भाषा

ENहिગુ
ग्रंथ पाठ

ब्रह्मवैवर्त पुराण · अध्याय 2.15

2.15.1

नारायण उवाच ॥
धर्मध्वजस्य पत्नी च माधवीति च विश्रुता॥
नृपेण सार्द्धं सा रागाद्रेमे वै गन्धमादने

2.15.2

शय्यां रतिकरींकृत्वा पुष्पचन्दनचर्चिता ॥
चन्दनोक्षितसर्वाङ्गी पुष्पचन्दनवायुना

2.15.3

स्त्रीरत्नमतिचार्वंगी रत्नभूषणभूषिता ॥
कामुकी रसिकश्रेष्ठा रसिकेशेन संगता

2.15.4

सुरताद्विरतिर्नासीत्तयोः सुरतविज्ञयोः ॥
गतं वर्षशतं दैवं नाजानीतां दिवानिशम्

2.15.5

ततो रजस्वलां प्राप्य सुरताद्विरराम सः ॥
कामुकी सुन्दरी किंचिन्न च तृप्तिं जगाम सा

2.15.6

दधार गर्भं सा सद्यो देवाब्दशतकं सती ॥
श्रीगर्भा श्रीयुता सा च संबभूव दिनेदिने

2.15.7

शुभक्षणे शुभदिने शुभयोगेन संयुते ॥
शुभलग्ने शुभांशे च शुभस्वामिगृहान्विते

2.15.8

कार्तिकीपूर्णिमायां च सितवारे च पद्मजे ॥
सुषाव सा च पद्मांशां पद्मिनीं सुमनोहराम्

2.15.9

पादपद्मयुगे चैव पद्मरागविराजिताम् ॥
राजराजेश्वरीं लक्ष्मीं सर्वावयवसुन्दरीम्

2.15.2.15.10

राजलक्ष्मीलक्ष्मयुक्तां राजलक्ष्म्यधिदेवताम् ॥
शरत्पार्वणचन्द्रास्यां शरत्पङ्कजलोचनाम्

2.15.11

पक्वबिम्बाधरोष्ठीं च पश्यन्तीं सस्मितां गृहम् ॥
हस्तपादतलारक्तां निम्ननाभिं मनोरमाम्

2.15.12

तदधस्त्रिवलीयुक्तां वृत्तवल्गुनितम्बिनीम्॥
शीते सुखोष्णसर्वांगीं ग्रीष्मे च सुखशीतलाम्

2.15.13

श्यामां सुकेशीं रुचिरां न्यग्रोधपरिमण्डलाम् ॥
श्वेतचम्पकवर्णाभां सुन्दरीष्वेकसुन्दरीम्

2.15.14

नरा नार्य्यश्च तां दृष्ट्वा तुलनां दातुमक्षमाः ॥
तेन नाम्ना च तुलसीं तां वदन्ति पुराविदः

2.15.15

सा च भूमिष्ठमात्रेण योग्या स्त्रीप्रकृतिर्यथा ॥
सर्वैर्निषिद्धा तपसे जगाम बदरीवनम्

2.15.16

तत्र दैवाब्दलक्षं च चकार परमं तपः ॥
मम नारायणः स्वामी भवितेति विनिश्चिता

2.15.17

ग्रीष्मे पञ्चतपाः शीते तोयस्था सा च सुन्दरी ॥
प्रकाशस्था वृष्टिधारां सहन्ती च दिवानिशम् ॥

2.15.18

विंशत्सहस्रवर्षं च फलतोयाशना च सा ॥
त्रिंशच्छतसहस्राब्दं पत्राहारा तपस्विनी

2.15.19

चत्वारिंशत्सहस्राब्दं वाय्वाहारा कृशोदरी॥
ततो दशसहस्राब्दं निराहारा बभूव सा

2.15.2.15.20

निर्लक्ष्यां चैकपादस्थां दृष्ट्वा तां कमलोद्भवः॥
समाययौ वरं दातुं परं बदरिकाश्रमम्

2.15.21

चतुर्मुखं च सा दृष्ट्वा प्राणंसीद्धंसवाहनम् ॥
तामुवाच जगत्कर्ता विधाता जगतामपि

2.15.22

ब्रह्मोवाच ॥
वरं वृणुष्व तुलसि यत्ते मनसि वाञ्छितम् ॥
हरिभक्तिं च मुक्तिं वाऽप्यजरामरतामपि

2.15.23

तुलस्युवाच ॥
शृणु तात प्रवक्ष्यामि यन्मे मनसि वाञ्छितम् ॥
सर्वज्ञस्यापि पुरतः का लज्जा मम साम्प्रतम्

2.15.24

अहं च तुलसी गोपी गोलोकेऽहं स्थिता पुरा ॥
कृष्णप्रिया किङ्करी च तदंशा तत्सखी प्रिया

2.15.25

गोविन्देन सहासक्तामतृप्तां मां च मूर्च्छिताम् ॥
रासेश्वरी समागत्य चापश्यद्रासमण्डले

2.15.26

गोविन्दं भर्त्सयामास मां शशाप रुषाऽन्विता॥
याहि त्वं मानवीं योनिमित्येवं च पितामह

2.15.27

मामुवाच स गोविन्दो मदंशं त्वं चतुर्भुजम् ॥
लभिष्यसि तपस्तप्त्वा भारते ब्रह्मणो वरात्

2.15.28

इत्येवमुक्त्वा देवेशोऽप्यन्तर्धानमवाप सः ॥
देव्या भिया तनुं त्यक्त्वा लब्धं जन्म मया भुवि

2.15.29

अहं नारायणं कान्तं शान्तं सुन्दविग्रहम् ॥
साम्प्रतं लब्धुमिच्छामि वरमेवं च देहि मे

2.15.2.15.30

ब्रह्मोवाच ॥
सुदामा नाम गोपश्च श्रीकृष्णाङ्गसमुद्भवः ॥
तदंशश्चातितेजस्वी चालभज्जन्म भारते

2.15.31

साम्प्रतं राधिकाशापाद्दनुवंशसमुद्भवः ॥
शङ्खचूड इति ख्यातस्त्रैलाक्ये न च तत्परः

2.15.32

गोलोके त्वां पुरा दृष्ट्वा कामोन्मथितमानसः ॥
विलंघितुं न शक्नोति राधिकायाः प्रभावतः

2.15.33

स च जातिस्मरस्तप्त्वा त्वां ललाभ वरेण च ॥
जातिस्मरा तु त्वमपि सर्वं जानासि सुन्दरि

2.15.34

अधुना तस्य पत्नी च भव भाविनि शोभने ॥
पश्चान्नारायणं कान्तं शान्तमेव लभिष्यसि

2.15.35

शापान्नारायणस्यैव कलया दैवयोगतः ॥
प्राप्नोषि वृक्षरूपं तं त्वं पूता विश्वपावनी

2.15.36

प्रधाना सर्वपुष्पाणां विष्णुप्राणाधिका भवेत् ॥
त्वया विना च सर्वेषां पूजा च विफला भवेत्

2.15.37

वृन्दावने वृक्षरूपा नाम्ना वृन्दावनीति च ॥
त्वत्पत्रैर्गोपिका गोपाः पूजयिष्यन्ति माधवम्

2.15.38

वृक्षाधिदेवीरूपेण सार्द्धं कृष्णेन सन्ततम्॥
विहरिष्यसि गोपेन स्वच्छन्दं मद्वरेण च

2.15.39

इत्येवं वचनं श्रुत्वा सस्मिता हृष्टमानसा॥
प्रणनाम च धातारं तं च किंचिदुवाच ह

2.15.2.15.40

तुलत्युवाच॥
यथा मे द्विभुजे कृष्णे वाञ्छा च श्यामसुन्दरे॥
सत्यं ब्रवीमि हे तात न तथा च चतुर्भुजे

2.15.41

अतृप्ताऽहं च गोविन्दे दैवाच्छृङ्गारभंगतः ॥
गोविन्दस्यैव वचनात्प्रार्थयामि चतुर्भुजम्

2.15.42

तत्प्रसादेन गोविन्दं पुनरेव सुदुर्लभम् ॥
ध्रुवमेव लभिष्यामि राधा भीतिं प्रमोचय

2.15.43

ब्रह्मोवाच ॥
गृहाण राधिकामन्त्रं ददे वै षोडशाक्षरम् ॥
तस्याश्च प्राणतुल्या त्वं मद्वरेण भविष्यसि

2.15.44

शृंगारं युवयोर्गोप्यमाज्ञास्यति च राधिका ॥
राधासमा त्वं सुभगा गोविन्दस्य भविष्यसि

2.15.45

इत्येवमुक्त्वा दत्त्वा च देव्यै तत्षोडशाक्षरम् ॥
मन्त्रं तस्यै जगद्धाता स्तोत्रं च कवचं परम्

2.15.46

सर्वं पूजाविधानं च पुरश्चर्याविधिक्रमम् ॥
परं शुभाशिषं कृत्वा सोऽन्तर्द्धानमवाप ह

2.15.47

सा च ब्रह्मोपदेशेन पुण्ये बदरिकाश्रमे ॥
जजाप परमं मन्त्रं यदिष्टं पूर्वजन्मनः

2.15.48

दिव्यं द्वादशवर्षं च पूजां चैव चकार सा ॥
बभूव सिद्धा सा देवी तत्प्रत्यादेशमाप च

2.15.49

सिद्धे तपसि मन्त्रे च वरं प्राप्य यथेप्सितम् ॥
बुभुजे च महाभागं यद्विश्वेषु सुदुर्लभम्

2.15.2.15.50

प्रसन्नमानसा देवी तत्याज तपसः क्लमम् ॥
सिद्धे फले नराणां च दुःखं च सुखमुत्तमम्

2.15.51

भुक्त्वा पीत्वा च सन्तुष्टा शयनं च चकार सा ॥
तल्पे मनोरमे तत्र पुष्पचन्दनचर्चिते

2.15.15

इति श्रीब्रह्मवैवर्ते महापुराणे द्वितीये प्रकृतिखण्डे नारदनारायणसंवादे तुलस्युपाख्याने तुलसीवरप्रदानं नाम पञ्चदशोऽध्यायः

मूल पाठ: brahmavaivartapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc