भाषा

ENहिગુ
ग्रंथ पाठ

ब्रह्मवैवर्त पुराण · अध्याय 3.22

3.22.1

नारद उवाच ॥
आविर्भूय हरिस्तस्मै किं स्तोत्रं कवचं ददौ ॥
महालक्ष्म्याश्च लक्ष्मीशस्तन्मे ब्रूहि तपोधन

3.22.2

नारायण उवाच॥
पुष्करे च तपस्तप्त्वा विरराम सुरेश्वरः ॥
आविर्बभूव तत्रैव क्लिष्टं दृष्ट्वा हरिः स्वयम्

3.22.3

तमुवाच हृषीकेशो वरं वृणु यथेप्सितम् ॥
स च वव्रे वरं लक्ष्मीमीशस्तस्मै ददौ मुदा

3.22.4

वरं दत्त्वा हृषीकेशः प्रवक्तुमुपचक्रमे ॥
हितं सत्यं च सारं च परिणामसुखावहम्

3.22.5

श्रीमधुसूदन उवाच ॥
गृहाण कवचं शक्र सर्वदुःखविनाशनम् ॥
परमैश्वर्य्यजनकं सर्वशत्रुविमर्दनम्

3.22.6

ब्रह्मणे च पुरा दत्तं विष्टपे च जलप्लुते ॥
यद्धृत्वा जगतां श्रेष्ठः सर्वैश्वर्य्ययुतो विधिः

3.22.7

बभूवुर्मनवः सर्वे सर्वैश्वर्ययुता यतः ॥
सर्वैश्वर्य्यप्रदस्यास्य कवचस्य ऋषिर्विधिः

3.22.8

पङ्क्तिश्छन्दश्च सा देवी स्वयं पद्मालया वरा ॥
सिद्ध्यैश्वर्य्यसुखेष्वेव विनियोगः प्रकीर्त्तितः ॥
यद्धृत्वा कवचं लोकः सर्वत्र विजयी भवेत्

3.22.9

मस्तकं पातु मे पद्मा कण्ठं पातु हरिप्रिया ॥
नासिकां पातु मे लक्ष्मीः कमला पातु लोचने

3.22.10

केशान्केशवकान्ता च कपालं कमलालया ॥
जगत्प्रसूर्गण्डयुग्मं स्कन्धं सम्पत्प्रदा सदा ॥

3.22.11

ॐ श्रीं कमलवासिन्यै स्वाहा पृष्ठं सदाऽवतु ॥
ॐ ह्रीं श्रीं पद्मालयायै स्वाहा वक्षः सदाऽवतु ॥
पातु श्रीर्मम कङ्कालं बाहुयुग्मं च ते नमः

3.22.12

ॐ ह्रीं श्रीं लक्ष्म्यै नमः पादौ पातु मे संततं चिरम् ॥
ॐ ह्रीं श्रीं नमः पद्मायै स्वाहा पातु नितम्बकम्

3.22.13

ॐ श्रीं महालक्ष्म्यै स्वाहा सर्वाङ्गं पातु मे सदा ॥
ॐ ह्रीं श्रीं क्लीं महालक्ष्म्यै स्वाहा मां पातु सर्वतः

3.22.14

इति ते कथितं वत्स सर्वसम्पत्करं परम् ॥
सर्वैश्वर्य्यप्रदं नाम कवचं परमाद्भुतम्

3.22.15

गुरुमभ्यर्च्य विधिवत्कवचं धारयेत्तु यः॥
कण्ठे वा दक्षिणे बाहौ स सर्वविजयी भवेत्

3.22.16

महालक्ष्मीर्गृहं तस्य न जहाति कदाचन ॥
तस्य च्छायेव सततं सा च जन्मनि जन्मनि

3.22.17

इदं कवचमज्ञात्वा भजेल्लक्ष्मीं स मन्दधीः ॥
शतलक्षप्रजापेऽपि न मन्त्रः सिद्धिदायकः

3.22.18

नारायण उवाच ॥
दत्त्वा तस्मै च कवचं मन्त्रं वै षोडशाक्षरम् ॥
सन्तुष्टश्च जगन्नाथो जगतां हितकारणम्

3.22.19

ॐ ह्रीं श्रीं क्लीं नमो महालक्ष्म्यै स्वाहा॥
ददौ तस्मै च कृपया चेन्द्राय च महामुने

3.22.20

ध्यानं च सामवेदोक्तं गोपनीयं सुदुर्लभम् ॥
सिद्धैर्मुनीन्द्रैर्दुष्प्राप्यं ध्रुवं सिद्धिप्रदं शुभम्

3.22.21

श्वेतचम्पकवर्णाभां शतचन्द्रसमप्रभाम् ॥
वह्निशुद्धांशुकाधानां रत्नभूषणभूषिताम्

3.22.22

ईषद्धास्यप्रसन्नास्यां भक्तानुग्रहकारिकाम् ॥
सहस्रदलपद्मस्थां स्वस्थां च सुमनोहराम्

3.22.23

शान्तां च श्रीहरेः कान्तां तां भजेज्जगतां प्रसूम्

3.22.24

ध्यानेनानेन देवेन्द्रो ध्यात्वा लक्ष्मीं मनोहराम् ॥
भक्त्या संपूज्य तस्यै च चोपचारांस्तु षोडश

3.22.25

स्तुत्वाऽनेन स्तवेनैव वक्ष्यमाणेन वासव ॥
नत्वा वरं गृहीत्वा च लभिष्यसि च निर्वृतिम्

3.22.26

स्तवनं शृणु देवेन्द्र महालक्ष्म्याः सुखप्रदम्॥
कथयामि सुगोप्यं च त्रिषु लोकेषु दुर्लभम्

3.22.27

नारायण उवाच॥
देवि त्वां स्तोतुमिच्छामि न क्षमाः स्तोतुमीश्वराः ॥
बुद्धेरगोचरां सूक्ष्मां तेजोरूपां सनातनीम् ॥
अनिवार्य्यगुणाढ्यां च को वा निर्वक्तुमीश्वरः

3.22.28

स्वेच्छामयीं निराकारां भक्तानुग्रहविग्रहाम् ॥
स्तौमि वाङ्मनसापारां किं वाऽहं जगदम्बिके

3.22.29

परां चतुर्णां वेदानां पारबीजं भवार्णवे ॥
सर्वसस्याधिदेवीं च सर्वासामपि सम्पदाम्

3.22.30

योगिनां चैव योगानां ज्ञानानां ज्ञानिनां तथा ॥
वेदानां वै वेदविदां जननीं वर्णयामि किम्

3.22.31

यया विना जगत्सर्वमबीजं निष्फलं ध्रुवम् ॥
यया स्तनंधयानां च विना मात्रा सुखं भवेत्

3.22.32

प्रसीद जगतां माता रक्षास्मानतिकातरान् ॥
वयं त्वच्चरणाम्भोजे प्रपन्नाः शरणं गताः

3.22.33

नमः शक्तिस्वरूपायै जगन्मात्रे नमो नमः ॥
ज्ञानदायै बुद्धिदायै सर्वदायै नमो नमः

3.22.34

हरिभक्तिप्रदायिन्यै मुक्तिदायै नमो नमः॥
सर्वज्ञायै सर्वदायै महालक्ष्म्यै नमो नमः

3.22.35

कुपुत्राः कुत्रचित्सन्ति न कुत्रापि कुमातरः॥
कुत्र माता पुत्रदोषं तं विहाय च गच्छति

3.22.36

स्तनन्धयेभ्य इव मे हे मातर्देहि दर्शनम् ॥
कृपां कुरु कृपासिन्धो त्वमस्मान्भक्तवत्सले

3.22.37

इत्येवं कथितं वत्स पद्मायाश्च शुभावहम् ॥
सुखदं मोक्षदं सारं शुभदं सम्पदःप्रदम्

3.22.38

इदं स्तोत्रं महापुण्यं पूजाकाले च यः पठेत् ॥
महालक्ष्मीर्गृहं तस्य न जहाति कदाचन

3.22.39

इत्युक्त्वा श्रीहरिस्तं च तत्रैवान्तरधीयत ॥
देवो जगाम क्षीरोदं सुरैः सार्द्धं तदाज्ञया

3.22.22

इति श्रीब्रह्मवैवर्त्ते महापुराणे तृतीये गणपतिखण्डे नारदनारायणसंवादे लक्ष्मीस्तवकवचपूजा कथनं नाम द्वाविंशतितमोऽध्यायः

मूल पाठ: brahmavaivartapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc