भाषा

ENहिગુ
ग्रंथ पाठ

ब्रह्मवैवर्त पुराण · अध्याय 3.39

3.39.1

नारद उवाच ॥
कवचं कथितं ब्रह्मन्पद्मायाश्च मनोहरम् ॥
परं दुर्गतिनाशिन्याः कवचं कथय प्रभो

3.39.2

पद्माक्षप्राणतुल्यं च जीवनं बलकारणम् ॥
कवचानां च यत्सारं दुर्गासेवनकारणम्

3.39.3

नारायण उवाच ॥
शृणु नारद वक्ष्यामि दुर्गायाः कववं शुभम् ॥
श्रीकृष्णेनैव यद्दत्तं गोलोके ब्रह्मणे पुरा

3.39.4

ब्रह्मा त्रिपुरसंग्रामे शंकराय ददौ पुरा ॥
जघान त्रिपुरं रुद्रो यद्धृत्वा भक्तिपूर्वकम्

3.39.5

हरो ददौ गौतमाय पद्माक्षाय च गौतमः ॥
यतो बभूव पद्माक्षः सप्तद्वीपेश्वरो जयी

3.39.6

यद्धृत्वा पठनाद्ब्रह्मा ज्ञानवाञ्छक्तिमान्भुवि ॥
शिवो बभूव सर्वज्ञो योगिनां च गुरुर्यतः ॥
शिवतुल्यो गौतमश्च बभूव मुनिसत्तमः

3.39.7

ब्रह्माण्डविजयस्यास्य कवचस्य प्रजापतिः ॥
ऋषिश्छन्दश्च गायत्री देवी दुर्गतिनाशिनी

3.39.8

ब्रह्माण्डविजये चैव विनियोगः प्रकीर्त्तितः ॥
पुण्यतीर्थं च महतां कवचं परमाद्भुतम्

3.39.9

ॐ ह्रीं दुर्गतिनाशिन्यै स्वाहा मे पातु मस्तकम् ॥
ॐ ह्रीं मे पातु कपालं चाप्यों ह्रीं श्रीं पातु लोचने

3.39.3.39.10

पातु मे कर्णयुग्मं चाप्यों दुर्गायै नमः सदा॥
ॐ ह्रीं श्रीमिति नासां मे सदा पातु च सर्वतः

3.39.11

ह्रीं श्रीं क्रूमिति दन्तांश्च पातु क्लीमोष्ठयुग्मकम्॥
क्लीं क्लीं क्लीं पातु कण्ठं च दुर्गे रक्षतु गण्डके

3.39.12

स्कन्धं महाकालि दुर्गे स्वाहा पातु निरन्तरम् ॥
वक्षो विपद्विनाशिन्यै स्वाहा मे पातु सर्वतः

3.39.13

दुर्गे दुर्गे रक्ष पार्श्वौ स्वाहा नाभिं सदाऽवतु॥
दुर्गे दुर्गे देहि रक्षां पृष्ठं मे पातु सर्वतः

3.39.14

ॐ ह्रीं दुर्गायै स्वाहा च हस्तौ पादौ सदाऽवतु ॥
ॐ ह्रीं दुर्गायै स्वाहा च सर्वांगं मे सदाऽवतु

3.39.15

प्राच्यां पातु महामाया चाग्नेय्यां पातु कालिका ॥
दक्षिणे दक्षकन्या च नैरृत्यां शिवसुन्दरी

3.39.16

पश्चिमे पार्वती पातु वाराही वारुणे सदा ॥
कुबेरमाता कौबेर्य्यामैशान्यामीश्वरी सदा

3.39.17

ऊर्ध्वं नारायणी पातु त्वम्बिकाऽधः सदाऽवतु ॥
ज्ञानं ज्ञानप्रदा पातु स्वप्ने निद्रा सदाऽवतु

3.39.18

इति ते कथितं वत्स सर्वमन्त्रौघविग्रहम् ॥
ब्रह्माण्डविजयं नाम कवचं परमाद्भुतम्

3.39.19

सुस्नातः सर्वतीर्थेषु सर्वयज्ञेषु यत्फलम् ॥
सर्वव्रतोपवासे च तत्फलं लभते नरः

3.39.3.39.20

गुरुमभ्यर्च्य विधिवद्वस्त्रालंकारचन्दनैः ॥
कण्ठे वा दक्षिणे बाहौ कवचं धारयेत्तु यः

3.39.21

स च त्रैलोक्यविजयी सर्वशत्रुप्रमर्दकः॥
इदं कवचमज्ञात्वा भजेद्दुर्गतिनाशिनीम्

3.39.22

शतलक्षं प्रजप्तोऽपि न मन्त्रः सिद्धिदायकः॥

3.39.23

कवचं काण्वशाखोक्तमुक्तं नारद सिद्धिदम् ॥
यस्मै कस्मै न दातव्यं गोपनीयं सुदुर्लभम्

3.39.39

इति श्रीब्रह्मवैवर्ते महापुराणे तृतीये गणपतिखण्डे नारदनारायणसंवादे दुर्गतिनाशिनीकवचं नामैकोनचत्वारिंशतमोऽध्यायः

मूल पाठ: brahmavaivartapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc