ब्रह्मवैवर्त पुराण · अध्याय 4.110
अथ दशाधिकशततमोऽध्यायः
नारायण उवाच
आगतेषु गतेष्वेवं साङ्गे मङ्गलकर्मणि ।
नन्दो यशोदया सार्ध पुत्राभ्याशं समाययौ
यशोदोवाच
ज्ञानं च भवता दत्तं पित्रे नन्दाय माधव ।
मां चापि मातरं वत्स कृपां कुरु कृपानिधे
मामुद्धर महाभाग धरोद्धारणकारण ।
भवाब्धितरणे भीमौ भीतां च पतितामपि
मायामयी सा प्रकृतिर्भवाब्धितरणे तरिः ।
त्वमेव कर्णधारश्च भक्तोत्तीर्णे कृपामय
यशोदावचनं श्रुत्वा जहास पुरुषोत्तमः ।
उवाच मातरं भक्त्या ज्ञानिनां च गुरोर्गुरुः
श्रीभगवानुवाच
ज्ञानं योगात्मकं मातर्ज्ञानं च विषयात्मकम् ।
ज्ञानं भक्त्यात्मकं श्रेष्ठं मद्दास्यकारणं शुभम्
ज्ञानं पञ्चविधं प्रोक्तं सर्ववेदेषु संमतम् ।
भक्त्यात्मकं सर्वपरं तेषां च लक्षणं शृणु
क्षुत्पिपासादिकानां च खण्डनं स्वान्तशोधनम् ।
नाडीनां शोधनं चैव चक्राणामपि भेदनम्
शक्तिकुण्डलिनीयुक्तमीश्वरं चिन्तयेत्ततः ।
इन्द्रियाणां च दमनं लौभादीनां च वर्जनम्
मूलाधारं स्वधिष्ठानं मणिपूरमनाहतम् ।
विशुद्धं च तथा ज्ञाख्यं चक्रषट्कं प्रकीर्तितम्
नारीणामपि दुर्बोधं मुर्खाणां च विशेषतः ।
ज्ञानं योगात्मकं साध्वि सिद्धानां साध्यमीप्सितम्
जन्तूनामपि सर्वेषां ज्ञानं स्वविषये तथा ।
सन्तः सर्वे विजानन्ति स्वेच्छया च मदीयया
सिद्ध्यात्मकं च सिद्धानां नियुक्तं सर्वकर्मसु ।
चतुस्त्रिंशत्सु सिद्धानां साधनं बोधनं तथा
ज्ञानं मौक्षात्मकं सिद्धं परं निर्वाणकारणम् ।
निवृत्तिमार्गमारूढं भक्तस्तत्रैव वाञ्छति
भक्त्यात्मकं च यज्ज्ञानं तुभ्यं राधा प्रदास्यति ।
तस्यां च मानवं भावं त्यक्त्वा ज्ञानं करिष्यति
नन्दाय दत्तं यज्ज्ञानं तच्च तुभ्यं प्रदास्यति ।
गच्छ नन्दव्रजं मातर्नन्देन सह सादरम्
इत्युक्त्वा विनयं कृत्वा जगामाभ्यन्तरं हरिः ।
नन्दो यशोदया सार्धं प्रययौ कदलीवनम्
ददर्श राधां तत्रैव निद्रितां त्यक्तभूषणम् ।
दधानां शुक्लवस्त्रं च निराहारां कृशोदरीम्
पङ्कस्थे पङ्कजदले सजले चन्दनार्चिते ।
शयानां शुष्कितौष्ठीं च साश्रुनेत्रां च मूर्च्छिताम्
ध्यायमानां पदाम्भोजं कृष्णस्य परमात्मनः ।
बाह्यज्ञानपरित्यक्तां तन्नि विष्टैकमानसाम्
पश्यन्तीं सस्मितं कान्तं पश्यन्तीं तन्मुखाम्बुजम् ।
हसन्तीं च रुदन्तीं च स्वप्ने कान्तसमीपतः
सखीभिः परितः शश्वत्सेवितां श्चेतचामरैः ।
दिवानिशं रक्षितां च गोपीभिः शतकोटिभिः
सावधानपराभिश्च वेत्रहस्ताभिरीश्वरीम् ।
सप्तद्वारेषु युक्ताभिः परितः प्राङ्गणेषु च
तां दृष्ट्वा विस्मयं प्राप्य सभार्यो नन्द एव च ।
ननाम परया भक्त्या दण्डवत्प्रणिपत्य च
निद्रां त्याक्त्वा च सहसा बुबुधे सेश्वरेच्छया ।
क्षणेन चेतनां प्राप विषयज्ञानवर्चिताम्
पुरतो दंपती दृष्ट्वा पप्रच्छ सादरं सती ।
उवाच मधुरं चैवं तत्रैव सखिसंसदि
राधिकोवाच
कस्त्वं चात्र समायातो ब्रूहि वा किं प्रयोजनम् ।
न च मे विषयज्ञानं न जानामि नरं पशुम्
किं जलं वा स्थलं किंवा नक्तं तिनं श्रुणु ।
स्त्रियं पुमांसं क्लीबं वा नाहं जानामि भेदाकम्
राधिकावचनं श्रुत्वा नन्दश्च विस्मयं ययौ ।
भीता यशोदा निकटं गोपीसंभाषिता ययौ
उवास निकटे तस्याः समुवाच प्रियं वचः ।
उवास तत्र नन्दश्च गोपीदत्तासनेन च
यशोदोवाच
चेतनं कुरु राधे त्वमात्मानं रक्ष यत्नतः ।
द्रक्ष्यसि प्राणनाथं च संप्राप्ते मङ्गले दिने
त्वत्तो विश्वं पवित्रं च स्वकुलं च सुरेश्वरि ।
गोप्यश्च पुण्यवत्यश्च त्वत्पादाम्बुजसेवया
लोका गास्यन्ति त्वत्कीर्तितीर्थपूतां सुमङ्गलाम् ।
सन्तो वेदाश्च चत्वारः पुराणानि पुरातनीम्
अहं यशोदा नन्दोऽयं बुद्धिरूपे निबोध माम् ।
वृषभानसुता त्वं च मां निशामय सुव्रते
द्वारकानगराद्भद्रे श्रीकृष्णसंनिधानतः ।
तवान्तिकमागताऽहं प्रेरिता हरिणा सति
शृणु मङ्गलवार्तां च मङ्गलं च गदाभृतः ।
आराद्द्रक्ष्यसि कृष्णं तं हे देवि चेतनं कुरु
भक्त्या त्मकं परिज्ञानं देहि मह्यं च सांप्रतम् ।
त्वद्भर्तुरुपदेशेन त्वत्समीपं समागतौ
पश्चदायास्यति हरिस्त्वां मुहूर्तं वरानने ।
भविष्यत्यचिरेणैव श्रीदाम्नः शापमोचनम्
यशोदावचनं श्रुत्वा वार्तां प्राप्य गदाभृतः ।
श्रीकृष्णनामस्मरणाद्दूरिभूतममङ्गलम्
संप्राप चेतनं राधा संभाव्य कृष्णमातरम् ।
उवाच मधुरं शान्ता लौकिकीं भक्तिमुत्तमाम्
इति श्रीब्रह्मओ महाओ श्रीकृष्णजन्मखओ उत्तओ नारदनाओ राधायशोदासंओ दशाधिकशततमोऽध्यायः
मूल पाठ: brahmavaivartapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0