ब्रह्मवैवर्त पुराण · अध्याय 4.34
॥ श्रीकृष्ण उवाच ॥ ॥
एतस्मिन्नन्तरे तत्र शंकरः समुपस्थितः ॥
सस्मितो वृषभेन्द्रस्थो विभूतिभूषणः स्वयम्
व्याघ्रचर्माम्बरधरो नागयज्ञोपवीतकः ॥
स्वर्णाकारजटाधारमर्धचन्द्रं च सन्दधत्
त्रिशूलपट्टिशकरो बिभ्रत्खट्वाङ्गमुत्तमम् ॥
सद्रत्नसाररचितस्वरयन्त्रकरो मुदा
वाहनादवरुह्याशु भक्तिनम्रात्मकन्धरः ॥
प्रणम्य कमलाकान्तं वामे चोवास भक्तितः
आजग्मुर्मुनयः सर्वे सुराः शक्रादयस्तथा॥
आदित्या वसवो रुद्रा मनवः सिद्धचारणाः
पुलकाञ्चितसर्वाङ्गास्तुष्टुवुः पुरुषोत्तमम् ॥
प्रणम्य तं शिवं सर्वे सुराश्च नम्रकन्धराः
एतस्मिन्नन्तरे तत्र संगीतं शंकरो जगौ ॥
कृत्वाऽतीव सुतालं च स्वरयन्त्रसमन्वितः
आवयोश्च गुणाख्यानं राससंबन्धि सुन्दरम् ॥
समयोचितरागेण मनोमोहनकारिणा
यत्र कण्ठैकमानेन चैकतानेन चारुणा॥
पदभेदविरामेण गुरुणा लघुना क्रमात्॥
गमकेनातिदीर्घेण मदेन मधुरेण च ॥
भवेऽतिदुर्लभं सृष्टं प्रीत्या स्वेन विनिर्मितम्
पुलकाञ्चितसर्वाङ्गः साश्रुनेत्रः पुनःपुनः ॥
तदेव श्रुतिमात्रेण मूर्च्छां प्रापुर्विचेतनाः
बभूवु रुद्ररूपाश्च मुनयः पुरतः प्रिये ॥
रुद्ररूपाः सुराः सर्वे विधातृहरिपार्षदाः
नारायणश्च लक्ष्मीश्च गायकश्च शिवः स्वयम् ॥
जलपूर्णं च वैकुण्ठं दृष्ट्वा त्रस्तोऽहमीश्वरि
गत्वा मूर्तीर्विनिर्माय सर्वाश्च तादृशीरिति ॥
तत्स्वरूपास्तदस्त्राश्च तत्स्ववाहनभूषणाः
तत्स्वभावास्तन्मनस्कास्तत्तद्विषयमानसाः ॥
स्थानं निर्माय परितो वैकुण्ठस्य चतुर्दिशि
तदधिष्ठातृदेवी च आजगाम स्वमालयम् ॥
शरीरजा सुराणां सा बभूव सुरनिम्नगा
मुक्तिदा च मुमुक्षूणां भक्तानां हरिभक्तिदा ॥
कोटिजन्मार्जितं पापं विविधं पापिनामहो
यस्याश्च स्पर्शवायोश्च संपर्केण विनश्यति ॥
किं वा न जाने प्राणेशि स्पर्शदर्शनयोः फलम्
किमुत स्नानजन्यं च कथयामि निरूपणम् ॥
सर्वतीर्थात्परं पृथ्व्यां पुष्करं परिकीर्तितम्
वेदोक्तं च तदेवास्याः कलां नार्हंति षोडशीम् ॥
भगीरथेन चानीता तेन भागीरथी स्मृता
गामागता स्रोतसोंऽशाद्गङ्गा तेन प्रकीर्तिता ॥
जानुद्वारा पुरा दत्ता जह्नुनाऽऽपीय कोपतः
तस्य कन्यास्वरूपा सा जाह्नवी तेन कीर्तिता ॥
भीष्मः स्वयं वसुर्जातस्तस्यांशात्तेन भीष्मसूः
धाराभिस्तिसृभिः स्वर्गं पृथिवीमतलं तथा ॥
ममाज्ञया च गच्छन्ती तेन त्रिपथगामिनी
प्रधानधारया स्वर्गे सा च मन्दाकिनी स्मृता ॥
योजनायुतविस्तीर्णा प्रस्थे च योजना स्मृता
क्षीरतुल्यजला शश्वदत्युत्तुङ्गतरङ्गिणी ॥
वैकुण्ठाद्ब्रह्मलोकं च ततः स्वर्गं समागता
स्वर्गाद्धिमाद्रिमार्गेण पृथिवीमागता मुदा ॥
सा धाराऽलकनंदाख्या लवणोदेन मिश्रिता ॥
शुद्धस्फटिकसंकाशा बहुवेगवती सती ॥
पापिनां पापशुष्केन्धं दग्धुं पावकरूपिणी
अहो सगरवंशेभ्यो निर्वाणमुक्तिदायिनी ॥
वैकुण्ठगामिगी सा च सोपानरूपिणी वरा
अतोऽपि मृत्युसमये सतां पुण्यस्वरूपिणाम् ॥
आदौ पादौ च संन्यस्य मुखे तोयं प्रदीयते
गङ्गासोपानमारुह्य सन्तो यान्ति निरामयम् ॥
आब्रह्मलोकं संलंघ्य रथस्थाश्च निरापदः ॥
दैवात्पुरा प्राक्तनेन मग्नं चेत्कृतपातकैः ॥
लोमप्रमाणवर्षं च मोदन्ते हरिमन्दिरे
ततो भोगो भवेत्तेषां निश्चितं पापपुण्ययोः ॥
अतिस्वल्पेन कालेन कालव्यूहं च बिभ्रताम्
ततः पुण्यवतां गेहे लब्ध्वा जन्म च भारते ॥
संप्राप्य निश्चलां भक्तिं भवन्ति हरिरूपिणः
मृतद्विजानां देहांश्च दैवाच्छूद्रा वहन्ति चेत् ॥
पदप्रमाणवर्षं च तेषां च नरके स्थितिः
ततस्तेषां च साहाय्यं करोति हरिरूपिणी॥
ददाति मुक्तिं तेभ्योऽपि क्रमेण च कृपामयी
जन्म पुण्यवतां गेहे कारयित्वा च भारते॥
स्थलं ददाति वैकुण्ठे निश्चितं जन्मभिस्त्रिभिः
यात्रां कृत्वा तु यः शुद्धौ स्नातुं याति सुरेश्वरीम् ॥
पदप्रमाणवर्षं च वैकुण्ठे मोदते ध्रुवम्
गङ्गां प्राप्यानुषङ्गेण स्नाति चेत्समलो नरः ॥
मुच्यते सर्वपापेभ्यः पुनर्यदि न लिप्यते
कलौ पञ्च सहस्राब्दं स्थितिस्तस्याश्च भारते ॥
तस्यां च विद्यमानायां कः प्रभावः कलेरहो
कलौ दशसहस्राणि वर्षाणि प्रतिमा मम॥
तिष्ठन्ति च पुराणानि प्रभावस्तत्र कः कलेः
अतलं याति या धारा सा च भोगवती स्मृता ॥
पयःफेननिभा शश्वदतिवेगवती सदा
आकरामूल्यरत्नानां मणीन्द्राणां च संततम् ॥
नागकन्याश्च यत्तीरे क्रीडन्ति स्थिरयौवनाः
स्वयं देवी च वैकुण्ठं वेष्टयित्वा च संततम् ॥
सहस्रयोजना प्रस्थे दैर्घ्ये च लक्षयोजना
अस्या विनाशः प्रलये नास्त्येव दुहितुर्मम ॥
नानारत्नाकरं दिव्यं तत्तीरं सुमनोहरम्
इत्येवं कथितं सर्वं जाह्नवीजन्म पुण्यदम् ॥
ब्रह्मणश्च प्रतीकारो मोहिनीशापता शृणु
इति श्रीब्रह्मवैवर्ते महापुराणे श्रीकृष्णजन्मखण्डे नारायणनारदसंवादे जाह्नवीजन्मप्रस्तावो नाम चतुस्त्रिंशोऽध्यायः॥
मूल पाठ: brahmavaivartapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0