भाषा

ENहिગુ
ग्रंथ पाठ

ब्रह्मवैवर्त पुराण · अध्याय 2.55

2.55.1

श्रीपार्वत्युवाच ॥
श्रीकृष्णस्य स्थिते मन्त्रे चान्येषामीश्वरस्य वः ॥
कथं जग्राह राधाया मन्त्रं वै वैष्णवो नृपः

2.55.2

किं विधानं च किं ध्यानं किं स्तोत्रं कवचं च किम् ॥
कं मन्त्रं च ददौ राज्ञे तां पूजापद्धतिं वद ॥

2.55.3

श्रीमहेश्वर उवाच ॥
हे विप्र कं भजामीति प्रश्नं कुर्वति राजनि ॥
शीघ्रं प्राप्नोमि गोलोकं कस्याराधनतो मुने

2.55.4

इत्युक्तवन्तं राजेन्द्रमुवाच ब्राह्मणोत्तमः ॥
तत्सेवया च तल्लोकं प्राप्स्यसे बहुजन्मतः

2.55.5

तत्प्राणाधिष्ठातृदेवीं भज राधां परात्पराम् ॥
कृपामयीप्रसादेन शीघ्रं प्राप्नोति तत्पदम्

2.55.6

इत्युक्त्वा राधिकामन्त्रं ददौ तस्मै षडक्षरम् ॥
ॐ राधेति चतुर्थ्यन्तं वह्निजायान्तमेव च

2.55.7

प्राणायामं भूतशुद्धिं मन्त्रन्यासं तथैव च ॥
करांगन्यासमेवं च ध्यानं सर्वसुदुर्लभम्

2.55.8

स्तोत्रं च कवचं तं च शिक्षयामास भक्तितः ॥
राजा तेन क्रमेणैव जजाप परमं मनुम्

2.55.9

ध्यानं च सामवेदोक्तं मंगलानां च मंगलम् ॥
कृष्णस्तां पूजयामास पुरा ध्यानेन येन च

2.55.2.55.10

श्वेतचम्पकवर्णाभां कोटिचन्द्रसमप्रभाम् ॥
शरत्पार्वणचन्द्रास्यां शरत्पङ्कजलोचनाम् ॥
सुश्रोणीं सुनितम्बां च पक्वबिम्बाधरां वराम्

2.55.11

मुक्तापंक्तिप्रतिनिधिदन्तपंक्तिमनोहराम्॥
ईषद्धास्यप्रसन्नास्यां भक्तानुग्रहकारिकाम् ॥
वह्निशुद्धांशुकाधानां रत्नमालाविभूषिताम्

2.55.12

रत्नकेयूरवलयां रत्नमञ्जीररञ्जिताम् ॥
रत्नकुण्डलयुग्मेन विचित्रेण विराजिताम् ॥
सूर्य्यप्रभाप्रतिकृतिगण्डस्थलविराजिताम्

2.55.13

अमूल्यरत्नखचितग्रैवेयकविभूषिताम् ॥
सद्रत्नसारखचितकिरीटमुकुटोज्ज्वलाम् ॥
रत्नांगुलीयसंयुक्तां रत्नपाशकशोभिताम्

2.55.14

बिभ्रतीं कबरीभारं मालतीमाल्यशोभिताम्॥
रूपाधिष्ठातृदेवीं च मत्तवारणगामिनीम्

2.55.15

गोपीभिः सुप्रियाभिश्च सेवितां श्वेतचामरैः ॥
कस्तूरीबिन्दुभिः सार्द्धमधश्चन्दनबिन्दुना

2.55.16

सिन्दूरबिन्दुना चारुसीमन्ताधःस्थलोज्ज्वलाम् ॥
नित्यं सुपूजितां भक्त्या कृष्णेन परमात्मना

2.55.17

कृष्णसौभाग्यसंयुक्तां कृष्णप्राणाधिकां वराम्॥
कृष्णप्राणाधिदेवीं च निर्गुणां च परात्पराम्

2.55.18

महाविष्णुविधात्रीं च प्रदात्रीं सर्वसम्पदाम् ॥
कृष्णभक्तिप्रदां शान्तां मूलप्रकृतिमीश्वरीम्

2.55.19

वैष्णवीं विष्णुमायां च कृष्णप्रेममयीं शुभाम् ॥
रासमण्डलमध्यस्थां रत्नसिंहासनस्थिताम् ॥
रासे रासेश्वरयुतां राधां रासेश्वरीं भजे

2.55.2.55.20

ध्यात्वा पुष्पं मूर्ध्नि दत्त्वा पुनर्ध्यायेज्जगत्प्रभुम् ॥
दद्यात्पुष्पं पुनर्ध्यात्वा चोपचाराणि षोडश

2.55.21

आसनं वसनं पाद्यमर्घ्यं गन्धानुलेपनम् ॥
धूपं दीपं सुपुष्पं च स्नानीयं रत्नभूषणम्

2.55.22

नानाप्रकारनैवेद्यं ताम्बूलं वासितं जलम् ॥
मधुपर्कं रत्नतल्पमुपचाराणि षोडश

2.55.23

प्रत्येकं वेदमन्त्रेण दत्तं भक्त्या च भूभृता ॥
मन्त्रांश्च श्रूयतां दुर्गे वेदोक्तान्सर्वसम्मतान्

2.55.24

रत्नसारविकारं च निर्मितं विश्वकर्मणा ॥
वरं सिंहासनं रम्यं राधे पूजासु गृह्यताम्

2.55.25

अमूल्यरत्नखचितममूल्यं सूक्ष्ममेव च ॥
वह्निशुद्धं निर्मलं च वसनं देवि गृह्य ताम्

2.55.26

सद्रत्नसारपा?स्थं सर्वतीर्थोदकं शुभम् ॥
पादप्रक्षालनार्थं च राधे पाद्यं च गृह्यताम्

2.55.27

दक्षिणावर्त्तशङ्खस्थं सदूर्वापुष्पचन्दनम् ॥
पूतं युक्तं तीर्थतोयै राधेऽर्घ्यं प्रतिगृह्यताम् ॥

2.55.28

पार्थिवद्रव्यसंभूतमतीव सुरभीकृतम् ॥
मङ्गलार्हं पवित्रं च राधे गन्धं गृहाण मे

2.55.29

श्रीखण्डचूर्णं सुस्निग्धं कस्तूरीकुंकुमान्वितम् ॥
सुगन्धयुक्तं देवेशि गृह्यतामनुलेपनम्

2.55.2.55.30

वृक्ष निर्याससंयुक्तं पार्थिवद्रव्यसंयुतम् ॥
अग्निखण्डशिखाजातं धूपं देवि गृहाण मे

2.55.32

अन्धकारे भयहरममूल्यमणिशोभितम् ॥
रत्नप्रदीपं शोभाढयं गृहाण परमेश्वरि।३१॥
पारिजातप्रसूनं च गन्धचन्दनचर्चितम् ॥
अतीव शोभनं रम्यं गृह्यतां परमेश्वरि

2.55.33

सुगन्धामलकीचूर्णं सुस्निग्धं सुमनोहरम् ॥
विष्णुतैलसमायुक्तं स्नानीयं देवि गृह्यताम्

2.55.34

अमूल्यरत्नखचितं केयूरवलयादिकम्॥
शश्वत्सु शोभनं राधे गृह्यतां भूषणं मम

2.55.35

कालदेशोद्भवं पक्वफलं वै लड्डुकादिकम्॥
परमान्नं च मिष्टान्नं नैवेद्यं देवि गृह्यताम्

2.55.36

ताम्बूलं च वरं रम्यं कर्पूरादिसुवासितम् ॥
सर्वभोगाधिकं स्वादु ताम्बूलं देवि गृह्यताम्

2.55.39

अशनं रत्नपात्रस्थं सुस्वादु सुमनोहरम् ॥
मया निवेदितं भक्त्या गृह्यतां परमेश्वरि॥३७।
रत्नेन्द्रसारखचितं वह्निशुद्धांशुकान्वितम् ॥
पुष्पचन्दनचर्चाढ्यं पर्य्यंकं देवि गृह्यताम् ३८ ॥
एवं संपूज्य देवीं तां दद्यात्पुष्पाञ्जलित्रयम् ॥
यत्नेन पूजयेद्देवीं नायिकाश्च व्रते व्रती

2.55.2.55.40

प्रागादिक्रमयोगेन दक्षिणावर्ततः प्रिये ॥
भक्त्या पञ्चोपचारेण सुप्रियाः परिचारिकाः

2.55.41

मालावतीं पूर्वकोणे वह्निकोणे च माधवीम् ॥
दक्षिणे रत्नमालां च सुशीलां नैरृते सतीम्

2.55.42

पश्चिमे वै शशिकलां पारिजातां च मारुते ॥
पद्मावतीमुत्तरे चाथैशान्यां सुन्दरीं तथा

2.55.43

यूथिकामालतीपद्ममाला दद्याद् व्रते व्रती ॥
परिहारं च कुरुते सामवेदोक्तमेव च

2.55.44

त्वं देवी जगतां माता विष्णुमाया सनातनी ॥
कृष्णप्राणाधिदेवी च कृष्णप्राणाधिका शुभा

2.55.45

कृष्णप्रेममयी शक्तिः कृष्णे सौभाग्यरूपिणी ॥
कृष्णभक्तिप्रदे राधे नमस्ते मङ्गलप्रदे

2.55.46

अद्य मे सफलं जन्म जीवनं सार्थकं मम ॥
पूजिताऽसि मया सा च या श्रीकृष्णेन पूजिता

2.55.47

कृष्णवक्षसि या राधा सर्वसौभाग्यसंयुता ॥
रासे रासेश्वरीरूपा वृन्दा वृन्दावने वने

2.55.48

कृष्णप्रिया च गोलोके तुलसीकानने तु या ॥
चम्पावती कृष्णसंगे क्रीडा चम्पककानने

2.55.49

चन्द्रावली चन्द्रवने शतशृंगे सतीति च॥
विरजा दर्पहन्त्री च विरजातटकानने

2.55.2.55.50

पद्मावती पद्मवने कृष्णा कृष्णसरोवरे॥
भद्रा कुञ्जकुटीरे च काम्या वै कम्यके वने

2.55.51

वैकुण्ठे च महालक्ष्मीर्वाणी नारायणोरसि॥
क्षीरोदे सिन्धुकन्या च मर्त्ये लक्ष्मीर्हरिप्रिया

2.55.52

सर्वस्वर्गे स्वर्गलक्ष्मीर्देवदुःखविनाशिनी॥
सनातनी विष्णुमाया दुर्गा शङ्करवक्षसि

2.55.53

सावित्री वेदमाता च कलया ब्रह्मवक्षसि ॥
कलया धर्मपत्नी त्वं नरनारायणप्रभोः

2.55.54

कलया तुलसी त्वं च गङ्गा भुवनपावनी ॥
लोमकूपोद्भवा गोप्यः कलांशा रोहिणी रतिः

2.55.95

कला कलांशरूपा च शतरूपा शची दितिः ॥
अदितिर्देवमाता च त्वत्कलांशा हरिप्रिया

2.55.56

देव्यश्च मुनिपत्न्यश्च त्वत्कलाकलया शुभे ॥
कृष्णभक्तिं कृष्णदास्यं देहि मे कृष्णपूजिते

2.55.57

एवं कृत्वा परीहारं स्तुत्वा च कवचं पठेत् ॥
पुरा कृतं स्तोत्रमेतद्भक्तिदास्यप्रदं शुभम्

2.55.58

एवं नित्यं पूजयेद्यो विष्णुतुल्यः स भारते ॥
जीवन्मुक्तश्च पूतश्च गोलोकं याति निश्चितम्

2.55.59

कार्त्तिकीपूर्णिमायां च राधां यः पूजयेच्छिवे ॥
एवं क्रमेण प्रत्यब्दं राजसूयफलं लभेत्

2.55.2.55.60

परमैश्वर्य्ययुक्तः स्यादिह लोके स पुण्यवान् ॥
सर्वपापाद्विनिर्मुक्तो यात्यन्ते विष्णुमन्दिरम्

2.55.61

आदावेवं क्रमेणैव रासे वृन्दावने वने ॥
स्तुता सा पूजिता राधा श्रीकृष्णेन पुरा सती

2.55.62

संपूजिता द्वितीये च धात्रा त्वेवं क्रमेण च ॥
त्वद्वरेण च संप्राप्य विधाता वेदमातरम्

2.55.64

नारायणो महालक्ष्मीं प्राप संपूज्य भारतीम् ॥
गंगां च तुलसीं चैव परां भुवनपावनीम् ॥ ॥६३।
विष्णुः क्षीरोदशायी च प्राप सिन्धुसुतां तथा ॥
मृतायां दक्षकन्यायां मया कृष्णाज्ञया पुरा

2.55.65

त्वमेव दुर्गा सम्प्राप्ता पूजिता पुष्करे च सा ॥
अदितिं कश्यपः प्राप चन्द्रः संप्राप रोहिणीम्

2.55.66

कामो रतिं च संप्राप धर्मो मूर्तिं पतिव्रताम्।
देवाश्च मुनयश्चैव यां संपूज्य प्रतिव्रताम्

2.55.67

संप्रापुर्यद्वरेणैव धर्मकामार्थमोक्षकम् ॥
एवं पूजाविधानं च कथितं च स्तवं शृणु

2.55.68

श्रीमहेश्वर उवाच ॥
एकदा मानिनी राधा बभूवागोचरा प्रभोः ॥
संसक्तस्य तुलस्यां च गोप्यां च तुलसीवने

2.55.69

सा संहृत्य स्वमूर्त्तीश्च कलाः सर्वाश्च लीलया ॥
सर्वे बभूवुर्देवाश्च ब्रह्मविष्णुशिवादयः

2.55.2.55.70

भ्रष्टैश्वर्य्याश्च निश्श्रीका भार्य्याहीना ह्युपद्रुताः ॥
ते च सर्वे समालोच्य श्रीकृष्णं शरणं ययुः

2.55.71

तेषां स्तोत्रेण सन्तुष्टः स्नात्वा संपूज्य तां शुचिः ॥
तुष्टाव परमात्मा स सर्वेषां राधिकां सतीम्

2.55.72

श्रीकृष्ण उवाच ॥
एवमेव प्रियोऽहं ते प्रमोदश्चैव ते मयि ॥
सुव्यक्तमद्य कापट्यवचनं ते वरानने

2.55.73

हे कृष्ण त्वं मम प्राणा जीवात्मेति च सन्ततम् ॥
यद्ब्रूहि नित्यं प्रेम्णा त्वं साम्प्रतं तद्गतं द्रुतम् ॥

2.55.74

तस्मात्सर्वमलीकं ते वचनं जगदम्बिके ॥
क्षुरधारं च हृदयं स्त्रीजातीनां च सर्वतः

2.55.75

अस्माकं वचनं सत्यं यद्ब्रवीमि च तच्छ्रुतम् ॥
पञ्चप्राणाधिदेवी त्वं राधा प्राणाधिकेति मे

2.55.93

शक्तो न रक्षितुं त्वां च यान्ति प्राणास्त्वया विना ॥
विनाऽधिष्ठातृदेवीं च को वा कुत्र च जीवति

2.55.77

।
महाविष्णोश्च माता त्वं मूलप्रकृतिरीश्वरी ॥
सगुणा त्वं च कलया निर्गुणा स्वयमेव तु

2.55.78

ज्योतीरूपा निराकारा भक्तानुग्रहविग्रहा ॥
भक्तानां रुचिवैचित्र्यान्नानामूर्त्तीश्च बिभ्रती

2.55.79

महालक्ष्मीश्च वैकुण्ठे भारती च सतां प्रसूः ॥
पुण्यक्षेत्रे भारते च सती त्वं पार्वती तथा

2.55.2.55.80

तुलसी पुण्यरूपा च गंगा भुवनपावनी ॥
ब्रह्मलोके च सावित्री कलया त्वं वसुन्धरा

2.55.81

गोलोके राधिका त्वं च सर्वगोपालकेश्वरी ॥
त्वया विनाऽहं निर्जीवो ह्यशक्तः सर्व कर्म्मसु

2.55.82

शिवः शक्तस्त्वया शक्त्या शवाकारस्त्वया विना ॥
वेदकर्ता स्वयं ब्रह्मा वेदमात्रा त्वया सह

2.55.83

नारायणस्त्वया लक्ष्म्या जगत्पाता जगत्पतिः ॥
फलं ददाति यज्ञश्च त्वया दक्षिणया सह

2.55.84

बिभर्त्ति सृष्टिं शेषश्च त्वां कृत्वा मस्तके भुवम् ॥
बिभर्त्ति गङ्गारूपां त्वां मूर्ध्नि गंगाधरः शिवः

2.55.89

शक्तिमच्च जगत्सर्वं शवरूपं त्वया विना ॥
वक्ता सर्वस्त्वया वाण्या सूतो मूकस्त्वया विना

2.55.86

यथा मृदा घटं कर्त्तुं कुलालः शक्तिमान्सदा ॥
सृष्टिं स्रष्टुं तथाऽहं च प्रकृत्या च त्वया सह

2.55.87

त्वया विना जडश्चाहं सर्वत्र च न शक्तिमान् ॥
सर्वशक्तिस्वरूपा त्वं त्वमागच्छ ममान्तिकम्

2.55.88

वह्नौ त्वं दाहिकाशक्तिर्नाग्निश्शक्तस्त्वया विना ॥
शोभास्वरूपा चन्द्रे त्वं त्वां विना न स सुन्दरः

2.55.89

प्रभारूपा हि सूर्य्ये त्वं त्वां विना न स भानुमान् ॥
न कामः कामिनीबन्धुस्त्वया रत्या विना प्रिये

2.55.2.55.90

इत्येवं स्तवनं कृत्वा तां संप्राप जगत्प्रभुः ॥
देवा बभूवुः सश्रीकाः सभार्य्याः शक्तिसंयुताः

2.55.91

सस्त्रीकं च जगत्सर्वं समभूच्छैलकन्यके ॥
गोपीपूर्णश्च गोलोको ह्यभवत्तत्प्रसादतः

2.55.92

राजा जगाम गोलोकमिति स्तुत्वा हरिप्रियाम् ॥
श्रीकृष्णेन कृतं स्तोत्रं राधाया यः पठेन्नरः

2.55.93

कृष्णभक्तिं च तद्दास्यं सं प्राप्नोति न संशयः ॥
स्त्रीविच्छेदे यः शृणोति मासमेकमिदं शुचिः

2.55.94

अचिराल्लभते भार्य्यां सुशीलां सुन्दरीं सतीम् ॥
भार्याहीनो भाग्यहीनो वर्षमेकं शृणोति यः

2.55.95

अचिराल्लभते भार्य्यां सुशीलां सुन्दरीं सतीम् ॥
पुरा मया च त्वं प्राप्ता स्तोत्रेणानेन पार्वति

2.55.96

मृतायां दक्षकन्यायामाज्ञया परमात्मनः ॥
स्तोत्रेणानेन संप्राप्ता सावित्री ब्रह्मणा पुरा

2.55.97

पुरा दुर्वाससः शापान्निश्श्रीके देवतागणे ॥
स्तोत्रेणानेन देवैस्तैः संप्राप्ता श्रीः सुदुर्लभा

2.55.98

शृणोति वर्षमेकं च पुत्रार्थी लभते सुतम् ॥
महाव्याधी रोगमुक्तो भवेत्स्तोत्रप्रसादतः

2.55.99

कार्त्तिकीपूर्णिमायां तु तां संपूज्य पठेत्तु यः ॥
अचलां श्रियमाप्नोति राजसूयफलं लभेत्

2.55.2.55.100

नारी शृणोति चेत्स्तोत्रं स्वामिसौभाग्यसंयुता ॥
भक्त्या शृणोति यः स्तोत्रं बन्धनान्मुच्यते ध्रुवम्॥

2.55.101

नित्यं पठति यो भक्त्या राधां संपूज्य भक्तितः ॥
स प्रयाति च गोलोकं निर्मुक्तो भवबन्धनात्

2.55.55

इति श्री ब्रह्मवैवर्त्ते महापुराणे द्वितीये प्रकृतिखण्डे नारदनारायणसंवादान्तर्गतहरगौरीसंवादे श्रीराधिकोपाख्याने राधापूजास्तोत्रादिकथनंनाम पञ्चपञ्चाशत्तमोऽध्यायः

मूल पाठ: brahmavaivartapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc