भाषा

ENहिગુ
ग्रंथ पाठ

ब्रह्मवैवर्त पुराण · अध्याय 2.57

2.57.1

नारद उवाच ॥
सर्वाख्यानं श्रुतं ब्रह्मन्नतीव परमाद्भुतम्॥
अधुना श्रोतुमिच्छामि दुर्गोपाख्यानमुत्तमम्

2.57.2

दुर्गा नारायणीशाना विष्णुमाया शिवा सती ॥
नित्या सत्या भगवती शर्वाणी सर्वमङ्गला

2.57.3

अम्बिका वैष्णवी गौरी पार्वती च सनातनी॥
नामानि कौथुमोक्तानि सर्वेषां शुभदानि च

2.57.4

अर्थं षोडशनाम्नां च सर्वेषामीप्सितं वरम्॥
ब्रूहि वेदविदां श्रेष्ठ वेदोक्तं सर्वसम्मतम्

2.57.5

केन वा पूजिता साऽऽदौ द्वितीये केन वा पुरा ॥
तृतीये वा चतुर्थे वा केन सर्वत्र पूजिता

2.57.6

नारायण उवाच ॥
अर्थं षोडशनाम्नां च विष्णुर्वेदे चकार सः ॥
ज्ञात्वा पुनः पृच्छसि त्वं कथयामि यथागमम्

2.57.7

दुर्गो दैत्ये महाविघ्ने भवबन्धे च कर्म्मणि ॥
शोके दुःखे च नरके यमदण्डे च जन्मनि

2.57.8

महाभयेऽतिरोगे चाप्याशब्दो हन्तृवाचकः ॥
एतान्हन्त्येव या देवी सा दुर्गा परिकीर्त्तिता

2.57.9

यशसा तेजसा रूपैर्नारायणसमा गुणैः ॥
शक्तिर्नारायणस्येयं तेन नारायणी स्मृता

2.57.2.57.10

ईशानः सर्वसिद्ध्यर्थे चाशब्दो दातृवाचकः ॥
सर्वसिद्धिप्रदात्री या साऽपीशाना प्रकीर्त्तिता

2.57.11

सृष्टा माया पुरा सृष्टौ विष्णुना परमात्मना ॥
मोहितं मायया विश्वं विष्णुमाया प्रकीर्त्तिता

2.57.12

शिवे कल्याणरूपा च शिवदा च शिवप्रिया ॥
प्रिये दातरि चाशब्दः शिवा तेन प्रकीर्तिता

2.57.13

सद्बुद्ध्यधिष्ठातृदेवी विद्यमाना युगे युगे॥
पतिव्रता सुशीला च सा सती परिकीर्तिता

2.57.14

यथा नित्यो हि भगवान्नित्या भगवती तथा॥
स्वमायया तिरोभूता तत्रेशे प्राकृते लये

2.57.15

आब्रह्मस्तम्बपर्यन्तं सर्वं मिथ्यैव कृत्रिमम्॥
दुर्गा सत्यस्वरूपा सा प्रकृतिर्भगवान्यथा

2.57.16

सिद्धैश्वर्यादिकं सर्वं यस्यामस्ति युगे युगे ॥
सिद्धादिके भगो ज्ञेयस्तेन सा भगवती स्मृता

2.57.17

सर्वान्मोक्षं प्रापयति जन्ममृत्युजरादिकम् ॥
चराचरांश्च विश्वस्थाञ्छर्वाणी तेन कीर्तिता

2.57.18

मङ्गलं मोक्षवचनं चाशब्दो दातृवाचकः ॥
सर्वान्मोक्षान्या ददाति सैव स्यात्सर्वमङ्गला

2.57.19

हर्षे सम्पदि कल्याणे मंगलं परिकीर्तितम् ॥
तान्ददाति च सर्वेभ्यस्तेन सा सर्वमंगला

2.57.2.57.20

अम्बेति मातृवचनो वन्दने पूजने सदा ॥
पूजिता वन्दिता माता जगतां तेन साऽम्बिका

2.57.21

विष्णुभक्ता विष्णुरूपा विष्णोः शक्तिस्वरूपिणी ॥
सृष्टौ च विष्णुना सृष्टा वैष्णवी तेन कीर्तिता

2.57.22

गौरः पीते च निर्लिप्ते परे ब्रह्मणि निर्मले ॥
तस्यात्मनः शक्तिरियं गौरी तेन प्रकीर्तिता

2.57.23

गुरुः शम्भुश्च सर्वेषां तस्य शक्तिः या सती ॥
गुरुः कृष्णश्च तन्माया गौरी तेन प्रकीर्त्तिता ॥

2.57.24

तिथिभेदे पर्वभेदे कल्पभेदेऽन्यभेदके ॥
ख्यातौ तेषु च विख्याता पार्वती तेन कीर्तिता

2.57.25

महोत्सवविशेषे च पर्वन्निति सुकीर्तिता ॥
तस्याधिदेवी या सा च पार्वती परिकीर्त्तिता

2.57.26

पर्वतस्य सुता देवी साऽऽविर्भूता च पर्वते॥
पर्वताधिष्ठातृदेवी पार्वती तेन कीर्त्तिता

2.57.27

सर्वकाले सना प्रोक्तो विस्तृते च तनीति च ॥
सर्वत्रसर्वकाले च विद्यमाना सनातनी

2.57.28

अर्थः षोडशनाम्नां च कीर्त्तितश्च महामुने॥
यथागमं त्वं वेदोक्तोपाख्यानं च निशामय

2.57.29

प्रथमे पूजिता सा च कृष्णेन परमात्मना॥
वृन्दावने च सृष्ट्यादौ गोलोके रासमण्डले

2.57.2.57.30

मधुकैटभभीतेन ब्रह्मणा सा द्वितीयतः ॥
त्रिपुरप्रेरितेनैव तृतीये त्रिपुरारिणा॥

2.57.31

भ्रष्टश्रिया महेन्द्रेण शापाद्दुर्वाससः पुरा ॥
चतुर्थे पूजिता देवी भक्त्या भगवती सती

2.57.32

तदा मुनीन्द्रैः सिद्धेन्द्रैर्देवैश्च मुनिपुङ्गवैः ॥
पूजिता सर्वविश्वेषु समभूत्सर्वतः सदा

2.57.33

तेजस्सु सर्वदेवानां साऽऽविर्भूता पुरा मुने ॥
सर्वे देवा ददुस्तस्यै शस्त्राण्याभरणानि च

2.57.34

दुर्गादयश्च दैत्याश्च निहता दुर्गया तया ॥
दत्तं स्वराज्यं देवेभ्यो वरं च यदभीप्सितम् ॥

2.57.35

कल्पान्तरे पूजिता सा सुरथेन महात्मना ॥
राज्ञा च मेधशिष्येण मृन्मय्यां च सरित्तटे

2.57.36

मेषादिभिश्च महिषैः कृष्णसारैश्च मण्डकैः ॥
छागैरिक्षुसुकूष्माण्डैः पक्षिभिर्बलिभिर्मुने

2.57.37

वेदोक्तांश्चैव दत्त्वैवमुपचारांस्तु षोडश ॥
ध्यात्वा च कवचं धृत्वा संपूज्य च विधानतः

2.57.38

राजा कृत्वा परीहारं वरं प्राप यथेप्सितम् ॥
मुक्तिं संप्राप वैश्यश्च संपूज्य च सरित्तटे

2.57.39

तुष्टाव राजा वैश्यश्च साश्रुनेत्रः कृताञ्जलिः ॥
ससर्ज मृन्मयीं तां वै गभीरे निर्मले जले

2.57.2.57.40

मृन्मयीं तामदृष्ट्वा च जलधौतां नराधिपः ॥
रुरोद च तदा वैश्यस्ततः स्थानान्तरं ययौ

2.57.41

त्यक्त्वा देहं च वैश्यस्तु पुष्करे दुष्करं तपः

2.57.42

कृत्वा जगाम गोलोकं दुर्गादेवीवरेण सः ॥
राजा ययौ स्वराज्यं च पूज्यो निष्कण्टकं बली

2.57.43

भोगं च बुभुजे भूपः षष्टिवर्षसहस्रकम् ॥
भार्यां स्वराज्यं संन्यस्य पुत्रे वै कालयोगतः

2.57.44

मनुर्बभूव सावर्णिस्तप्त्वा वै पुष्करे तपः ॥
इत्येवं कथितं वत्स समासेन यथागमम्

2.57.57

दुर्गाख्यानं मुनिश्रेष्ठ किं भूयः श्रोतुमिच्छसि॥९१।
इति श्रीब्रह्मवैवर्त्ते महापुराणे द्वितीये प्रकृ० नारदनारायणसंवादे दुर्गोपाख्याने दुर्गादिनामव्युत्पत्त्यादिकथनं नाम सप्तपञ्चाशत्तमोऽध्यायः

मूल पाठ: brahmavaivartapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc