भाषा

ENहिગુ
ग्रंथ पाठ

ब्रह्मवैवर्त पुराण · अध्याय 4.20

4.20.1

4.20
श्रीनारायण उवाच ॥
एकदा बालकैः सार्द्धं बलेन सह माधवः॥
भुक्त्वा पीत्वाऽनुलिप्तश्च वृन्दारण्यं जगाम ह

4.20.2

क्रीडां चकार भगवान्कौतुकेन च तैः सह ॥
क्रीडानि मग्नचित्तानां दूरं तद्गोकुलं ययौ

4.20.3

तस्य प्रभावं विज्ञातुं विधाता जगतां पतिः ॥
चकार निह्नुतिं गाश्च वत्सांश्च बालकानपि

4.20.4

विज्ञाय तदभिप्रायं सर्वज्ञः सर्वकारकः ॥
पुनश्चकार तत्सर्वं योगीन्द्रो योगमायया

4.20.5

जगाम श्रीहरिर्गेहं कालयित्वा च गोकुलम् ॥
बलेन बालकैः सार्धं क्रीडाकौतुकमानसः

4.20.6

एवं चकार भगवान्वर्षमेकं च प्रत्यहम् ॥
यमुनागमनं गोभिर्बलेन सह बालकैः

4.20.7

ब्रह्मा प्रभावं विज्ञाय लज्जानम्रात्मकन्धरः ॥
आजगाम हरेःस्थानं भाण्डीरवटमूलके

4.20.8

ददर्श कृष्णं तत्रैव गोपालगणवेष्टितम् ॥
यथा पार्वणचन्द्रं च विभान्तं स्वगणैः सह

4.20.9

रत्नसिंहासनस्थं च हसन्तं सस्मितं मुदा॥
पीतवस्त्रपरीधानं ज्वलन्तं ब्रह्मतेजसा

4.20.4.20.10

रत्नकेयूरवलयरत्नमञ्जीररञ्जितम्॥
रत्नकुण्डलयुग्माभ्यां स्वकपोलस्थलोज्ज्वलम्

4.20.11

कोटिकन्दर्पलावण्यं लीलाधाममनोहरम् ॥
चन्दनागुरुकस्तूरीकुङ्कुमार्चितविग्रहम्

4.20.12

पारिजातप्रसूनानां मालाजालैर्विभूषितम् ॥
नवीननीरदश्यामं प्रोद्भिन्ननवयौवनम्

4.20.13

मालतीमाल्यसंयुक्तं मयूरपिच्छचूडकम् ॥
स्वाङ्गसौन्दर्यदीप्त्या च कृतभूषणभूषितम्

4.20.14

शरत्पार्वणचन्द्रस्य प्रभामुष्टास्यसुन्दरम् ॥
पक्वबिम्बाधरौष्ठं च खगेन्द्रचञ्चुनासिकम्

4.20.15

शरन्मध्याह्नपद्मानां प्रभामोचनलोचनम्॥
मुक्तापङ्क्तिविनिन्द्यैकदन्तपङ्क्तिमनोहरम्

4.20.16

कौस्तुभेन मणीन्द्रेण वक्षःस्थलसमुज्ज्वलम्॥
शान्तं च राधिकाकान्तं परिपूर्णतमं परम्

4.20.17

एवंभूतं प्रभुं दृष्ट्वा प्रणनामातिविस्मितः॥
दर्शंदर्शमीश्वरं तं प्रणनाम पुनःपुनः

4.20.18

यद्दृष्टं हृदयाम्भोजे तद्रूपं बहिरेव च ॥
या मूर्तिः पुरतो दृष्टा सा पश्चात्परितस्ततः

4.20.19

तत्र वृन्दावने सर्वं दृष्ट्वा कृष्णसमं मुने ॥
ध्यायंध्यायं च तद्रूपं तत्र तस्थौ जगद्गुरुः

4.20.4.20.20

गावो वत्साश्च बालाश्च लतागुल्माश्च वीरुधः ॥
सर्वं वृन्दावनं ब्रह्मा श्यामरूपं ददर्श ह

4.20.21

दृष्ट्वैवं परमाश्चर्यं पुनर्ध्यानं चकार ह ॥
ददर्श त्रिजगद्ब्रह्मा नान्यत्कृष्णं विना मुने

4.20.22

क्व च वृक्षः क्व वा शैलः क्व मही क्व च सागराः ॥
क्व देवाः क्व च गन्धर्वा मुनीन्द्राः क्व च मानवाः

4.20.23

क्व चात्मा क्व जगद्बीजं क्व स्वर्गः क्वायमेव च॥
सर्वं च स्वदृशा ब्रह्मा ददर्श मायया हरेः

4.20.24

क्व कृष्णो जगतां नाथः क्व वा मायाविभूतयः ॥
सर्वं कृष्णमयं दृष्ट्वा किंचिन्निर्वक्तुमक्षमः

4.20.25

किं स्तौमि किं करोमीति मनसैवं प्रगृह्य च ॥
तत्र स्थित्वा जगद्धाता जपं कर्तुं समुद्यतः

4.20.26

सुखं योगासनं कृत्वा बभूव संपुटाञ्जलिः ॥
पुलकाङ्कितसर्वाङ्गः साश्रुनेत्रोऽतिदीनवत्

4.20.27

इडां सुषुम्नां मध्यां च पिङ्गलां नलिनीं धुराम् ॥
नाडीषट्कं च योगेन निबद्ध्य च प्रयत्नतः

4.20.28

मूलाधारं स्वाधिष्ठानं मणिपूरं मनोहरम् ॥
विशुद्धं परमाज्ञाख्यं षट्चक्रं च निबद्ध्य च

4.20.29

लङ्घनं कारयित्वा च तत्षट्चक्रं क्रमाद्विधिः॥
ब्रह्मरन्ध्रं समानीय वायुबन्धं चकार ह

4.20.4.20.30

निबध्य वायुं मध्यां तामानीय हृदयाम्बुजम्॥
तं वायुं भ्रामयित्वा च योजयामास मध्यया

4.20.31

एवं कृत्वा तु निष्पन्दो यो दत्तो हरिणा पुरा ॥
जजाप परमं मन्त्रं तस्यैव च दशाक्षरम्

4.20.32

मुहूर्तं च जपं कृत्वा ध्यायंध्यायं पदाम्बुजम् ॥
ददर्श हृदयाम्भोजे सर्वतेजोमयं मुने

4.20.33

तत्तेजसोऽन्तरे रूपमतीव सुमनोहरम् ॥
द्विभुजं मुरलीहस्तं भूषितं पीतवाससा

4.20.34

श्रुतिमूलस्थलन्यस्तज्वलन्मकरकुण्डलम् ॥
ईषद्धास्यप्रसन्नास्यं भक्तानुग्रहकातरम्

4.20.35

यद्दृष्टं ब्रह्मरन्ध्रे च हृदि तद्बहिरेव च ॥
दृष्ट्वा च परमाश्चर्यं तुष्टाव परमेश्वरम्

4.20.36

यत्स्तोत्रं च पुरा दत्तं हरिणैकार्णवे मुने ॥
तमीशं तेन विधिना भक्तिनम्रात्मकन्धरः

4.20.37

ब्रह्मोवाच ॥
सर्वस्वरूपं सर्वेशं सर्वकारणकारणम् ॥
सर्वानिर्वचनीयं तं नमामि शिवरूपिणम्

4.20.38

नवीनजलदाकारं श्यामसुन्दरविग्रहम् ॥
स्थितं जन्तुषु सर्वेषु निर्लिप्तं साक्षिरूपिणम्

4.20.39

स्वात्मारामं पूर्णकामं जगद्व्यापिजगत्परम् ॥
सर्वस्वरूपं सर्वेषां बीजरूपं सनातनम्

4.20.4.20.40

सर्वाधारं सर्ववरं सर्वशक्तिसमन्वितम् ॥
सर्वाराध्यं सर्वगुरुं सर्वमङ्गलकारणम्

4.20.41

सर्वमंत्रस्वरूपं च सर्वसंपत्करं वरम् ॥
शक्तियुक्तमयुक्तं च स्तौमि स्वेच्छामयं विभुम्

4.20.42

शक्तीशं शक्तिबीजं च शक्तिरूपधरं वरम् ॥
संसारसागरे घोरे शक्तिनौकासमन्वितम्

4.20.43

कृपालुं कर्णधारं च नमामि भक्तवत्सलम् ॥
आत्मस्वरूपमेकांतं लिप्तं निर्लिप्तमेव च

4.20.44

सगुणं निर्गुणं ब्रह्म स्तौमि स्वेच्छास्वरूपिणम्॥
सर्वेन्द्रियादिदेवं तमिन्द्रियालयमेव च

4.20.45

सर्वेन्द्रियस्वरूपं च विराड्रूपं नमाम्यहम् ॥
वेदं च वेदजनकं सर्ववेदाङ्गरूपिणम्

4.20.46

सर्वमन्तस्वरूपं च नमामि परमेश्वरम् ॥
सारात्सारतरं द्रव्यमपूर्वमनिरूपिणम्

4.20.47

स्वतन्त्रमस्वतन्त्रं च यशोदानन्दनं भजे ॥
सन्तं सर्वशरीरेषु तमदृष्टमनूहकम्

4.20.48

ध्यानासाध्यं विद्यमानं योगीन्द्राणां गुरुं भजे ॥
रासमण्डलमध्यस्थं रासोल्लाससमुत्सुकम्

4.20.49

गोपीभिः सेव्यमानं च तं धरेशं नमाम्यहम् ॥
सतां सदैव सन्तं तमसन्तमसतामपि

4.20.4.20.50

योगीशं योगसाध्यं च नमामि शिवसेवितम्॥
मन्त्रबीजं मन्त्रराजं मन्त्रदं फलदं फलम् ॥

4.20.51

मन्त्रसिद्धिस्वरूपं तं नमामि च परात्परम् ॥
सुखं दुःखं च सुखदं दुःखदं पुण्यमेव च

4.20.92

पुण्यप्रदं च शुभदं शुभबीजं नमाम्यहम् ॥
इत्येवं स्तवनं कृत्वा दत्त्वा गाश्च स बालकान्

4.20.53

निपत्य दण्डवद्भूमौ रुरोद प्रणनाम च ॥
ददर्श चक्षुरुन्मील्य विधाता जगतां मुने

4.20.54

ब्रह्मणा च कृतं स्तोत्रं नित्यं भक्त्या च यः पठेत् ॥
इह लोके सुखं भुक्त्वा यात्यन्ते श्रीहरेः पदम्

4.20.55

लभते दास्यमतुलं स्थानमीश्वरसन्निधौ ॥
लब्ध्वा च कृष्णसान्निध्यं पार्षदप्रवरो भवेत्

4.20.56

श्रीनारायण उवाच ॥
गते जगत्कारणे च ब्रह्मलोकं च ब्रह्मणि ॥
श्रीकृष्णो बालकैः सार्धं जगाम स्वालयं विभुः

4.20.57

गावो वत्साश्च बालाश्च जग्मुर्वर्षान्तरे गृहम् ॥
श्रीकृष्णमायया सर्वे मेनिरे ते दिनान्तरम्

4.20.58

गोपा गोपालिका किंचित्तत्कर्तुं न क्षमास्तदा ॥
योगिनः कृत्रिमं सर्वं किं नूत्नं वा पुरातनम्

4.20.59

इत्येवं कथितं सर्वं श्रीकृष्णचरितं शुभम् ॥
सुखदं मोक्षदं पुण्यं सर्वकालसुखावहम्

4.20.20

इति श्रीब्रह्मवैवर्ते महापुराणे श्रीकृष्णजन्मखण्डे नारायणनारदसंवादे गोवत्सबालकहरणप्रस्तावो नाम विंशोऽध्यायः

मूल पाठ: brahmavaivartapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc