भाषा

ENहिગુ
ग्रंथ पाठ

ब्रह्मवैवर्त पुराण · अध्याय 4.128

4.128.1

अथाष्टाविंशत्यधिकशततमोऽध्यायः
नारायण उवाच
श्रीकृष्णश्च समाह्वानं गोपांश्चापि चकार सः।
भाण्डीरे वटमूले च तत्र स्वयमुवास ह

4.128.2

पुराऽन्नं च ददौ तस्मै यत्रैव ब्राह्मणीगणः।
उवास राधिका देवी वामपार्श्वे हरेरपि

4.128.3

दक्षिणे नन्दगोपश्च यशोदासहितस्तथा ।
तद्दक्षिणो वृषभानस्तद्वामे सा कलावती

4.128.4

अन्ये गोपाश्च गोप्यश्च बान्धवाः सुहृदस्तथा ।
तानुवाच स गोविन्दो यथार्थ्यं समयोचितम्

4.128.5

श्रीभगवानुवाच
शृणु नन्द प्रवक्ष्यामि सांप्रतं समयोचितम्।
सत्यं च परमार्थं च परलोकसुखावहम्

4.128.6

आब्रह्मस्तम्बपर्यन्तं भ्रमं सर्वं निशामय।
विद्युद्दीप्तिर्जले रेषा यथा तोयस्य बुद्बुदम्

4.128.7

मथुरायां सर्वमुक्तं नावशेषं च किंचन।
यशोदां बोधयामास राधिका कदलीवने

4.128.8

तदेव सत्यं परमं भ्रमध्वान्तप्रदीपकम्।
विहाय मिथ्यामायां च स्मर तत्परमं पदम्

4.128.9

जन्ममृत्युजराव्याधिहरं हर्षकरं परम्।
शोकसंतापहरणं कर्ममूलनिकृन्तनम्

4.128.10

मामेव परमं ब्रह्म भगवन्तं सनातनम् ।
ध्यायंध्यायं पुत्रबुद्धिं त्यक्त्वा लभ परंपदम्

4.128.11

गोलोकं गच्छ शीघ्रं त्वं सार्धं गोकुलवासिभिः।
आरात्कलेरागमनं कर्ममूलनिकृन्तनम्

4.128.12

स्त्रीपुंसोर्नियमो नास्ति जातीनां च तथैव च ।
विप्रेसन्ध्यादिकंनास्ति चिह्नं यज्ञोपवीतकम्

4.128.13

यज्ञसूत्रं च तिलकं शेषं लुप्तं सुनिश्चितम् ।
दिवाव्यवायनिरतं विरतं धर्मकर्मणि

4.128.14

यज्ञानां च व्रतानां च तपसां लुप्तमेव च।
केदारकन्याशापेनधर्मो नास्त्येव केवलम्

4.128.15

स्वच्छन्दगामिनीस्त्रीर्णा पतिश्च सततं वशे ।
ताडयेत्सततंतं च भर्त्सयेच्छ दिवानिशम्

4.128.16

प्राधान्यं स्त्रीकुटुम्बानां स्त्रीणां च सततं व्रज।
स्वामीचभक्तस्तासां च पराभूतो निरन्तरम्

4.128.17

कलौ च योषितः सर्वा जारसेवासु तत्पराः।
शतपुत्रसमः स्नेहस्तासां जारे भविष्यति

4.128.19

ददाति तस्मै भक्ष्यं च यथा भृत्याय कोपतः।
सस्मिता सकटाक्षा साऽमृतदृष्ट्या निरन्तरम्॥१८।
जारं पश्यति कामेन विषदृष्ट्या पतिं सदा।
सततं गौरवं तासां स्नेहं च जारबान्धवे

4.128.20

पत्यौ करप्रहारं च नित्यं नित्यं करोति च।
मिष्टान्नं श्रद्धया भक्त्या जाराय प्रददाति च

4.128.21

वेषयुक्ता च सततं जारसेवनतत्परा।
प्राणा बन्धुर्गतिश्चाऽऽत्मा कलौ जारश्चयौषिताम्

4.128.22

लुप्ता चातिथिसेवा च प्रलुप्तं विष्णुसेवनम्।
पितृणामर्चनं चैव देवानां च तथैव च

4.128.23

विष्णुवैष्णवयोर्द्वेषी सततं च नरो भवेत्।
वाममन्त्रोपासकाश्च चतुर्वर्णाश्च तत्पराः

4.128.24

शालग्रामं च तुलसीं कुशं गङ्गोदकं तथा।
नस्पृशेन्मानवो धूर्तो म्लेच्छाचाररतः सदा

4.128.25

कारणं कारणानां च सर्वेषां सर्वबीजकम्।
सुखदं मोक्षदं शश्वद्दातारं सर्वसंपदाम्

4.128.26

त्यक्त्वा मां परया भक्त्या क्षुद्रसंपत्प्रदायिनम्।
वेदनिघ्नं वाममन्त्रं जपेद्विप्रश्च मायया

4.128.27

सनातनी विष्णुमाया वञ्चितं तं करिष्यति।
ममाऽऽज्ञयाभगवती जगतां च दुरत्यया

4.128.28

कलेर्दशसहस्राणि मदर्चा भुवि तिष्ठति ।
तदर्धानि च वर्षाणि गङ्गा भुवनपावनी

4.128.29

तुलसी विष्णुभक्ताश्च यावद्गङ्गा च कीर्तनम् ।
पुराणानि च स्वल्पानि तावदेव महीतले

4.128.30

मम चोत्कीर्तनं नास्ति एतदन्ते कलौ व्रज ।
एकवर्णा भविष्यन्तिकिराता बलिनःशठाः

4.128.31

पित्रोः सेवा गुरोः सेवा सेवा च देवविप्रयोः ।
विवर्जिता नराः सर्वे चातिथीनां तथैव च

4.128.32

सस्यहीना भवेत्पृथ्वी साऽनावृष्ट्या निरन्तरम् ।
फलहीनोऽपि वृक्षश्च जलहीना सरित्तथा

4.128.33

वेदहीनो ब्राह्मणश्च बलहीनश्च भूपतिः।
जातिहीनाजनाःसर्वे म्लेच्छोभूपोभविष्यति

4.128.34

भृत्यवत्ताडयेत्तातं पुत्रः शिष्यस्तथा गुरुम् ।
कान्तं च ताडयेत्कान्ता लुब्धकुक्कुटवद्गृही

4.128.35

नश्यन्ति सकला लोकाः कलौ शेषे च पापिनः।
सूर्याणामातपात्केचिज्जलौघेनापि केचन

4.128.36

हे गोपेन्द्र प्रतिकलौ न नश्यति वसुंधरा ।
पुनःसृष्टौ भवेत्सत्यं सत्यबीजं निरन्तरम्

4.128.37

एतस्मिन्नन्तरे विप्र रथमेव मनोहरम् ।
चतुर्योजनविस्तीर्णमूर्ध्वे च पञ्चयोजनम्

4.128.38

शुद्धस्फटिकसंकाशं रत्नेन्द्रसारनिर्मितम्।
अम्लानपारिजातानां मालाजालविराजितम्

4.128.39

मणीनां कौस्तुभानां च भूषणेन विभूषितम् ।
अमूल्यरत्नकलशं हीरहारविलम्बितम्

4.128.40

मनोहरैः परिष्वक्तं सहस्रकोटिमन्दिरैः ।
सहस्रद्वयचक्रं च सहस्रद्वयघोटकम्

4.128.41

सूक्ष्मवस्त्राच्छादितं च गोपीकोटीभिरावृतम् ।
गोलोकादागतं तूर्णं ददृशुः सहसा व्रजे

4.128.42

कृष्णाज्ञया तमारुह्य ययुर्गोलोकमुत्तमम् ।
राधा कलावती देवीधन्या चायोनिसंभवा

4.128.43

गोलोकाद गता गोप्यश्चायोनिसंभवाश्च ताः ।
श्रुतिपत्न्यश्च ताः सर्वाः स्वशरीरेण नारद

4.128.44

सर्वे त्यक्त्वा शरीराणि नश्वराणि सुनिश्चितम् ।
गोलोकं च ययौ राधा सार्घं गोकुलवासिभिः

4.128.45

ददर्श विरजातीर्र नानारत्नविभूषितम् ।
तदुत्तीर्य ययौ विप्र शतशृङ्गं च पर्वतम्

4.128.46

नानामणिगणाकीर्णं रासमण्डलमण्डितम् ।
ततो ययौ कियद्दूरं पुण्यं वृन्दावनं वनम्

4.128.47

सा ददर्शाक्षयवटमूर्ध्वे त्रिशतयोजनम् ।
शतयोजनविस्तीर्णं शाखाकोटिसमावृतम्

4.128.48

रक्तवर्णैः फलौघैश्च स्थूलैरपि विभूषितम् ।
गोपीकोटिसहस्रैश्च सार्धं वृन्दा मनोहरा

4.128.49

अनुव्रजं सादरं च सस्मिता सा समाययौ ।
अवरुङ्य रथात्तूर्णं राधां सा प्रणनाम च

4.128.50

रासेश्वरीं तां संभाष्य प्रविवेश स्वमालयम् ।
रत्नसिंहासने रम्ये हीरहारसमन्विते

4.128.51

वृन्दा तां वासयामास पादसेवनतत्परा ।
सप्तभिश्च सखीभिश्च सेवितां श्वेतचामरैः

4.128.52

आययुर्गोपिकाः सर्वा द्रष्टुं तां परमेश्वरीम् ।
नन्दादिकं प्रकल्प्यैतद्राधा वासं पृथकपृथक्

4.128.53

परमानन्दरूपा सा परमानन्दपूर्वकम् ।
स्ववेश्मनि महारम्ये प्रतस्थे गोपिका सह

4.128.128

इति श्रीब्रह्मवैवर्त महापुराण श्रीकृष्णजन्मखण्ड उत्तरार्द्ध नारदनारायणो संवाद
भांडीरवने व्रजजनसमक्षं नन्दं बोधयता कृष्णेन कलिदोषाणां निरूपणम्, अकस्मात्प्राप्तेनाद्भुतरथेन राधादिसर्वगोपीनां गोलोके गमनं च
अष्टाविंशत्यधिकशततमोऽध्यायः

मूल पाठ: brahmavaivartapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc