भाषा

ENहिગુ
ग्रंथ पाठ

ब्रह्मवैवर्त पुराण · अध्याय 3.45

3.45.1

नारायण उवाच ॥
पार्वतीं बोधयित्वा तु विष्णू राममुवाच ह ॥
हितं सारं नीतिसारं परिणामसुखावहम्

3.45.2

विष्णुरुवाच ॥
राम त्वमधुना सत्यमपराधी श्रुतेर्म्मते ॥
कोपात्कृत्वा दन्तभङ्गं गणेशस्य स्थितोऽशिवे

3.45.3

स्तोत्रेणैव मयोक्तेन स्तुत्वा गणपतिं परम् ॥
काण्वशाखोक्तविधिना स्तुहि दुर्गां जगत्प्रसूम्

3.45.4

श्रीकृष्णस्य परा शक्तिर्बुद्धिरूपा जगत्प्रभोः ॥
अस्यां च तव रुष्टायां हता बुद्धिर्भविष्यति

3.45.5

सर्वशक्तिस्वरूपेयमनया शक्तिमज्जगत्॥
अनया शक्तिमान्कृष्णो निर्गुणः प्रकृतेः परः

3.45.6

सृष्टिं कर्तुं न शक्तश्च ब्रह्मा शक्त्याऽनया विना ॥
वयमस्यां प्रसूताश्च ब्रह्मविष्णुमहेश्वराः

3.45.7

सुरसंघेऽसुरग्रस्ते काले घोरतरे द्विज ॥
तेजस्तु सर्वदेवानामाविर्भूता पुरा सती

3.45.8

कृष्णाज्ञयाऽसुरान्हत्वा दत्त्वा तेभ्यः पदं ततः ॥
दक्षपत्न्यां जनिं लेभे दक्षस्य तपसा पुरा

3.45.9

भार्य्या भूत्वा शंकरस्य पुनः पत्युश्च निन्दया ॥
देहं त्यक्त्वा शैलपत्न्यां जनिं लेभे पुरा सती

3.45.3.45.10

शंकरस्तपसा लब्धो योगीन्द्राणां गुरोर्गुरुः ॥
लब्धो गणपतिः पुत्रः कृष्णांशः कृष्णसेवया

3.45.11

यं ध्यायस्येव नित्यं किं तं न जानासि बालक ॥
स एव भगवान्कृष्णश्चांशेन गिरिजासुतः

3.45.12

कृताञ्जलिर्नतो भूत्वा स्तुहि दुर्गां शिवप्रियाम् ॥
शिवां शिवप्रदां शैवां शिवबीजां शिवेश्वरीम्

3.45.13

शिवायाः स्तोत्रराजेन पुरा शूलिकृतेन वै ॥
त्रिपुरस्य वधे घोरे ब्रह्मणा प्रेरितेन च

3.45.14

इत्युक्त्वा श्रीपदं शीघ्रं जगाम श्रीनिकेतनम् ॥
गते हरौ हरिं स्मृत्वा रामस्तां स्तोतुमुद्यतः

3.45.15

स्तोत्रेण विष्णुदत्तेन सर्वविघ्नहरेण च ॥
धर्म्मार्थकाममोक्षाणां कारणेन च नारद

3.45.16

कृताञ्जलिपुटो भूत्वा स्नात्वा गङ्गोदके शुभे ॥
गुरुं प्रणम्य भक्तेशं धृत्वा धौते च वाससी

3.45.17

आचम्य नत्वा मूर्ध्ना तां भक्तिनम्रात्मकन्धरः ॥
पुलकाञ्चितसर्वांगश्चानन्दाश्रुसमन्वितः

3.45.18

परशुराम उवाच ॥
श्रीकृष्णस्य च गोलोके परिपूर्णतमस्य च ॥
आविर्भूता विग्रहतः पुरा सृष्ट्युन्मुखस्य च

3.45.19

सूर्य्यकोटिप्रभायुक्ता वस्त्रालङ्कारभूषिता ॥
वह्निशुद्धांशुकाधाना सस्मिता सुमनोहरा

3.45.3.45.20

नवयौवनसम्पन्ना सिन्दूरारुण्यशोभिता ॥
ललितं कबरीभारं मालतीमाल्यमण्डितम्

3.45.21

अहोऽनिर्वचनीया त्वं चारुमूर्त्तिं च बिभ्रती ॥
मोक्षप्रदा मुमुक्षूणां महाविष्णोर्विधिः स्वयम्

3.45.22

मुमोह क्षणमात्रेण दृष्ट्वा त्वां सर्वमोहिनीम् ॥
बालैस्संभूय सहसा सस्मिता धाविता पुरा

3.45.23

सद्भिः ख्याता तेन राधा मूलप्रकृतिरीश्वरी ॥
कृष्णस्तां सहसा भीतो वीर्य्याधानं चकार ह

3.45.24

ततो डिम्भं महज्जज्ञे ततो जातो महाविराट् ॥
यस्यैव लोमकूपेषु ब्रह्माण्डान्यखिलानि च

3.45.25

राधारतिक्रमेणैव तन्निश्वासो बभूव ह ॥
स निश्श्वासो महावायुः स विराड् विश्वधारकः

3.45.26

भयघर्म्मजलेनैव पुप्लुवे विश्वगोलकम् ॥
स विराड् विश्वनिलयो जलराशिर्बभूव ह

3.45.27

ततस्त्वं पञ्चधाभूय पञ्च मूर्तीश्च बिभ्रती॥
प्राणाधिष्ठातृमूर्तिर्या कृष्णस्य परमात्मनः ॥
कृष्णप्राणाधिकां राधां तां वदन्ति पुराविदः

3.45.28

वेदाधिष्ठातृमूर्तिर्या वेदशास्त्रप्रसूरपि ॥
तां सावित्रीं शुद्धरूपां प्रवदन्ति मनीषिणः

3.45.29

ऐश्वर्य्याधिष्ठातृमूर्तिः शान्तिस्त्वं शान्तरूपिणी ॥
लक्ष्मीं वदन्ति सन्तस्तां शुद्धां सत्त्वस्वरूपिणीम्

3.45.3.45.30

रागाधिष्ठातृदेवी या शुक्लमूर्तिस्सतां प्रसूः ॥
सरस्वतीं तां शास्त्रज्ञां शास्त्रज्ञाः प्रवदन्त्यहो

3.45.31

बुद्धिर्विद्या सर्वशक्तेर्या मूर्तिरधिदेवता ॥
सर्वमङ्गलमङ्गल्या सर्वमङ्गलरूपिणी

3.45.32

सर्वमङ्गलबीजस्य शिवस्य निलयेऽधुना

3.45.33

शिवे शिवास्वरूपा त्वं लक्ष्मीर्नारायणान्तिके ॥
सरस्वती च सावित्री वेदसूर्ब्रह्मणः प्रिया

3.45.34

राधा रासेश्वरस्यैव परिपूर्णतमस्य च ॥
परमानन्दरूपस्य परमानन्दरूपिणी

3.45.35

त्वत्कलांशांशकलया देवानामपि योषितः

3.45.36

त्वं विद्या योषितः सर्वास्सर्वेषां बीजरूपिणी ॥
छाया सूर्य्यस्य चन्द्रस्य रोहिणी सर्व मोहिनी

3.45.37

शची शक्रस्य कामस्य कामिनी रतिरीश्वरी॥
वरुणानी जलेशस्य वायोः स्त्री प्राणवल्लभा

3.45.38

वह्नेः प्रिया हि स्वाहा च कुबेरस्य च सुन्दरी॥
यमस्य तु सुशीला च नैरृतस्य च कैटभी

3.45.39

ऐशानी स्याच्छशिकला शतरूपा मनोः प्रिया॥
देवहूतिः कर्दमस्य वसिष्ठस्याप्यरुन्धती

3.45.3.45.40

लोपामुद्राऽप्यगस्त्यस्य देवमाताऽदितिस्तथा ॥
अहल्या गौतमस्यापि सर्वाधारा वसुन्धरा

3.45.41

गङ्गा च तुलसी चापि पृथिव्यां या सरिद्वरा ॥
एताः सर्वाश्च या ह्यन्या सर्वास्त्वत्कलयाऽम्बिके

3.45.42

गृहलक्ष्मी गृहे नॄणां राजलक्ष्मीश्च राजसु ॥
तपस्विनां तपस्या त्वं गायत्री ब्राह्मणस्य च

3.45.43

सतां सत्त्वस्वरूपा त्वमसतां कलहाङ्कुरा ॥
ज्योतीरूपा निर्गुणस्य शक्तिस्त्वं सगुणस्य च

3.45.44

सूर्य्ये प्रभास्वरूपा त्वं दाहिका च हुताशने ॥
जले शैत्यस्वरूपा च शोभारूपा निशाकरे

3.45.45

त्वं भूमौ गन्धरूपा चाप्याकाशे शब्दरूपिणी ॥
क्षुत्पिपासादयस्त्वं च जीविनां सर्वशक्तयः

3.45.46

सर्वबीजस्वरूपा त्वं संसारे साररूपिणी ॥
स्मृतिर्मेधा च बुद्धिर्वा ज्ञानशक्तिर्विपश्चिताम्

3.45.47

कृष्णेन विद्या या दत्ता सर्वज्ञान प्रसूः शुभा ॥
शूलिने कृपया सा त्वं यया मृत्युञ्जयः शिवः

3.45.48

सृष्टिपालनसंहारशक्तयस्त्रिविधाश्च याः ॥
ब्रह्मविष्णुमहेशानां सा त्वमेव नमोऽस्तु ते

3.45.49

मधुकैटभभीत्या च त्रस्तो धाता प्रकम्पितः ॥
स्तुत्वा मुक्तश्च यां देवीं तां मूर्ध्ना प्रणमाम्यहम्

3.45.3.45.50

मधुकैटभयोर्युद्धे त्राताऽसौ विष्णुरीश्वरीम् ॥
बभूव शक्तिमान्स्तुत्वा त्वां दुर्गां प्रणमाम्यहम्

3.45.51

त्रिपुरस्य महायुद्धे सरथे पतिते शिवे ॥
यां तुष्टुवुः सुराः सर्वे तां दुर्गां प्रणमाम्यहम्

3.45.52

विष्णुना वृषरूपेण स्वयं शम्भुः समुत्थितः ॥
जघान त्रिपुरं स्तुत्वा तां दुर्गां प्रणमाम्यहम्

3.45.53

यदाज्ञया वाति वातः सूर्यस्तपति सन्ततम् ॥
वर्षतीन्द्रो दहत्यग्निस्तां दुर्गां प्रणमाम्यहम्

3.45.54

यदाज्ञया हि कालश्च शश्वद्भ्रमति वेगतः ॥
मृत्युश्चरति जन्तूनां तां दुर्गां प्रणमाम्यहम्॥

3.45.55

स्रष्टा सृजति सृष्टिं च पाता पाति यदाज्ञया ॥
संहर्त्ता संहरेत्काले तां दुर्गां प्रणमाम्यहम्

3.45.56

ज्योतिस्स्वरूपो भगवाञ्छ्रीकृष्णो निर्गुणः स्वयम् ॥
यया विना न शक्तश्च सृष्टिं कर्तुं नमामि ताम्

3.45.57

रक्ष रक्ष जगन्मातरपराधं क्षमस्व मे ॥
शिशूनामपराधेन कुतो माता हि कुप्यति

3.45.58

उक्त्वा परशुरामश्चेति नत्वा तां रुरोद ह ॥
तुष्टा दुर्गा संभ्रमेण चाभयं च वरं ददौ

3.45.59

अमरो भव हे पुत्र वत्स सुस्थिरतां व्रज ॥
सर्वप्रसादात्सर्वत्र जयोऽस्तु तव सन्ततम्

3.45.3.45.60

सर्वान्तरात्मा भगवांस्तुष्टस्स्यात्सन्ततं हरिः ॥
भक्तिर्भवतु ते कृष्णे शिवदे च शिवे गुरौ

3.45.61

इष्टदेवे गुरौ यस्य भक्तिर्भवति शाश्वती ॥
तं हन्तुं नहि शक्ता वा रुष्टा वा सर्वदेवताः

3.45.62

श्रीकृष्णस्य च भक्तस्त्वं शिष्यो वै शंकरस्य च ॥
गुरुपत्नीं स्तौषि यस्मात्कस्त्वां हन्तुमिहेश्वरः

3.45.63

अहो न कृष्णभक्तानामशुभं विद्यते क्वचित् ॥
अन्यदेवेषु ये भक्ता न भक्ता वा निरङ्कुशाः

3.45.64

चन्द्रमा बलवांस्तुष्टो येषां भाग्यवतां भृगो ॥
तेषां तारागणा रुष्टाः किं कुर्वंति च दुर्बलाः

3.45.65

यस्मै तुष्टः पालयति नरदेवो महान्सुखी ॥
तस्य किं वा करिष्यन्ति रुष्टा भृत्याश्च दुर्बलाः

3.45.66

इत्युक्त्वा पार्वती तुष्टा दत्त्वा रामाय चाशिषम् ॥
जगामान्तःपुरं तूर्णं हर्षशब्दो बभूव ह

3.45.67

स्तोत्रं वै काण्वशाखोक्तं पूजाकाले च यः पठेत् ॥
यात्राकाले तथा प्रातर्वाच्छितार्थं लभेद्ध्रुवम्

3.45.68

पुत्रार्थी लभते पुत्रं कन्यार्थी कन्यकां लभेत् ॥
विद्यार्थी लभते विद्यां प्रजार्थी चाप्नुयात्प्रजाः ॥
भ्रष्टराज्यो लभेद्राज्यं नष्टवित्तो धनं लभेत्

3.45.69

यस्य रुष्टो गुरुर्देवो राजा वा बान्धवोऽथवा ॥
तस्मै तुष्टश्च वरदः स्तोत्रराजप्रसादतः

3.45.3.45.70

दस्युग्रस्तः फणिग्रस्तश्शत्रुग्रस्तो भयानकः ॥
व्याधिग्रस्तो भवेन्मुक्तः स्तोत्रस्मरणमात्रतः ॥

3.45.71

राजद्वारे श्मशाने च कारागारे च बन्धने ॥
जलराशौ निमग्नश्च मुक्तस्तत्स्मृतिमात्रतः

3.45.72

स्वामिभेदे पुत्रभेदे मित्रभेदे च दारुणे ॥
स्तोत्रस्मरणमात्रेण वाञ्छितार्थं लभेद्ध्रुवम्

3.45.73

कृत्वा हविष्यं वर्षं च स्तोत्रराजं शृणोति या ॥
भक्त्या दुर्गां च सम्पूज्य महावन्ध्या प्रसूयते

3.45.74

लभते सा दिव्यपुत्रं ज्ञानिनं चिरजीविनम् ॥
असौभाग्या च सौभाग्यं षण्मासश्रवणाल्लभेत्

3.45.72

नवमासं काकवन्ध्या मृतवत्सा च भक्तितः ॥
स्तोत्रराजं या शृणोति सा पुत्रं लभते ध्रुवम्

3.45.76

कन्यामाता पुत्रहीना पञ्चमासं शृणोति या ॥
घटे सम्पूज्य दुर्गां च सा पुत्रं लभते ध्रुवम्

3.45.45

इति श्रीब्रह्मवैवर्त्ते महापुराणे तृतीये गणपतिखण्डे नारदनारायणसंवादे परशुरामकृतदुर्गास्तोत्रं नाम पञ्चचत्वारिंशत्तमोऽध्यायः

मूल पाठ: brahmavaivartapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc