भाषा

ENहिગુ
ग्रंथ पाठ

ब्रह्मवैवर्त पुराण · अध्याय 3.10

3.10.1

नारायण उवाच ॥
तौ दम्पती बहिर्गत्वा पुत्रमङ्गलहेतवे॥
विविधानि च रत्नानि द्विजेभ्यो ददतुर्मुदा

3.10.2

बन्दिभ्यो भिक्षुकेभ्यश्च दानानि विविधानि च ॥
नानाविधानि वाद्यानि वादयामास शङ्करः

3.10.3

हिमालयश्च रत्नानां ददौ लक्षं द्विजातये ॥
सहस्रं च गजेन्द्राणामश्वानां च त्रिलक्षकम्

3.10.4

दशलक्षं गवां चैव पञ्चलक्षं सुवर्णकम् ॥
मुक्तामाणिक्यरत्नानि मणिश्रेष्ठानि यानि च

3.10.5

अन्यान्यपि च दानानि वस्त्राण्याभरणानि च ॥
सर्वाण्यमूल्यरत्नानि क्षीरोदोत्पत्तिकानि च

3.10.6

ब्राह्मणेभ्यो ददौ विष्णुः कौस्तुभं कौतुकान्वितः ॥
ब्रह्मा विशिष्टदानानि विप्राणां वाञ्छितानि च ॥
सुदुर्लभानि सृष्टौ च ब्राह्मणेभ्यो ददौ मुदा

3.10.7

धर्मः सूर्य्यश्च शक्रश्च देवाश्च मुनयस्तथा ॥
गन्धर्वाः पर्वता देव्यो ददुर्दानं क्रमेण च

3.10.8

माणिक्यानां सहस्राणि रत्नानां च शतानि च ॥
शतानि कौस्तुभानां च हीरकाणां शतानि च

3.10.10

हरिद्वर्णमणीन्द्राणां सहस्राणि मुदाऽन्विताः ॥
गवां रत्नानि लक्षाणि गजरत्नसहस्रकम् ॥
अमूल्यान्यन्यरत्नानि श्वेतवर्णानि कौतुकात्

3.10.11

शतलक्षं सुवर्णानां वह्निशुद्धांशुकानि च ॥
ब्राह्मणेभ्यो ददौ ब्रह्मा तत्र क्षीरोदधिर्मुदा

3.10.12

हारं चामूल्यरत्नानां त्रिषु लोकेषु दुर्लभम् ॥
अतीव निर्मलं सारं सूर्य्यभानुविनिन्दकम्

3.10.13

परिष्कृतं च माणिक्यैर्हीरकैश्च विराजितम् ॥
रम्यं कौस्तुभमध्यस्थं ददौ देवी सरस्वती॥

3.10.14

त्रैलोक्यसारं हारं च सद्रत्नगणनिर्मितम् ॥
भूषणानि च सर्वाणि सा सावित्री ददौ मुदा

3.10.15

लक्षं सुवर्णलोष्टानां धनानि विविधानि च ॥
शतान्यमूल्यरत्नानां कुबेरश्च ददौ मुदा

3.10.16

दानानि दत्त्वा विप्रेभ्यस्ते सर्वे ददृशुः शिशुम् ॥
परमानन्दसंयुक्ताः शिवपुत्रोत्सवे मुने

3.10.17

भारं वोढुमशक्ताश्च ब्राह्मणा बन्दिनस्तथा ॥
स्थायंस्थायं च गच्छन्तो धनानि पथि कातराः

3.10.18

कथयन्ति कथाः सर्वे विश्रान्ताः पूर्वदायिनाम् ॥
बुद्धाः शृण्वन्ति मुदिता युवानो भिक्षुका मुने

3.10.19

विष्णुः प्रमुदितस्तत्र वादयामास दुन्दुभिम् ॥
संगीतं पाययामास कारयामास नर्तनम् ॥
वेदांश्च पाठयामास पुराणानि च नारद

3.10.20

मुनीन्द्रानानयामास पूजयामास तान्मुदा ॥
आशिषं दापयामास कारयामास मङ्गलम्॥
सार्द्धं देवश्चै देवीभिर्ददौ तस्मै शुभाशिषः ॥

3.10.21

विष्णुरुवाच ॥
शिवेन तुल्यं ज्ञानं ते परमायुश्च बालक ॥
पराक्रमे मया तुल्यः सर्वसिद्धीश्वरो भव

3.10.22

ब्रह्मोवाच ॥
यशसा ते जगत्पूर्णं सर्वपूज्यो भवाचिरम् ॥
सर्वेषां पुरतः पूजा भवत्वतिसुदुर्लभा

3.10.23

धर्म्म उवाच ॥
मया तुल्यः सुधर्मिष्ठो भवान्भवतु दुर्लभः ॥
सर्वज्ञश्च दयायुक्तो हरिभक्तो हरेः समः

3.10.24

महादेव उवाच ॥
दाता भव मया तुल्यो हरिभक्तश्च बुद्धिमान्॥
विद्यावान्पुण्यवाञ्छान्तो दान्तश्च प्राणवल्लभ

3.10.25

लक्ष्मीरुवाच ॥
मम स्थितिश्च गेहे ते देहे भवतु शाश्वती ॥
पतिव्रता मया तुल्या शान्ता कान्ता मनोहरा

3.10.26

सरस्वत्युवाच ॥
मया तुल्या सुकविता धारणाशक्तिरेव च ॥
स्मृतिर्विवेचनाशक्तिर्भवत्वतितरां सुत

3.10.27

सावित्र्युवाच ॥
वत्साहं वेदजननी वेदज्ञानी भवाचिरम् ॥
मन्मन्त्रजपशीलश्च प्रवरो वेदवादिनाम् ॥

3.10.28

हिमालय उवाच ॥
श्रीकृष्णेऽतिमतिः शश्वद्भक्तिर्भवतु शाश्वती ॥
श्रीकृष्णतुल्यो गुणवान्भव कृष्णपरायणः

3.10.29

मेनकोवाच ॥
समुद्रतुल्यो गाम्भीर्य्ये कामतुल्यश्च रूपवान् ॥
श्रीयुक्तः श्रीपतिसमो धर्म्मे धर्मसमो भव

3.10.30

वसुन्धरोवाच ॥
क्षमाशीलो मया तुल्यः शरण्यः सर्वरत्नवान् ॥
निर्विघ्नो विघ्ननिघ्नश्च भव वत्स शुभाश्रयः

3.10.31

पार्वत्युवाच ॥
ताततुल्यमहायोगी सिद्धः सिद्धिप्रदः शुभः ॥
मृत्युञ्जयश्च भगवान्भवत्वतिविशारदः

3.10.32

ऋषयो मुनयः सिद्धाः सर्वे युयुजुराशिषः॥
ब्राह्मणा बन्दिनश्चैव युयुजुः सर्वमङ्गलम्

3.10.33

सर्वं ते कथितं वत्स सर्वमङ्गलमङ्गलम् ॥
गणेशजन्मकथनं सर्वविघ्नविनाशनम्

3.10.34

इमं सुमंगलाध्यक्षं यः शृणोति सुखं यतः ॥
सर्वमंगलसंयुक्तः स भवेन्मंगलालयः

3.10.35

अपुत्रो लभते पुत्रमधनो लभते धनम्॥
कृपणो लभते सत्त्वं शश्वत्सम्पत्प्रदायि च

3.10.36

भार्य्यार्थी लभते भार्य्यां प्रजार्थी लभते प्रजाम् ॥
आरोग्यं लभते रोगी सौभाग्ये दुर्भगा लभेत्

3.10.37

भ्रष्टपुत्रं नष्टधनं प्रोषितं च प्रियं लभेत् ॥
शोकाविष्टः सदाऽऽनन्दं लभते नात्र संशयः

3.10.38

यत्पुण्यं लभते मर्त्यो गणेशाख्यानकश्रुतौ ॥
तत्फलं लभते नूनमध्यायश्रवणान्मुने

3.10.39

अयं च मङ्गलाध्यायो यस्य गेहं च तिष्ठति ॥
सदा मङ्गलसंयुक्तः स भवेन्नात्र संशयः

3.10.40

यात्राकाले च पुण्याहे यः शृणोति समाहितः ॥
सर्वाभीष्टं स लभते श्रीगणेशप्रसादतः

3.10.10

इति श्रीब्रह्मवैवर्त्ते महापुराणे तृतीये गणेशखण्डे नारदनारायणसंवादे गणेशोद्भवमंगलं नाम दशमोऽध्यायः

मूल पाठ: brahmavaivartapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc