
कृत्वा प्रदक्षिणं वाऽपि कृष्णस्य परमात्मनः

4.65.38

उद्धवश्च तमाश्लिष्य प्रशशंक पुनः पुनः ।
स च शीघ्रं ययौ गेहमकूरोऽपि स्वमन्दिरम्

4.65.65

इति श्रीब्रह्मओ महाओ श्रीकृष्णजन्मखओ उत्तओ नारदनाओ अक्रूरहर्षोत्कर्षकथनं
नाम पञ्चषष्टि,मोऽध्यायः

मूल पाठ: brahmavaivartapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc