भाषा

ENहिગુ
ग्रंथ पाठ

ब्रह्मवैवर्त पुराण · अध्याय 3.16

3.16.1

नारायण उवाच ॥
इत्येवमुक्त्वा तं शीघ्रं बोधयित्वा च कृत्तिकाः ॥
उवाच किंचिद्युक्तं च वचनं शङ्करात्मजः

3.16.2

कार्तिकेय उवाच ॥
यास्यामि शंकरस्थानं द्रक्ष्यामि सुरसञ्चयम् ॥
मातरं बन्धुवर्गांश्चाप्याज्ञां मे दत्त मातरः

3.16.3

दैवाधीनं जगत्सर्वं जन्म कर्म शुभावहम् ॥
संयोगश्च वियोगश्च न च दैवात्परं बलम्

3.16.4

कृष्णायत्तं च तद्दैवं स च दैवात्परस्ततः ॥
भजन्ति सततं सन्तः परमात्मानमीश्वरम्

3.16.5

दैवं वर्द्धयितुं शक्तः क्षयं कर्त्तुं स्वलीलया ॥
न दैवबद्धस्तद्भक्तश्चाविनाशीति निर्णयः

3.16.6

तस्माद्भजत गोविन्दं मोहं त्यजत दुःखदम्॥
सुखदं मोक्षदं सारं जन्ममृत्युभयापहम्

3.16.7

परमानन्दजननं मोहजालनिकृन्तनम् ॥
शश्वद्भजन्ति यत्सर्वे ब्रह्मविष्णुशिवादयः

3.16.8

कोऽहं भवाब्धौ युष्माकं का वा यूयं ममात्मिकाः ॥
तत्कर्मस्रोतसां सर्वं पुञ्जीभूतं च फेनवत्

3.16.9

संश्लेषं वा वियोगं वा सर्वमीश्वरचिन्तया ॥
ब्रह्माण्डमीश्वराधीनं न स्वतन्त्रं विदुर्बुधाः

3.16.10

जलबुद्बुदवत्सर्वमनित्यं च जगत्त्रयम् ॥
मायामनित्ये कुर्वन्ति मायया मूढचेतसः

3.16.11

सन्तस्तत्र न लिप्यन्ते वायुवत्कृष्णचेतसः ॥
तस्मान्मोहं परित्यज्य चाज्ञप्तिं दत्त मातरः

3.16.12

इत्येवमुक्त्वा ता नत्वा सार्द्धं शङ्करपार्षदैः ॥
यात्रां चकार भगवान्मनसा श्रीहरिं स्मरन्

3.16.13

एतस्मिन्नन्तरे तत्र ददर्श रथमुत्तमम् ॥
विश्वकर्मकृतं रम्यं हीरकेण विराजितम्

3.16.14

सद्रत्नसाररचितं माणिक्येन विराजितम् ॥
पारिजातप्रसूनानां मालाजालैश्च शोभितम्

3.16.15

मणीन्द्रदर्पणः श्वेतचामरैरतिदीपितम् ॥
क्रीडार्हमन्दिरै रम्यैश्चित्रितैश्चित्रितं वरम्

3.16.16

शतचक्रं सुविस्तीर्णं मनोयायि मनोहरम् ॥
प्रस्थापितं च पार्वत्या वेष्टितं पार्षदैर्वरैः

3.16.17

समारुहन्तं यानं ता हृदयेन विदूयता ॥
सहसा चेतनां प्राप्य मुक्तकेश्यः शुचाऽऽतुराः

3.16.18

दृष्ट्वा च स्वपुरः स्कन्दं स्तंभिताश्चातिशोकतः ॥
उन्मत्ता इव तत्रैव वक्तुमारेभिरे भिया

3.16.19

कृत्तिका ऊचुः ॥
किं कुर्मः क्व च यास्यामो वयं वत्स त्वदाश्रयाः ॥
विहायास्मान्क्व यासि त्वं नायं धर्म्मस्तवाधुना

3.16.20

स्नेहेन वर्द्धितोऽस्माभिः पुत्रोऽस्माकं स्वधर्मतः ॥
नायं धर्मो मातृवर्गाननुरक्तः सुतस्त्यजेत्

3.16.21

इत्युक्त्वा कृत्तिकाः सर्वाः कृत्वा वक्षसि तं सुतम् ॥
पुनर्मूर्च्छामवापुस्ताः सुतविच्छेददारुणम्

3.16.22

कुमारो बोधयित्वा ता अध्यात्मवचनेन वै ॥
ताभिश्च पार्षदैः सार्द्धमारुरोह रथं मुने

3.16.23

पूर्णकुम्भं द्विजं वेश्यां शुक्लधान्यानि दर्पणम्॥
दध्याज्यं मधु लाजांश्च पुष्पं दूर्वाक्षतान्सितान्

3.16.24

वृषं गजेन्द्रं तुरगं ज्वलदग्निं सुवर्णकम् ॥
पूर्णं च परिपक्वानि फलानि विविधानि च

3.16.25

पतिपुत्रवतीं नारीं प्रदीपं मणिमुत्तमम् ॥
मुक्तां प्रसूनमालां च सद्योमांसं च चन्दनम्

3.16.26

ददर्शैतानि वस्तूनि मङ्गलानि पुरो मुने ॥
शृगालं नकुलं कुम्भं शवं वामे शुभावहम्

3.16.27

राजहंसं मयूरं च खञ्जनं च शुकं पिकम् ॥
पारावतं शङ्खचिल्लं चक्रवाकं च मङ्गलम्

3.16.28

कृष्णसारं च सुरभिं चमरीं श्वेतचामरम्॥
धेनुं च वत्ससंयुक्तां पताकां दक्षिणे शुभाम्॥

3.16.29

नानाप्रकारवाद्यं चाप्यश्रौषीन्मंगलध्वनिम् ॥
मनोहरं च संगीतं घण्टाशंखध्वनिं तथा

3.16.30

दृष्ट्वा श्रुत्वा मङ्गलं स ह्यगमत्तातमन्दिरम् ॥
क्षणेनानन्दयुक्तश्च मनोयायिरथेन च

3.16.31

कुमारः प्राप्य कैलासं न्यग्रोधाक्षयमूलके ॥
क्षणं तस्थौ कृत्तिकाभिः पार्षदप्रवरैः सह

3.16.32

पार्वती मंगलं कृत्वा राजमार्गं मनोहरम् ॥
पद्मरागैरिन्द्रनीलैः संस्कृतं परितः पुरम्

3.16.33

रम्भास्तम्भसमूहैश्च पट्टसूत्रांशुकैस्तथा ॥
श्रीखण्डपल्लवैर्युक्तं पूर्णकुम्भैः सुशोभितम्

3.16.34

पूर्णकुम्भजलैर्व्याप्तं सिक्तं चन्दनवारिभिः ॥
असंख्यरत्नदीपैश्च मणिराजैर्विराजितम्

3.16.35

नटनर्त्तकवेश्यानामुत्सवैः संकुलं सदा ॥
बन्दिभिर्विप्रवर्गैश्च दूर्वापुष्पकरैर्युतम्

3.16.36

पतिपुत्रवतीभिश्च साध्वीभिश्च समन्वितम्॥
लक्ष्मीं सरस्वतीं दुर्गां सावित्रीं तुलसीं रतिम्

3.16.37

अरुन्धतीमहल्यां च दितिं तारां मनोरमाम् ॥
अदितिं शतरूपां च शचीं सन्ध्यां च रोहिणीम्

3.16.38

अनसूयां तथा स्वाहां संज्ञां वरुणकामिनीम्॥
आकूतिं च प्रसूतिं च देवहूतिं च मेनकाम्

3.16.39

तामेकपाटलामेकपर्णां मैनाककामिनीम् ॥
वसुन्धरां च मनसां पुरस्कृत्य समाययौ॥

3.16.40

रम्भा तिलोत्तमा मेना घृताची मोहिनी शुभा ॥
उर्वशी रत्नमाला च सुशीला ललिता कला

3.16.41

कदम्बमाला सुरसा वनमाला च सुन्दरी ॥
एताश्चान्याश्च बहवो विप्रेन्द्राप्सरसां गणाः

3.16.42

संगीतनर्त्तनपराः सस्मिता वेषसंयुताः ॥
करतालकराः सर्वा जग्मुरानन्दपूर्वकम्

3.16.43

देवाश्च मुनयः शैला गन्धर्वाः किन्नरास्तथा ॥
सर्वे ययुः प्रमुदिताः कुमारस्यानुमज्जने

3.16.44

नानाप्रकारवाद्यैश्च रुद्रैर्वा पार्षदैः सह ॥
भैरवैः क्षेत्रपालैश्च ययौ सार्द्धं महेश्वरः

3.16.45

अथ शक्तिधरो हृष्टो दृष्ट्वा ऽऽरात्पार्वतीं तदा ॥
अवरुह्य रथात्तूर्णं शिरसा प्रणनाम ह

3.16.46

तं पद्माप्रमुखं देवीगणं च मुनिकामिनीम् ॥
शिवं च परया भक्त्या सर्वान्संभाष्य यत्नतः

3.16.47

कार्त्तिकेयं शिवा दृष्ट्वा क्रोडे कृत्वा चुचुम्ब च ॥
शङ्करश्च सुराः शैला देव्यो वै शैलयोषितः

3.16.48

पार्वतीप्रमुखा देव्यस्तथा देवश्च शङ्करः ॥
शैलाश्च मुनयः सर्वे ददुस्तस्मै शुभाशिषः

3.16.49

कुमारः स गणैः सार्द्धमागत्य च शिवालयम् ॥
ददर्श तं सभामध्ये विष्णुं क्षीरोदशायिनम्

3.16.50

रत्नसिंहासनस्थं च रत्नभूषणभूषितम् ॥
धर्मब्रह्मेन्द्रचन्द्रार्कवह्निवाय्वादिभिर्युतम्

3.16.51

ईषद्धास्यं प्रसन्नास्यं भक्तानुग्रहकारकम् ॥
स्तुतं मुनीन्द्रैर्देवेन्द्रैः सेवितं श्वेतचामरैः

3.16.52

तं दृष्ट्वा जगतां नाथं भक्तिनम्रात्मकन्धरः ॥
पुलकान्वितसर्वांगः शिरसा प्रणनाम ह

3.16.53

विधिं धर्मं च देवांश्च मुनीन्द्रांश्च मुदाऽन्वितान् ॥
प्रणनाम पृथक्तत्र प्राप तेभ्यश्शुभाशिषः

3.16.54

पृथक्संभाष्य सर्वांश्चाप्युवास कनकासने ॥
ददौ धनानि विप्रेभ्यः पार्वत्या सह शङ्करः

3.16.16

इति श्रीब्रह्मवैवर्त्ते महापुराणे तृतीये गणपतिखण्डे नारदनारायणसंवादे कार्त्तिकेयागमनं नाम षोडशोऽध्यायः

मूल पाठ: brahmavaivartapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc